नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्
।
देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥
युधिष्ठिर उवाच।
शमो बहुविधाकारः सूक्ष्म उक्तः पितामह
।
न च मे हृदये शान्तिरस्ति श्रुत्वेदमीदृशम् ॥१॥
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता पितामह
।
स्वकृते का नु शान्तिः स्याच्छमाद्बहुविधादपि ॥२॥
शराचितशरीरं हि तीव्रव्रणमुदीक्ष्य च
।
शर्म नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥३॥
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम्
।
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवांबुजम् ॥४॥
अतः कष्टतरं किं नु मत्कृते यत्पितामहः
।
इमामवस्थां गमितः प्रत्यमित्रै रणाजिरे ॥५॥
तथा चान्ये नृपतयः सहपुत्राः सबान्धवाः
।
मत्कृते निधनं प्राप्ताः किं नु कष्टतरं ततः ॥६॥
वयं हि धार्तराष्ट्राश्च कालमन्युवशङ्गताः
।
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥७॥
इदं तु धार्तराष्ट्रस्य श्रेयो मन्ये जनाधिप
।
इमामवस्थां संप्राप्तं यदसौ त्वां न पश्यति ॥८॥
सोऽहं तव ह्यन्तकरः सुहृद्वधकरस्तथा
।
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥९॥
दुर्योधनो हि समरे सहसैन्यः सहानुजः
।
निहतः क्षत्रधर्मेऽस्मिन्दुरात्मा कुलपांसनः ॥१०॥
न स पश्यति दुष्टात्मा त्वामद्य पतितं क्षितौ
।
अतः श्रेयो मृतं मन्ये नेह जीवितमात्मनः ॥११॥
अहं हि समरे वीर गमितः शत्रुभिः क्षयम्
।
अभविष्यं यदि पुरा सह भ्रातृभिरच्युत ॥१२॥
न त्वामेवं सुदुःखार्तमद्राक्षं सायकार्दितम्
।
नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप ॥१३॥
अन्यस्मिन्नपि लोके वै यथा मुच्येम किल्बिषात्
।
तथा प्रशाधि मां राजन् मम चेदिच्छसि प्रियम् ॥१४॥
भीष्म उवाच। परतन्त्रं कथं हेतुमात्मानमनुपश्यसि
।
कर्मणां हि महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ॥१५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ॥१६॥
गौतमी नाम कौन्तेय स्थविरा शमसंयुता
।
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ॥१७॥
अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः
।
लुब्धकोऽर्जुनको नाम गौतम्याः समुपानयत् ॥१८॥
स चाब्रवीदयं ते स पुत्रहा पन्नगाधमः
।
ब्रूहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥१९॥
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोऽपि वा
।
न ह्ययं बालहा पापश्चिरं जीवितुमर्हति ॥२०॥
गौतम्युवाच
।
विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक त्वया
।
को ह्यात्मानं गुरुं कुर्यात् प्राप्तव्यमविचिन्तयन् ॥२१॥
प्लवन्ते धर्मलघवो लोकऽम्भसि यथा प्लवाः
।
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥२२॥
हत्वा चैनं नामृतः स्यादयं मे जीवत्यस्मिन्कोऽत्ययः स्यादयं ते
।
अस्योत्सर्गे प्राणयुक्तस्य जन्तोर्मृत्योर्लोकं को नु गच्छेदनन्तम् ॥२३॥
लुब्धक उवाच। जानाम्यहं देवि गुणागुणज्ञे सर्वार्तियुक्ता गुरवो भवन्ति
।
स्वस्थस्यैते तूपदेशा भवन्ति तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ॥२४॥
शमार्थिनः कालगतिं वदन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति
।
श्रेयःक्षयं शोचति नित्यमोहात्तस्माच्छुचं मुञ्च हते भुजङ्गे ॥२५॥
गौतम्युवाच
।
आर्तिर्नैवं विद्यतेऽस्मद्विधानां धर्मात्मानः सर्वदा सज्जना हि
।
नित्यायस्तो बालकोऽप्यस्य तस्मादीशे नाहं पन्नगस्य प्रमाथे ॥२६॥
न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातनाम्
।
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ॥२७॥
लुब्धक उवाच। हत्वा लाभः श्रेय एवाव्ययः स्याल्लभ्यो लाभ्यः स्याद्बलिभ्यः प्रशस्तः
।
कालाल्लाभो यस्तु सत्यो भवेत श्रेयोलाभः कुत्सितेऽस्मिन्न ते स्यात् ॥२८॥
गौतम्युवाच
।
का नु प्राप्तिर्गृह्य शत्रुं निहत्य का कामाप्तिः प्राप्य शत्रुं न मुक्त्वा
।
कस्मात्सौम्याहं न क्षमे नो भुजङ्गे मोक्षार्थं वा कस्य हेतोर्न कुर्याम् ॥२९॥
लुब्धक उवाच। अस्मादेकाद्बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः
।
कृतागसं धर्मविदस्त्यजन्ति सरीसृपं पापमिमं जहि त्वम् ॥३०॥
गौतम्युवाच
।
नास्मिन् हते पन्नगे पुत्रको मे संप्राप्स्यते लुब्धक जीवितं वै
।
गुणं चान्यं नास्य वधे प्रपश्ये तस्मात्सर्पं लुब्धक मुञ्च जीवम् ॥३१॥
लुब्धक उवाच। वृत्रं हत्वा देवराट् श्रेष्ठभाग्वै यज्ञं हत्वा भागमवाप चैव
।
शूली देवो देववृत्तं चर त्वं क्षिप्रं सर्पं जहि मा भूत्ते विशङ्का ॥३२॥
भीष्म उवाच। असकृत्प्रोच्यमानाऽपि गौतमी भुजगं प्रति
।
लुब्धकेन महाभागा पापे नैवाकरोन्मतिम् ॥३३॥
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः
।
उत्ससर्जं गिरं मन्दां मानुषीं पाशपीडितः ॥३४॥
सर्प उवाच। को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश
।
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ॥३५॥
तस्यायं वचनाद्दष्टो न कोपेन न काम्यया
।
तस्य तत्किल्बिषं लुब्ध विद्यते यदि किल्बिषं ॥३६॥
लुब्धक उवाच। यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम्
।
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ॥३७॥
मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा
।
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ॥३८॥
किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग
।
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम ॥३९॥
सर्प उवाच। सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा
।
तथाऽहमपि तस्मान्मे नैष दोषो मतस्तव ॥४०॥
अथवा मतमेतत्ते तेऽप्यन्योन्यप्रयोजकाः
।
कार्यकारणसन्देहो भवत्यन्योन्यचोदनात् ॥४१॥
एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी
।
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ॥४२॥
लुब्धक उवाच। कारणं यदि न स्याद्वै न कर्ता स्यास्त्वमप्युत
।
विनाशकारणं त्वं च तस्माद्वध्योऽसि मे मतः ॥४३॥
असत्यपि कृते कार्ये नेह पन्नग लिप्यते
।
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु मन्यसे ॥४४॥
सर्प उवाच। कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे
।
तस्मात्समेऽस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ॥४५॥
यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः
।
अन्यः प्रयोगे स्यादत्र किल्बिषी जन्तुनाशने ॥४६॥
लुब्धक उवाच। वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत्
।
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ॥४७॥
सर्प उवाच। यथा हवींषि जुह्वाना मुखे वै लुब्धकर्त्विजः
।
न फलं प्राप्नुवन्त्यत्र फलयोगे तथा ह्यहम् ॥४८॥
भीष्म उवाच। तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते
।
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥४९॥
मृत्युरुवाच। प्रचोदितोऽहं कालेन पन्नग त्वामचूचुदम्
।
विनाशहेतुर्नास्य त्वमहं न प्राणिनः शिशोः ॥५०॥
यथा वायुर्जलधरान्विकर्षति ततस्ततः
।
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ॥५१॥
सात्त्विका राजसाश्चैव तामसा ये च केचन
।
भावाः कालात्मकाः सर्वे प्रवर्तन्ते ह जन्तुषु ॥५२॥
जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि
।
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ॥५३॥
प्रवृत्तयश्च लोकेऽस्मिंस्तथैव च निवृत्तयः
।
तासां विकृतया याश्च सर्वं कालात्मकं स्मृतम् ॥५४॥
आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः
।
अग्निः खं पृथिवी मित्रः पर्जन्यो वसवोऽदितिः ॥५५॥
सरितः सागराश्चैव भावाभावौ च पन्नग
।
सर्वे कालेन सृज्यन्ते हीयन्ते च पुनः पुनः ॥५६॥
एवं ज्ञात्वा कथं मां त्वं सदोषं सर्प मन्यसे
।
अथ चैवंगते दोषे मयि त्वमपि दोषवान् ॥५७॥
सर्प उवाच। निर्दोषं दोषवन्तं वा न त्वां मृत्यो ब्रवीम्यहम्
।
त्वयाऽहं चोदित इति ब्रवीम्येतावदेव तु ॥५८॥
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते
।
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥५९॥
निर्मोक्षस्त्वस्य दोषस्य मया कार्या यथा तथा
।
मृत्योरपि न दोषः स्यादिति मेऽत्र प्रयोजनम् ॥६०॥
भीष्म उवाच। सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम्
।
नानागसं मां पाशेन सन्तापयितुमर्हसि ॥६१॥
लुब्धक उवाच। मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम
।
नैव तावददोषत्वं भवति त्वयि पन्नग ॥६२॥
मृत्युस्त्वं चैव हेतुर्हि बालस्यास्य विनाशने
।
उभयं कारणं मन्ये न कारणमकारणम् ॥६३॥
धिङ्मृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम्
।
त्वां चैवाहं वधिष्यामि पापं पापस्य कारणम् ॥६४॥
मृत्युरुवाच। विवशौ कालवशगावावां निर्दिष्टकारिणौ
।
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥६५॥
लुब्धक उवाच। युवामुभौ कालवशौ यदि मे मृत्युपन्नगौ
।
हर्षक्रोधौ यथा स्यातामेतदिच्छामि वेदितुम् ॥६६॥
मृत्युरुवाच। या काचिदेव चेष्टा स्पात्सर्वा कालप्रचोदिता
।
पूर्वमेवैतदुक्तं हि मया लुब्धक कालतः ॥६७॥
तस्मादुभौ कालवशावावां निर्दिष्टकारिणौ
।
नावां दोषेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ॥६८॥
भीष्म उवाच। अथोपगम्य कालस्तु तस्मिन् धर्मार्थसंशये
।
अब्रवीत्पन्नगं मृत्युं लुब्धं चार्जुनकं तथा ॥६९॥
काल उवाच। न ह्यहं नाव्ययं मृत्युर्नायं लुब्धक पन्नगः
।
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ॥७०॥
अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम्
।
विनाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ॥७१॥
यदनेन कृतं कर्म तेनायं निधनं गतः
।
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥७२॥
कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः
।
कर्माणि चोदयन्तीह यथाऽन्योन्यं तथा वयम् ॥७३॥
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति
।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥७४॥
यथा च्छायातपौ नित्यं सुसम्बद्धौ निरन्तरम्
।
तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः ॥७५॥
एवं नाहं न वै मृत्युर्न सर्पो न तथा भवान्
।
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ॥७६॥
तस्मिंस्तथा बुवाणे तु ब्राह्मणी गौतमी नृप
।
स्वकर्मप्रत्ययाँल्लोकान्मत्वाऽर्जुनकमब्रवीत् ॥७७॥
गौतम्युवाच
।
नैव कालो न भुजगो न मृत्युरिह कारणम्
।
स्वकर्मभिरयं बालः कालेन निधनं गतः ॥७८॥
मया च तत्कृतं कर्म येनायं मे मृतः सुतः
।
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ॥७९॥
भीष्म उवाच। ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः
।
अभूद्विशोकोऽर्जुनको विशोका चैव गौतमी ॥८०॥
एतच्छ्रुत्वा शमं गच्छ मा भूः शोकपरो नृप
।
स्वकर्मप्रत्ययाँल्लोकान् सर्वे गच्छन्ति वै नृप ॥८१॥
नैव त्वया कृतं कर्म नापि दुर्योधनेन वै
।
कालेनैतत्कृतं विद्धि निहता येन पार्थिवाः ॥८२॥
वैशम्पायन उवाच। इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः
।
युधिष्ठिरो महातेजाः पप्रच्छेदं च धर्मवित् ॥८३॥
युधिष्ठिर उवाच। पितामह महाप्राज्ञ सर्वशास्त्रविशारद
।
श्रुतं मे महदाख्यानमिदं मतिमतां वर ॥१॥
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप
।
कथ्यमानं त्वया किञ्चित्तन्मे व्याख्यातुमर्हसि ॥२॥
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः
।
इत्येतत्सर्वमाचक्ष्व तत्त्वेनापि च पार्थिव ॥३॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
यथा मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ॥४॥
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः
।
तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ॥५॥
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत
।
माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ॥६॥
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः
।
सत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥७॥
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः
।
धनुर्वेदे च वेदे च निरतो योऽभवत्सदा ॥८॥
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः
।
महाभागो महातेजा महासत्त्वो महाबलः ॥९॥
पुत्रो द्युतिमतस्त्वासीद्राजा परमधार्मिकः
।
सर्वलोकेषु विख्यातः सुवीरो नाम नामतः ॥१०॥
धर्मात्मा कोषवांश्चापि देवराज इवापरः
।
सुवीरस्य तु पुत्रोऽभूत्सर्वसङ्ग्रामदुर्जयः ॥११॥
स दुर्जय इति ख्यातः सर्वशस्त्रभृतां वरः
।
दुर्जयस्येन्द्रवपुषः पुत्रोऽश्विसदृशद्युतिः ॥१२॥
दुर्योधनो नाम महान् राजा राजर्षिसत्तमः
।
तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः ॥१३॥
विषये वासवस्तस्य सम्यगेव प्रवषति
।
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः ॥१४॥
नगरं विषयश्चास्य प्रतिपूर्णस्तदाऽभवत्
।
न तस्य विषये चाभूत्कृपणो नापि दुर्गतः ॥१५॥
व्याधितो वा कृशो वाऽपि तस्मिन्नाभून्नरः क्वचित्
।
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः
।
धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ॥१६॥
यज्वा च दान्तो मेधावी ब्रह्मण्यः सत्यसङ्गरः
।
न चावमन्ता दाता च वेदवेदाङ्गपारगः ॥१७॥
तं नर्मदा देवनदी पुण्या शतिजला शिवा
।
चकमे पुरुषव्याघ्रं स्वेन भावेन भारत ॥१८॥
तस्यां जज्ञे तदा नद्यां कन्या राजीवलोचना
।
नाम्ना सुदर्शना राजन् रूपेण च सुदर्शना ॥१९॥
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर
।
दुर्योधनसुता यादृगभवद्वरवर्णिनी ॥२०॥
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम्
।
भूत्वा च ब्राह्मणो राजन्वरयामास तं नृपम् ॥२१॥
दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः
।
न दित्सति सुतां तस्मै तां विप्राय सुदर्शनाम् ॥२२॥
ततोऽस्य वितते यज्ञे नष्टोऽभूद्धव्यवाहनः
।
ततः सुदुःखितो राजा वाक्यमाह द्विजांस्तदा ॥२३॥
दुष्कृतं मम किं नु स्याद्भवतां वा द्विजर्षभाः
।
येन नाशं जगामाग्निः कृतं कुपुरुषेष्विव ॥२४॥
न ह्यल्पं दुष्कृतं नोस्ति येनाग्निर्नाशमा गतः
।
भवतां चाथवा मह्यं तत्त्वेनैतद्विमृश्यताम् ॥२५॥
तत्र राज्ञो वचः श्रुत्वा विप्रास्ते भरतर्षभ
।
नियता वाग्यताश्चैव पावकं शरणं ययुः ॥२६॥
तान् दर्शयामास तदा भगवान् हव्यवाहनः
।
स्वं रूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ॥२७॥
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान्
।
वरयाम्यात्मनोर्थाय दुर्योधनसुतामिति ॥२८॥
ततस्ते कल्यमुत्थाय तस्मै राज्ञे न्यवेदयन्
।
ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ॥२९॥
ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम्
।
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ॥३०॥
अयाचत च तं शुल्कं भगवन्तं विभावसुम्
।
नित्यं सान्निध्यमिह ते चित्रभानो भवेदिति ॥३१॥
तमाह भगवानग्निरेवमस्त्विति पार्थिवम्
।
ततः सान्निध्यमद्यापि माहिष्मत्यां विभावसोः ॥३२॥
दृष्टं हि सहदेवेन दिशं विजयता तदा
।
ततस्तां समलङ्कृत्य कन्यामाहृतवाससम् ॥३३॥
ददौ दुर्योधनो राजा पावकाय महात्मने
।
प्रतिजग्राह चाग्निस्तु राजकन्यां सुदर्शनाम् ॥३४॥
विधिना वेददृष्टेन वसोर्धारामिवाध्वरे
।
तस्या रूपेण, शीलेन, कुलेन, वपुषा, श्रिया, ॥३५॥
अभवत्प्रीतिमानग्निर्गर्भे चास्या मनो दधे
।
तस्याः समभवत्पुत्रो नाम्नाऽऽग्नेयः सुदर्शनः ॥३६॥
सुदर्शनस्तु रूपेण पूर्णेन्दुसदृशोपमः
।
शिशुरेवाध्यगात्सर्वं परं ब्रह्म सनातनम् ॥३७॥
अथौघवान्नाम नृपो नृगस्यासीत्पितामहः
।
तस्याथौघवती कन्या पुत्रश्चौघरथोऽभवत् ॥३८॥
तामोघवान् ददौ तस्मै स्वयमोघवतीं सुताम्
।
सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ॥३९॥
स गृहस्थाश्रमरतस्तया सह सुदर्शनः
।
कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ॥४०॥
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो
।
प्रतिज्ञामकरोद्धीमान् दीप्ततेजा विशाम्पते ॥४१॥
तामथौघवतीं राजन् स पावकसुतोऽब्रवीत्
।
अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन ॥४२॥
येन येन च तुष्येत नित्यमेव त्वयाऽतिथिः
।
अप्यात्मनः प्रदानेन न ते कार्या विचारणा ॥४३॥
एतद्व्रतं मम सदा हृदि सम्परिवर्तते
।
गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम् ॥४४॥
प्रमाणं यदि वामोरु वचस्ते मम शोभने
।
इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा ॥४५॥
निष्क्रान्ते मयि कल्याणि तथा सन्निहितेऽनघे
।
नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ॥४६॥
तमब्रवीदोघवती तथा मूर्ध्नि कृताञ्जलिः
।
न मे त्वद्वचनात्किञ्चिन्न कर्तव्यं कथञ्चन ॥४७॥
जिगीषमाणस्तु गृहे तदा मृत्युः सुदर्शनम्
।
पृष्ठतोऽन्वगमद्राजन्नन्ध्रान्वेषी तदा सदा ॥४८॥
इध्मार्धं तु गते तस्मिन्नग्निपुत्रे सुदर्शने
।
अतिथिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा ॥४९॥
आतिथ्यं कृतमिच्छामि त्वयाऽद्य वरवर्णिनि
।
प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसम्मतः ॥५०॥
इत्युक्त्वा तेन विप्रेण राजपुत्री यशस्विनी
।
विधिना प्रतिजग्राह वेदोक्तेन विशाम्पते ॥५१॥
आसनं चैव पाद्यं च तस्मै दत्वा द्विजातये
।
प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ॥५२॥
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम्
।
त्वया ममार्थः कल्याणि निर्विशङ्कैतदाचर ॥५३॥
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसम्मतः
।
प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ॥५४॥
स तया छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया
।
नान्यमात्मप्रदानात्स तस्या वव्रे वरं द्विजः ॥५५॥
