ॐ नमो भगवते वासुदेवाय
।
ॐ नमः पितामहाय
।
ॐ नमः प्रजापतिभ्यः
।
ॐ नमः कृष्णद्वैपायनाय
।
ॐ नमः सर्वविघ्नविनायकेभ्यः॥
यं वक्त्रं मुकुरा इवेन्द्रियमनोमायाः पराग्दृश्यताम्
।
निन्युस्तत्स्थाविमादिनापि च विराट्सूत्रेशभावङ्गतम् ॥
तं प्रत्यग्दृगदृश्यमक्षरमणुं त्यक्तोपनेत्रत्रयाः
।
श्रीगोपालमुपास्महे श्रुतिशिरोवंशीरवैर्दर्शितम् ॥१॥
बाह्यः स्तेनाभिभाषी वहिरुदवेसितं पाति तर्कःप्रतिष्ठो
।
मीमांसा प्रातिहार्यं भजति गुणगणं यस्य संख्यातिसांख्यः॥
हृत्पीठे योगशुद्धे निहितमुपनिषद्वाहवृन्दैः परं मे
।
भाग्यं श्रीलक्ष्मणार्यो जगति विजयते यस्य लेशः शिवाद्याः ॥२॥
हरिविधिवसिष्टशक्तिपराशरव्यासशुकदेवान्
।
वैशम्पायनमुग्रश्रवसं च नुमः पुराणगुरुमुख्यान् ॥३॥
कणभक्षमक्षचरणं जैमिनिकपिलौ पतञ्जलिं च नुमः
।
श्रीमद्व्यासवचोम्बुधि नय सीकरवर्षिणोमुदिरान् ॥४॥
सर्वविद्येशतामाविश्चिकीर्षू पूर्वपूरुषौ
।
श्रीनारायणधीरेशरूपौ हरिहरौ नुमः ॥५॥
बहून्समाहृत्य विभिन्नदेश्यान्कोशान्विनिश्चित्य च पाठमग्र्यम्
।
प्राचां गुरूणामनुसृत्य वाचमारभ्यते भारतभावदीपः ॥६॥
टीकान्तराणीन्दुरविप्रभाणि बाह्यार्थरत्नानि चकासयन्तु
।
अन्तर्निगूढार्थचयप्रकाशे दीपःक्षमो भारतमन्दिरेऽस्मिन् ॥७॥
ईशप्रसादादवितुं स्ववंश्यान्भगीरथेनेव मया प्रणीता
।
एषा महाभारततीर्थगङ्गा लोकत्रयीजाड्यमलं धुनोतु ॥८॥
उतानेष्विह कोशविग्रहबलं पद्येषु नैवाश्रितम्
।
गंभीरेषु न सेतवो न विहिताः कूटाननस्फोटिताः ॥
न च्छिन्नानतमश्चराननततिर्भक्ताननाल्हादिता
।
नोदीना न विभीषणाश्च विहिताः श्रीलक्ष्मणार्यश्रितैः ॥९॥
इह खलु भगवान्पाराशर्यः परमकारुणिको मन्दमध्यममतीननुग्रहीतुं चतुर्दश विद्यास्थानरहस्यान्येकत्र प्रदिदर्शयिषुर्महाभारताख्यमितिहासं प्रणेष्यन्प्रारिप्सितस्य ग्रन्थस्य निष्प्रत्यूहपरिपूरणाय प्रचयगमनाय च कृतं मङ्गलं शिष्यशिक्षायै श्लोकरूपेण निबध्नन्नर्थात्तत्र प्रेक्षावत्प्रवृत्त्यङ्गमभिधेयादि दर्शयति । नारायणमिति । नरोऽविद्यावच्छिन्नं चैतन्यं जीवः तेन विषयीकृतेऽनवच्छिन्नचैतन्यरूपे ब्रह्मणि शुक्तौ रजतवत्कल्पितं चराचरम् अपशब्दवाच्यं नारं तदेव अयनं शुक्तीदमंशस्य रजतमिव प्रवेशस्थानं यस्य स नारायणः । स्वस्मिन् जीवकल्पितस्य प्रपञ्चस्य सत्तास्फूर्तिप्रदत्वेन कारणीभूत इत्यर्थः । यथोक्तम्- 'आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृत’ इति तं नारायणं नमस्कृत्य तथा नरम् उक्तरूपं नमस्कृत्य एनं विशिनष्टि नरोत्तममिति जीवो हि चेतनत्वेन जडवर्गादुत्कृष्टस्तत उत्कृष्टतरः कारणात्मा नारायणस्ततोप्युत्कृष्टतमं निरुपाधिचैतन्यं सत्यं ज्ञानमनन्तं ब्रह्मविज्ञानमानन्दं ब्रह्मेत्यादिश्रुतिषु प्रसिद्धं तदेव नरोत्तमस्य निरस्ताविद्यस्य जीवस्य निष्प्रपञ्चं पारमार्थिकं रूपमिति युक्तं तत्रोत्तमत्वविशेषणं यथोक्तं 'पिण्डब्रह्माण्डनेतृत्वान्नरौ जीवेश्वरावुभौ । तयोश्च नयनाच्छुद्धं ब्रह्मापि नर उच्यते ॥ न रजानामपां कार्ये नारं ब्रह्माण्डमिष्यते । तद्यस्य वसतिस्थानं तेन नारायणो विभुः ॥ स्वाविद्यासृष्टपिण्डेन तादात्म्यं यो गतो नरः । स जीवः स परं ब्रह्म नरोत्तमपदाभिधम् ॥ तद्योतिकां गिरं नत्वा ततो व्याप्तस्तयैव सन् । संसारजयिनं ग्रन्थं जयनामानमीरयेत् ॥' इति एवं च जीवाविद्याकल्पितत्वात् जगतो मिथ्यात्वं ब्रह्मणश्च तत्र सत्तास्फूर्तिप्रदत्वेन सत्यत्वं जीवस्य तदभिन्नत्वं चेति विषयो दर्शितः । अविद्या निवृत्तौ तत्कृतस्य प्रपञ्चस्य त्रैकालिकबाधादात्यन्तिक्यनर्थनिवृतिः प्रयोजनम् । अर्थात्तत्कामोधिकारी ग्रन्थस्य उक्तविषयस्य च ज्ञाप्यज्ञापकभावः संबन्ध इति च दर्शितम्। देवीं नरनारायणनरोत्तमतत्त्वप्रद्योतनीं सरखतीं च नमस्कृत्यैव ततो व्याप्तस्तयैव सरस्वत्या परमकारुणिकया जनबोधायाविष्टो जयं जयो नामेतिहासोऽयमिति वक्ष्यमाणत्वाज्जयसंज्ञं भारताख्यमितिहासं वा 'अष्टादशपुराणानि रामस्यं चरितं, तथा । कार्ष्णं वेदं पञ्चमं च यन्महाभारतं विदुः ॥ तथैव विष्णुधर्माश्च शिवधर्माश्च शाश्वताः । जयेति नाम तेषां च प्रवदन्ति मनीषिणः ॥' इति भविष्यवचनात् पुराणादिकं वा चतुर्णां पुरुषार्थानामपि हेतौ जयो स्त्रियामिति कोशादन्यं वा सर्वपुरुषार्थप्रतिपादकं ग्रन्थं शारीरकसूत्रभाष्यादिरूपम् उदीरयेत् उच्चारयेत् । अत्र लिङा मंगलाचरणस्य ग्रन्थपाठेप्यावश्यकत्वं दर्शयता रचनारम्भे सुतरां तद्दर्शितं नन्वेतन्न पठनीयं न व्याख्येयं च पौरुषेयत्वात्पुरुषेषु च भ्रमविप्रलंभकत्वयोः संभवादिति चेन्न । सर्वज्ञेषु वेदैकप्रमाणेषु मन्वादिषु तदसंभवात् । पूर्वतन्त्रे च स्मृत्यादिधर्मे प्रामाण्यस्य सिद्धत्वात् । यस्यां तु