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः
।
तथेति लज्जमाना सा तमुवाच द्विजर्षभम् ॥५६॥
ततो विहस्य विप्रर्षिः सा चैवाथ विवेश ह
।
संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ॥५७॥
अथेध्मानमुपादाय स पावकिरुपागमत्
।
मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ॥५८॥
ततस्त्वाश्रममागम्य स पावकसुतस्तदा
।
तां व्याजहारौघवतीं क्वासि यातेति चासकृत् ॥५९॥
तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा
।
कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ॥६०॥
उच्छिष्टाऽस्मीति मन्वाना लज्जिता भर्तुरेव च
।
तूष्णीं भूताऽभवत्साध्वी न चोवा वाथ किञ्चन ॥६१॥
अथ तां पुनरेवेदं प्रोवाच स सुदर्शनः
।
क्व सा साध्वी क्व सा याता गरीयः किमतो मम ॥६२॥
पतिव्रता सत्यशीला नित्यं चैवाजवे रता
।
कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा ॥६३॥
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम्
।
अतिथिं विद्धि सम्प्राप्तं ब्राह्मणं पावके च माम् ॥६४॥
अनया छन्द्यमानोऽहं भार्यया तव सत्तम
।
तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषा वृता मया ॥६५॥
अनेन विधिना सेयं मामर्छति शुभानना
।
अनुरूपं यदत्रान्यत्तद्भवान्कर्तुमर्हति ॥६६॥
कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वगात्
।
हीनप्रतिज्ञमत्रैनं वधिष्यामीति चिन्तयन् ॥६७॥
सुदर्शनस्तु मनसा, कर्मणा, चक्षुषा, गिरा
।
त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् ॥६८॥
सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम
।
गृहस्थस्य हि धर्मोऽग्र्यः सम्प्राप्तातिथिपूजनम् ॥६९॥
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति
।
नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥७०॥
प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु
।
अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ॥७१॥
निःसन्दिग्धं यथा वाक्यमेतन्मे समुदाहृतम्
।
तेनाहं विप्र सत्येन स्वयमात्मानमालभे ॥७२॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम्
।
बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ॥७३॥
नित्यमेव हि पश्यन्ति देहिनां देहसंश्रिताः
।
सुकृतं दुष्कृतं चापि कर्म धर्मभृतां वर ॥७४॥
यथैषा नानुता वाणी मयाऽद्य समुदीरिता
।
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥७५॥
ततो नादः समभवद्दिक्षु सर्वासु भारत
।
असकृत्सत्यमित्येवं नैतन्मिथ्येति सर्वतः ॥७६॥
उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः
।
वपुषा द्यां च भूमिं च व्याप्य वायुरिवोद्यतः ॥७७॥
स्वरेण विप्रः शैक्षेण त्रीन् लोकाननुनादयन्
।
उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः ॥७८॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ
।
प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥७९॥
विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति
।
रन्ध्रान्वेषी तव सदा त्वया धृत्या वशी कृतः ॥८०॥
न चास्ति शक्तिस्त्रैलाक्ये कस्यचित्पुरुषोत्तम
।
पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ॥८१॥
रक्षिता त्वद्गुणैरेषा पतिव्रतगुणैस्तथा
।
अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ॥८२॥
एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी
।
पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ॥८३॥
अर्धेनौधवती नाम त्वामर्धेनानुयास्यति
।
शरीरेण महाभागा योगो ह्यस्या वशे स्थितः ॥८४॥
अनया सह लोकांश्च गन्ताऽसि तपसार्जितान्
।
यत्र नावृत्तिमभ्येति शाश्वतांस्तान्सनातनान् ॥८५॥
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे
।
निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् ॥८६॥
पञ्चभूतान्यतिक्रान्तः स्ववीर्याच्च मनोजवः
।
गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ॥८७॥
स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः
।
तव शुश्रूषया राजन् राजपुत्र्या विनिर्जिताः ॥८८॥
भीष्म उवाच। शुक्लानां तु सहस्त्रेण वाजिनां रथमुत्तमम्
।
युक्तं प्रगृह्य भगवान् वासवोऽप्याजगाम तम् ॥८९॥
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च
।
बुद्धिः कालो मनो व्योम कामक्रोधौ तथैव च ॥९०॥
तस्माद् गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै
।
ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ॥९१॥
अतिथिः पूजितो यद्धि ध्यायते मनसा शुभम्
।
न तत्क्रतुशतेनापि तुल्यमाहुर्मनीषिणः ॥९२॥
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत्
।
स दत्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ॥९३॥
एतत्ते कथिनं पुत्र मयाऽऽख्यानमनुत्तमम्
।
यथा हि विजितो मृत्युर्गृहस्थेन पुराऽभवत् ॥९४॥
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम्
।
बुभूषताऽभिमन्तव्यं सर्वदुश्चरितापहम् ॥९५॥
इदं यः कथयेद्विद्रानहन्यहनि भारत
।
सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात् ॥९६॥
युधिष्ठिर उवाच। ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वणैर्नराधिप
।
कथं प्राप्तं महाराज क्षत्रियेण महात्मना ॥१॥
विश्वामित्रेण धर्मात्मन् ब्राह्मणत्वं नरर्षभ
।
श्रोतुमिच्छामि तत्त्वेन तन्मे ब्रूहि पितामह ॥२॥
तेन ह्यमितवीर्येण वसिष्ठस्य महात्मनः
।
हतं पुत्रशतं सद्यस्तपसाऽपि पितामह ॥३॥
यातुधानाश्च बहवो राक्षसास्तिग्मतेजसः
।
मन्युनाऽऽविष्टदेहेन सृष्टाः कालान्तकोपमाः ॥४॥
महान्कुशिकवंशश्च ब्रह्मर्षिशतसङ्कुलः
।
स्थापितो नरलोकेऽस्मिन्विद्वद्ब्राह्मण संस्तुतः ॥५॥
ऋचीकस्यात्मजश्चैव शुनःशेपो महातपाः
।
विमोक्षितो महासत्रात्पशुतामप्युपागतः ॥६॥
हरिश्चन्द्रक्रतौ देवांस्तोषयित्वाऽऽत्मतेजसा
।
पुत्रतामनुसम्प्राप्तो विश्वामित्रस्य धीमतः ॥७॥
नाभिवादयते ज्येष्ठं देवरातं नराधिप
।
पुत्राः पञ्चाशदेवापि शप्ताः श्वपचतां गताः ॥८॥
त्रिशङ्कुर्बन्धुभिर्मुक्त ऐक्ष्वाकः प्रीतिपूर्वकम्
।
अवाक्शिरा दिवं नीतो दक्षिणामाश्रितो दिशम् ॥९॥
विश्वामित्रस्य विपुला नदी देवर्षिसेविता
।
कौशिकी च शिवा पुण्या ब्रह्मर्षिसुरसेविता ॥१०॥
तपोविघ्नकरी चैव पञ्चचूडा सुसम्मता
।
रम्भा नामाप्सराः शापाद्यस्य शैलत्वमागता ॥११॥
तथैवास्य भयाद्वध्वा वसिष्ठः सलिले पुरा
।
आत्मानं मज्जयन् श्रीमान् विपाशः पुनरुत्थितः ॥१२॥
तदाप्रभृति पुण्या हि विपाशाऽभून्महानदी
।
विख्याता कर्मणा तेन वसिष्ठस्य महात्मनः ॥१३॥
वाग्भिश्च भगवान्येन देवसेनाग्रगः प्रभुः
।
स्तुतः प्रीतमनाश्चासीच्छापाच्चैनममुञ्चत ॥१४॥
ध्रुवस्यौत्तानपादस्य ब्रह्मर्षीणां तथैव च
।
मध्ये ज्वलति यो नित्यमुदीचीमाश्रितो दिशम् ॥१५॥
तस्यैतानि च कर्माणि तथान्यानि च कौरव
।
क्षत्रियस्येत्यतो जातमिदं कौतूहलं मम ॥१६॥
किमेतदिति तत्त्वेन प्रबूहि भरतर्षम
।
देहान्तरमनासाद्य कथं स ब्राह्मणोऽभवत् ॥१७॥
एतत्तत्वेन मे तात सर्वमाख्यातुमर्हसि
।
मतङ्गस्य यथातत्त्वं तथैवैतद्वदस्व मे ॥१८॥
स्थाने मतङ्गा ब्राह्मण्यं नालभद्भरतर्षभ
।
चण्डालयोनौ जातो हि कथं ब्राह्मण्यमाप्तवान् ॥१९॥
भीष्म उवाच। श्रूयतां पार्थ तत्त्वेन विश्वामित्रो यथा पुरा
।
ब्राह्मणत्वं गतस्तात ब्रह्मर्षित्वं तथैव च ॥१॥
भरतस्यान्वये चैवाजमीढो नाम पार्थिवः
।
बभूव भरतश्रेष्ठ यज्वा धर्मभृतां वरः ॥२॥
तस्य पुत्रो महानासीज्जन्हुर्नाम नरेश्वरः
।
दुहितृत्वमनुप्राप्ता गङ्गा यस्य महात्मनः ॥३॥
तस्यात्मजस्तुल्यगुणः सिन्धुद्वीपो महायशाः
।
सिन्धुद्वीपाच्च राजर्षिर्बलाकाश्वो महाबलः ॥४॥
वल्लभस्तस्य तनयः साक्षाद्धर्म इवापरः
।
कुशिकस्तस्य तनयः सहस्राक्षसमद्युतिः ॥५॥
कुशिकस्यात्मजः श्रीमान् गाधिर्नाम जनेश्वरः
।
अपुत्रः प्रसवेनार्थी वनवाससुपावसत् ॥६॥
कन्या जज्ञे सुतात्तस्य वने निवसतः सतः
।
नाम्ना सत्यवती नाम रूपेणाप्रतिमा भुवि ॥७॥
तां वव्रे भार्गवः श्रीमांश्च्यवनस्यात्मसम्भवः
।
ऋचीक इति विख्यातो विपुले तपसि स्थितः ॥८॥
सतां न प्रददौ तस्मै ऋचीकाय महात्मने
।
दरिद्र इति मत्वा वै गाधिः शत्रुनिबर्हणः ॥९॥
प्रत्याख्याय पुनर्यातमब्रवीद्राजसत्तमः
।
शुल्कं प्रदीयतां मह्यं ततो वत्स्यसि मे सुताम् ॥१०॥
ऋचीक उवाच। किं प्रयच्छामि राजेन्द्र तुभ्यं शुल्कमहं नृप
।
दुहितुर्ब्रूह्यसंसक्तो माऽभूत्तत्र विचारणा ॥११॥
गाधिरुवाच। चन्द्ररश्मिप्रकाशानां हयानां वातरंहसाम्
।
एकतः श्यामकर्णानां सहस्रं देहि भार्गव ॥१२॥
भीष्म उवाच। ततः स भृगुशार्दूलश्च्यवनस्यात्मजः प्रभुः
।
अब्रवीद्वरुणं देवमादित्यं पतिमम्भसाम् ॥१३॥
एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम्
।
सहस्रं वातवेगानां भिक्षे त्वां देवसत्तम ॥१४॥
तथेति वरुणो देव आदित्यो भृगुसत्तमम्
।
उवाच यत्र ते च्छन्दस्तत्रोत्थास्यन्ति वाजिनः ॥१५॥
ध्यातमात्रं ऋचीकेन हयानां चन्द्रवर्चसाम्
।
गङ्गाजलात्समुत्तस्थौ सहस्रं विपुलौजसाम् ॥१६॥
अदूरे कान्यकुब्जस्य गङ्गायास्तीरमुत्तमम्
।
अश्वतीर्थं तदद्यापि मानवैः परिचक्ष्यते ॥१७॥
ततो वै गाधये तात सहस्रं वाजिनां शुभम्
।
ऋचीकः प्रददौ प्रीतः शुल्कार्थं तपतां वरः ॥१८॥
ततः स विस्मितो राजा गाधिःशापभयेन च
।
ददौ तां समलङ्कृत्य कन्यां भृगुसुताय वै ॥१९॥
जग्राह विधिवत्पाणिं तस्या ब्रह्मर्षिसत्तमः
।
सा च तं पतिमासाद्य परं हर्षमवाप ह ॥२०॥
स तुतोष च ब्रह्मर्षिस्तस्या वृत्तेन भारत
।
छन्दयामास चैवैनां वरेण वरवर्णिनीम् ॥२१॥
मात्रे तत्सर्वमाचख्यौ सा कन्या राजसत्तम
।
अथ तामब्रवीन्माता सुतां किञ्चिदवाङ्मुखीं ॥२२॥
ममापि पुत्रि भर्ता ते प्रसादं कर्तुमर्हति
।
अपत्यस्य प्रदानेन समर्थश्च महातपाः ॥२३॥
ततः सा त्वरितं गत्वा तत्सर्वं प्रत्यवेदयत्
।
मातुश्चिकीर्षितं राजन् ऋचीकस्तामथाब्रवीत् ॥२४॥
गुणवन्तमपत्यं सा अचिराज्जनयिष्यति
।
मम प्रसादात्कल्याणि माऽभूत्ते प्रणयोऽन्यथा ॥२५॥
तव चैव गुणश्लाधी पुत्र उत्पत्स्यते महान्
।
अस्मद्वंशकरः श्रीमान्सत्यमेतद्ब्रवीमि ते ॥२६॥
ऋतुस्नाता च साऽश्वत्थं त्वं च वृक्षमुदुम्बरम्
।
परिष्वजेथाः कल्याणि तत एवमवाप्स्यथः ॥२७॥
चरुद्वयामिदं चैव मन्त्रपूतं शुचिस्मिते
।
त्वं च सा चोपभुञ्जीतं ततः पुत्राववाप्स्यथः ॥२८॥
ततः सत्यवती हृष्टा मातरं प्रत्यभाषत
।
यदृचीकेन कथितं तच्चाचख्यौ चरुद्वयम् ॥२९॥
तामुवाच ततो माता सुतां सत्यवतीं तदा
।
पुत्रि पूर्वोपपन्नायाः कुरुष्व वचनं मम ॥३०॥
भर्त्रा य एष दत्तस्ते चरुर्मन्त्रपुरस्कृतः
।
एनं प्रयच्छ मह्यं त्वं मदीयं त्वं गृहाण च ॥३१॥
व्यत्यासं वृक्षयोश्चापि करवाव शुचिस्मिते
।
यदि प्रमाणं वचनं मम मातुरनिन्दिते ॥३२॥
स्वमपत्यं विशिष्टं हि सर्व इच्छत्यनाविलम्
।
व्यक्तं भगवता चात्र कृतमेवं भविष्यति ॥३३॥
ततो मे त्वच्चरौ भावः पादपे च सुमध्यमे
।
कथं विशिष्टो भ्राता मे भवेदित्येव चिन्तय ॥३४॥
तथा च कृतवत्यौ ते माता सत्यवती च सा
।
अथ गर्भावनुप्राप्ते उभे ते वै युधिष्ठिर ॥३५॥
दृष्ट्वा गर्भमनुप्राप्तां भार्यां स च महानृषिः
।
उवाच तां सत्यवतीं दुर्मना भृगुसत्तमः ॥३६॥
व्यत्यासेनोपयुक्तस्ते चरुर्व्यक्तं भविष्यति
।
व्यत्यासः पादपे चापि सुव्यक्तं ते कृतः शुभे ॥३७॥
मया हि विश्वं यद्ब्रह्म त्वच्चरौ सन्निवेशितम्
।
क्षत्रवीर्यं च सकलं चरौ तस्या निवेशिनम् ॥३८॥
त्रैलोक्यविख्यातगुणं त्वं विप्रं जनयिष्यसि
।
सा च क्षत्रं विशिष्टं वै तत एतत्कृतं मया ॥३९॥
व्यत्यासस्तु कृतो यस्मात्त्वया मात्रा च ते शुभे
।
तास्मात्सा ब्राह्मणं श्रेष्ठं माता ते जनयिष्यति ॥४०॥
क्षत्रियं तूग्रकर्माणं त्वं भद्रे जनयिष्यसि
।
न हि ते तत्कृतं साधु मातृस्नेहेन भाविनि ॥४१॥
सा श्रुत्वा शोकसन्तप्ता पपान वरवर्णिनी
।
भूमौ सत्यवती राजञ्च्छिन्नेव रुचिरा लता ॥४२॥
प्रतिलभ्य च सा संज्ञा शिरसा प्रणिपत्य च
।
उवाच भार्या भर्तारं गाधेयी भार्गवर्षभम् ॥४३॥
प्रसादयन्त्यां भार्यायां मयि ब्रह्मविदांवर
।
प्रसादं कुरु विप्रर्षे न मेस्यात्क्षत्रियः सुतः ॥४४॥
कामं ममोग्रकर्मा वै पात्रो भवितुमर्हति
।
न तु मे स्यात्सुतो ब्रह्मन्नेव मे दीयतां वरः ॥४५॥
एवमस्त्विति होवाच स्वां भार्यां सुमहातपाः
।
ततः सा जनयामास जमदग्निं सुतं शुभम् ॥४६॥
विश्वामित्रं चाजनयद्गाधिभार्या यशस्विनी
।
ऋषेः प्रसादाद्राजेन्द्र ब्रह्मर्षेर्ब्रह्मवादिनम् ॥४७॥
ततो ब्राह्मणतां यातो विश्वामित्रो महातपाः
।
क्षत्रियः सोऽन्यथ तथा ब्रह्मवंशस्य कारकः ॥४८॥
तस्य पुत्रा महात्मानो ब्रह्मवंशविवर्धनाः
।
तपस्विनो ब्रह्मविदो गोत्रकर्तार एव च ॥४९॥
मधुच्छन्दश्च भगवान् देवरातश्च वीर्यवान्
।
अक्षीणश्च शकुन्तश्च बभ्रुः कालपथत्तथा ॥५०॥
याज्ञवल्क्यश्च विख्यातस्तथा स्थूणो महाव्रतः
।
उलूको यमदूतश्च तथर्षिः सैन्धवायनः ॥५१॥
वल्गुजङ्घश्च भगवान् गालवश्च महानृषिः
।
ऋषिर्वज्रस्तथा ख्यातः सालङ्कायन एव च ॥५२॥
लीलाढ्यो नारदश्चैव तया कूर्वामुखः स्मृतः
।
वादुलर्मुसलश्चेव वक्षोग्रीवस्तथैव च ॥५३॥
आङ्घ्रिको नैकदृक्चैव शिलायूपः शितः शुचिः
।
चक्रको मारुतन्तव्यो वातघ्नोऽथाश्वलायनः ॥५४॥
श्यामायनोऽथ गार्ग्यश्च जाबालिः सुश्रुतस्तथा
।
कारीषिरथ सश्रुत्यः परपोरवतन्तवः ॥५५॥
महानृषिश्च कपिलस्तथर्षिस्ताडकायनः
।
तथैव चोपगहनस्त वर्षिश्चासुरायणः ॥५६॥
मार्दमर्षिर्हिरण्याक्षो जङ्गारिर्बाभ्रवायणिः
।
भूतिर्विभूतिः सूतश्च सुरकृत्त तथैव च ॥५७॥
अरालिर्नाविकश्चैव चाम्पेयोज्जयनौ तथा
।
नवतन्तुर्बकनखः सेयनो यातिरेव च ॥५८॥
अम्भोरुहश्चारुमत्स्यः शिरीषी चाथ गार्दभिः
।
ऊर्जयोनिरुदापेक्षी नारदी च महानृषिः ॥५९॥
विश्वामित्रात्मजाः सेव मुनयो ब्रह्मवादिनः
।
तथैव क्षत्रियो राजन् विश्वामित्रो महातपाः ॥६०॥
ऋचीकेनाहितं ब्रह्म परमेतद्युधिष्ठिर
।
एतत्ते सर्वमाख्यातं तत्त्वेन भरतर्षभ ॥६१॥
विश्वामित्रस्य वै जन्म सोमसूर्याग्नितेजसः
।
यत्र यत्र च सन्देहो भूयस्ते राजसत्तम
।
तत्र तत्र च मां ब्रूहि च्छेत्ताऽस्मि तव संशयम् ॥६२॥
युधिष्ठिर उवाच। आनृशंस्यस्य धर्मज्ञ गुणान् भक्तजनस्य च
।
श्रोतुमिच्छामि धर्मज्ञ तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
वासवस्य च संवादं शुकस्य च महात्मनः ॥२॥
विषये काशिराजस्य ग्रामान्निष्क्रम्य लुब्धकः
।
सविषं काण्डमादाय मृगयामास वै मृगम् ॥३॥
तत्र चामिषलुब्धेन लुब्धकेन महावने
।
अविदूरे मृगान् दृष्ट्वा बाणः प्रतिसमाहितः ॥४॥
तेन दुर्वारितास्त्रेण निमित्तचपलेषुणा
।
महान्वनतरुस्तत्र विद्धो मृगजिघांसया ॥५॥
स तीक्ष्णविषदिग्धेन शरेणातिबलात्क्षतः
।
उत्सृज्य फलपत्राणि पादपः शोषमागतः ॥६॥
तस्मिन्वृक्षे तथाभूते कोटरेषु चिरोषितः
।
न जहाति शुको वासं तस्य भक्त्या वनस्पतेः ॥७॥
निष्प्रचारो निराहारो ग्लानः शिथिलवागपि
।
कृतज्ञः सह वृक्षेण धर्मात्मा सोऽप्यशुष्यत ॥८॥
तमुदारं महासत्त्वमतिमानुषचेष्टितम्
।
समदुःखसुखं दृष्ट्वा विस्मितः पाकशासनः ॥९॥
ततश्चिन्तामुपगतः शक्रः कथमयं द्विजः
।
तिर्यग्योनावसम्भाव्यमानृशंस्यमवस्थितः ॥१०॥
अथवा नात्र चिन्त्यं हि अभवद्वासवस्य तु
।
प्राणिनामपि सर्वेषां सर्वं सर्वत्र दृश्यते ॥११॥
ततो ब्राह्मणवेषेण मानुषं रूपमास्थितः
।
अवतीर्य महीं शक्रस्तं पक्षिणमुवाच ह ॥१२॥
शुक भो पक्षिणां श्रेष्ठ दाक्षेयी सुप्रजा त्वया
।
पृच्छे त्वां शुकमेनं त्वं कस्मान्न त्यजसि द्रुमम् ॥१३॥
अथ पृष्टः शुकः प्राह मूर्ध्ना समभिवाद्य तम्
।
स्वागतं देवराज त्वं विज्ञातस्तपसा मया ॥१४॥
ततो दशशताक्षेण साधु साध्विति भाषितम्
।
अहो विज्ञानमित्येवं मनसा पूजितस्ततः ॥१५॥
तमेवं शुभकर्माणं शुकं परमधार्मिकम्
।
विजानन्नपि तां प्रीतिं पप्रच्छ बलसूदनः ॥१६॥
निष्पत्रमफलं शुष्कमशरण्यं पतत्रिणाम्
।
किमर्थं सेवसे वृक्षं यदा महदिदं वनम् ॥१७॥
अन्येऽपि बहवो वृक्षाः पत्रसञ्च्छन्नकोटराः
।
शुभाः पर्याप्तसञ्चारा विद्यन्तेऽस्मिन्महावने ॥१८॥
गतायुषमसामर्थ्यं क्षीणसारं हतश्रियम्
।
विमृश्य प्रज्ञया धीर जहीमं स्थविरं द्रुमम् ॥१९॥
भीष्म उवाच। तदुपश्रुत्य धर्मात्मा शुकः शक्रेण भाषितम्
।
सुदीर्घमतिनिःश्वस्य दीनो वाक्यमुवाच ह ॥२०॥
अनतिक्रमणीयानि दैवतानि शचीपते
।
यत्राभवत्तव प्रश्नस्तन्निबोध सुराधिप ॥२१॥
अस्मिन्नहं द्रुमे जातः साधुभिश्च गुणैर्युतः
।
बालभावेन सङ्गुप्तः शत्रुभिश्च न धर्षितः ॥२२॥
किमनुक्रोश्य वैफल्यमुत्पादयसि मेऽनघ
।
आनुशंस्याभियुक्तस्य भक्तस्यानन्यगस्य च ॥२३॥
अनुक्रोशो हि साधूनां महद्धर्मस्य लक्षणम्
।
अनुक्रोशश्च साधूना सदा प्रीतिं प्रयच्छति ॥२४॥
त्वमेव दैवतैः सर्वैः पृच्छ्यसे धर्मसंशयात्
।
अतस्त्वं देवदेवानामाधिपत्ये प्रतिष्ठितः ॥२५॥
नार्हसे मां सहस्राक्ष द्रुमं त्याजयितुं चिरात्
।
समर्थमुपजीव्येमं त्यजेयं कथमद्य वै ॥२६॥
तस्य वाक्येन सौम्येन हर्षितः पाकशासनः
।
शुकं प्रोवाच धर्मात्मा आनृशंस्येन तोषितः ॥२७॥
वरं वृणीष्वेति तदा स च वव्रे वरं शुकः
।
आनृशंस्यपरो नित्यं तस्य वृक्षस्य सम्भवम् ॥२८॥
विदित्वा च दृढां भक्तिं तां शुके शीलसम्पदम्
।
प्रीतः क्षिप्रमथो वृक्षममृतेनावसिक्तवान् ॥२९॥
ततः फलानि पत्राणि शाखाश्चापि मनोहराः
।
शुकस्य दृढभक्तित्वाच्छ्रीमतां प्राप स द्रुमः ॥३०॥
शुकश्च कर्मणा तेन आनृशंस्यकृतेन वै
।
आयुषोऽन्ते महाराज प्राप शक्रसलोकताम् ॥३१॥
एवमेव मनुष्येन्द्र भक्तिमन्तं समाश्रितः
।
सर्वार्थसिद्धिं लभते शुकं प्राप्य यथा द्रुमः ॥३२॥
युधिष्ठिर उवाच। पितामह महाप्राज्ञ सर्वशास्त्रविशारद
।
दैवे पुरुषकारे च किंस्विच्छ्रेष्ठतरं भवेत् ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर ॥२॥
दैवमानुषयोः किंस्वित्कर्मणोः श्रेष्ठमित्युत
।
पुरा वसिष्ठो भगवान् पितामहमपृच्छत ॥३॥
ततः पद्मोद्भवो राजन् देवदेवः पितामहः
।
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम् ॥४॥