स्मृतौ लोभमूलकत्वं प्रत्यक्षं दृश्यते यथा वै सर्जनहोमीयं वासोऽध्वर्युः परिगृह्णातीति तत्रास्त्वप्रामाण्यं नत्वष्टकाः कर्तव्या प्रपाः कर्तव्या ऊर्ध्वपुण्ड्रं मृदाकुर्यादित्यादीनां तासां लोभमूलकत्वादर्शनात् । यां जनाः प्रतिनन्दन्ति धन्वन्निव प्रपा असि त्वमग्ने श्रोणामेक उदकं गामवाजतीति मन्त्रलिङ्गानुमितविधिमूलकत्वाच्च धन्वधन्वनि निरुदकप्रदेशे किमुश्रेष्ठः षळूना आर्भवं त्रिष्टुवंतमित्यनुक्रमणिकायां किमुश्रेष्ठ इति सूक्तस्य चतुर्दशर्चस्य ऋभुदैवत्यस्य नवम दशम्यावेते ऋचौ आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत् । वर्धयन्तीं बहुभ्यः प्रैको अब्रवीदृतावदन्तश्चमसाँ अरपिंशत १ श्रोणामेक उदकं गामवाजति मांसमैकः पिंशति सूनयामृतम् आनिम्रुचः शकृदेको अपाभरत्किंस्वित्पुत्रेभ्यः पितरावुपावतुः २ अत्र ऋभ्वाख्य देवतास्तुतिव्याजेन श्रेयःसाधनानि विधीयन्ते । हे ऋभवः । भवतां मध्ये एकः कश्चित्तीर्थाश्रयेणैव प्राप्तदेवताभाव आप एव भूयिष्ठा उत्कृष्टतमा इत्यब्रवीत् । एवं यज्ञादिना प्राप्तदेवताभावोऽन्योऽग्निर्भूयिष्ठ इत्यब्रवीत् । वर्धयन्तीं अवपूर्वाद्भूञो विच् प्रत्ययेभागुरिमतेनाकारलोपे चेदं रूपं स्वरादि पाठादव्ययत्वं निपातत्वादाद्युदात्तत्वं च वधरित्यव्ययं पालनार्थे अवगत्य धारयतीति योगात् । तदर्थं यन्तीं गच्छन्तीं चेतोवृतिं दयां बहुभ्यः प्रमाणेभ्यो निश्चित्य एकः दययैव प्राप्तदेवताभावःप्रकर्षेण अब्रवीत् । ते यूयं ऋताऋतानि सत्यान्ये वै तान्यवादीनि देवताभावप्राप्तिसाधनानि वदन्त उपदिशन्तो यज्ञेषु ।चमसान् मोमयुक्तान् अपिंशत व्यभजन्त । अत्र ह्येवमुपाख्यायते । ऋभवो नाम त्रयो देवा एकं चमसमासेदुस्तत्र वह्निरपि तद्रूपं गृहीत्वा आगतस्ते तमतिसारूप्यात् पृथग्ज्ञातुमशक्ता एकं चमसं चतुर्धा व्यभजन्तेति । यद्वा सत्यवादिनामेव तीर्थादिफलदामिति ऋता वदन्त इत्यस्यार्थः । श्रोणामेकः च हे ऋभवः भवतां मध्ये एकः श्रोणां श्लक्ष्णां गां मृदं गोपीचन्दनादिरूपां तीर्थनिकटस्यां मुख्यकर्मभूतां प्रति उदकं जलं गौणं कर्म अवाजति अवगमयति अन्तर्भावितण्यर्थोऽयं श्रोणां गां उदकेन मिश्रयतीत्यर्थः । श्रोणां गां रक्तचन्दनानि रूपां वा तथा एकः सूनया हिंसया तत्कर्त्रा आमृत आहृतं मांसं गोरोचनाख्यं पिंशति पिनष्टि उदकेन सहोति शेषः । निम्रुचः नितरामस्तं गच्छतो दग्धेन्धनस्याग्नेः संबन्धिशकृत् गोमयं शुष्कगोमयोत्थं भस्मेति यावत् । अपाभरत् अपाहृतवान् । अत्राप्युदकेन सहेति शेषः । व्यवहिताश्चेतिच्छंदसि व्यवहितेनाप्युपसर्गेण क्रियायाः संबन्धः । हृग्रहोर्भच्छन्दसीतिहस्यभः । एतानि मन्त्रपदानि असंपूर्णार्थत्वात् । स्वार्थलाभाय ब्राह्मणमपेक्षन्ते इषे त्वोर्जेत्वेत्यादि मन्त्रवत् । तत्र यथा । इषे त्वेतिशाखामाच्छिनति । ऊर्जेत्वेत्यनुमार्ष्टीति ब्राह्मणानुसारात् । हे शाखे त्वा त्वां इषे अन्नाय च्छिनद्मीति ऊर्जे पशुभ्यः अनुमार्ज्मीति व्याख्यातम् । एवमिहापि वासुदेवोपनिषद्ब्राह्मणतंत्रपुराणोपबृंहणानुसारात् ऊर्ध्वपुण्ड्रार्थं श्लक्ष्णां मृदं जलेन मिश्रयेदिति व्याख्येयम् । तथा कालाग्निरुद्रबृहज्जाबालाद्युपनिषद्ब्राह्मणतन्त्रपुराणोपबृंहणानुसारात् । त्रिपुण्ड्रं कर्तुं निम्रुचः शकृदपाभरदिति च व्याख्येयम् । एवमितरस्यापि पादस्य ब्राह्मणमन्त्रलिङ्गादुपबृंहणस्मृतिभ्यश्चाष्टकाप्रपाविधिवदनुमेयम् । तथा च श्रोणामिति पदस्य रक्तामिति व्याख्याने सौरशाक्तगाणेशानां रक्तमेव पार्थिवं द्रव्यं पुण्यार्थे तत्तत्तन्त्रे विधीयते । वैष्णवानां पीतं शैवानां भस्मेति अनेन तत्तत्पुण्ड्रविशेषोपलक्षिततत्तद्देवताभजनेनापि देवताभावं प्राप्नुवन्तीति विधियते । केवलं वैदिकानां तु श्रोणां श्लक्ष्णामिति व्याख्यानेन त्रितयस्यापि समुच्चयः स्नात्वा पुण्ड्रं मृदा कुर्याद्धुत्वा चैव तु भस्मना देवान् विप्रान् समभ्यर्च्य चन्दनेन समाचरेदिति स्मृतिभ्यः अत्र गोरोचनाग्रहणं चन्दनाद्यष्टगन्धोपलक्षणार्थे एतेषां विकल्पसमुच्चयपक्षाणां पितृपैतामहपरंपराक्रमेण व्यवस्थामाह । किंस्वित्पुत्रेभ्यः पितरावुपावतुरिति पुत्रहितार्थे यत्किंचिद्व्रतं पितरौ मातापितरौ पितृपितामहौ वा उपेत्य स्वीकृत्य अवतुः व्रतं सम्यक्परिपालयामासतुः तदेवं तस्य पुत्रस्य श्रेयः साधनमित्यर्थः । एवं सत्यवादिनां तीर्थानि यज्ञादयस्तन्त्रमार्गेण सूर्याद्यन्यतमोपास्तिः केवलवैदिकता चेति देवताभावप्राप्तिसाधनानीति मन्त्रद्वयतात्पर्ये सिद्धम् । तस्मादस्मदादिभिरल्पज्ञैर्दृष्टमूलमदृष्टमूलं वा मनुव्यासादिसर्वज्ञप्रणीतं स्मृतिजातं वेदवद्वेदविदां वचनमिति न्यायेनागमयितव्यं पठनीयं व्याख्येयं चेति सर्वमनवद्यम् ॥१॥