ब्रह्मोवाच
।
नाबीजं जायते किञ्चिन्न बीजेन विना फलम्
।
बीजाद्बीजं प्रभवति बीजादेव फलं स्मृतम् ॥५॥
यादृशं वपते बीजं क्षेत्रमासाद्य कर्षकः
।
सुकृते दुष्कृते वापि तादृशं लभते फलम् ॥६॥
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्
।
तथा पुरुषकारेण विना दैवं न सिध्यति ॥७॥
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्
।
क्षेत्रबीजसमायोगात्ततः सस्यं समृद्ध्यते ॥८॥
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः
।
प्रत्यक्षं दृश्यते लोके कृतस्यापकृतस्य च ॥९॥
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा
।
कृतं फलति सर्वत्र नाकृतं भुज्यते क्वचित् ॥१०॥
कृती सर्वत्र लभते प्रतिष्ठां भाग्यसंयुताम्
।
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम् ॥११॥
तपसा रूपसौभाग्यं रत्नानि विविधानि च
।
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना ॥१२॥
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता
।
सर्वं पुरुषकारेण कृतेनेहोपलभ्यते ॥१३॥
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कामारुताः
।
सर्वं पुरुषकारेण मानुष्याद्देवतां गताः ॥१४॥
अर्था वा मित्रवर्गा वा ऐश्वर्यं वा कुलान्वितम्
।
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः ॥१५॥
शौचेन लभते विप्रः क्षत्रियो विक्रमेण तु
।
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम् ॥१६॥
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम्
।
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम् ॥१७॥
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः
।
स एष भगवान्विष्णुः समुद्रे तप्यते तपः ॥१८॥
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत्
।
लोको दैवं समालक्ष्य उदासीनो भवेन्ननु ॥१९॥
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते
।
वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना ॥२०॥
न तथा मानुषे लोके भयमस्ति शुभाशुभे
।
यथा त्रिदशलोके हि भयमन्येन जायते ॥२१॥
कृतः पुरुषकारस्तु दैवमेवानुवर्तते
।
न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति ॥२२॥
यथा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि
।
कथं कर्म विना देवं स्थास्यति स्थापयिष्यतः ॥२३॥
न दैवतानि लोकेऽस्मिन् व्यापारं यान्ति कस्यचित्
।
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया ॥२४॥
ऋषीणां देवतानां च सदा भवति विग्रहः
।
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते ॥२५॥
कथं तस्य समुत्पत्तिर्यतो दैवं प्रवर्तते
।
एवं त्रिदशलोकेऽपि प्राप्यन्ते बहवो गुणाः ॥२६॥
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः
।
आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च ॥२७॥
कृतं चाप्यकृतं किञ्चित्कृते कर्मणि सिद्ध्यति
।
सुकृतं दुष्कृतं कर्म न यथार्थं प्रपद्यते ॥२८॥
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते
।
पुण्यशीलं नरं प्राप्य किं दैवं प्रकरिष्यति ॥२९॥
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ
।
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः ॥३०॥
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा
।
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः ॥३१॥
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः
।
महर्षिशापात्सौदासः पुरुषादत्वमागतः ॥३२॥
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ
।
न गच्छतः स्वर्गलोकं सुकृतेनेह कर्मणा ॥३३॥
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः
।
मिथ्याभिधानेनैकेन रसातलतलं गतः ॥३४॥
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः
।
विष्णोः पुरुषकारेण पातालसदनः कृतः ॥३५॥
शक्रस्योद्गम्य चरणं प्रस्थितो जनमेजयः
।
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः ॥३६॥
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च
।
यैशम्पायनविप्रर्षिः किं दैवेन न वारितः ॥३७॥
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे
।
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः ॥३८॥
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः
।
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे ॥३९॥
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः
।
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात् ॥४०॥
तपोनियमसंयुक्ता मुनयः संशितव्रताः
।
किं त दैवबलाच्छापमुत्सृजन्ते न कर्मणा ॥४१॥
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम्
।
लोभमोहसमापन्नं न दैवं त्रायते नरम् ॥४२॥
यथाऽग्निः पवनोद्धतः सुसूक्ष्मोऽपि महान्भवेत्
।
तथा कर्मसमायुक्तं दैवं साधु विवर्धते ॥४३॥
यथा तैलक्षयाद्दीपः प्रह्रासमुपगच्छति
।
तथा कर्मक्षयाद्दैवं प्रहासमुपगच्छति ॥४४॥
विपुलमपि धनौघं प्राप्य भोगान् स्त्रियो वा
।
पुरुष इह न शक्तः कर्महीनो हि भोक्तुम्
।
सुनिहितमपि चार्थं दैवतै रक्ष्यमाणं
।
पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः ॥४५॥
व्ययगुणमपि साधुं कर्मणा संश्रयन्ते
।
भवति मनुजलोकाद्देवलोको विशिष्टः
।
बहुतरसुसमृद्ध्या मानुषाणां गृहाणि
।
पितृवनभवनाभं दृश्यते चामराणाम् ॥४६॥
न च फलति विकर्मा जीवलोक न दैवं
।
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वम्
।
गुरुमिव कृतमग्र्यं कर्म संयाति दैवं
।
नयति पुरुषकारः सञ्चितस्तत्र तत्र ॥४७॥
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम
।
फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः ॥४८॥
अभ्युत्थानेन दैवस्य समारब्धेन कर्मणा
।
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात् ॥४९॥
युधिष्ठिर उवाच। कर्मणां च समस्तानां शुभानां भरतर्षभ
।
फलानि महतां श्रेष्ठ प्रब्रूहि परिपृच्छतः ॥१॥
भीष्म उवाच। हन्त ते कथयिष्यामि यन्मां पृच्छसि भारत
।
रहस्यं यदृषीणां तु तच्छृणुष्व युधिष्ठिर
।
या गतिः प्राप्यते येन प्रत्यभावे चिरेप्सिता ॥२॥
येन येन शरीरेण यद्यत्कर्म करोति यः
।
तेन तेन शरीरेण तत्तत्फलमुपाश्रुते ॥३॥
यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम्
।
तस्यां तस्यामवस्थायां भुङ्क्ते जन्मनि जन्मनि ॥४॥
न नश्यति कृतं कर्म सदा पञ्चेन्द्रियैरिह
।
ते ह्यस्य साक्षिणो नित्यं षष्ठ आत्मा तथैव च ॥५॥
चक्षुर्दद्यान्मनो दद्याद्वाचं दद्याच्च सूनुताम्
।
अनुव्रजेदुपासीत स यज्ञः पञ्चदक्षिणः ॥६॥
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते
।
श्रान्तायादृष्टपूर्वाय तस्य पुण्यफलं महत् ॥७॥
स्थण्डिलेषु शयानानां गृहाणि शयनानि च
।
चीरवल्कलसंवीते वासांस्याभरणानि च ॥८॥
वाहनानि च यानानि योगात्मनि तपोधने
।
अग्नीनुपशयानस्य राज्ञः पौरुषमेव च ॥९॥
रसानां प्रतिसंहारे सौभाग्यमनुगच्छति
।
आमिषप्रतिसंहारे पशून्पुत्रांश्च विन्दति ॥१०॥
अवाक्शिरास्तु यो लम्बेदुदवासं च यो वसेत्
।
सततं चैकशायी यः स लभेतेप्सितां गतिम् ॥११॥
पाद्यमासनमेवाथ दीपमन्नं प्रतिश्रयम्
।
दद्यादतिथिपूजार्थं स यज्ञः पञ्चदक्षिणः ॥१२॥
वीरासनं वीरशय्यां वीरस्थानमुपागतः
।
अक्षयास्तस्य वै लोकाः सर्वकामगमास्तथा ॥१३॥
धनं लभेत दानेन मौनेनाज्ञां विशाम्पते
।
उपभोगांश्च तपसा ब्रह्मचर्येण जीवितम् ॥१४॥
रूपमैर्श्वयमारोग्यमहिंसाफलमश्नुते
।
फलमूलाशिनो राज्यं स्वर्गः पर्णाशिनां भवेत् ॥१५॥
प्रायोपवेशिनो राजन्सर्वत्र सुखमुच्यते
।
गवाढ्यः शाकदीक्षायां स्वर्गगामी तृणाशनः ॥१६॥
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत्
।
स्वर्गं सत्येन लभते दीक्षया कुलमुत्तमम् ॥१७॥
सलिलाशी भवेद्यस्तु सदाग्निः संस्कृतो द्विजः
।
मनुं साधयतो राज्यं नाकपृष्ठमनाशके ॥१८॥
उपवासं च दीक्षायामभिषेकं च पार्थिव
।
कृत्वा द्वादश वर्षाणि वीरस्थानाद्विशिष्यते ॥१९॥
अधीत्य सर्ववेदान्वै सद्यो दुःखाद्विमुच्यते
।
मानसं हि चरन् धर्मं स्वर्गलोकमुपाश्नुते ॥२०॥
या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः
।
योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥२१॥
यथा धेनुसहस्त्रेषु वत्सो विन्दत्ति मातरम्
।
एवं पूर्वकृतं कर्म कर्तारमनुगच्छति ॥२२॥
अचोद्यमानानि यथा पुष्पाणि च फलानि च
।
स्वकालं नातिवर्तन्ते तथा कर्म पुरा कृतम् ॥२३॥
जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः
।
चक्षुःश्रोत्रे च जीर्येते तृष्णैका न तु जीर्यते ॥२४॥
येन प्रीणाति पितरं तेन प्रीतः प्रजापतिः
।
प्रीणाति मातरं येन पृथिवी तेन पूजिता
।
येन प्रीणात्युपाध्यायं तेन स्याद्ब्रह्म पूजितम् ॥२५॥
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः
।
अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ॥२६॥
वैशम्पायन उवाच। भीष्मस्यैतद्वचः श्रुत्वा विस्मिताः कुरुपुङ्गवाः
।
आसन् प्रहृष्टमनसः प्रीतिमन्तोऽभवंस्तदा ॥२७॥
यन्मन्त्रे भवति वृथोपयुज्यमाने
।
यत्सोमे भवति वृथाभिषूयमाणे
।
यच्चग्नौ भवति वृथाभिहूयमाने
।
तत्सर्वं भवति वृथाभिधीयमाने ॥२८॥
इत्येतदृषिणा प्रोक्तमुक्तवानस्मि यद्विभो
।
शुभाशुभफलप्राप्तौ किमतः श्रोतुमिच्छसि ॥२९॥
युधिष्ठिर उवाच। के पूज्याः के नमस्कार्याः कान्नमस्यसि भारत
।
एतन्मे सर्वमाचक्ष्व येभ्यः स्पृहयसे नृप ॥१॥
उत्तमापद्गतस्यापि यत्र ते वर्तते मनः
।
मनुष्यलोके सर्वस्मिन् यदमुत्रेह चाप्युत ॥२॥
भीष्म उवाच। स्पृहयामि द्विजातिभ्यो येषां ब्रह्म परं धनम्
।
येषां स्वप्रत्ययः स्वर्गस्तपःस्वाध्यायसाधनम् ॥३॥
येषां बालाश्च वृद्धाश्च पितृपैतामहीं धुरम्
।
उद्वहन्ति न सीदन्ति तेभ्यो वै स्पृहयाम्यहम् ॥४॥
विद्यास्वभिविनीतानां दान्तानां मृदुभाषिणाम्
।
श्रुतवृत्तोपपन्नानां सदाक्षरविदां सताम् ॥५॥
संसत्सु वदतां तात हंसानामिव सङ्घशः
।
मङ्गल्यरूपा रुचिरा दिव्यजीमूतनिःस्वनाः ॥६॥
सम्यगुच्चरिता वाचः श्रूयन्ते हि युधिष्ठिर
।
शुश्रूषमाणे नृपतौ प्रेत्य चेह सुखावहाः ॥७॥
ये चापि तेषां श्रोतारः सदा सदसि सम्मताः
।
विज्ञानगुणसम्पन्नास्तेभ्यश्च स्पृहयाम्यहम् ॥८॥
सुसंस्कृतानि प्रयताः शुचीनि गुणवन्ति च
।
ददत्यन्नानि तृप्त्यर्थं ब्राह्मणेभ्यो युधिष्ठिर ॥९॥
ये चापि सततं राजंस्तेभ्यश्च स्पृहयाम्यहम्
।
शक्यं ह्येवाहवे योद्धुं न दातुमनसूयितम् ॥१०॥
शूरा वीराश्च शतशः सन्ति लोके युधिष्ठिर
।
येषां संख्यायमानानां दानशूरो विशिष्यते ॥११॥
धन्यः स्यां यद्यहं भूयः सौम्य ब्राह्मणकोऽपि वा
।
कुले जातो धर्मगतिस्तपोविद्यापरायणः ॥१२॥
न मे त्वत्तः प्रियतरो लोकेऽस्मिन् पाण्डुनन्दन
।
त्वत्तश्चापि प्रियतरा ब्राह्मणा भरतर्षभ ॥१३॥
यथा मम प्रियतमास्त्वत्तो विप्राः कुरूत्तम
।
तेन सत्येन गच्छेयं लोकान्यत्र स शान्तनुः ॥१४॥
न मे पिता प्रियतरो ब्राह्मणेभ्यस्तथाऽभवत्
।
न मे पितुः पिता वापि ये चान्येऽपि सुहृज्जनाः ॥१५॥
न हि मे वृजिनं किञ्चिद्विद्यते ब्राह्मणेष्विह
।
अणु वा यदि वा स्थूलं विद्यते साधु कर्मसु ॥१६॥
कर्मणा मनसा वापि वाचा वापि परन्तप
।
यन्मे कृतं ब्राह्मणेभ्यस्तेनाद्य न तपाम्यहम् ॥१७॥
ब्रह्मण्य इति मामाहुस्तया वाचाऽस्मि तोषितः
।
एतदेव पवित्रेभ्यः सर्वेभ्यः परमं स्मृतम् ॥१८॥
पश्यामि लोकानमलाञ्छुचीन्ब्राह्मणयायिनः
।
तेषु मे तात गन्तव्यमह्नाय च चिराय च ॥१९॥
यथा भर्त्राश्रयो धर्मः स्त्रीणां लोके युधिष्ठिर
।
स देवः सा गतिर्नान्या क्षत्रियस्य तथा द्विजाः ॥२०॥
क्षत्रियः शतवर्षी च दशवर्षी द्विजोत्तमः
।
पितापुत्रौ च विज्ञेयौ तयोर्हि ब्राह्मणो गुरुः ॥२१॥
नारी तु पत्यभावे वै देवरं कुरुते पतिम्
।
पृथिवी ब्राह्मणालामे क्षत्रियं कुरुते पतिम् ॥२२॥
पुत्रवच्च ततो रक्ष्या उपास्या गुरुवच्च ते
।
अग्निवच्चोपचर्या वै ब्राह्मणाः कुरुसत्तम ॥२३॥
ऋजून्सतः सत्यशीलान्सर्वभूतहिते रतान्
।
आशीविषानिव क्रुद्धान् द्विजान्परिचरेत्सदा ॥२४॥
तेजसस्तपसश्चैव नित्यं बिभ्येद्युधिष्ठिर
।
उभे चैते परित्याज्ये तेजश्चैव तपस्तथा ॥२५॥
व्यवसायस्तयोः शीघ्रमुभयोरेव विद्यते
।
हन्युः क्रुद्धा महाराज ब्राह्मणा ये तपस्विनः ॥२६॥
भूयः स्यादुभयं दत्तं ब्राह्मणाद्यदकोपनात्
।
कुर्यादुभयतः शेषं दत्तशेषं न शेषयेत् ॥२७॥
दण्डपाणिर्यथा गोषु पालो नित्यं हि रक्षयेत्
।
ब्राह्मणा ब्रह्म च तथा क्षत्रियः परिपालयेत् ॥२८॥
पितेव पुत्रान् रक्षेथा ब्राह्मणान् धर्मचेतसः
।
गृहे चैषामवेक्षेथाः किंस्विदस्तीति जीवनम् ॥२९॥
युधिष्ठिर उवाच। ब्राह्मणानां तु ये लोकाः प्रतिश्रुत्य पितामह
।
न प्रयच्छन्ति मोहात्ते के भवन्ति महाद्युते ॥१॥
एतन्मे तत्त्वतो ब्रूहि धर्मं धर्मभृतां वर
।
प्रतिश्रुत्य दुरात्मानो न प्रयच्छन्ति ये नराः ॥२॥
भीष्म उवाच। यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु
।
आशास्तस्य हताः सर्वाः क्लीबस्येव प्रजाफलम् ॥३॥
यां रात्रिं जायते जीवो यां रात्रिं च विनश्यति
।
एतस्मिन्नन्तरे यद्यत् सुकृतं तस्य भारत ॥४॥
यच्च तस्य हुतं किञ्चिद्दत्तं वा भरतर्षभ
।
तपस्तप्तमथो वापि सर्वं तस्योपहन्यते ॥५॥
अथैतद्वचनं प्राहुर्धर्मशास्त्रविदो जनाः
।
निशम्य भरतश्रेष्ठ बुद्ध्या परमयुक्तया ॥६॥
अपि चोदाहरन्तीमं धर्मशास्त्रविदो जनाः
।
अश्वानां श्यामकर्णानां सहस्रेण समुच्यते ॥७॥
अत्रैवोदारहन्तीममितिहासं पुरातनम्
।
शृगालस्य च संवादं वानरस्य च भारत ॥८॥
तौ सखायौ पुरा ह्यास्तां मानुषत्वे परन्तप
।
अन्यां योनिं समापन्नौ शार्गालीं वानरीं तथा ॥९॥
ततः परासून् खादन्तं शृगालं वानरोऽब्रवीत्
।
श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन् ॥१०॥
किं त्वया पापकं पूर्वं कृतं कर्म सुदारुणम्
।
यस्त्वं श्मशाने मृतकान् पूतिकानत्सि कुत्सितान् ॥११॥
एवमुक्तः प्रत्युवाच शृगालो वानरं तदा
।
ब्राह्मणस्य प्रतिश्रुत्य न मया तदुपाहृतम् ॥१२॥
तत्कृते पापकीं योनिमापन्नोऽस्मि प्लवङ्गम
।
तस्मादेवंविधं भक्ष्यं भक्षयामि बुभुक्षितः ॥१३॥
भीष्म उवाच। शृगालो वानरं प्राह पुनरेव नरोत्तम
।
किं त्वया पातकं कर्म कृतं येनासि वानरः ॥१४॥
वानर उवाच। सदा चाहं फलाहारो ब्राह्मणानां प्लवङ्गमः
।
तस्मान्न ब्राह्मणस्वं तु हर्तव्यं विदुषा सदा
।
समं विवादो मोक्तव्यो दातव्यं च प्रतिश्रुतम् ॥१५॥
भीष्म उवाच। इत्येतद्ब्रुवतो राजन्ब्राह्मणस्य मया श्रुतम्
।
कथां कथयतः पुण्यां धर्मज्ञस्य पुरातनीम् ॥१६॥
श्रुतश्चापि मया भूयः कृष्णस्यापि विशाम्पते
।
कथां कथयतः पूर्वं ब्राह्मणं प्रति पाण्डव ॥१७॥
न हर्तव्यं विप्रधनं क्षन्तव्यं तेषु नित्यशः
।
बालाश्च नावमन्तव्या दरिद्राः कृपणा अपि ॥१८॥
एवमेव च मां नित्यं ब्राह्मणाः सन्दिशन्ति वै
।
प्रतिश्रुत्य भवेद्देयं नाशा कार्या द्विजोत्तमे ॥१९॥
ब्राह्मणो ह्याशया पूर्वं कृतया पृथिवीपते
।
सुसमिद्धो यथा दीप्तः पावकस्तद्विधः स्मृतः ॥२०॥
यं निरीक्षेत सङ्क्रुद्ध आशया पूर्वजातया
।
प्रदहेच्च हि तं राजन् कक्षमक्षय्यभुग्यथा ॥२१॥
स एव हि यदा तुष्टो वचसा प्रतिनन्दति
।
भवत्यगदसङ्काशो विषये तस्य भारत ॥२२॥
पुत्रान् पौत्रान् पशुंश्चैव बान्धवान् सचिवांस्तथा
।
पुरं जनपदं चैव शान्तिरिष्टेन पोषयेत् ॥२३॥
एतद्धि परमं तेजो ब्राह्मणस्येह दृश्यते
।
सहस्रकिरणस्येव सवितुर्धरणीतले ॥२४॥
तस्माद्दातव्यमेवेह प्रतिश्रुत्य युधिष्ठिर
।
यदीच्छेच्छोभनां जातिं प्राप्तुं भरतसत्तम ॥२५॥
ब्राह्मणस्य हि दत्तेन ध्रुवं स्वर्गो ह्यनुत्तमः
।
शक्यः प्राप्तुं विशेषेण दानं हि महती क्रिया ॥२६॥
इतो दत्तेन जीवन्ति देवताः पितरस्तथा
।
तस्माद्दानानि देयानि ब्राह्मणेभ्यो विजानता ॥२७॥
महद्धि भरतश्रेष्ठ ब्राह्मणस्तीर्थमुच्यते
।
वेलायां न तु कस्याञ्चिद्गच्छेद्विप्रो ह्यपूजितः ॥२८॥
युधिष्ठिर उवाच। मित्रसौहार्दयोगेन उपदेशं करोति यः
।
जात्याऽधरस्य राजर्षे दोषस्तस्य भवेन्न वा ॥१॥
एतदिच्छामि तत्त्वेन व्याख्यातुं वै पितामह
।
सूक्ष्मा गतिर्हि धर्मस्य यत्र मुह्यन्ति मानवाः ॥२॥
भीष्म उवाच। अत्र ते वर्तयिष्यामि शृणु राजन् यथाक्रमम्
।
ऋषीणां वदतां पूर्वं श्रुतमासीत् यथा पुरा ॥३॥
उपदेशो न कर्तव्यो जातिहीनस्य कस्यचित्
।
उपदेशे महान् दोष उपाध्यायस्य भाष्यते ॥४॥
निदर्शनमिदं राजन् श्रुणु मे भरतर्षभ
।
दुरुक्तवचने राजन् यथापूर्वं युधिष्ठिर ॥५॥
ब्रह्माश्रमपदे वृत्तं पार्श्वे हिमवतः शुभे
।
तत्राश्रमपदं पुण्यं नानावृक्षगणायुतम् ॥६॥
नानागुल्मलताकीर्णं मृगद्विजनिषेवितम्
।
सिद्धचारणसंयुक्तं रम्यं पुष्पितकाननम् ॥७॥
व्रतिभिर्बहुभिः कीर्णं तापसैरुपसेवितम्
।
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसन्निभैः ॥८॥
नियमव्रतसम्पन्नैः समाकीर्णं तपस्विभिः
।
दीक्षितैर्भरतश्रेष्ठ यताहारैः कृतात्मभिः ॥९॥
तपोध्ययनघोषैश्च नादितं भरतर्षभ
।
वालखिल्यैश्च बहुभिर्यतिभिश्च निषेवितम् ॥१०॥
तत्र कश्चित्समुत्साहं कृत्वा शुद्रो दयान्वितः
।
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥११॥
तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः
।
विविधां वहतो दीक्षां सम्प्राहृष्यत भारत ॥१२॥
अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ
।
ततोऽब्रवीत्कुलपतिं पादौ सङ्गृह्य भारत ॥१३॥
भवत्प्रसादादिच्छामि धर्मं वक्तुं द्विजर्षभ
।
तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि ॥१४॥
वर्णावरोऽहं भगवन् शूद्रो जात्यास्मि सत्तम
।
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥१५॥
कुलपतिरुवाच
।
न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम्
।
आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥१६॥
शुश्रूषया पराँल्लोकानवाप्स्यसि न संशयः ॥१७॥
भीष्म उवाच। एवमुक्तस्तु मुनिना स शूद्रो चिन्तयन्नृप
।
कथमत्र मया कार्यं श्रद्धा धर्मपरा च मे ॥१८॥
विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः
।
गत्वाऽऽश्रमपदाद्दूरमुटजं कृतवांस्तु सः ॥१९॥
तत्र वेदीं च भूमिं च देवतायतनानि च
।
निवेश्य भरतश्रेष्ठ नियमस्थोऽभवन्मुनिः ॥२०॥
अभिषेकांश्च नियमान् देवतायतनेषु च
।
बलिं च कृत्वा हुत्वा च देवतां चाप्यपूजयत् ॥२१॥
सङ्कल्पनियमोपेतः फलाहारो जितेन्द्रियः
।
नित्यं सन्निहिताभिस्तु ओषधीभिः फलैस्तथा ॥२२॥
अतिथीन्पूजयामास यथावत्समुपागतान्
।
एवं हि सुमहान्कालो व्यत्यक्रामत तस्य वै ॥२३॥
अथास्य मुनिरागच्छत्सङ्गत्या वै तमाश्रमम्
।
सम्पूज्य स्वागतेनर्षिं विधिवत्समतोषयत् ॥२४॥
अनुकूलाः कथाः कृत्वा यथागतमपृच्छत
।
ऋषिः परमतेजस्वी धर्मात्मा संशितव्रतः ॥२५॥
एवं सुबहुशस्तस्य शूद्रस्य भरतर्षभ
।
सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ ॥२६॥
अथ तं तापसं शूद्रः सोऽब्रवीद्भरतर्षभ
।
पितृकार्यं करिष्यामि तत्र मेऽनुग्रहं कुरु ॥२७॥
बाढमित्येव तं विप्र उवाच भरतर्षभ
।
शुचिर्भूत्वा स शुद्रस्तु तस्यर्षेः पाद्यमानयत् ॥२८॥
अथ दर्भांश्च वन्यांश्च ओषधीर्भरतर्षभ
।
पवित्रमासनं चैव बृसीं च समुपानयत् ॥२९॥
अथ दक्षिणमावृत्य बृसीं चरमशैर्षिकीम्
।
कृतामन्यायतो दृष्ट्वा तं शूद्रमृषिरब्रवीत् ॥३०॥
कुरुष्वैतां पूर्वशीर्षां भवांश्चोदङ्मुखः शुचिः
।
स च तत्कृतवान् शूद्रः सर्वं यदृषिरब्रवीत् ॥३१॥
यथोपदिष्टं मेधावी दर्भार्घादि यथातथम्
।
हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ॥३२॥
ऋषिणा पितृकार्ये च स च धर्मपथे स्थितः
।
पितृकार्ये कृते चापि विसृष्टः स जगाम ह ॥३३॥
अथ दीर्घस्य कालस्य स तप्यन् शूद्रतापसः
।
वने पञ्चत्वमगमत्सुकृतेन च तेन वै ॥३४॥
अजायत महाराज वंशे स च महाद्युतिः ॥३५॥
तथैव स ऋषिस्तात कालधर्ममवाप ह ॥३६॥
पुरोहतकुले विप्र आजातो भरतर्षभ
।
एवं तौ तत्र सम्भूतावुभौ शूद्रमुनी तदा ॥३७॥
क्रमेण वर्धितौ चापि विद्यासु कुशलावुभौ
।
अथर्ववेदे वेदे च बभूवर्षिः सुनिष्ठितः
।
कल्पप्रयोगे चोत्पन्ने ज्योतिषे च परं गतः ॥३८॥
सांख्ये चैव परा प्रीतिस्तस्य चैवं व्यवर्धत
।
पितर्युपरते चापि कृतशौचस्तु पार्थिवः ॥३९॥
अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः
।
अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ॥४०॥
स तं पुरोधाय सुखमवसद्भरतर्षभ
।
राज्यं शशास धर्मेण प्रजाश्च परिपालयन् ॥४१॥
पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत्
।
उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् ॥४२॥
एवं स बहुशो राजन् पुरोधसमुपाहसत्
।
लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् ॥४३॥
उत्स्मयन्तं च सततं दृष्ट्वाऽसौ मन्युमाविशत्
।
अथ शून्ये पुरोधास्तु सह राज्ञा समागतः ॥४४॥
कथाभिरनुकूलाभी राजानं चाभ्यरोचयत
।
ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ ॥४५॥
वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ॥४६॥
राजोवाच
।
वराणां ते शतं दद्यां किं बतैकं द्विजोत्तम
।
स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ॥४७॥
पुरोहित उवाच। एकं वै वरमिच्छामि यदि तुष्टोऽसि पार्थिव
।
प्रतिजानीहि तावत्त्वं सत्यं यद्वद नानृतम् ॥४८॥
भीष्म उवाच। बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर
।
यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ॥४९॥
पुरोहित उवाच। पुण्याहवाचने नित्यं धर्मकृत्येषु चासकृत्
।
शान्तिहोमेषु च सदा किं त्वं हससि वीक्ष्य माम् ॥५०॥
सव्रीडं वै भवति हि मनो मे हसता त्वया
।
कामया शापितो राजन्नान्यथा वक्तुमर्हसि ॥५१॥
सुव्यक्तं कारणं ह्यत्र न ते हास्यमकारणम्
।
कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे ॥५२॥
राजोवाच
।
एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि
।
अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ॥५३॥
पूर्वदेहे यथा वृत्तं तन्निबोध द्विजोत्तम
।
जातिं स्मराम्यहं ब्रह्मन्नवधानेन मे श्रुणु ॥५४॥
शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः
।
ऋषिरुग्रतपास्त्वं च तदाऽभूर्द्विजसत्तम ॥५५॥
प्रीयता हि तदा ब्रह्मन्ममानुग्रहबुद्धिना
।
पितृकार्ये त्वया पूर्वमुपदेशः कृतोऽनघ ॥५६॥
बृस्यां दर्भेषु हव्ये च कव्ये च मुनिसत्तम
।
एतेन कर्मदोषेण पुरोधास्त्वमजायथाः ॥५७॥
अहं राजा च विप्रेन्द्र पश्य कालस्य पर्ययम्
।
मत्कृतस्योपदेशस्य त्वयाऽऽवाप्तमिदं फलम् ॥५८॥
एतस्मात्कारणाद्ब्रह्मन्प्रहसे त्वां द्विजोत्तम
।
न त्वां परिभवन्ब्रह्मन्प्रहसामि गुरुर्भवान् ॥५९॥
विपर्ययेण मे मन्युस्तेन सन्तप्यते मनः
।
जातिं स्मराम्यहं तुभ्यमतस्त्वां प्रहसामि वै ॥६०॥
एवं तवोग्रं हि तप उपदेशेन नाशितम्
।
पुरोहितत्वमुत्सृज्य यतस्व त्वं पुनर्भवे ॥६१॥
इतस्त्वमधमामन्यां मा योनिं प्राप्स्यसे द्विज
।
गृह्यतां द्रविणं विप्र पूतात्मा भव सत्तम ॥६२॥
भीष्म उवाच। ततो विसृष्टो राज्ञा तु विप्रो दानान्यनेकशः
।
ब्राह्मणेभ्यो ददौ वित्तं भूमिं ग्रामांश्च सर्वशः ॥६३॥
कृच्छ्राणि चीर्त्वा च ततो यथोक्तानि द्विजोत्तमैः
।
तीर्थानि चापि गत्वा वै दानानि विविधानि च ॥६४॥
दत्वा गाश्चैव विप्रेभ्यः पूतात्माऽभवदात्मवान्
।
तमेव चाश्रमं गत्त्वा चचार विपुलं तपः ॥६५॥
ततः सिद्धिं परां प्राप्तो ब्राह्मणो राजसत्तम
।
सम्मतश्चाभवत्तेषामाश्रमे तन्निवासिनाम् ॥६६॥
एवं प्राप्तो महत्कृच्छ्रमृषिः सन्नृपसत्तम
।
ब्राह्मणेन न वक्तव्यं तस्माद्वर्णावरे जने ॥६७॥
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः
।
एतेषु कथयन्राजन्ब्राह्मणो न प्रदुष्यति ॥६८॥
तस्मात्सद्भिर्न वक्तव्यं कस्यचित्किञ्चिदग्रतः
।
सूक्ष्मा गतिर्हि धर्मस्य दुर्ज्ञेया ह्यकृतात्मभिः ॥६९॥
तस्मान्मौनेन मुनयो दीक्षां कुर्वन्ति चादृताः
।
दुरुक्तस्य भयाद्राजन्नाभाषन्ते च किञ्चन ॥७०॥
धार्मिका गुणसम्पन्नाः सत्यार्जवसमन्विताः
।
दुरुक्तवाचाभिहितैः प्राप्नुवन्तीह दुष्कृतम् ॥७१॥
उपदेशो न कर्तव्यः कदाचिदपि कस्यचित्
।
उपदेशाद्धि तत्पापं ब्राह्मणः समवाप्नुयात् ॥७२॥
विमृश्य तस्मात्प्राज्ञेन वक्तव्यं धर्ममिच्छता
।
सत्यानृतेन हि कृत उपदेशी हिनस्ति हि ॥७३॥
वक्तव्यमिह पृष्टेन विनिश्चित्य विनिश्चयम्
।
स चोपदेशः कर्तव्यो येन धर्ममवाप्नुयात् ॥७४॥
एतत्ते सर्वमाख्यातमुपदेशकृते मया
।
महान् क्लेशो हि भवति तस्मान्नोपदिशेदिह ॥७५॥
युधिष्ठिर उवाच। कीदृशे पुरुषे तात स्त्रीषु वा भरतर्षभ
।
श्रीः पद्मा वसते नित्यं तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच। अत्र ते वर्णयिष्यामि यथावृत्तं यथाश्रुतम्
।
रुक्मिणी देवकीपुत्रसन्निधौ पर्यपृच्छत ॥२॥
नारायणस्याङ्कगतां ज्वलन्तीं दृष्ट्वा श्रियं पद्मसमानवर्णाम्
।
कौतूहलाद्विस्मितचारुनेत्रा पप्रच्छ माता मकरध्वजस्य ॥३॥
कानीह भूतान्युपसेवसे त्वं सन्तिष्ठसे कानिव सेवसे त्वम्
।
तानि त्रिलोकेश्वरभूतकान्ते तत्त्वेन मे ब्रूहि महर्षिकल्पे ॥४॥
एवं तदा श्रीरभिभाष्यमाणा देव्या समक्षं गरुडध्वजस्य
।
उवाच वाक्यं मधुराभिधानं मनोहरं चन्द्रमुखी प्रसन्ना ॥५॥
श्रीरुवाच
।
वसामि नित्यं सुभगे प्रगल्भे दक्षे नरे कर्मणि वर्तमाने
।
अक्रोधने देवपरे कृतज्ञे जितेन्द्रिये नित्यमुदीर्णसत्त्वे ॥६॥
नाकर्मशीले पुरुषे वसामि न नास्तिके साङ्करिके कृतघ्ने
।
न भिन्नवृत्ते न नृशंसवर्णे न चापि चौरे न गुरुष्वसूये ॥७॥
ये चाल्पतेजोबलसत्त्वमानाः क्लिश्यन्ति कुप्यन्ति च यत्र तत्र
।
न चैव तिष्ठामि तथाविधेषु नरेषु संगुप्तमनोरथेषु ॥८॥
यश्चात्मनि प्रार्थयते न किञ्चिद्यश्च स्वभावोपहतान्तरात्मा
।
तेष्वल्पसन्तोषपरेषु नित्यं नरेषु नाहं निवसामि सम्यक् ॥९॥
स्वधर्मशीलेषु च धर्मवित्सु वृद्धोपसेवानिरते च दान्ते
।
कृतात्मनि क्षान्तिपरे समर्थे क्षान्तासु दान्तासु तथाऽबलासु ॥१०॥
सत्यस्वभावार्जवसंयुतासु वसामि देवद्विजपूजिकासु
।
प्रकीर्णभाण्डामनपेक्ष्यकारिणीं सदा च भर्तुः प्रतिकूलवादिनीम् ॥११॥
परस्य वेश्माभिरतामलज्जामेवंविधां तां परिवर्जयामि
।
पापामचोक्षामवलेहिनीं च व्यपेतधैर्यां कलहप्रियां च ॥१२॥
निद्राभिभूतां सततं शयानां एवंविधां तां परिवर्जयामि
।
सत्यासु नित्यं प्रियदर्शनासु सौभाग्ययुक्तासु गुणान्वितासु ॥१३॥
वसामि नारीषु पतिव्रतासु कल्याणशीलासु विभूषितासु
।
यानेषु कन्यासु विभूषणेषु यज्ञेषु मेघेषु च वृष्टिमत्सु ॥१४॥
वसामि फुल्लासु च पद्मिनीषु नक्षत्रवीथीषु च शारदीषु
।
गजेषु गोष्ठेषु तथाऽऽसनेषु सरःसु फुल्लोत्पलपङ्कजेषु ॥१५॥
नदीषु हंसस्वननादितासु क्रौञ्चावघुष्टस्वरशोभितासु
।
विकीर्णकूलद्रुमराजितासु तपस्विसिद्धद्विजसेवितासु ॥१६॥
वसामि नित्यं सुबहूदकालु सिंहैर्गजैश्चाकुलितोदकासु
।
मत्ते गजे गोवृषभे नरेन्द्रे सिंहासने सत्पुरुषेषु नित्यम् ॥१७॥
यस्मिन् जनो हव्यभुजं जुहोति गोब्राह्मणं चार्चति देवताश्च
।
काले च पुष्पैर्बलयः क्रियन्ते तस्मिन् गृहे नित्यमुपैमि वासम् ॥१८॥
स्वाध्यायनित्येषु सदा द्विजेषु क्षत्रे च धर्माभिरते सदैव
।
वैश्ये च कृष्याभिरते वसामि शूद्रे च शुश्रूषणनित्ययुक्ते ॥१९॥
नारायणे त्वेकमना वसामि सर्वेण भावेन शरीरभूता
।
तस्मिन् हि धर्मः सुमहान्निविष्टो ब्रह्मण्यता चात्र तथा प्रियत्वम् ॥२०॥
नाहं शरीरेण वसामि देवि नैवं मया शक्यमिहाभिधातुम्
।
भावेन यस्मिन्निवसामि पुंसि स वर्धते धर्मयशोर्थकामैः ॥२१॥
युधिष्ठिर उवाच। स्त्रीपुंसयोः संप्रयोगे स्पर्शः कस्याधिको भवेत्
।
एतस्मिन् संशये राजन् यथावद्वक्तुमर्हसि ॥१॥
भीष्म उवाच। अत्राप्युदाहरंतीममितिहासं पुरातनम्
।
भंगास्वनेन शक्रस्य यथा वैरमभूत्पुरा ॥२॥
पुरा भंगास्वनो नाम राजर्षिरतिधार्मिकः
।
अपुत्रः पुरुषव्याघ्र पुत्रार्थं यज्ञमाहरत् ॥३॥
अग्निष्टुतं स राजर्षिरिंद्रद्विष्टं महाबलः
।
प्रायश्चित्तेषु मर्त्यानां पुत्रकामेषु चेष्यते ॥४॥
इन्द्रो ज्ञात्वा तु तं यज्ञं महाभागः सुरेश्वरः
।
अन्तरं तस्य राजर्षेरन्विच्छन्नियतात्मनः ॥५॥
न चैवास्यान्तरं राजन् स ददर्श महात्मनः
।
कस्यचित्त्वथ कालस्य मृगयां गतवान्नृपः ॥६॥
इदमन्तरमित्येव शक्रो नृपममोहयत्
।
एकाश्वेन च राजर्षिर्भ्रान्त इंद्रेण मोहितः ॥७॥
न दिशोऽविन्दत नृपः क्षुत्पिपासार्दितस्तदा
।
इतश्चेतश्च वै राजन् श्रमतृष्णान्वितो नृप ॥८॥
सरोऽपश्यत्सुरुचिरं पूर्णं परमवारिणा
।
सोऽवगाह्य सरस्तात पाययामास वाजिनम् ॥९॥
अथ पीतोदकं सोऽश्वं वृक्षे बध्वा नृपोत्तमः
।
अवगाह्य ततः स्नातस्तत्र स्त्रीत्वमवाप्तवान् ॥१०॥
आत्मानं स्त्रीकृतं दृष्ट्वा व्रीडितो नृपसत्तमः
।
चिन्तानुगतसर्वात्मा व्याकुलेन्द्रियचेतनः ॥११॥
आरोहिष्ये कथं त्वश्वं कथं यास्यामि वै पुरम्
।
इष्टेनाग्निष्टुता चापि पुत्राणां शतमौरसम् ॥१२॥
जातं महाबलानां मे तान्प्रवक्ष्यामि किं त्वहम्
।
दारेषु चात्मकीयेषु पौरजानपदेषु च ॥१३॥
मृदुत्वं च तनुत्वं च विक्लवत्वं तथैव च
।
स्त्रीगुणा ऋषिभिः प्रोक्ता धर्मतत्त्वार्थदर्शिभिः ॥१४॥
व्यायामे कर्कशत्वं च वीर्यं च पुरुषे गुणाः
।
पौरुषं विप्रनष्टं वै स्त्रीत्वं केनापि मेऽभवत् ॥१५॥
स्त्रीभावात्पुनरश्वं तं कथमारोढुमुत्सहे
।
महता त्वथ यत्नेन आरुह्याश्वं नराधिपः ॥१६॥
पुनरायात्पुरं तात स्त्रीकृतो नृपसत्तमः
।
पुत्रा दाराश्च भृत्याश्च पौरजानपदाश्च ते ॥१७॥
किंत्विदं त्विति विज्ञाय विस्मयं परमं गताः
।
अथोवाच स राजर्षिः स्त्रीभूतो वदतां वरः ॥१८॥
मृगयामस्मि निर्यातो बलैः परिवृतो दृढम्
।
उद्भ्रान्तः प्राविशं घोरामटवीं दैवचोदितः ॥१९॥
अटव्यां च सुघोरायां तृष्णार्तो नष्टचेतनः
।
सरः सुरुचिरप्रख्यमपश्यं पक्षिभिर्वृतम् ॥२०॥
तत्रावगाढः स्त्रीभूतो दैवेनाहं कृतः पुराः
।
नामगोत्राणि चाभाष्य दाराणां मंत्रिणां तथा ॥२१॥
आह पुत्रांस्ततः सोऽथ स्त्रीभूतः पार्थिवोत्तमः
।
संप्रीत्या भुज्यतां राज्यं वनं यास्यामि पुत्रकाः ॥२२॥
एवमुक्त्वा पुत्रशतं वनमेव जगाम ह
।
गत्वा चैवाश्रमं सा तु तापसं प्रत्यपद्यत ॥२३॥
तापसेनास्य पुत्राणामाश्रमेष्वभवच्छतम्
।
अथ साऽऽदायतान्सर्वान् पूर्वपुत्रानभाषत ॥२४॥
पुरुषत्वे सुता यूयं स्त्रीत्वे चेमे शतं सुताः
।
एकत्र भुज्यतां राज्यं भ्रातृभावेन पुत्रकाः ॥२५॥
सहिता भ्रातरस्तेऽथ राज्यं बुभुजिरे तदा
।
तान् दृष्ट्वा भ्रातृभावेन भुंजानान् राज्यमुत्तमम् ॥२६॥
चिन्तयामास देवेन्द्रो मन्युनाऽथ परिप्लुतः
।
उपकारोऽस्य राजर्षेः कृतो नापकृतं मया ॥२७॥
ततो ब्राह्मणरूपेण देवराजः शतक्रतुः
।
भेदयामास तान् गत्वा नगरं वै नृपात्मजान् ॥२८॥
भ्रातॄणां नास्ति सौभ्रात्रं येप्येकस्य पितुःसुताः
।
राज्यहेतोर्विवदिताः कश्यपस्य सुरासुराः ॥२९॥
यूयं भङ्गास्वनापत्यास्तापसस्येतरे सुताः
।
कश्यपस्य सुराश्चैव असुराश्च सुतास्तथा ॥३०॥
युष्माकं पैतृकं राज्यं भुज्यते तापसात्मजैः
।
इन्द्रेण भेदितास्ते तु युद्धेऽन्योन्यमपातयन् ॥३१॥
तच्छ्रुत्वा तापसी चापि संतप्ता प्ररुरोद ह
।
ब्राह्मणच्छद्मनाभ्येत्य तामिन्द्रोऽथान्वपृच्छत ॥३२॥
केन दुःखेन संतप्ता रोदिषि त्वं वरानने
।
ब्राह्मणं तं ततो दृष्ट्वा सा स्त्री करुणमब्रवीत् ॥३३॥
पुत्राणां द्वे शते ब्रह्मन् कालेन विनिपातिते
।
अहं राजाऽभवं विप्र तत्र पूर्वं शतं मम ॥३४॥
समुत्पन्नं स्वरूपाणां पुत्राणां ब्राह्मणोत्तम
।
कदाचिन्मृगयां यात उद्भ्रान्तो गहने वने ॥३५॥
अवगाढश्च सरसि स्त्रीभूतो ब्राह्मणोत्तम
।
पुत्रान् राज्ये प्रतिष्ठाप्य वनमस्मि ततो गतः ॥३६॥
स्त्रियाश्च मे पुत्रशतं तापसेन महात्मना
।
आश्रमे जनितं ब्रह्मन्नीतं तन्नगरं मया ॥३७॥
तेषां च वैरमुत्पन्नं कालयोगेन वै द्विज
।
एतच्छोचाम्यहं ब्रह्मन् दैवेन समभिप्लुता ॥३८॥
इन्द्रस्तां दुःखितां दृष्ट्वा अब्रवीत्परुषं वचः
।
पुरा सुदुःसहं भद्रे मम दुःखं त्वया कृतम् ॥३९॥
इन्द्रद्विष्टेन यजता मामनाहूय धिष्ठितम्
।
इन्द्रोऽहमस्मि दुर्बुद्धे वैरं ते पातितं मया ॥४०॥
इन्द्रं दृष्ट्वा तु राजर्षिः पादयोः शिरसा गतः
।
प्रसीद त्रिदशश्रेष्ठ पुत्रकामेन स क्रतुः ॥४१॥
इष्टस्त्रिदशशार्दूल तत्र मे क्षन्तुमर्हसि
।
प्रणिपातेन तस्येन्द्रः परितुष्टो वरं ददौ ॥४२॥
पुत्रास्ते कतमे राजन् जीवन्त्वेतत्प्रचक्ष्व मे
।
स्त्रीभूतस्य हि ये जाताः पुरुषस्याथ येऽभवन् ॥४३॥
तापसी तु ततः शक्रमुवाच प्रयताञ्जलिः
।
स्त्रीभूतस्य हि ये पुत्रास्ते मे जीवन्तु वासव ॥४४॥
इन्द्रस्तु विस्मितो दृष्ट्वा स्त्रियं पप्रच्छ तां पुनः
।
पुरुषोत्पादिता ये ते कथं द्वेष्याः सुतास्तव ॥४५॥
स्त्रीभूतस्य हि ये जाताः स्नेहस्तेभ्योऽधिकः कथम्
।
कारणं श्रोतुमिच्छामि तन्मे वक्तुमिहार्हसि ॥४६॥
स्त्र्युवाच
।
स्त्रियास्त्वभ्यधिकः स्नेहो न तथा पुरुषस्य वै
।
तस्मात्ते शक्र जीवन्तु ये जाताः स्त्रीकृतस्य वै ॥४७॥
भीष्म उवाच। एवमुक्तस्ततस्त्विन्द्रः प्रीतो वाक्यमुवाच ह
।
सर्व एवेह जीवन्तु पुत्रास्ते सत्यवादिनि ॥४८॥
वरं च वृणु राजेन्द्र यं त्वमिच्छसि सुव्रत
।
पुरुषत्वमथ स्त्रीत्वं मत्तो यदभिकांक्षसे ॥४९॥
स्त्र्युवाच
।
स्त्रीत्वमेव वृणे शक्र पुंस्त्वं नेच्छामि वासव
।
एवमुक्तस्तु देवेन्द्रस्तां स्त्रियं प्रत्युवाच ह ॥५०॥
पुरुषत्त्वं कथं त्यक्त्वा स्त्रीत्वं चोद्यसे विभो
।
एवमुक्तः प्रत्युवाच स्त्रीभूतो राजसत्तमः ॥५१॥
स्त्रियाः पुरुषसंयोगे प्रीतिरभ्यधिका सदा
।
एतस्मात्कारणाच्छक्र स्त्रीत्वमेव वृणोम्यहम् ॥५२॥
रमिताऽभ्यधिकं स्त्रीत्वे सत्यं वै देवसत्तम
।
स्त्रीभावेन हि तुष्यामि गम्यतां त्रिदशाधिप ॥५३॥
एवमस्त्विति चोक्त्वा तामापृच्छ्य त्रिदिवं गतः
।
एवं स्त्रिया महाराज अधिका प्रीतिरुच्यते ॥५४॥
युधिष्ठिर उवाच। किं कर्तव्यं मनुष्येण लोकयात्राहितार्थिना
।
कथं वै लोकयात्रां तु किंशीलश्च समाचरेत् ॥१॥
भीष्म उवाच। कायेन त्रिविधं कर्म वाचा चापि चतुर्विधम्
।
मनसा त्रिविधं चैव दशकर्मपथांस्त्यजेत् ॥२॥
प्राणातिपातः स्तैन्यं च परदारानथापि च
।
त्रीणि पापानि कायेन सर्वतः परिवर्जयेत् ॥३॥
असत्प्रलापं पारुष्यं पैशुन्यमनृतं तथा
।
चत्वारि वाचा राजेन्द्र न जल्पेन्नानुचिन्तयेत् ॥४॥
अनभिध्या परस्वेषु सर्वसत्त्वेषु सौहृदम्
।
कर्मणां फलमस्तीति त्रिविधं मनसा चरेत् ॥५॥
तस्माद्वाक्कायमनसा नाचरेदशुभं नरः
।
शुभाशुभान्याचरन् हि तस्य तस्याश्नुते फलम् ॥६॥
युधिष्ठिर उवाच। त्वयाऽऽपगेय नामानि श्रुतानीह जगत्पतेः
।
पितामहेशाय विभो नामान्याचक्ष्व शंभवे ॥१॥
ब्रभ्रवे विश्वरूपाय महाभाग्यं च तत्त्वतः
।
सुरासुरगुरौ देवे शंकरेऽव्यक्तयोनये ॥२॥
भीष्म उवाच। अशक्तोऽहं गुणान्वक्तुं महादेवस्य धीमतः
।
यो हि सर्वगतो देवो न च सर्वत्र दृश्यते ॥३॥
ब्रह्मविष्णुसुरेशानां स्रष्टा च प्रभुरेव च
।
ब्रह्मादयः पिशाचान्ता यं हि देवा उपासते ॥४॥
प्रकृतीनां परत्वेन पुरुषस्य च यः परः
।
चिन्त्यते यो योगविद्भिरृषिभिस्तत्त्वदार्शभिः
।
अक्षरं परमं ब्रह्म असच्च सदसच्च यः ॥५॥
प्रकृतिं पुरुषं चैव क्षोभयित्वा स्वतेजसा
।
ब्रह्माणमसृजत्तस्माद्देवदेवः प्रजापतिः ॥६॥
को हि शक्तो गुणान्वक्तुं देवदेवस्य धीमतः
।
गर्भजन्मजरायुक्तो मर्त्यो मृत्युसमन्वितः ॥७॥
को हि शक्तो भवं ज्ञातुं मद्विधः परमेश्वरम्
।
ऋते नारायणात्पुत्र शंखचक्रगदाधरात् ॥८॥
एष विद्वान् गुणश्रेष्ठो विष्णुः परमदुर्जयः
।
दिव्यचक्षुर्महातेजा वीक्ष्यते योगचक्षुषा ॥९॥
रुद्रभक्त्या तु कृष्णेन जगद्व्याप्तं महात्मना
।
तं प्रसाद्य तदा देवं बदर्यां किल भारत ॥१०॥
अर्थात्प्रियतरत्वं च सर्वलोकेषु वै तदा
।
प्राप्तवानेव राजेन्द्र सुवर्णाक्षान्महेश्वरात् ॥११॥
पूर्णं वर्षसहस्रं तु तप्तवानेष माधवः
।
प्रसाद्य वरदं देवं चराचरगुरुं शिवम् ॥१२॥
युगे युगे तु कृष्णेन तोषितो वै महेश्वरः
।
भक्त्या परमया चैव प्रीतश्चैव महात्मनः॥१३॥
ऐश्वर्यं यादृशं तस्य जगद्योनेर्महात्मनः
।
तदयं दृष्टवान् साक्षात्पुत्रार्थे हरिरच्युतः ॥१४॥
यस्मात्परतरं चैव नान्यं पश्यामि भारत
।
व्याख्यातुं देवदेवस्य शक्तो नामान्यशेषतः ॥१५॥
एष शक्तो महाबाहुर्वक्तुं भगवतो गुणान्
।
विभूतिं चैव कार्त्स्न्येन सत्यां माहेश्वरीं नृप ॥१६॥
वैशम्पायन उवाच। एवमुक्त्वा तदा भीष्मो वासुदेवं महायशः
।
भवमाहात्म्यसंयुक्तमिदमाह पितामहः ॥१७॥
भीष्म उवाच। सुरासुरगुरो देव विष्णो त्वं वक्तुमर्हसि
।
शिवाय विष्णुरूपाय यन्मां पृच्छद्युधिष्ठिरः ॥१८॥
नाम्नां सहस्रं देवस्य तंडिना ब्रह्मयोनिना
।
निवेदितं ब्रह्मलोके ब्रह्मणो यत्पुराऽभवत् ॥१९॥
द्वैपायनप्रभृतयस्तथा चेमे तपोधनाः
।
ऋषयः सुव्रता दान्ताः शृण्वन्तु गदतस्तव ॥२०॥
ध्रुवाय नंदिने होत्रे गोप्त्रे विश्वसृजेऽग्नये
।
महाभाग्यं विभोर्ब्रूहि मुंडिनेऽथ कपर्दिने ॥२१॥
वासुदेव उवाच। न गतिः कर्मणां शक्या वेत्तुमीशस्य तत्त्वतः
।
हिरण्यगर्भप्रमुखा देवाः सेन्द्रा महर्षयः ॥२२॥
न विदुर्यस्य भवनमादित्याः सूक्ष्मदर्शिनः
।
स कथं नरमात्रेण शक्यो ज्ञातुं सतां गतिः ॥२३॥
तस्याहमसुरघ्नस्य कांश्चिद्भगवतो गुणान्
।
भवतां कीर्तयिष्यामि व्रतेशाय यथातथम् ॥२४॥
वैशम्पायन उवाच। एवमुक्त्वा तु भगवान् गुणांस्तस्य महात्मनः
।
उपस्पृश्य शुचिर्भूत्वा कथयामास धीमतः ॥२५॥
वासुदेव उवाच। शुश्रूषध्वं ब्राह्मणेन्द्रास्त्वं च तात युधिष्ठिर
।
त्वं चापगेय नामानि शृणुष्वेह कपर्दिने ॥२६॥
यदवाप्तं च मे पूर्वं सांबहेतोः सुदुष्करम्
।
यथावद्भगवान् दृष्टो मया पूर्वं समाधिना ॥२७॥
शंबरे निहते पूर्वं रौक्मिणेयेन धीमता
।
अतीते द्वादशे वर्षे जांबवत्यब्रवीद्धि माम् ॥२८॥
प्रद्युम्नचारुदेष्णादीन्रुक्मिण्या वीक्ष्य पुत्रकान्
।
पुत्रार्थिनी मामुपेत्य वाक्यमाह युधिष्ठिरः ॥२९॥
शूरं बलवतां श्रेष्ठं कान्तरूपमकल्मषम्
।
आत्मतुल्यं मम सुतं प्रयच्छाच्युत माचिरम् ॥३०॥
न हि तेऽप्राप्यमस्तीह त्रिषु लोकेषु किञ्चन
।
लोकान् सृजेस्त्वमपरानिच्छन्यदुकुलोद्वह ॥३१॥
त्वया द्वादशवर्षाणि व्रतीभूतेन शुष्यता
।
आराध्य पशुभर्तारं रुक्मिण्यां जनिताः सुताः ॥३२॥
चारुदेष्णः सुचारुश्च चारुवेशो यशोधरः
।
चारुश्रवाश्चारुयशाः प्रद्युम्नः शंभुरेव च ॥३३॥
यथा ते जनिताः पुत्रा रुक्मिण्यां चारुविक्रमाः
।
तथा ममापि तनयं प्रयच्छ मधुसूदन ॥३४॥
इत्येवं चोदितो देव्या तामवोचं सुमध्यमाम्
।
अनुजानीहि मां राज्ञि करिष्ये वचनं तव ॥३५॥
सा च मामब्रवीद्गच्छ शिवाय विजयाय च
।
ब्रह्मा शिवः काश्यपश्च नद्यो देवा मनोनुगाः ॥३६॥
क्षेत्रौषध्यो यज्ञवाहाश्छंदांस्यृषिगणाध्वराः
।
समुद्रा दक्षिणास्तोभा ऋक्षाणि पितरो ग्रहाः ॥३७॥
देवपत्न्यो देवकन्या देवमातर एव च
।
मन्वन्तराणि गावश्च चंद्रमाः सविता हरिः ॥३८॥
सावित्री ब्रह्मविद्या च ऋतवो वत्सरास्तथा
।
क्षणा लवा मुहूर्ताश्च निमेषा युगपर्ययाः ॥३९॥
रक्षन्तु सर्वत्र गतं त्वां यादव सुखाय च
।
अरिष्टं गच्छ पंथानमप्रमत्तो भवानघ ॥४०॥
एवं कृतस्वस्त्ययनस्तयाऽहं ततोऽभ्यनुज्ञाय नरेन्द्रपुत्रीम्
।
पितुः समीपं नरसत्तमस्य मातुश्च राज्ञश्च तथाऽऽहुकस्य ॥४१॥
गत्वा समावेद्य यदद्ब्रवीन्मां विद्याधरेन्द्रस्य सुता भृशार्ता
।
तानभ्यनुज्ञाय तदातिदुःखाद्गदं तथैवातिबलं च रामम्
।
अथोचतुः प्रीतियुतौ तदानीं तपःसमृद्धिर्भवतोस्त्वविघ्नम् ॥४२॥
प्राप्यानुज्ञां गुरुजनादहं तार्क्ष्यमचिन्तयम्
।
सोऽवहद्धिमवन्तं मां प्राप्य चैनं व्यसर्जयम् ॥४३॥
तत्राहमद्भुतान् भावानपश्यं गिरिसत्तमे
।
क्षेत्रं च तपसां श्रेष्ठं पश्याम्यद्भुतमुत्तमम् ॥४४॥
दिव्यं वैयाघ्रपद्यस्य उपमन्योर्महात्मनः
।
पूजितं देवगन्धर्वैर्ब्रह्म्या लक्ष्म्या समावृतम् ॥४५॥
धव-ककुभ-कदंब-नारिकेलैः कुरवक-केतक-जंबु-पाटलाभिः
।
वट-वरुणक-वत्सनाभ-बिल्वैः सरल-कपित्थ-प्रियाल-साल-तालैः ॥४६॥
बदरी-कुंद-पुन्नागैरशोकाम्रातिमुक्तकैः
।
मधूकैः कोविदारैश्च चंपकैः पनसैस्तथा ॥४७॥
वन्यैर्बहुविधैर्वृक्षैः फलपुष्पप्रदैर्युतम्
।
पुष्पगुल्मलताकीर्णं कदलीषंडशोऽभितम् ॥४८॥
नानाशकुनिसंभोज्यैः फलैर्वृक्षैरलंकृतम्
।
यथास्थानविनिक्षिप्तैर्भूषितं भस्मराशिभिः ॥४९॥
रुरु-वानर-शार्दूल-सिंह-द्वीपि-समाकुलम्
।
कुरङ्ग-बर्हिणाकीर्णं मार्जार-भुजगावृतम्
।
पूगैश्च मृगजातीनां महिषर्क्षनिषेवितम् ॥५०॥
सकृत्प्रभिन्नैश्च गजैर्विभूषितं प्रहृष्टनानाविधपक्षिसेवितम्
।
सुपुष्पितैरम्बुधरप्रकाशैर्महीरुहाणां च वनैर्विचित्रैः ॥५१॥
नानापुष्परजोमिश्रो गजदानाधिवासितः
।
दिव्यस्त्रीगीतबहुलो मारुतोऽभिमुखो ववौ ॥५२॥
धारानिनादैर्विहगप्रणादैः शुभैस्तथा बृंहितैः कुञ्जराणाम्
।
गीतैस्तथा किन्नराणामुदारैः शुभैः स्वनैः सामगानां च वीर ॥५३॥
अचिन्त्यं मनसाऽप्यन्यैः सरोभिः समलंकृतम्
।
विशालैश्चाग्निशरणैर्भूषितं कुसुमावृतैः ॥५४॥
विभूषितं पुण्यपवित्रतोयया सदा च जुष्टं नृप जह्नुकन्यया
।
विभूषितं धर्मभृतां वरिष्ठैर्महात्मभिर्वह्निसमानकल्पैः ॥५५॥
वाय्वाहारैरंबुपैर्जप्यनित्यैः संप्रक्षालैर्योगिभिर्ध्याननित्यैः
।
धूमप्राशैरूष्मपैः क्षीरपैश्च संजुष्टं च ब्राह्मणेन्द्रैः समन्तात् ॥५६॥
गोचारिणोऽथाश्मकुट्टा दन्तोलूखलिकास्तथा
।
मरीचिपाः फेनपाश्च तथैव मृगचारिणः ॥५७॥
अश्वत्थफलभक्षाश्च तथा ह्युदकशायिनः
।
चीरचर्माम्बरधरास्तथा वल्कलधारिणः ॥५८॥
सुदुःखान्नियमांस्तांस्तान्वहतः सुतपोधनान्
।
पश्यन् मुनीन्बहुविधान् प्रवेष्टुमुपचक्रमे ॥५९॥
सुपूजितं देवगणैर्महात्मभिः शिवादिभिर्भारत पुण्यकर्मभिः
।
रराज तच्चाश्रममण्डलं सदा दिवीव राजन् शशिमण्डलं यथा ॥६०॥
क्रीडन्ति सर्पैर्नकुला मृगैर्व्याघ्राश्च मित्रवत्
।
प्रभावाद्दीप्ततपसां सन्निकर्षान्महात्मनाम् ॥६१॥
तत्राश्रमपदे श्रेष्ठे सर्वभूतमनोरमे
।
सेविते द्विजशार्दूलैर्वेदवेदाङ्गपारगैः ॥६२॥
नानानियमविख्यातैर्ऋषिभिः सुमहात्मभिः
।
प्रविशन्नेव चापश्यं जटाचीरधरं प्रभुम् ॥६३॥
तेजसा तपसा चैव दीप्यमानं यथाऽनलम्
।
शिष्यैरनुगतं शान्तं युवानं ब्राह्मणर्षभम् ॥६४॥
शिरसा वन्दमानं मामुपमन्युरभाषत ॥३५॥
स्वागतं पुंडरीकाक्ष सफलानि तपांसि नः
।
यः पूज्यः पूजयसि मां द्रष्टव्यो द्रष्टुमिच्छसि ॥३६॥
तमहं प्राञ्जलिर्भूत्वा मृगपक्षिष्वथाग्निषु
।
धर्मे च शिष्यवर्गे च समपृच्छमनामयम् ॥६७॥
ततो मां भगवानाह साम्ना परमवल्गुना
।
लप्स्यसे तनयं कृष्ण आत्मतुल्यमसंशयम् ॥६८॥
तपः सुमहदास्थाय तोषयेशानमीश्वरम्
।
इह देवः सपत्नीकः समाक्रीडत्यधोक्षज ॥६९॥
इहैनं दैवतश्रेष्ठं देवाः सर्षिगणाः पुरा
।
तपसा ब्रह्मचर्येण सत्येन च दमेन च ॥७०॥
तोषयित्वा शुभान्कामान् प्राप्तवन्तो जनार्दन
।
तेजसां तपसां चैव निधिः स भगवानिह ॥७१॥
शुभाशुभान्वितान् भावान्विसृजन् संक्षिपन्नपि
।
आस्ते देव्या सदाचिन्त्यो यं प्रार्थयसि शत्रुहन् ॥७२॥
हिरण्यकशिपुर्योऽभूद्दानवो मरुकम्पनः
।
तेन सर्वामरैश्वर्यं शर्वात्प्राप्तं समार्बुदम् ॥७३॥
तस्यैव पुत्रप्रवरो मंदारो नाम विश्रुतः
।
महादेववराच्छक्रं वर्षार्बुदमयोधयत् ॥७४॥
विष्णोश्चक्रं च तद्धोरं वज्रमाखण्डलस्य च
।
शीर्णं पुराऽभवत्तात ग्रहस्याङ्गेषु केशव ॥७५॥
यत्तद्भगवता पूर्वं दत्तं चक्रं तवानघ
।
जलान्तरचरं हत्वा दैत्यं च बलगर्वितम् ॥७६॥
उत्पादितं वृषाङ्केन दीप्तज्वलनसन्निभम्
।
दत्तं भगवता तुभ्यं दुर्धर्षं तेजसाऽद्भुतम् ॥७७॥
न शक्यं द्रष्टुमन्येन वर्जयित्वा पिनाकिनम्
।
सुदर्शनं भवत्येवं भवेनोक्तं तदा तु तत् ॥७८॥
सुदर्शनं तदा तस्य लोके नाम प्रतिष्ठितम्
।
तज्जीर्णमभवत्तात ग्रहस्याङ्गेषु केशव ॥७९॥
ग्रहस्यातिबलस्याङ्गे वरदत्तस्य धीमतः
।
न शस्त्राणि वहन्त्यङ्गे चक्रवज्रशतान्यपि ॥८०॥
अर्धमानाश्च विबुधा ग्रहेण सुबलीयसा
।
शिवदत्तवरान् जघ्नुरसुरेन्द्रान् सुरा भृशम् ॥८१॥
तुष्टो विद्युत्प्रभस्यापि त्रिलोकेश्वरतां ददौ
।
शतं वर्षसहस्राणां सर्वलोकेश्वरोऽभवत् ॥८२॥
ममैवानुचरो नित्यं भवितासीति चाब्रवीत्
।
तथा पुत्रसहस्राणामयुतं च ददौ प्रभुः ॥८३॥
कुशद्वीपं च स ददौ राज्येन भगवानजः
।
तथा शतमुखो नाम धात्रा सृष्टो महासुरः ॥८४॥
येन वर्षशतं साग्रमात्ममांसैर्हुतोऽनलः
।
तं प्राह भगवांस्तुष्टः किं करोमीति शङ्करः ॥८५॥
तं वै शतमुखः प्राह योगो भवतु मेऽद्भुतः
।
बलं च दैवतश्रेष्ठ शाश्वतं संप्रयच्छ मे ॥८६॥
तथेति भगवानाह तस्य तद्वचनं प्रभुः
।
स्वायंभुवः क्रतुश्चापि पुत्रार्थमभवत्पुरा ॥८७॥
आविश्य योगेनात्मानं त्रीणि वर्षशतान्यपि
।
तस्य चोपददौ पुत्रान्सहस्रं क्रतुसंमितान् ॥८८॥
योगेश्वरं देवगतिं वेत्थ कृष्ण न संशयः
।
याज्ञवल्क्य इति ख्यात ऋषिः परमधार्मिकः ॥८९॥
आराध्य स महादेवं प्राप्तवानतुलं यशः
।
वेदव्यासश्च योगात्मा पराशरसुतो मुनिः ॥९०॥
सोऽपि शङ्करमाराध्य प्राप्तवानतुलं यशः
।
वालखिल्या मघवता ह्यवज्ञाताः पुरा किल ॥९१॥
तैः क्रुद्धैर्भगवान् रुद्रस्तपसा तोषितो ह्यभूत्
।
तांश्चापि दैवतश्रेष्ठः प्राह प्रीतो जगत्पतिः ॥९२॥
सुपर्णं सोमहर्तारं तपसोत्पादयिष्यथ
।
महादेवस्य रोषाच्च आपो नष्टाः पुराऽभवन् ॥९३॥
ताश्च सप्तकपालेन देवैरन्याः प्रवर्तिताः
।
ततः पानीयमभवत्प्रसन्ने त्र्यंबके भुवि ॥९४॥
अत्रेर्भार्याऽपि भर्तारं सन्त्यज्य ब्रह्मवादिनी
।
नाहं तस्य मुनेर्भूयो वशगा स्यां कथञ्चन ॥९५॥
इत्युक्त्वा सा महादेवमगच्छच्छरणं किल
।
निराहारा भयादत्रेस्त्रीणि वर्षशतान्यपि ॥९६॥
अशेत मुसलेष्वेव प्रसादार्थं भवस्य सा
।
तामब्रवीद्धसन्देवो भविता वै सुतस्तव ॥९७॥
विना भर्त्रा च रुद्रेण भविष्यति न संशयः
।
वंशे तवैव नाम्ना तु ख्यातिं यास्यति चेप्सिताम् ॥९८॥
विकर्णश्च महादेवं तथा भक्तसुखावहम्
।
प्रसाद्य भगवान् सिद्धिं प्राप्तवान्मधुसूदन ॥९९॥
शाकल्यः संशितात्मा वै नववर्षशतान्यपि
।
आराधयामास भवं मनोयज्ञेन केशव ॥१००॥
तं चाह भगवांस्तुष्टो ग्रन्थकारो भविष्यसि
।
वत्साक्षया च ते कीर्तिस्त्रैलोक्ये वै भविष्यति ॥१०१॥
अक्षयं च कुलं तेऽस्तु महर्षिभिरलङ्कृतम्
।
भविष्यति द्विजश्रेष्ठः सूत्रकर्ता सुतस्तव ॥१०२॥
सावर्णिश्चापि विख्यात ऋषिरासीत्कृते युगे
।
इह तेन तपस्तप्तं षष्टिवर्षशतान्यथ ॥१०३॥
तमाह भगवान् रुद्रः साक्षात्तुष्टोऽस्मि तेऽनघ
।
ग्रन्थकृल्लोकविख्यातो भविताऽस्यजरामरः ॥१०४॥
शक्रेण तु पुरा देवो वाराणस्यां जनार्दन
।
आराधितोऽभूद्भक्तेन दिग्वासा भस्मगुण्ठितः ॥१०५॥
आराध्य स महादेवं देवराजमवाप्तवान्
।
नारदेन तु भक्त्याऽसौ भव आराधितः पुरा ॥१०६॥
तस्य तुष्टो महादेवो जगौ देवगुरुर्गुरुः
।
तेजसा तपसा कीर्त्या त्वत्समो न भविष्यति ॥१०७॥
गीतेन वादितव्येन नित्यं मामनुयास्यसि
।
मयाऽपि च यथा दृष्टो देवदेवः पुरा विभो ॥१०८॥
साक्षात्पशुपतिस्तात तच्चापि शृणु माधव
।
यदर्थं च मया देवः प्रयतेन तथा विभो ॥१०९॥
प्रबोधितो महातेजास्तं चापि शृणु विस्तरम्
।
यदवाप्तं च मे पूर्वं देवदेवान्महेश्वरात् ॥११०॥
तत्सर्वं निखिलेनाद्य कथयिष्यामि तेऽनघ
।
पुरा कृतयुगे तात ऋषिरासीन्महायशाः ॥१११॥
व्याघ्रपाद इति ख्यातो वेदवेदाङ्गपारगः
।
तस्याहमभवं पुत्रो धौम्यश्चापि ममानुजः ॥११२॥
कस्यचित्त्वथ कालस्य धौम्येन सह माधव
।
आगच्छमाश्रमं क्रीडन्मुनीनां भावितात्मनाम् ॥११३॥
तत्रापि च मया दृष्टा दुह्यमाना पयस्विनी
।
लक्षितं च मया क्षीरं स्वादुतो ह्यमृतोपमम् ॥११४॥
ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तथा
।
क्षीरोदनसमायुक्तं भोजनं हि प्रयच्छ मे ॥११५॥
अभावाच्चैव दुग्धस्य दुःखिता जननी तदा
।
ततः पिष्टं समालोड्य तोयेन सह माधव ॥११६॥
आवयोः क्षीरमित्येव पानार्थं समुपानयत्
।
अथ गव्यं पयस्तात कदाचित्प्राशितं मया ॥११७॥
पित्राऽहं यज्ञकाले हि नीतो ज्ञातिकुलं महत्
।
तत्र सा क्षरते देवी दिव्या गौः सुरनन्दिनी ॥११८॥
तस्याहं तत्पयः पीत्वा रसेन ह्यमृतोपमम्
।
ज्ञात्वा क्षीरगुणांश्चैव उपलभ्य हि संभवम् ॥११९॥
स च पिष्टरसस्तात न मे प्रीतिमुपावहत्
।
ततोऽहमब्रुवं बाल्याज्जननीमात्मनस्तदा ॥१२०॥
नेदं क्षीरोदनं मातर्यत्त्वं मे दत्तवत्यसि
।
ततो मामब्रवीन्माता दुःखशोकसमन्विता ॥१२१॥
पुत्रस्नेहात्परिष्वज्य मूर्ध्नि चाघ्राय माधव
।
कुतः क्षीरोदनं वत्स मुनीनां भावितात्मनाम् ॥१२२॥
वने निवसतां नित्यं कन्दमूलफलाशिनाम्
।
आस्थितानां नदीं दिव्यां वालखिल्यैर्निषेविताम् ॥१२३॥
कुतः क्षीरं वनस्थानां मुनीनां गिरिवासिनाम्
।
पावनानां वनाशानां वनाश्रमनिवासिनाम् ॥१२४॥
ग्राम्याहारनिवृत्तानामारण्यफलभोजिनाम्
।
नास्ति पुत्र पयोऽरण्ये सुरभीगोत्रवर्जिते ॥१२५॥
नदीगह्वरशैलेषु तीर्थेषु विविधेषु च
।
तपसा जप्यनित्यानां शिवो नः परमा गतिः ॥१२६॥
अप्रसाद्य विरूपाक्षं वरदं स्थाणुमव्ययम्
।
कुतः क्षीरोदनं वत्स सुखानि वसनानि च ॥१२७॥
तं प्रपद्य सदा वत्स सर्वभावेन शङ्करम्
।
तत्प्रसादाच्च कामेभ्यः फलं प्राप्स्यसि पुत्रक ॥१२८॥
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन्
।
प्राञ्जलिः प्रणतो भूत्वा इदमम्बामचोदयम् ॥१२९॥
कोऽयमम्ब महादेवः स कथं च प्रसीदति
।
कुत्र वा वसते देवो द्रष्टव्यो वा कथञ्चन ॥१३०॥
तुष्यते वा कथं शर्वो रूपं तस्य च कीदृशम्
।
कथं ज्ञेयः प्रसन्नो वा दर्शयेज्जननि मम ॥१३१॥
एवमुक्ता तदा कृष्ण माता मे सुतवत्सला
।
मूर्धन्याघ्राय गोविन्द सबाष्पाकुललोचना ॥१३२॥
प्रमार्जन्ती च गात्राणि मम वै मधुसुदन
।
दैन्यमालम्ब्य जननी इदमाह सुरोत्तम ॥१३३॥
अम्बोवाच
।
दुर्विज्ञेयो महादेवो दुराधारो दुरन्तकः
।
दुराबाधश्च दुर्ग्राह्यो दुर्दृश्यो ह्यकृतात्मभिः ॥१३४॥
यस्य रूपाण्यनेकानि प्रवदन्ति मनीषिणः
।
स्थानानि च विचित्राणि प्रसादाश्चाप्यनेकशः ॥१३५॥
को हि तत्त्वेन तद्वेद ईशस्य चरितं शुभम्
।
कृतवान्यानि रूपाणि देवदेवः पुरा किल
।
क्रीडते च तथा शर्वः प्रसीदति यथा च वै ॥१३६॥
हृदिस्थः सर्वभूतानां विश्वरूपो महेश्वरः
।
भक्तानामनुकम्पार्थं दर्शनं च यथाश्रुतम् ॥१३७॥
मुनीनां ब्रुवतां दिव्यमीशानचरितं शुभम्
।
कृतवान्यानि रूपाणि कथितानि दिवौकसैः ॥१३८॥
अनुग्रहार्थं विप्राणां शृणु वत्स समासतः
।
तानि ते कीर्तयिष्यामि यन्मां त्वं परिपृच्छसि ॥१३९॥
अम्बोवाच
।
ब्रह्मविष्णुसुरेन्द्राणां रुद्रादित्याश्विनामपि
।
विश्वेषामपि देवानां वपुर्धारयते भवः ॥१४०॥
नराणां देवनारीणां तथा प्रेतपिशाचयोः
।
किरातशबराणां च जलजानामनेकशः ॥१४१॥
करोति भगवान् रूपमाटव्यशबराण्यपि
।
कूर्मो मत्स्यस्तथा शङ्खः प्रवालाङ्कुरभूषणः॥१४२॥
यक्षराक्षससर्पाणां दैत्यदानवयोरपि
।
वपुर्धारयते देवो भूयश्च बिलवासिनाम् ॥१४३॥
व्याघ्रसिंहमृगाणां च तरक्ष्वृक्षपतत्रिणाम्
।
उलूकश्वशृगालानां रूपाणि कुरुतेऽपि च ॥१४४॥
हंसकाकमयूराणां कृकलासकसारसाम्
।
रूपाणि च बलकानां गृध्रचक्रांगयोरपि ॥१४५॥
करोति वा स रूपाणि धारयत्यपि पर्वतम्
।
गोरूपं च महादेवो हस्त्यश्वोष्ट्रखराकृतिः ॥१४६॥
छागशार्दूलरूपश्च अनेकमृगरूपधृक्
।
अण्डजानां च दिव्यानां वपुर्धारयते भवः ॥१४७॥
दण्डी छत्री च कुण्डी च द्विजानां वारणस्तथा
।
षण्मुखो वै बहुमुखस्त्रिनेत्रो बहुशीर्षकः ॥१४८॥
अनेककटिपादश्च अनेकोदरवक्त्रधृक्
।
अनेकपाणिपार्श्वश्च अनेकगणसंवृतः ॥१४९॥
ऋषिगन्धर्वरूपश्च सिद्धचारणरूपधृक्
।
भस्मपाण्डुरगात्रश्च चन्द्रार्धकृतभूषणः ॥१५०॥
अनेकरावसंघुष्टश्चानेकस्तुतिसंस्कृतः
।
सर्वभूतान्तकः सर्वः सर्वलोकप्रतिष्ठितः ॥१५१॥
सर्वलोकान्तरात्मा च सर्वगः सर्ववाद्यपि
।
सर्वत्र भगवान् ज्ञेयो हृदिस्थः सर्वदेहिनाम् ॥१५२॥
यो हि यं कामयेत्कामं यस्मिन्नर्थेऽर्च्यते पुनः
।
तत्सर्वं वेत्ति देवेशस्तं प्रपद्य यदीच्छसि ॥१५३॥
नन्दते कुप्यते चापि तथा हुङ्कारयत्यपि
।
चक्री शूली गदापाणिर्मुसली खड्गपट्टिशी ॥१५४॥
भूधरो नागर्मौञ्जी च नागकुण्डलकुण्डली
।
नागयज्ञोपवीती च नागचर्मोत्तरच्छदः ॥१५५॥
हसते गायते चैव नृत्यते च मनोहरम्
।
वादयत्यपि वाद्यानि विचित्राणि गणैर्युतः ॥१५६॥
वल्गते जृम्भते चैव रुदते रोदयत्यपि
।
उन्मत्तमत्तरूपं च भाषते चापि सुस्वरः ॥१५७॥
अतीव हसते रौद्रस्त्रासयन्नयनैर्जनम्
।
जागर्ति चैव स्वपिति जृम्भते च यथासुखम् ॥१५८॥
जपते जप्यते चैव तपते तप्यते पुनः
।
ददाति प्रतिगृह्णाति युञ्जते ध्यायतेऽपि च ॥१५९॥
वेदीमध्ये तथा यूपे गोष्ठमध्ये हुताशने
।
दृश्यते दृश्यते चापि बालो वृद्धो युवा तथा ॥१६०॥
क्रीडते ऋषिकन्याभिर्ऋषिपत्नीभिरेव च
।
ऊर्ध्वकेशो महाशेफो नग्नो विकृतलोचनः ॥१६१॥
गौरः श्यामस्तथा कृष्णः पाण्डुरो धूमलोहितः
।
विकृताक्षो विशालाक्षो दिग्वासाः सर्ववासकः ॥१६२॥
अरूपस्याद्यरूपस्य अतिरूपाद्यरूपिणः
।
अनाद्यन्तमजस्यान्तं वेत्स्यते कोऽस्य तत्त्वतः ॥१६३॥
हृदि प्राणो मनो जीवो योगात्मा योगसंज्ञितः
।
ध्यानं तत्परमात्मा च भावग्राह्यो महेश्वरः ॥१६४॥
वादको गायनश्चैव सहस्रशतलोचनः
।
एकवक्त्रो द्विवक्त्रश्च त्रिवक्त्रोऽनेकवक्त्रकः ॥१६५॥
तद्भक्तस्तद्गतो नित्यं तन्निष्ठस्तत्परायणः
।
भज पुत्र महादेवं ततः प्राप्स्यसि चेप्सितम् ॥१६६॥
जनन्यास्तद्वचः श्रुत्वा तदाप्रभृति शत्रुहन्
।
मम भक्तिर्महादेवे नैष्ठिकी समपद्यत ॥१६७॥
ततोऽहं तप आस्थाय तोषयामास शङ्करम्
।
एकं वर्षसहस्रं तु वामाङ्गुष्ठाग्रविष्ठितः ॥१६८॥
एकं वर्षशतं चैव फलाहारस्ततोऽभवम्
।
द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः ॥१६९॥
शतानि सप्त चैवाहं वायुभक्षस्तदाऽभवम्
।
एकं वर्षसहस्रं तु दिव्यमाराधितो मया ॥१७०॥
ततस्तुष्टो महादेवः सर्वलोकेश्वरः प्रभुः
।
एकभक्त इति ज्ञात्वा जिज्ञासां कुरुते तदा ॥१७१॥
शक्ररूपं स कृत्वा तु सर्वैर्देवगणैर्वृतः
।
सहस्त्राक्षस्तदा भूत्वा वज्रपाणिर्महायशाः ॥१७२॥
सुधावदातं रक्ताक्षं स्तब्धकर्णं मदोत्कटम्
।
आवेष्टितकरं घोरं चतुर्दंष्ट्रं महागजम् ॥१७३॥
समास्थितः स भगवान् दीप्यमानः स्वतेजसा
।
आजगाम किरीटी तु हारकेयूरभूषितः ॥१७४॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि
।
सेव्यमानोऽप्सरोभिश्च दिव्यगन्धर्वनादितैः ॥१७५॥
ततो मामाह देवेन्द्रस्तुष्टस्तेऽहं द्विजोत्तम
।
वरं वृणीष्व मत्तस्त्वं यत्ते मनसि वर्तते ॥१७६॥
शक्रस्य तु वचः श्रुत्वा नाहं प्रीतमनाऽभवम्
।
अब्रुवंश्च तदा हृष्टो देवराजमिदं वचः ॥१७७॥
नाहं त्वत्तो वरं कांक्षे नान्यस्मादपि दैवतात्
।
महादेवादृते सौम्य सत्यमेतद्ब्रवीमि ते ॥१७८॥
सत्यं सत्यं हि नः शक्र वाक्यमेतत्सुनिश्चितम्
।
न यन्महेश्वरं मुक्त्वा कथाऽन्या मम रोचते ॥१७९॥
पशुपतिवचनाद्भवामि सद्यः कृमिरथवा तरुरप्यनेकशाखः
।
अपशुपतिवरप्रसादजा मे त्रिभुवनराज्यविभूतिरप्यनिष्टा ॥१८०॥
जन्म श्वपाकमध्येऽपि मेऽस्तु हरचरणवन्दनरतस्य
।
मा वाऽनीश्वरभक्तो भवानि भवनेऽपि शक्रस्य ॥१८१॥
वाय्वम्बुभुजोऽपि सतो नरस्थ दुःखक्षयः कुतस्तस्य
।
भवति हि सुरासुरगुरौ यस्य न विश्वेश्वरे भक्तिः ॥१८२॥
अलमन्याभिस्तेषां कथाभिरप्यन्यधर्मयुक्ताभिः
।
येषां न क्षणमपि रुचितो हरचरणस्मरणविच्छेदः ॥१८३॥
हरचरणनिरतमतिना भवितव्यमनार्जवं युगं प्राप्य
।
संसारभयं न भवति हरभक्तिरसायनं पीत्वा ॥१८४॥
दिवसं दिवसार्धं वा मुहूर्तं वा क्षणं लवम्
।
न ह्यलब्धप्रसादस्य भक्तिर्भवति शङ्करे ॥१८५॥
अपि कीटः पतङ्गो वा भवेयं शङ्कराज्ञया
।
न तु शक्र त्वया दत्तं त्रैलोक्यमपि कामये ॥१८६॥
श्वाऽपि महेश्वरवचनाद्भवामि स हि नः परः कामः
।
त्रिदशगणराज्यमपि खलु नेच्छाम्यमहेश्वराक्षप्तम् ॥१८७॥
न नाकपृष्ठं न च देवराज्यं न ब्रह्मलोकं न च निष्कलत्वम्
।
न सर्वकामानखिलान् वृणोमि हरस्य दासत्वमहं वृणोमि ॥१८८॥
यावच्छशाङ्कधवलामलबद्धमौलिर्न प्रीयते पशुपतिर्भगवान्ममेशः
।
तावज्जरामरणजन्मशताभिघातैर्दुःखानि देहविहितानि समुद्वहामि ॥१८९॥
दिवसकरशशाङ्कवह्निदीप्तं त्रिभुवनसारमसारमाद्यमेकम्
।
अजरममरमप्रसाद्य रुद्रं जगति पुमानिह को लभेत शान्तिम् ॥१९०॥
यदि नाम जन्म भूयो भवति मदीयैः पुनर्दोषैः
।
तस्मिंस्तस्मिन् जन्मनि भवे भवेन्मेऽक्षया भक्तिः ॥१९१॥
शक्र उवाच। कः पुनर्भवने हेतुरीशे कारणकारणे
।
येन शर्वादृतेन्यस्मात्प्रसादं नाभिकांक्षसि ॥१९२॥
उपमन्युरुवाच
।
सदसद्व्यक्तमव्यक्तं यमाहुर्ब्रह्मवादिनः
।
नित्यमेकमनेकं च वरं तस्माद्वृणीमहे ॥१९३॥
अनादिमध्यपर्यन्तं ज्ञानैश्वर्यमचिन्तितम्
।
आत्मानं परमं यस्माद्वरं तस्माद्वृणीमहे ॥१९४॥
ऐश्वर्यं सकलं यस्मादनुत्पादितमव्ययम्
।
अबीजाद्वीजसंभूतं वरं तस्माद्वृणीमहे ॥१९५॥
तमसः परमं ज्योतिस्तपस्तद्वृत्तिनां परम्
।
यं ज्ञात्वा नानुशोचन्ति वरं तस्माद्वृणीमहे॥१९६॥
भूतभावनभावज्ञं सर्वभूताभिभावनम्
।
सर्वगं सर्वदं देवं पूजयामि पुरन्दर ॥१९७॥
हेतुवादैर्विनिर्मुक्तं सांख्ययोगार्थदं परम्
।
यमुपासंति तत्त्वज्ञा वरं तस्माद्वृणीमहे ॥१९८॥
मघवन्मघवात्मानं यं वदन्ति सुरेश्वरम्
।
सर्वभूतगुरुं देवं वरं तस्माद्वृणीमहे ॥१९९॥
यत्पूर्वमसृजद्देवं ब्रह्माणं लोकभावनम्
।
अण्डमाकाशमापूर्य वरं तस्माद्वृणीमहे ॥२००॥
अग्निरापो निलः पृथ्वी खं बुद्धिश्च मनो महान्
।
स्रष्टा चैषां भवेद्योन्यो ब्रूहि कः परमेश्वरात् ॥२०१॥
मनो मतिरहंकारस्तन्मात्राणीन्द्रियाणि च
।
ब्रूहि चैषां भवेच्छक्र कोऽन्योऽस्ति परमं शिवात् ॥२०२॥
स्रष्टारं भुवनस्येह वदन्तीह पितामहम्
।
आराध्य स तु देवेशमश्नुते महतीं श्रियम्॥२०३॥
भगवत्युत्तमैश्वर्यं ब्रह्मविष्णुपुरोगमम्
।
विद्यते वै महादेवाद्ब्रूहि कः परमेश्वरात् ॥२०४॥
दैत्यदानवमुख्यानामाधिपत्यारिमर्दनात्
।
कोऽन्यः शक्नोति देवेशाद्दितेः संपादितुं सुतान् ॥२०५॥
दिक्कालसूर्यतेजांसि ग्रहवाय्विन्दुतारकाः
।
विद्धि त्वेते महादेवाद्ब्रूहि कः परमेश्वरात् ॥२०६॥
अथोत्पत्तिविनाशे वा यज्ञस्य त्रिपुरस्य वा
।
दैत्यदानवमुख्यानामाधिपत्यारिमर्दनः ॥२०७॥
किं चात्र बहुभिः सूक्तैर्हेतुवादैः पुरन्दर
।
सहस्रनयनं दृष्ट्वा त्वामेव सुरसत्तम ॥२०८॥
पूजितं सिद्धगन्धर्वैर्देवैश्च ऋषिभिस्तथा
।
देवदेवप्रसादेन तत्सर्वं कुशिकोत्तम ॥२०९॥
अव्यक्तमुक्तकेशाय सर्वगस्येदमात्मकम्
।
चेतनाचेतनाद्येषु शक्र विद्धि महेश्वरात् ॥२१०॥
भुवाद्येषु महान्तेषु लोकालोकान्तरेषु च
।
द्वीपस्थानेषु मेरोश्च विभवेष्वन्तरेषु च
।
भगवन्मघवन्देवं वदन्ते तत्त्वदर्शिनः ॥२११॥
यदि देवाः सुराः शक्र पश्यन्त्यन्यां भवाकृतिम्
।
किं न गच्छन्ति शरणं मर्दिताश्चासुरैः सुराः
।
अभिघातेषु देवानां सयक्षोरगरक्षसाम् ॥२१३॥
परस्परविनाशेषु स्वस्थानैश्वर्यदो भवः
।
अन्धकस्याथ शुक्रस्य दुन्दुभेर्महिषस्य च ॥२१४॥
यक्षेन्द्रबलरक्षःसु निवातकवचेषु च
।
वरदानावघाताय ब्रूहि कोऽन्यो महेश्वरात् ॥२१५॥
सुरासुरगुरोर्वक्त्रे कस्य रेतः पुरा हुतम्
।
कस्य वाऽन्यस्य रेतस्तद्येन हैमो गिरिः कृतः ॥२१६॥
दिग्वासाः कीर्त्यते कोऽन्यो लोके कश्चोर्ध्वरेतसः
।
कस्य चार्धे स्थिता कान्ता अनङ्गः केन निर्जितः ॥२१७॥
ब्रूहीन्द्र परमं स्थानं कस्य देवैः प्रशस्यते
।
श्मशाने कस्य क्रीडार्थं नृत्ते वा कोऽभिभाष्यते ॥२१८॥
कस्यैश्वर्यं समानं च भूतैः को वाऽपि क्रीडते
।
कस्य तुल्यबला देवगणाश्चैश्वर्यदर्पिताः ॥२१९॥
घुष्यते ह्यचलं स्थानं कस्य त्रैलोक्यपूजितम्
।
वर्षते तपते कोऽन्यो ज्वलते तेजसा च कः ॥२२०॥
कस्मादोषधिसंपत्तिः को वा धारयते वसु
।
प्रकामं क्रीडते को वा त्रैलोक्ये सचराचरे ॥२२१॥
ज्ञानसिद्धिक्रियायोगैः सेव्यमानश्च योगिभिः
।
ऋषिगन्धर्वसिद्धैश्च विहितं कारणं परम् ॥२२२॥
कर्मयज्ञक्रियायोगैः सेव्यमानः सुरासुरैः
।
नित्यं कर्मफलैर्हीनं तमहं कारणं वदे ॥२२३॥
स्थूलं सूक्ष्ममनौपम्यमग्राह्यं गुणगोचरम्
।
गुणहीनं गुणाध्यक्षं परं माहेश्वरं पदम् ॥२२४॥
विश्वेशं कारणगुरुं लोकालोकान्तकारणम्
।
भूताभूतभविष्यच्च जनकं सर्वकारणम् ॥२२५॥
अक्षराक्षरमव्यक्तं विद्याविद्ये कृताकृते
।
धर्माधर्मौ यतः शक्र तमहं कारणं ब्रुवे ॥२२६॥
प्रत्यक्षमिह देवेन्द्र पश्य लिङ्ग भगाङ्कितम्
।
देवदेवेन रुद्रेण सृष्टिसंहारहेतुना ॥२२७॥
मात्रा पूर्वं ममाख्यातं कारणं लोकलक्षणम्
।
नास्ति चेशात्परं शक्र तं प्रपद्य यदीच्छसि ॥२२८॥
प्रत्यक्षं ननु ते सुरेश विदितं संयोगलिङ्गोद्भवम्
।
त्रैलोक्यं सविकारनिर्गुणगणं ब्रह्मादिरेतोद्भवम् ॥ यद्ब्रह्मेन्द्रहुताशविष्णुसहिता देवाश्च दैत्येश्वरा
।
नान्यत्कामसहस्रकल्पितधियः शंसन्ति ईशात्परम् ॥ तं देवं सचराचरस्य जगतो व्याख्यातवेद्योत्तमम्
।
कामार्थी वरयामि संयतमना मोक्षाय सद्यः शिवम् ॥२२९॥
हेतुभिर्वा किमन्यैस्तैरीशः कारणकारणम्
।
न शुश्रुम यदन्यस्य लिङ्गमभ्यर्चितं सुरैः ॥२३०॥
कस्यान्यस्य सुरैः सर्वैर्लिङ्गं मुक्त्वा महेश्वरम्
।
अर्च्यतेऽर्चितपूर्वं वा ब्रूहि यद्यस्ति ते श्रुतिः ॥२३१॥
यस्य ब्रह्मा च विष्णुश्च त्वं चापि सह दैवतैः
।
अर्चयध्वं सदा लिङ्गं तस्माच्छ्रेष्ठतमो हि सः ॥२३२॥
न पद्मांका न चक्रांका न वज्रांका यतः प्रजाः
।
लिङ्गाङ्का च भगाङ्का च तस्मान्माहेश्वरी प्रजा ॥२३३॥
देव्याः कारणरूपभावजनिताः सर्वा भगाङ्काः स्त्रियो
।
लिङ्गेनापि हरस्य सर्वपुरुषाः प्रत्यक्षचिह्नीकृताः
।
योऽन्यत्कारणमीश्वरात् प्रवदते देव्या च यन्नाङ्कितम्
।
त्रैलोक्ये सचराचरे स तु पुमान् बाह्यो भवेद्दर्मतिः ॥२३४॥
पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं विद्धि चाप्युमाम्
।
द्वाभ्यां तनुभ्यां व्याप्तं हि चराचरमिदं जगत् ॥२३५॥
तस्माद्वरमहं कांक्षे निधनं वाऽपि कौशिक
।
गच्छ वा तिष्ठ वा शक्र यथेष्टं बलसूदन ॥२३६॥
काममेष वरो मेऽस्तु शापो वाऽथ महेश्वरात्
।
न चान्यां देवतां कांक्षे सर्वकामफलामपि ॥२३७॥
एवमुक्त्वा तु देवेन्द्रं दुःखादाकुलितेन्द्रियः
।
न प्रसीदति मे देवः किमेतदिति चिन्तयन् ॥२३८॥
अथापश्यं क्षणेनैव तमेवैरावतं पुनः
।
हंसकुन्देन्दुसदृशं मृणालरजतप्रभम् ॥२३९॥
वृषरूपधरं साक्षात् क्षीरोदमिव सागरम्
।
कृष्णपुच्छं महाकायं मधुपिङ्गललोचनम् ॥२४०॥
वज्रसारमयैः शृङ्गैर्निष्टप्तकनकप्रभैः
।
सुतीक्ष्णैर्मृदुरक्ताग्रैरुत्किरन्तमिवावनिम् ॥२४१॥
जाम्बूनदेन दाम्ना च सर्वतः समलङ्कृतम्
।
सुवक्त्रखुरनासं च सुकर्णं सुकटीतटम् ॥२४२॥
सुपार्श्वं विपुलस्कन्धं सुरूपं चारुदर्शनम्
।
ककुदं तस्य चाभाति स्कंधमापूर्य धिष्ठितम् ॥२४३॥
तुषारगिरिकूटाभं सिताभ्रशिखरोपमम्
।
तमास्थितश्च भगवान् देवदेवः सहोमया ॥२४४॥
अशोभत महादेवः पौर्णमास्यामिवोडुराट्
।
तस्य तेजोभवो वह्निः समेघः स्तनयित्नुमान् ॥२४५॥
सहस्रमिव सूर्याणां सर्वमापूर्य धिष्ठितः
।
ईश्वरः सुमहातेजाः संवर्तक इवानलः ॥२४६॥
युगान्ते सर्वभूतानां दिधक्षुरिव चोद्यतः
।
तेजसा तु तदा व्याप्तं दुर्निरीक्ष्यं समन्ततः ॥२४७॥
पुनरुद्विग्नहृदयः किमेतदिति चिन्तयम्
।
मुहूर्तमिव तत्तेजो व्याप्य सर्वा दिशो दश ॥२४८॥
प्रशान्तं दिक्षु सर्वासु देवदेवस्य मायया
।
अथापश्यं स्थितं स्थाणुं भगवन्तं महेश्वरम् ॥२४९॥
नीलकण्ठं महात्मानमसक्तं तेजसां निधिम्
।
अष्टादशभुजं स्थाणुं सर्वाभरणभूषितम् ॥२५०॥
शुक्लाम्बरधरं देवं शुक्लमाल्यानुलेपनम्
।
शुक्लध्वजमनाधृष्यं शुक्लयज्ञोपवीतिनम् ॥२५१॥
गायद्भिर्नृत्यमानैश्च वादयद्भिश्च सर्वशः
।
वृतं पार्श्वचरैर्दिव्यैरात्मतुल्यपराक्रमैः ॥२५२॥
बालेन्दुमुकुटं पाण्डुं शरच्चन्द्रमिवोदितम्
।
त्रिभिर्नेत्रैः कृतोद्योतं त्रिभिः सूर्यैरिवोदितैः ॥२५३॥
अशोभतास्य देवस्य माला गात्रे सितप्रभे
।
जातरूपमयैः पद्मैर्ग्रथिता रत्नभूषिता ॥२५४॥
मूर्तिमन्ति तथाऽस्त्राणि सर्वतेजोमयानि च
।
मया दृष्टानि गोविन्द भवस्यामिततेजसः ॥२५५॥
इन्द्रायुधसवर्णाभं धनु तस्य महात्मनः
।
पिनाकमिति विख्यातमभवत्पन्नगो महान् ॥२५६॥
सप्तशीर्षो महाकायस्तीक्ष्णदंष्ट्रो विषोल्बणः
।
ज्यावेष्टितमहाग्रीवः स्थितः पुरुषविग्रहः ॥२५७॥
शरश्च सूर्यसंकाशः कालानलसमद्युतिः
।
एतदस्त्रं महाघोरं दिव्यं पाशुपतं महत् ॥२५८॥
अद्वितीयमनिर्देश्यं सर्वभूतभयावहम्
।
सस्फुलिङ्गं महाकायं विसृजन्तमिवानलम् ॥२५९॥
एकपादं महादंष्ट्रं सहस्रशिरसोदरम्
।
सहस्रभुजजिह्वाक्षमुद्गिरन्तमिवानलम् ॥२६०॥
ब्राह्मान्नारायणाच्चैन्द्रादाग्नेयादपि वारुणात्
।
यद्विशिष्टं महाबाहो सर्वशस्त्रविघातनम् ॥२६१॥
येन तत्त्रिपुरं दग्ध्वा क्षणाद्भस्मीकृतं पुरा
।
शरेणैकेन गोविन्द महादेवेन लीलया ॥२६२॥
निर्दहेत च यत्कृत्स्नं त्रैलोक्यं सचराचरम्
।
महेश्वरभुजोत्सृष्टं निमेषार्धान्न संशयः ॥२६३॥
नावध्यो यस्य लोकेस्मिन् ब्रह्मविष्णुसुरेष्वपि
।
तदहं दृष्टवांस्तत्र आश्चर्यमिदमुत्तमम् ॥२६४॥
गुह्यमस्त्रवरं नान्यत्तत्तुल्यमधिकं हि वा
।
यत्तच्छूलमिति ख्यातं सर्वलोकेषु शूलिनः ॥२६५॥
दारयेद्यां महीं कृत्स्नां शोषयेद्वा महोदधिम्
।
संहरेद्वा जगत्कृत्स्नं विसृष्टं शूलपाणिना ॥२६६॥
यौवनाश्वो हतो येन मान्धाता सबलः पुरा
।
चक्रवर्ती महातेजास्त्रिलोकविजयी नृपः ॥२६७॥
महाबलो महावीर्यः शक्रतुल्यपराक्रमः
।
करस्थेनैव गोविन्द लवणस्येह रक्षसः ॥२६८॥
तच्छूलमतितीक्ष्णाग्रं सुभीमं लोमहर्षणम्
।
त्रिशिखां भ्रुकुटिं कृत्वा तर्जमानमिव स्थितम् ॥२६९॥
विधूमं सार्चिषं कृष्णं कालसूर्यमिवोदितम्
।
सर्पहस्तमनिर्देश्यं पाशहस्तमिवान्तकम् ॥२७०॥
दृष्टवानस्मि गोविन्द तदस्त्रं रुद्रसन्निधौ
।
परशुस्तीक्ष्णधारश्च दत्तो रामस्य यः पुरा ॥२७१॥
महादेवेन तुष्टेन क्षत्रियाणां क्षयंकरः
।
कार्तवीर्यो हतो येन चक्रवर्ती महामृधे ॥२७२॥
त्रिःसप्तकृत्वः पृथिवी येन निःक्षत्रिया कृता
।
जामदग्न्येन गोविन्द रामेणाक्लिष्टकर्मणा ॥२७३॥
दीप्तधारः सुरौद्रास्यः सर्पकण्ठाग्रधिष्ठितः
।
अभवच्छूलिनोऽभ्याशे दीप्तवह्निशतोपमः ॥२७४॥
असंख्येयानि चास्त्राणि तस्य दिव्यानि धीमतः
।
प्राधान्यतो मयैतानि कीर्तितानि तवानघ ॥२७५॥
सव्यदेशे तु देवस्य ब्रह्मा लोकपितामहः
।
दिव्यं विमानमास्थाय हंसयुक्तं मनोजवम् ॥२७६॥
वामपार्श्वगतश्चापि तथा नारायणः स्थितः
।
वैनतेयं समारुह्य शङ्खचक्रगदाधरः ॥२७७॥
स्कन्दो मयूरमास्थाय स्थितो देव्याः समीपतः
।
शक्तिघण्टे समादाय द्वितीय इव पावकः ॥२७८॥
पुरस्ताच्चैव देवस्य नन्दिं पश्याम्यवस्थितम्
।
शूलं विष्टभ्य तिष्ठन्तं द्वितीयमिव शङ्करम् ॥२७९॥
स्वायंभुवाद्या मनवो भृग्वाद्या ऋषयस्तथा
।
शक्राद्या देवताश्चैव सर्व एव समभ्ययुः ॥२८०॥
सर्वभूतगणाश्चैव मातरो विविधाः स्थिताः
।
तेऽभिवाद्य महात्मानं परिवार्य समंततः ॥२८१॥
अस्तुवन्विविधैः स्तोत्रैर्महादेवं सुरास्तदा
।
ब्रह्मा भवं तदाऽस्तौषीद्रथन्तरमुदीरयन् ॥२८२॥
ज्येष्ठसाम्ना च देवेशं जगौ नारायणस्तदा ॥२८३॥
गृणन्ब्रह्म परं शक्रः शतरुद्रियमुत्तमम्
।
ब्रह्मा नारायणश्चैव देवराजश्च कौशिकः ॥२८४॥
अशोभन्त महात्मानस्त्रयस्त्रय इवाग्नयः
।
तेषां मध्यगतो देवो रराज भगवाञ्छिवः ॥२८५॥
शरदभ्रविनिर्मुक्तः परिधिस्थ इवांशुमान्
।
अयुतानि च चन्द्रार्कानपश्यं दिवि केशव ॥२८६॥
ततोऽहमस्तुवं देवं विश्वस्य जगतः पतिम्
।
उपमन्युरुवाच
।
नमो देवाधिदेवाय महादेवाय ते नमः ॥२८७॥
शक्ररूपाय शक्राय शक्रवेषधराय च
।
नमस्ते वज्रहस्ताय पिङ्गलायारुणाय च ॥२८८॥
पिनाकपाणय नित्यं शङ्खशूलधराय च
।
नमस्ते कृष्णवासाय कृष्णकुञ्चितमूर्धजे ॥२८९॥
कृष्णाजिनोत्तरीयाय कृष्णाष्टमिरताय च
।
शुक्लवर्णाय शुक्लाय शुक्लाम्बरधराय च ॥२९०॥
शुक्लभस्मावलिप्ताय शुक्लकर्मरताय च
।
नमोऽस्तु रक्तवर्णाय रक्ताम्बरधराय च ॥२९१॥
रक्तध्वजपताकाय रक्तस्रगनुलेपिने
।
नमोऽस्तु पीतवर्णाय पीताम्बरधराय च ॥२९२॥
नमोऽस्तूच्छ्रितच्छत्राय किरीटवरधारिणे
।
अर्धहारार्धकेयूर अर्धकुण्डलकर्णिने ॥२९३॥
नमः पवनवेगाय नमो देवाय वै नमः
।
सुरेन्द्राय मुनीन्द्राय महेन्द्राय नमोऽस्तु ते ॥२९४॥
नमः पद्मार्थमालाय उत्पलैर्मिश्रिताय च
।
अर्धचन्दनलिप्ताय अर्धस्त्रगनुलेपिने ॥२९५॥
नम आदित्यवक्त्राय आदित्यनयनाय च
।
नम आदित्यवर्णाय आदित्यप्रतिमाय च ॥२९६॥
नमः सोमाय सौम्याय सौम्यवक्त्रधराय च
।
सौम्यरूपाय मुख्याय सौम्यदंष्ट्राविभूषिणे ॥२९७॥
नमः श्यामाय गौराय अर्धपीतार्धपाण्डवे
।
नारीनरशरीराय स्त्रीपुंसाय नमोऽस्तु ते ॥२९८॥
नमो वृषभवाहाय गजेन्द्रगमनाय च
।
दुर्गमाय नमस्तुभ्यमगम्यागमनाय च ॥२९९॥
नमोऽस्तु गणगीताय गणवृन्दरताय च
।
गणानुयातमार्गाय गणनित्यव्रताय च ॥३००॥
नमः श्वेताभ्रवर्णाय संध्यारागप्रभाय च
।
अनुद्दिष्टाभिधानाय स्वरूपाय नमोऽस्तु ते ॥३०१॥
नमो रक्ताग्रवासाय रक्तसूत्रधराय च
।
रक्तमालाविचित्राय रक्ताम्बरधराय च ॥३०२॥
मणिभूषितमूर्धाय नमश्चन्द्रार्धभूषिणे
।
विचित्रमणिमूर्धाय कुसुमाष्टधराय च ॥३०३॥
नमोऽग्निमुखनेत्राय सहस्रशशिलोचने
।
अग्निरूपाय कान्ताय नमोऽस्तु गहनाय च ॥३०४॥
खचराय नमस्तुभ्यं गोचराभिरताय च
।
भूचराय भुवनाय अनन्ताय शिवाय च ॥३०५॥
नमो दिग्वाससे नित्यमधिवाससुवाससे
।
नमो जगन्निवासाय प्रतिपत्तिसुखाय च ॥३०६॥
नित्यमुद्बद्धमुकुटे महाकेयूरधारिणे
।
सर्पकंठोपहाराय विचित्राभरणाय च ॥३०७॥
नमस्त्रिनेत्रनेत्राय सहस्रशतलोचने
।
स्त्रीपुंसाय नपुंसाय नमः सांख्याय योगिने ॥३०८॥
शंयोरभिस्रवन्ताय अथर्वाय नमो नमः
।
नमः सर्वार्तिनाशाय नमः शोकहराय च ॥३०९॥
नमो मेघनिनादाय बहुमायाधराय च
।
बीजक्षेत्राभिपालाय स्रष्ट्राराय नमो नमः ॥३१०॥
नमः सुरासुरेशाय विश्वेशाय नमो नमः
।
नमः पवनवेगाय नमः पचनरूपिणे ॥३११॥
नमः काञ्चनमालाय गिरिमालाय वै नमः
।
नमः सुरारिमालाय चण्डवेगाय वै नमः ॥३१२॥
ब्रह्मशिरोपहर्ताय महिषघ्नाय वै नमः
।
नमः स्त्रीरूपधाराय यज्ञविध्वंसनाय च ॥३१३॥
नमस्त्रिपुरहर्ताय यज्ञविध्वंसनाय च
।
नमः कामाङ्गनाशाय कालदण्डधराय च ॥३१४॥
नमस्कन्दविशाखाय ब्रह्मदण्डाय वै नमः
।
नमो भवाय शर्वाय विश्वरूपाय वै नमः ॥३१५॥
ईशानाय भवघ्नाय नमोऽस्त्वन्धकघातिने
।
नमो विश्वाय मायाय चिन्त्याचिन्त्याय वै नमः ॥३१६॥
त्वं नो गतिश्च श्रेष्ठश्च त्वमेव हृदयं तथा
।
त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः ॥३१७॥
आत्मा च सर्वभूतानां सांख्ये पुरुष उच्यते
।
ऋषभस्त्वं पवित्राणां योगिनां निष्कलः शिवः ॥३१८॥
गृहस्थस्त्वमाश्रमिणामीश्वराणां महेश्वरः
।
कुबेरः सर्वयक्षाणां क्रतूनां विष्णुरुच्यते ॥३१९॥
पर्वतानां भवान्मेरुर्नक्षत्राणां च चन्द्रमाः
।
वसिष्ठस्त्वमृषीणां च ग्रहाणां सूर्य उच्यते ॥३२०॥
आरण्यानां पशूनां च सिंहस्त्वं परमेश्वरः
।
ग्राम्याणां गोवृषश्चासि भवाँल्लोकप्रपूजितः ॥३२१॥
आदित्यानां भवान्विष्णुर्वसूनां चैव पावकः
।
पक्षिणां वैनतेयस्त्वमनन्तो भुजगेषु च ॥३२२॥
सामवेदश्च वेदानां यजुषां शतरुद्रियम्
।
सनत्कुमारो योगानां सांख्यानां कपिलो ह्यसि ॥३२३॥
शक्रोऽसि मरुतां देव पितॄणां हव्यवाडसि
।
ब्रह्मलोकश्च लोकानां गतीनां मोक्ष उच्यसे ॥३२४॥
क्षीरोदःसागराणां च शैलानां हिमवान्गिरिः
।
वर्णानां ब्राह्मणश्चासि विप्राणां दीक्षितो द्विजः ॥३२५॥
आदिस्त्वमसि लोकानां संहर्ता काल एव च
।
यच्चान्यदपि लोके वै सर्वतेजोधिकं स्मृतम् ॥३२६॥
तत्सर्वं भगवानेव इति मे निश्चिता मतिः
।
नमस्ते भगवन् देव नमस्ते भक्तवत्सल ॥३२७॥
योगेश्वर नमस्तेऽस्तु नमस्ते विश्वसंभव
।
प्रसीद मम भक्तस्य दीनस्य कृपणस्य च ॥३२८॥
अनैश्वर्येण युक्तस्य गतिर्भव सनातन
।
यच्चापराधं कृतवानज्ञात्वा परमेश्वर ॥३२९॥
मद्भक्त इति देवेश तत्सर्वं क्षन्तुमर्हसि
।
मोहितश्चास्मि देवेश त्वया रूपविपर्ययात् ॥३३०॥
नार्घ्यं ते न मया दत्तं पाद्यं चापि महेश्वर
।
एवं स्तुत्वाऽहमीशानं पाद्यमर्घ्यं च भक्तितः ॥३३१॥
कृताञ्जलिपुटो भूत्वा सर्वं तस्मै न्यवेदयम्
।
ततः शीतांबुसंयुक्ता दिव्यगन्धसमन्विता ॥३३२॥
पुष्पवृष्टिः शुभा तात पपात मम मूर्धनि
।
दुन्दुभिश्च तदा दिव्यस्ताडितो देवकिङ्करैः
।
ववौ च मारुतः पुण्यः शुचिगन्धः सुखावहः ॥३३३॥
ततः प्रीतो महादेवः सपत्नीको वृषध्वजः
।
अब्रवीत्त्रिदशांस्तत्र हर्षयन्निव मां तदा ॥३३४॥
पश्यध्वं त्रिदशाः सर्वे उपमन्योर्महात्मनः
।
मयि भक्तिं परां नित्यमेकभावादवस्थिताम् ॥३३५॥
एवमुक्तास्तदा कृष्ण सुरास्ते शूलपाणिना
।
ऊचुः प्राञ्जलयः सर्वे नमस्कृत्वा वृषध्वजम् ॥३३६॥
भगवन् देवदेवेश लोकनाथ जगत्पते
।
लभतां सर्वकामेभ्यः फलं त्वत्तो द्विजोत्तमः ॥३३७॥
एवमुक्तस्ततः शर्वः सुरैर्ब्रह्मादिभिस्तथा
।
आह मां भगवानीशः प्रहसन्निव शङ्करः ॥३३८॥
भगवानुवाच
।
वत्सोपमन्यो तुष्टाऽस्मि पश्य मां मुनिपुङ्गव
।
दृढभक्तोऽसि विप्रर्षे मया जिज्ञासितो ह्यसि ॥३३९॥
अनया चैव भक्त्या ते अत्यर्थं प्रीतिमानहम्
।
तस्मात्सर्वान् ददाम्यद्य कामांस्तव यथेप्सितान् ॥३४०॥
एवमुक्तस्य चैवाथ महादेवेन धीमता
।
हर्षादश्रूण्यवर्तन्त रोमहर्षस्त्वजायत ॥३४१॥
अब्रुवं च तदा देवं हर्षगद्गदया गिरा
।
जानुभ्यामवनीं गत्वा प्रणम्य च पुनः पुनः ॥३४२॥
अद्य जातो ह्यह देव सफलं जन्म चाद्य मे
।
सुरासुरगुरुर्देवो यत्तिष्ठति ममाग्रतः ॥३४३॥
यं न पश्यन्ति चैवाद्धा देवा ह्यमितविक्रमम्
।
तमहं दृष्टवान् देवं कोऽन्यो धन्यतरो मया ॥३४४॥
एवं ध्यायन्ति विद्वांसः परं तत्त्वं सनातनम्
।
तद्विशेषमिति ख्यातं यदजं ज्ञानमक्षरम् ॥३४५॥
स एष भगवान् देवः सर्वसत्त्वादिरव्ययः
।
सर्वतत्त्वविधानज्ञः प्रधानपुरुषः परः ॥३४६॥
योऽसृजद्दक्षिणादङ्गाद्ब्रह्माणं लोकसंभवम्
।
वामपार्श्वात्तथा विष्णुं लोकरक्षार्थमीश्वरः ॥३४७॥
युगान्ते चैव संप्राप्ते रुद्रमीशोऽसृजत्प्रभुः
।
स रुद्रः संहरन् कृत्स्नं जगत्स्थावरजङ्गमम् ॥३४८॥
कालो भूत्वा महातेजाः संवर्तक इवानलः
।
युगान्ते सर्वभूतानि ग्रसन्निव व्यवस्थितः ॥३४९॥
एष देवो महादेवो जगत्सृष्ट्वा चराचरम्
।
कल्पान्ते चैव सर्वेषां स्मृतिमाक्षिप्य तिष्ठति ॥३५०॥
सर्वगः सर्वभूतात्मा सर्वभूतभवोद्भवः
।
आस्ते सर्वगतो नित्यमदृश्यः सर्वदैवतैः ॥३५१॥
यदि देयो वरो मह्यं यदि तुष्टोऽसि मे प्रभो
।
भक्तिर्भवतु मे नित्यं त्वयि देव सुरेश्वर ॥३५२॥
अतीतानागतं चैव वर्तमानं च यद्विभो
।
जानीयामिति मे बुद्धिः प्रसादात्सुरसत्तम ॥३५३॥
क्षीरोदनं च भुञ्जीयामक्षयं सह बान्धवैः
।
आश्रमे च सदाऽस्माकं सान्निध्यं परमस्तु ते ॥३५४॥
एवमुक्तः स मां प्राह भगवाल्लोঁकपूजितः
।
महेश्वरो महातेजाश्चराचरगुरुः शिवः ॥३५५॥
श्रीभगवानुवाच
।
अजरश्चामरश्चैव भव त्वं दुःखवर्जितः
।
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥३५६॥
ऋषीणामभिगम्यश्च मत्प्रसादाद्भविष्यसि
।
शीलवान् गुणसंपन्नः सर्वज्ञः प्रियदर्शनः ॥३५७॥
अक्षयं यौवनं तेऽस्तु तेजश्चैवानलोपमम्
।
क्षीरोदः सागरश्चैव यत्र यत्रेच्छसि प्रियम् ॥३५८॥
तत्र ते भविता कामं सान्निध्यं पयसो निधेः
।
क्षीरोदनं च भुङ्क्ष्व त्वममृतेन समन्वितम् ॥३५९॥
बन्धुभिः सहितः कल्पं ततो मामुपयास्यसि
।
अक्षया बान्धवाश्चैव कुलं गोत्रं च ते सदा ॥३६०॥
भविष्यति द्विजश्रेष्ठ मयि भक्तिश्च शाश्वती
।
सान्निध्यं चाश्रमे नित्यं करिष्यामि द्विजोत्तम ॥३६१॥
तिष्ठ वत्स यथाकामं नोत्कण्ठां च करिष्यसि
।
स्मृतस्त्वया पुनर्विप्र करिष्यामि च दर्शनम् ॥३६२॥
एवमुक्त्वा स भगवान् सूर्यकोटिसमप्रभः
।
ईशानः स वरान् दत्वा तत्रैवान्तरधीयत ॥३६३॥
एवं दृष्टो मया कृष्ण देवदेवः समाधिना
।
तदवाप्तं च मे सर्वं यदुक्तं तेन धीमता ॥३६४॥
प्रत्यक्षं चैव ते कृष्ण पश्य सिद्धान्व्यवस्थितान्
।
ऋषीन् विद्याधरान्यक्षान् गन्धर्वाप्सरसस्तथा ॥३६५॥
पश्य वृक्षलतागुल्मान् सर्वपुष्पफलप्रदान्
।
सर्वर्तुकुसुमैर्युक्तान्सुखपत्रान् सुगन्धिनः ॥३६६॥
सर्वमेतन्महाबाहो दिव्यभावसमन्वितम्
।
प्रसादाद्देवदेवस्य ईश्वरस्य महात्मनः ॥३६७॥
वासुदेव उवाच। एतच्छ्रुत्वा वचस्तस्य प्रत्यक्षमिव दर्शनम्
।
विस्मयं परमं गत्वा अध्रुवं तं महामुनिम् ॥३६८॥
धन्यस्त्वमसिविप्रेन्द्र कस्त्वदन्योऽस्ति पुण्यकृत्
।
यस्य देवाधिदेवस्ते सान्निध्यं कुरुतेऽऽश्रमे ॥३६८॥
अपि तावन्ममाप्येवं दद्यात्स भगवाञ्छिवः
।
दर्शनं मुनिशार्दूल प्रसादं चापि शंकरः ॥३७०॥
उपमन्युरुवाच
।
द्रक्ष्यसे पुण्डरीकाक्ष महादेवं न संशयः
।
अचिरेणैव कालेन यथा दृष्टो मयाऽनघ ॥३७१॥
चक्षुषा चैव दिव्येन पश्याम्यमितविक्रमम्
।
षष्ठे मासि महादेवं द्रक्ष्यसे पुरुषोत्तम ॥३७२॥
षोडशाष्टौ वरांश्चापि प्राप्स्यसि त्वं महेश्वरात्
।
सपत्नीकाद्यदुश्रेष्ठ सत्यमेतद्ब्रवीमि ते ॥३७३॥
अतीतानागतं चैव वर्तमानं च नित्यशः
।
विदितं मे महाबाहो प्रसादात्तस्य धीमतः ॥३७४॥
एतान्सहस्रशश्चान्यान्समनुध्यातवान्हरः
।
कस्मात्प्रसादं भगवान्न कुर्यात्तव माधव ॥३७५॥
त्वादृशेन हि देवानां श्लाघनीयः समागमः
।
ब्रह्मण्येनानृशंसेन श्रद्दधानेन चाप्युत ॥३७६॥
जप्यं तु ते प्रदास्यामि येन द्रक्ष्यसि शङ्करम्
।
श्रीकृष्ण उवाच
।
अब्रुवं तमहं ब्रह्मन् त्वत्प्रसादान्महामुने ॥३७७॥
द्रक्ष्ये दितिजसंघानां मर्दनं त्रिदशेश्वरम्
।
एवं कथयतस्तस्य महादेवाश्रितां कथाम् ॥३७८॥
दिनान्यष्टौ ततो जग्मुर्मुहूर्तमिव भारत
।
दिनेऽष्टमे तु विप्रेण दीक्षितोऽहं यथाविधि ॥३७९॥
दण्डी मुण्डी कुशी चीरी घृताक्तो मेखली कृतः
।
मासमेकं फलाहारो द्वितीयं सलिलाशनः ॥३८०॥
तृतीयं च चतुर्थं च पञ्चमं चानिलाशनः
।
एकपादेन तिष्ठंश्च ऊर्ध्वबाहुरतन्द्रितः ॥३८१॥
तेजः सूर्यसहस्रस्य अपश्यं दिवि भारत
।
तस्य मध्यगतं चापि तेजसः पाण्डुनन्दन ॥३८२॥
इन्द्रायुधपिनद्धाङ्गं विद्युन्मालागवाक्षकम्
।
नीलशैलचयप्रख्यं बलाकाभूषिताम्बरम् ॥३८३॥
तत्र स्थितश्च भगवान् देव्या सह महाद्युतिः
।
तपसा तेजसा कान्त्या दीप्तया सह भार्यया ॥३८४॥
रराज भगवांस्तत्र देव्या सह महेश्वरः
।
सोमेन सहितः सूर्यो यथा मेघस्थितस्तथा ॥३८५॥
संहृष्टरोमा कौन्तेय विस्मयोत्फुल्ललोचनः
।
अपश्यं देवसंघानां गतिमार्तिहरं हरम् ॥३८६॥
किरीटिनं गदिनं शूलपाणिं व्याघ्राजिनं जटिलं दण्डपाणिम्
।
पिनाकिनं वज्रिणं तीक्ष्णदंष्ट्रं शुभाङ्गदं व्यालयज्ञोपवीतम् ॥३८७॥
दिव्यां मालासुरसाऽनेकवर्णां समुद्वहन्तं गुल्फदेशावलम्बाम्
।
चन्द्रं यथा परिविष्टं ससन्ध्यं वर्षात्यये तद्वदपश्यमेनम् ॥३८८॥
प्रमथानां गणैश्चैव समन्तात्परिवारितम्
।
शरदीव सुदुष्प्रेक्ष्यं परिविष्टं दिवाकरम् ॥३८९॥
एकादशशतान्येवं रुद्राणां वृषवाहनम्
।
अस्तुवं नियतात्मानं कर्मभिः शुभकर्मिणम् ॥३९०॥
आदित्या वसवः साध्या विश्वेदेवास्तथाऽश्विनौ
।
विश्वाभिस्तुतिभिर्देवं विश्वदेवं समस्तुवम् ॥३९१॥
शतक्रतुश्च भगवान् विष्णुश्चादितिनन्दनौ
।
ब्रह्मा रथन्तरं साम ईरयन्ति भवान्तिके ॥३९२॥
योगीश्वराः सुबहवो योगदं पितरं गुरुम्
।
ब्रह्मर्षयश्च ससुतास्तथा देवर्षयश्च वै ॥३९३॥
पृथिवी चान्तरिक्षं च नक्षत्राणि ग्रहास्तथा
।
मासार्धमासा ऋतवो रात्रिः संवत्सराः क्षणाः ॥३९४॥
मुहूर्ताश्च निमेषाश्च तथैव युगपर्ययाः
।
दिव्या राजन्नमस्यन्ति विद्याः सत्त्वविदस्तथा ॥३९५॥
सनत्कुमारो देवाश्च इतिहासास्तथैव च
।
मरीचिरङ्गिरा अत्रिः पुलस्त्यः पुलहः क्रतुः ॥३९६॥
मनवः सप्त सोमश्च अथर्वा सबृहस्पतिः
।
भृगुर्दक्षः कश्यपश्च वसिष्ठः काश्य एव च ॥३९७॥
छन्दांसि दीक्षा यज्ञाश्च दक्षिणाः पावको हविः
।
यज्ञोपगानि द्रव्याणि मूर्तिमन्ति युधिष्ठिर ॥३९८॥
प्रजानां पालकाः सर्वे सरितः पन्नगा नगाः
।
देवानां मातरः सर्वा देवपत्न्यः सकन्यकाः ॥३९९॥
सहस्राणि मुनीनां च अयुतान्यर्बुदानि च
।
नमस्यन्ति प्रभुं शान्तं पर्वताः सागरा दिशः ॥४००॥
गन्धर्वाप्सरसश्चैव गीतवादित्रकोविदाः
।
दिव्यतालेषु गायन्तः स्तुवन्ति भवमद्भुतम् ॥४०१॥
विद्याधरा दानवाश्च गुह्यका राक्षसास्तथा
।
सर्वाणि चैव भूतानि स्थावराणि चराणि च
।
नमस्यन्ति महाराज वाङ्मनःकर्मभिर्विभुम् ॥४०२॥
पुरस्ताद्धिष्ठितः शर्वो ममासीत्त्रिदशेश्वरः
।
पुरस्ताद्धिष्ठितं दृष्ट्वा ममेशानं च भारत ॥४०३॥
सप्रजापतिशक्रान्तं जगन्मामभ्युदैक्षत
।
ईक्षितुं च महादेवं न मे शक्तिरभूत्तदा ॥४०४॥
ततो मामब्रवीद्देवः पश्य कृष्ण वदस्व च
।
त्वया ह्याराधितश्चाहं शतशोऽथ सहस्रशः ॥४०५॥
त्वत्समो नास्ति मे कश्चित्त्रिषु लोकेषु वै प्रियः
।
शिरसा वन्दिते देवे देवी प्रीता ह्युमा तदा
।
ततोऽहमब्रुवं स्थाणुं स्तुतं ब्रह्मादिभिः सुरैः ॥४०६॥
कृष्ण उवाच
।
नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति
।
तपश्च सत्त्वं च रजस्तमश्च त्वामेव सत्यं च वदन्ति सन्तः ॥४०७॥
त्वं वै ब्रह्मा च रुद्रश्च वरुणोऽग्निर्मनुर्भवः
।
धाता त्वष्टा विधाता च त्वं प्रभुः सर्वतोमुखः ॥४०८॥
त्वत्तो जातानि भूतानि स्थावराणि चराणि च
।
त्वया सृष्टमिदं कृत्स्नं त्रैलोक्यं सचराचरम् ॥४०९॥
यानीन्द्रियाणीह मनश्च कृत्स्नं ये वायवः सप्त तथैव चाग्नयः
।
य देवसंस्थास्तवदेवताश्च तस्मात्परं त्वामृषयो वदन्ति ॥४१०॥
वेदाश्च यज्ञाः सोमश्च दक्षिणा पावको हविः
।
यज्ञोपगं च यत्किञ्चिद्भगवांस्तदसंशयम् ॥४११॥
इष्टं दत्तमधीतं च व्रतानि नियमाश्च ये
।
ह्रीः कीर्तिः श्रीर्द्युतिस्तुष्टिः सिद्धिश्चैव तदर्पणी ॥४१२॥
कामः क्रोधो भयं लोभो मदः स्तम्भोऽथ मत्सरः
।
आधयो व्याधयश्चैव भगवंस्तनवस्तव ॥४१३॥
कृतिर्विकारः प्रणयः प्रधानं बीजमव्ययम्
।
मनसः परमा योनिः प्रभावश्चापि शाश्वतः ॥४१४॥
अव्यक्तः पावनोऽचिन्त्यः सहस्त्रांशुर्हिरण्मयः
।
आदिर्गणानां सर्वेषां भवान्वै जीविताश्रयः ॥४१५॥
महानात्मा मतिर्ब्रह्मा विश्वः शम्भुः स्वयंभुवः
।
बुद्धिः प्रज्ञोपलब्धिश्च संवित्ख्यातिर्धृतिः स्मृतिः ॥४१६॥
पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते
।
त्वां बुद्ध्वा ब्राह्मणो वेदात्प्रमोहं विनियच्छति ॥४१७॥
हृदयं सर्वभूतानां क्षेत्रज्ञस्त्वमृषिस्तुतः
।
सर्वतः पाणिपादस्त्वं सर्वतोक्षिशिरोमुखः ॥४१८॥
सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठसि
।
फलं त्वमसि तिग्मांशोर्निमेषादिषु कर्मसु ॥४१९॥
त्वं वै प्रभार्चिः पुरुषः सर्वस्य हृदि संश्रितः
।
अणिमा महिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥४२०॥
त्वयि बुद्धिर्मतिर्लोकाः प्रपन्नाः संश्रिताश्च ये
।
ध्यानिनो नित्ययोगाश्च सत्यसत्त्वा जितेन्द्रियाः ॥४२१॥
यस्त्वां ध्रुवं वेदयते गुहाशयं प्रभुं पुराणं पुरुषं च विग्रहम्
।
हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति ॥४२२॥
विदित्वा सप्त सूक्ष्माणि षडङ्गं त्वां च मूर्तितः
।
प्रधानविधियोगस्थस्त्वामेव विशते बुधः ॥४२३॥
एवमुक्ते मया पार्थ भवे चार्तिविनाशने
।
चराचरं जगत्सर्वं सिंहनादं तदाऽकरोत् ॥४२४॥
तं विप्रसंघाश्च सुरासुराश्च नागाः पिशाचाः पितरो वयांसि
।
रक्षोगणा भूतगणाश्च सर्वे महर्षयश्चैव तदा प्रणेमुः ॥४२५॥
मम मूर्ध्नि च दिव्यानां कुसुमानां सुगन्धिनाम्
।
राशयो निपतन्ति स्म वायुश्च सुसुखो ववौ ॥४२६॥
निरीक्ष्य भगवान् देवीं ह्युमां मां च जगद्धितः
।
शतक्रतुं चाभिवीक्ष्य स्वयं मामाह शङ्करः ॥४२७॥
विदुः कृष्ण परां भक्तिमस्मासु तव शत्रुहन्
।
क्रियतामात्मनः श्रेयः प्रीतिर्हि त्वाय मे परा ॥४२८॥
वृणीष्वाष्टौ वरान् कृष्ण दाताऽस्मि तव सत्तम
।
ब्रूहि यादवशार्दूल यानिच्छसि सुदुर्लभान् ॥४२९॥
कृष्ण उवाच
।
मूर्ध्ना निपत्य नियतस्तेजः सन्निचये ततः
।
परमं हर्षमागत्य भगवन्तमथाब्रुवम् ॥१॥
धर्मे दृढत्वं युधि शत्रुघातं यशस्तथाऽग्र्यं परमं बलं च
।
योगप्रियत्वं तव सन्निर्षं वृणे सुतानां च शतं शतानि ॥२॥
एवमस्त्विति तद्वाक्यं मयोक्तः प्राह शङ्करः
।
ततो मां जगतो माता धारिणी सर्वपावनी ॥३॥
उवाचोमा प्रणिहिता शर्वाणी तपसां निधिः
।
दत्तो भगवता पुत्रः साम्बो नाम तवानघ ॥४॥
मत्तोप्यष्टौ वरानिष्टान् गृहाण त्वं ददामि ते
।
प्रणम्य शिरसा सा च मयोक्ता पाण्डुनन्दन ॥५॥
द्विजेषवकोपं पितृतः प्रसादं शतं सुतानां परमं च भोगम्
।
कुले प्रीतिं मातृतश्च प्रसादं शमप्राप्तिं प्रवृणे चापि दाक्ष्यम् ॥६॥
उमोवाच
।
एवं भविष्यत्यमरप्रभाव नाहं मृषा जातु वदे कदाचित्
।
भार्यासहस्राणि च षोडशैव तासु प्रियत्वं च तथाऽक्षयं च ॥७॥
प्रीतिं चाग्र्यां बान्धवानां सकाशाद्ददामि तेऽहं वपुषः काम्यतां च
।
भोक्ष्यन्ते वै सप्ततिं वै शतानि गृहे तुभ्यमतिथीनां च नित्यम् ॥८॥
वासुदेव उवाच। एवं दत्त्वा वरान् देवो मम देवी च भारत
।
अन्तर्हितः क्षणे तस्मिन् सगणो भीमपूर्वज ॥९॥
एतदत्यद्भुतं पूर्वं ब्राह्मणायातितेजसे
।
उपमन्यवे मया कृत्स्रं व्याख्यातं पार्थिवोत्तम
।
नमस्कृत्वा तु स प्राह देवदेवाय सुव्रत ॥१०॥
उपमन्युरुवाच
।
नास्ति शर्वसमो देवो नास्ति शर्वसमा गतिः
।
नास्ति शर्वसमो दाने नास्ति शर्वसमो रणे ॥११॥
उपमन्युरुवाच
।
ऋषिरासीत्कृते तात तण्डिरित्येव विश्रुतः
।
दशवर्षसहस्राणि तेन देवः समाधिना ॥१॥
आराधितोऽभूद्भक्तेन तस्योदर्कं निशामय
।
स दृष्टवान्महादेवमस्तौषीच्च स्तवैर्विभुम् ॥२॥
इति तण्डिस्तपोयोगात्परमात्मानमव्ययम्
।
चिन्तयित्वा महात्मानमिदमाह सुविस्मितः ॥३॥
यं पठन्ति सदा सांख्याश्चिन्तयन्ति च योगिनः
।
परं प्रधानं पुरुषमधिष्ठातारमीश्वरम् ॥४॥
उत्पत्तौ च विनाशे च कारणं यं विदुर्बुधाः
।
देवासुरमुनीनां च परं यस्मान्न विद्यते ॥५॥
अजं तमहमीशानमनादिनिधनं प्रभुम्
।
अत्यन्तसुखिनं देवमनघं शरणं व्रजे ॥६॥
एवं ब्रुवन्नेव तदा ददर्श तपसां निधिम्
।
तमव्ययमनौपम्यमचिन्त्यं शाश्वतं ध्रुवम् ॥७॥
निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम्
।
योगिनां परमानन्दमक्षरं मोक्षसंज्ञितम् ॥८॥
मनोरिन्द्राग्निमरुतां विश्वस्य ब्रह्मणो गतिम्
।
अग्राह्यमचलं शुद्धं बुद्धिग्राह्यं मनोमयम् ॥९॥
दुर्विज्ञेयमसंख्येयं दुष्प्रापमकृतात्मभिः
।
योनिं विश्वस्य जगतस्तमसः परतः परम् ॥१०॥
यः प्राणवन्तमात्मानं ज्योतिर्जीवस्थितं मनः
।
तं देवं दर्शनाकांक्षी बहून्वर्षगणानृषिः ॥११॥
तपस्युग्रे स्थितो भूत्वा दृष्ट्वा तुष्टाव चेश्वरम्
।
तण्डिरुवाच
।
पवित्राणां पवित्रस्त्वं गतिर्गतिमतां वर ॥१२॥
अत्युग्रं तेजसां तेजस्तपसां परमं तपः
।
विश्वावसुहिरण्याक्षपुरुहूतनमस्कृत ॥१३॥
भूरिकल्याणद विभो परं सत्यं नमोऽस्तु ते
।
जातीमरणभीरूणां यतीनां यततां विभो ॥१४॥
निर्वाणद सहस्रांशो नमस्तेऽस्तु सुखाश्रय
।
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः ॥१५॥
न विदुस्त्वां तु तत्त्वेन कुतो वेत्स्यामहे वयम्
।
त्वत्तः प्रवर्तते सर्वं त्वयि सर्वं प्रतिष्ठितम् ॥१६॥
कालाख्यः पुरुषाख्यश्च ब्रह्माख्यश्च त्वमेव हि
।
तनवस्ते स्मृतास्तिस्रः पुराणज्ञैः सुरर्षिभिः ॥१७॥
अधिपौरुषमध्यात्ममधिभूताधिदैवतम्
।
अधिलोकाधिविज्ञानमधियज्ञस्त्वमेव हि ॥१८॥
त्वां विदित्वात्मदेहस्थं दुर्विदं दैवतैरपि
।
विद्वांसो यान्ति निर्मुक्ताः परं भावमनामयम् ॥१९॥
अनिच्छतस्तव विभो जन्ममृत्युरनेकतः
।
द्वारं तु स्वर्गमोक्षाणामाक्षेप्ता त्वं ददासि च ॥२०॥
त्वं वै स्वर्गश्च मोक्षश्च कामः क्रोधस्त्वमेव च
।
सत्त्वं रजस्तमश्चैव अधश्चोर्ध्वं त्वमेव हि ॥२१॥
ब्रह्मा भवश्च विष्णुश्च स्कन्देन्द्रौ सविता यमः
।
वरुणेन्दू मनुर्धाता विधाता त्वं धनेश्वरः ॥२२॥
भूर्वायुः सलिलाग्निश्च खं वाग्बुद्धिः स्थितिर्मतिः
।
कर्म सत्यानृते चोभे त्वमेवास्ति च नास्ति च ॥२३॥
इन्द्रियाणीन्द्रियार्थाश्च प्रकृतिभ्यः परं ध्रुवम्
।
विश्वाविश्वपरो भावश्चिन्त्याचिन्त्यस्त्वमेव हि ॥२४॥
यच्चैतत्परमं ब्रह्म यच्च तत्परमं पदम्
।
या गतिः सांख्ययोगानां स भवान्नात्र संशयः ॥२५॥
नूनमद्य कृतार्थाः स्म नूनं प्राप्ताः सतां गतिम्
।
यां गतिं प्रार्थयन्तीह ज्ञाननिर्मलबुद्धयः ॥२६॥
अहो मूढाः स्म सुचिरमिमं कालमचेतसा
।
यन्न विद्मः परं देवं शाश्वतं यं विदुर्बुधाः ॥२७॥
सेयमासादिता साक्षात्त्वद्भक्तिर्जन्मभिर्मया
।
भक्तानुग्रहकृद्देवो यं ज्ञात्वाऽमृतमश्रुते ॥२८॥
देवासुरमुनीनां तु यच्च गुह्यं सनातनम्
।
गुहायां निहितं ब्रह्म दुर्विज्ञेय मुनेरपि ॥२९॥
स एष भगवान् देवः सर्वकृत्सर्वतोमुखः
।
सर्वात्मा सर्वदर्शी च सर्वगः सर्ववेदिता ॥३०॥
देहकुद्देहभृद्देही देहभुग्देहिनां गतिः
।
प्राणकृत्प्राणभृत्प्राणी प्राणदः प्राणिनां गतिः ॥३१॥
अध्यात्मगतिरिष्टानां ध्यायिनामात्मवेदिनाम्
।
अपुनर्भवकामानां या गतिः सोऽयमीश्वरः ॥३२॥
अयं च सर्वभूतानां शुभाशुभगतिप्रदः
।
अयं च जन्ममरणे विदध्यात्सर्वजन्तुषु
।
अयं संसिद्धिकामानां या गतिः सोऽयमीश्वरः ॥३३॥
भूराद्यान्सर्वभुवनानुत्पाद्य सदिवौकसः
।
दधाति देवस्तनुभिरष्टाभिर्यो बिभर्ति च ॥३४॥
अतः प्रवर्तते सर्वमस्मिन्सर्वं प्रतिष्ठितम्
।
अस्मिंश्च प्रलयं याति अयमेकः सनातनः ॥३५॥
अयं स सत्यकामानां सत्यलोकः परं सताम्
।
अपवर्गश्च मुक्तानां कैवल्यं चात्मवेदिनाम् ॥३६॥
अयं ब्रह्मादिभिः सिद्धैर्गुहायां गोपितः प्रभुः
।
देवासुरमनुष्याणामप्रकाशो भवेदिति ॥३७॥
तं त्वां देवासुरनरास्तत्त्वेन न विदुर्भवम्
।
मोहिताः खल्वनेनैव हृदिस्थेनाप्रकाशिना ॥३८॥
ये चैनं प्रतिपद्यन्ते भक्तियोगेन भाविताः
।
तेषामेवात्मनाऽऽत्मानं दर्शयत्येष हृच्छयः ॥३९॥
यं ज्ञात्वा न पुनर्जन्म मरणं चापि विद्यते
।
यं विदित्वा परं वेद्यं वेदितव्यं न विद्यते ॥४०॥
यं लब्ध्वा परमं लाभं नाधिकं मन्यते बुधः
।
यां सूक्ष्मां परमां प्राप्तिं गच्छन्नव्ययमक्षयम् ॥४१॥
यं सांख्या गुणतत्त्वज्ञाः सांख्यशास्त्रविशारदाः
।
सूक्ष्मज्ञानतराः सूक्ष्मं ज्ञात्वा मुच्यन्ति बन्धनैः ॥४२॥
यं च वेदविदो वेद्यं वेदान्ते च प्रतिष्ठितम्
।
प्राणायामपरा नित्यं यं विशन्ति जपन्ति च ॥४३॥
ओंकाररथमारुह्य ते विशन्ति महेश्वरम्
।
अयं स देवयानानामादित्यो द्वारमुच्यते ॥४४॥
अयं च पितृयानानां चन्द्रमा द्वारमुच्यते
।
एष काष्ठा दिशश्चैव संवत्सरयुगादि च ॥४५॥
दिव्यादिव्यः परो लाभ अयने दक्षिणोत्तरे
।
एनं प्रजापतिः पूर्वमाराध्य बहुभिः स्तवैः ॥४६॥
प्रजार्थं वरयामास नीललोहितसंज्ञितम्
।
ऋग्भिर्यमनुशासन्ति तत्त्वे कर्मणि बह्वृचाः ॥४७॥
यजुर्भिर्यत्त्रिधा वेद्यं जुह्वत्यध्वर्यवोऽध्वरे
।
सामभिर्यं च गायन्ति सामगाः शुद्धबुद्धयः ॥४८॥
ऋतं सत्यं परं ब्रह्म स्तुवन्त्याथर्वणा द्विजाः
।
यज्ञस्य परमा योनिः पतिश्चायं परः स्मृतः ॥४९॥
रात्र्यहःश्रोत्रनयनः पक्षमासशिरोभुजः
।
ऋतुवीर्यस्तपोधैर्यो ह्यब्दगुह्योरुपादवान् ॥५०॥
मृत्युर्यमो हुताशश्च कालः संहारवेगवान्
।
कालस्य परमा योनिः कालश्चायं सनातनः ॥५१॥
चन्द्रादित्यौ सनक्षत्रौ ग्रहाश्च सह वायुना
।
ध्रुवः सप्तर्षयश्चैव भुवनाः सप्त एव च ॥५२॥
प्रधानं महदद्व्यक्तं विशेषान्तं सवैकृतम्
।
ब्रह्मादिस्तम्बपर्यन्तं भूतादि सदसच्च यत् ॥५३॥
अष्टौ प्रकृतयश्चैव प्रकृतिभ्यश्च यः परः
।
अस्य देवस्य यद्भागं कृत्स्नं संपरिवर्तते ॥५४॥
एतत्परममानन्दं यत्तच्छाश्वतमेव च
।
एषा गतिर्विरक्तानामेष भावः परः सताम् ॥५५॥
एतत्पदमनुद्विग्नमेतद्ब्रह्म सनातनम्
।
शास्त्रवेदाङ्गविदुषामेतद्ध्यानं परं पदम् ॥५६॥
इयं सा परमा काष्ठा इयं सा परमा कला
।
इयं सा परमा सिद्धिरियं सा परमा गतिः ॥५७॥
इयं सा परमा शान्तिरियं सा निर्वृतिः परा
।
यं प्राप्य कृतकृत्याः स्म इत्यमन्यन्त योगिनः ॥५८॥
इयं तुष्टिरियं सिद्धिरियं श्रुतिरियं स्मृतिः
।
अध्यात्मगतिरिष्टानां विदुषां प्राप्तिरव्यया ॥५९॥
यजतां कामयानानां मखैर्विपुलदक्षिणैः
।
या गतिर्यज्ञशीलानां सा गतिस्त्वं न संशयः ॥६०॥
सम्यक् योगजपैः शान्तिर्नियमैर्देहतापनैः
।
तप्यतां या गतिर्देव परमा सा गतिर्भवान् ॥६१॥
कर्मन्यासकृतानां च विरक्तानां ततस्ततः
।
या गतिर्ब्रह्मसदने सा गतिस्त्वं सनातन ॥६२॥
अपुनर्भवकामानां वैराग्ये वर्ततां च या
।
प्रकृतीनां लयानां च सा गतिस्त्वं सनातन ॥६३॥
ज्ञानविज्ञानयुक्तानां निरुपाख्या निरञ्जना
।
कैवल्या या गतिर्देव परमा सा गतिर्भवान् ॥६४॥
वेदशास्त्रपुराणोक्ताः पञ्चैता गतयः स्मृताः
।
त्वत्प्रसादाद्धि लभ्यन्ते न लभ्यन्तेऽन्यथा विभो ॥६५॥
इति तण्डिस्तपोराशिस्तुष्टावेशानमात्मना
।
जगौ च परमं ब्रह्म यत्पुरा लोककृज्जगौ ॥६६॥
उपमन्युरुवाच
।
एवं स्तुतो महादेवस्तण्डिना ब्रह्मवादिना
।
उवाच भगवान् देव उमया सहितः प्रभुः ॥६७॥
ब्रह्मा शतक्रतुर्विष्णुर्विश्वेदेवा महर्षयः
।
न विदुस्त्वामिति ततस्तुष्टः प्रोवाच तं शिवः ॥६८॥
श्रीभगवानुवाच
।
अक्षयश्चाव्ययश्चैव भविता दुःखवर्जितः
।
यशस्वी तेजसा युक्तो दिव्यज्ञानसमन्वितः ॥६९॥
ऋषीणामभिगम्यश्च सूत्रकर्ता सुतस्तव
।
मत्प्रसादाद्द्विजश्रेष्ठ भविष्यति न संशयः ॥७०॥
कं वा कामं ददाम्यद्य ब्रूहि यद्वत्स कांक्षसे
।
प्राञ्जलिः स उवाचेदं त्वयि भक्तिर्दृढाऽस्तु मे ॥७१॥
उपमन्युरुवाच
।
एतान् दत्त्वा वरान्देवो वन्द्यमानः सुरर्षिभिः
।
स्तूयमानश्च विबुधैस्तत्रैवान्तरधीयत ॥७२॥
अन्तर्हिते भगवति सानुगे यादवेश्वर
।
ऋषिराश्रममागम्य ममैतत्प्रोक्तवानिव॥७३॥
यानि च प्रथितान्यादौ तण्डिराख्यातवान्मम
।
नामानि मानवश्रेष्ठ तानि त्वं श्रुणु सिद्धये॥७४॥
दशनामसहस्राणि देवेष्वाह पितामहः
।
सर्वस्य शास्त्रेषु तथा दशनामशतानि च॥७५॥
गुह्यानीमानि नामानि तण्डिर्भगवतोऽच्युत
।
देवप्रसादाद्देवेशः पुरा प्राह महात्मने॥७६॥
वासुदेव उवाच। ततः स प्रयतो भूत्वा मम तात युधिष्ठिर
।
प्राञ्जलिः प्राह विप्रर्षिर्नामसंग्रहमादितः ॥१॥
उपमन्युरुवाच
।
ब्रह्मप्रोक्तैरृषिप्रोक्तैर्वेदवेदाङ्गसम्भवैः
।
सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥२॥
महद्भिर्विहितैः सत्यैः सिद्धैः सर्वार्थसाधकैः
।
ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥३॥
यथोक्तैः साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः
।
प्रवरं प्रथमं स्वर्ग्यं सर्वभूतहितं शुभम् ॥४॥
श्रुतैः सर्वत्र जगति ब्रह्मलोकावतारितैः
।
सत्यैस्तत्परमं ब्रह्म ब्रह्मप्रोक्तं सनातनम् ॥५॥
वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम
।
वरयैनं भवं देवं भक्तस्त्वं परमेश्वरम् ॥६॥
तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम्
।
न शक्यं विस्तरात्कृत्स्नं वक्तुं सर्वस्य केनचित् ॥७॥
युक्तेनापि विभूतीनामपि वर्षशतैरपि
।
यस्यादिर्मध्यमन्तं च सुरैरपि न गम्यते ॥८॥
कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव
।
किं तु देवस्य महतः संक्षिप्तार्थपदाक्षरम् ॥९॥
शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः
।
अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥१०॥
यदा तेनाभ्यनुज्ञातः स्तुतो वै स तदा मया
।
अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥११॥
नाम्नां कञ्चित्समुद्देशं वक्ष्याम्यव्यक्तयोनिनः
।
वरस्य वरेण्यस्य विश्वरूपस्य धीमतः ॥१२॥
शृणु नाम्नां च यं कृष्ण यदुक्तं पद्मयोनिना
।
दशनामसहस्त्राणि यान्याह प्रपितामहः ॥१३॥
तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम्
।
गिरेः सारं यथा हेम पुष्पसारं यथा मधु ॥१४॥
घृतात्सारं यथा मण्डस्तथैतत्सारमुद्धृतम्
।
सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥१५॥
प्रयत्नेनाधिगन्तव्यं धार्यं च प्रयतात्मना
।
माङ्गल्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥१६॥
इदं भक्ताय दातव्यं श्रद्दधानास्तिकाय च
।
नाश्रद्दधानरूपाय नास्तिकायाजितात्मने॥१७॥
यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम्
।
स कृष्ण नरकं याति सह पूर्वैः सहात्मजैः ॥१८॥
इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम्
।
इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥१९॥
यं ज्ञात्वा अन्तकालेऽपि गच्छेत परमां गतिम्
।
पवित्रं मङ्गलं मेध्यं कल्याणमिदमुत्तमम् ॥२०॥
इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः
।
सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥२१॥
तदाप्रभृति चैवायमीश्वरस्य महात्मनः
।
स्तवराज इति ख्यातो जगत्यमरपूजितः ॥२२॥
ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः
।
यतस्तण्डिः पुरा प्राप तेन तण्डिकृतोऽभवत् ॥२३॥
स्वर्गाच्चैवात्र भूर्लोकं तण्डिना ह्यवतारितः
।
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ॥२४॥
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम्
।
ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ॥२५॥
तेजसामपि यत्तेजस्तपसामपि यत्तपः
।
शान्तानामपि यः शान्तो द्युतीनामपि या द्युतिः ॥२६॥
दान्तानामपि यो दान्तो धीमतामपि या च धीः
।
देवानामपि यो देव ऋषीणामपि यस्त्वृषिः ॥२७॥
यज्ञानामपि यो यज्ञः शिवानामपि यः शिवः
।
रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥२८॥
योगिनामपि यो योगी कारणानां च कारणम्
।
यतो लोकाः संभवन्ति न भवन्ति यतः पुनः ॥२९॥
सर्वभूतात्मभूतस्य हरस्यामिततेजसः
।
अष्टोत्तरसहस्रं तु नाम्नां शर्वस्य मे शृणु
।
यच्छ्रुत्वा मनुजव्याघ्र सर्वान्कामानवाप्स्यसि ॥३०॥
स्थिरः स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः
।
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः ॥३१॥
जटी चर्मी शिखंडी च सर्वाङ्गः सर्वभावनः
।
हरश्च हरिणाक्षश्च सर्वभूतहरः प्रभुः ॥३२॥
प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः
।
श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ॥३३॥
अभिवाद्यो महाकर्मा तपस्वी भूतभावनः
।
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः ॥३४॥
महारूपो महाकायो वृषरूपो महायशाः
।
महात्मा सर्वभूतात्मा विश्वरूपो महाहनुः ॥३५॥
लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः
।
पवित्रं च महांश्चैव नियमो नियमाश्रितः ॥३६॥
सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः
।
सहस्राक्षो विशालाक्षः सोमो नक्षत्रसाधकः ॥३७॥
चन्द्रः सूर्यः शनिः केतुर्ग्रहो ग्रहपतिर्वरः
।
अत्रिरत्र्या नमस्कर्ता मृगबाणार्पणोऽनघः ॥३८॥
महातपा घोरतपा अदीनो दीनसाधकः
।
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः ॥३९॥
योगी योज्यो महाबीजो महारेता महाबलः
।
सुवर्णरेताः सर्वज्ञः सुबीजो बीजवाहनः ॥४०॥
दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः
।
विश्वरूपः स्वयं श्रेष्ठो बलवीरो बलो गणः ॥४१॥
गणकर्ता गणपतिर्दिग्वासाः काम एव च
।
मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः ॥४२॥
कमण्डलुधरो धन्वी बाणहस्तः कपालवान्
।
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ॥४३॥
स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः
।
उष्णीषी च सुवक्त्रश्च उदग्रो विनतस्तथा ॥४४॥
दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च
।
शृगालरूपः सिद्धार्थो मुण्डः सर्वशुभङ्करः ॥४५॥
अजश्च बहुरूपश्च गन्धधारी कपर्द्यपि
।
ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभःस्थलः ॥४६॥
त्रिजटी चीरवासाश्च रुद्रः सेनापतिर्विभुः
।
अहश्चरो नक्तंचरस्तिग्ममन्युः सुवर्चसः ॥४७॥
गजहा दैत्यहा कालो लोकधाता गुणाकरः
।
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः ॥४८॥
कालयोगी महानादः सर्वकामश्चतुष्पथः
।
निशाचरः प्रेतचारी भूतचारी महेश्वरः ॥४९॥
बहुभूतो बहुधरः स्वर्भानुरमितो गतिः
।
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलालसः ॥५०॥
घोरो महातपाः पाशो नित्यो गिरिरुहो नभः
।
सहस्रहस्तो विजयो व्यवसायो ह्यतंद्रितः ॥५१॥
अधर्षणो धर्षणात्मा यज्ञहा कामनाशकः
।
दक्षयागापहारी च सुसहो मध्यमस्तथा ॥५२॥
तेजोपहारी बलहा मुदितोऽर्थो जितोऽवरः
।
गंभीरघोषो गंभीरो गंभीरबलवाहनः ॥५३॥
न्यग्रोधरूपो न्यग्रोधो वृक्षकर्णस्थितिर्विभुः
।
सुतीक्ष्णदशनश्चैव महाकायो महामनः ॥५४॥
विष्वक्सेनो हरिर्यज्ञः संयुगापीडवाहनः
।
तीक्ष्णतापश्च हर्यश्वः सहायः कर्मकालवित् ॥५५॥
विष्णुप्रसादितो यज्ञः समुद्रो वडवामुखः
।
हुताशनसहायश्च प्रशांतात्मा हुताशनः ॥५६॥
उग्रतेजा महातेजा जन्यो विजयकालवित्
।
ज्योतिषामयनं सिद्धिः सर्वविग्रह एव च ॥५७॥
शिखी मुंडी जी ज्वाली मूर्तिजो मूर्द्धगो बली
।
वेणवी पणवी ताली खली कालकटंकटः ॥५८॥
नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः
।
प्रजापतिर्विश्वबाहुर्विभागः सर्वगोऽमुखः ॥५९॥
विमोचनः सुसरणो हिरण्यकवचोद्भवः
।
मेढ्रजो बलचारी च महीचारी स्रुतस्तथा ॥६०॥
सर्वतूर्यनिनादी च सर्वातोद्यपरिग्रहः
।
व्यालरूपो गुहावासी गुहो माली तरङ्गवित् ॥६१॥
त्रिदशस्त्रिकालधृक्कर्मसर्वबन्धविमोचनः
।
बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः ॥६२॥
सांख्यप्रसादो दुर्वासाः सर्वसाधुनिषेवितः
।
प्रस्कन्दनो विभागज्ञो अतुल्यो यज्ञभागवित् ॥६३॥
सर्ववासः सर्वचारी दुर्वासा वासवोऽमरः
।
हैमो हेमकरोऽयज्ञः सर्वधारी धरोत्तमः ॥६४॥
लोहिताक्षो महाक्षश्च विजयाक्षो विशारदः
।
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ॥६५॥
मुख्योऽमुख्यश्च देहश्च काहलिः सर्वकामदः
।
सर्वकालप्रसादश्च सुबलो बलरूपधृक् ॥६६॥
सर्वकामवरश्चैव सर्वदः सर्वतोमुखः
।
आकाशनिर्विरूपश्च निपाती ह्यवशः खगः ॥६७॥
रौद्ररूपोंऽशुरादित्यो बहुरश्मिः सुवर्चसी
।
वसुवेगो महावेगो मनोवेगो निशाचरः ॥६८॥
सर्ववासी श्रियावासी उपदेशकरोऽकरः
।
मुनिरात्मनिरालोकः संभग्नश्च सहस्रदः ॥६९॥
पक्षी च पक्षरूपश्च अतिदीप्तो विशांपतिः
।
उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः ॥७०॥
वामदेवश्च वामश्च प्राग्दक्षिणश्च वामनः
।
सिद्धयोगी महर्षिश्च सिद्धार्थः सिद्धसाधकः ॥७१॥
भिक्षुश्च भिक्षुरूपश्च विपणो मृदुरव्ययः
।
महासेनो विशाखश्च षष्टिभागो गवां पतिः ॥७२॥
वज्रहस्तश्च विष्कम्भी चमूस्तम्भन एव च
।
वृत्तावृत्तकरस्तालो मधुर्मधुकलोचनः ॥७३॥
वाचस्पत्यो वाजसनो नित्यमाश्रमपूजितः
।
ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ॥७४॥
ईशान ईश्वरः कालो निशाचारी पिनाकवान्
।
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः ॥७५॥
नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्द्धनः
।
भगहारी निहंता च कालो ब्रह्मा पितामहः ॥७६॥
चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च
।
लिङ्गाध्यक्षः सुराध्यक्षो योगाध्यक्षो युगावहः ॥७७॥
बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः
।
इतिहासः सकल्पश्च गौतमोऽथ निशाकरः ॥७८॥
दम्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः
।
लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ॥७९॥
अक्षरं परमं ब्रह्म बलवच्छक्र एव च
।
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो गतागतः ॥८०॥
बहुप्रसादः सुस्वप्नो दर्पणोऽथ त्वमित्रजित्
।
वेदकारो मन्त्रकारो विद्वान्समरमर्दनः ॥८१॥
महामेघनिवासी च महाघोरो वशीकरः
।
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः ॥८२॥
वृषणः शङ्करो नित्यं वर्चस्वी धूमकेतनः
।
नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः ॥८३॥
स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः
।
उत्संगश्च महांगश्च महागर्भपरायणः ॥८४॥
कृष्णवर्णः सुवर्णश्च इन्द्रियं सर्वदेहिनाम्
।
महापादो महाहस्तो महाकायो महायशाः ॥८५॥
महामूर्धा महामात्रो महानेत्रो निशालयः
।
महान्तको महाकर्णो महोष्ठश्च महाहनुः ॥८६॥
महानासो महाकम्बुर्महाग्रीवः श्मशानभाक्
।
महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ॥८७॥
लंबनो लंबितोष्ठश्च महामायः पयोनिधिः
।
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ॥८८॥
महानखो महारोमा महाकेशो महाजटः
।
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ॥८९॥
स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः
।
वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ॥९०॥
गण्डली मेरुधामा च देवाधिपतिरेव च
।
अथर्वशीर्षः सामास्य ऋक्सहस्रामितेक्षणः ॥९१॥
यजुः पादभुजो गुह्यः प्रकाशो जङ्गमस्तथा
।
अमोघार्थः प्रसादश्च अभिगम्यः सुदर्शनः ॥९२॥
उपकारः प्रियः सर्वः कनकः काञ्चनच्छविः
।
नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ॥९३॥
द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः
।
नक्तं कलिश्च कालश्च मकरः कालपूजितः ॥९४॥
सगणो गणकारश्च भूतवाहनसारथिः
।
भस्मशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ॥९५॥
लोकपालस्तथाऽलोको महात्मा सर्वपूजितः
।
शुक्लस्त्रिशुक्लः संपन्नः शुचिर्भूतनिषेवितः ॥९६॥
आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः
।
विशालशाखस्ताम्रोष्ठो ह्यम्बुजालः सुनिश्चलः ॥९७॥
कपिलः कपिशः शुक्ल आयुश्चैव परोऽपरः
।
गन्धर्वो ह्यदितिस्तार्क्ष्यः सुविज्ञेयः सुशारदः ॥९८॥
परश्वधायुधो देव अनुकारी सुबान्धवः
।
तुम्बवीणो महाक्रोध ऊर्ध्वरेता जलेशयः ॥९९॥
उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः
।
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ॥१००॥
बन्धनो बन्धकर्ता च सुबन्धनविमोचनः
।
स यज्ञारिः स कामारिर्महादंष्ट्रो महायुधः ॥१०१॥
बहुधा निन्दितः शर्वः शङ्करः शङ्करोऽधनः
।
अमरेशो महादेवो विश्वदेवः सुरारिहा ॥१०२॥
अहिर्बुध्न्योऽनिलाभश्च चेकितानो हविस्तथा
।
अजैकपाच्च कापाली त्रिशङ्करजितः शिवः ॥१०३॥
धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा
।
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ॥१०४॥
प्रभावः सर्वगो वायुरर्यमा सविता रविः
।
उषंगुश्च विधाता च मान्धाता भूतभावनः ॥१०५॥
विभुर्वर्णविभावी च सर्वकामगुणावहः
।
पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः ॥१०६॥
बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी
।
कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ॥१०७॥
सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः
।
देवदेवः सुखासक्तः सदसत्सर्वरत्नवित् ॥१०८॥
कैलासगिरिवासी च हिमवद्गिरिसंश्रयः
।
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः ॥१०९॥
वणिजो वर्धकी वृक्षो बकुलश्चन्दनश्छदः
।
सारग्रीवो महाजत्रुरलोलश्च महौषधः ॥११०॥
सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः
।
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः ॥१११॥
प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः
।
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः ॥११२॥
भूतालयो भूतपतिरहोरात्रमनिदिन्तः ॥११३॥
वाहिता सर्वभूतानां निलयश्च विभुर्भवः
।
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः॥११४॥
धृतिमान्मतिमान् दक्षः सत्कृतश्च युगाधिपः
।
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥११५॥
हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनाम्
।
प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥११६॥
गान्धारश्च सुवासश्च तपःसक्तो रतिर्नरः
।
महागीतो महानृत्यो ह्यप्सरोगणसेवितः ॥११७॥
महाकेतुर्महाधातुर्नैकसानुचरश्चलः
।
आवेदनीय आदेशः सर्वगन्धसुखावहः ॥११८॥
तोरणस्तारणो वातः परिधी पतिखेचरः
।
संयोगो वर्धनो वृद्धो अतिवृद्धो गुणाधिकः ॥११९॥
नित्य आत्मसहायश्च देवासुरपतिः पतिः
।
युक्तश्च युक्तबाहुश्च देवो दिविसुपर्वणः ॥१२०॥
आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः
।
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥१२१॥
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः
।
अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥१२२॥
समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः
।
निर्जीवो जीवनो मन्त्रः शुभाक्षो बहुकर्क ॥१२३॥
रत्नप्रभूतो रत्नाङ्गो महार्णवनिपानवित्
।
मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥१२४॥
आरोहणोऽधिरोहश्च शीलधारी महायशाः
।
सेनाकल्पो महाकल्पो योगो युगकरो हरिः ॥१२५॥
युगरूपो महारूपो महानागहनो वधः
।
न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥१२६॥
बहुमालो महामालः शशी हरसुलोचनः
।
विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ॥१२७॥
त्रिलोचनो विषण्णाङ्गो मणिविद्धो जटाधरः
।
बिन्दुर्विसर्गः सुमुखः शरः सर्वायुधः सहः ॥१२८॥
निवेदनः सुखाजातः सुगन्धारो महाधनुः
।
गन्धपाली च भगवान्नुत्थानः सर्वकर्मणाम् ॥१२९॥
मन्थानो बहुलो वायुः सकलः सर्वलोचनः
।
तलस्तालः करस्थाली ऊर्ध्वसंहननो महान् ॥१३०॥
छत्रं सुच्छत्रो विख्यातो लोकः सर्वाश्रयः क्रमः
।
मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥१३१॥
हर्यक्षः ककुभो वज्री शतजिह्वः सहस्रपात्
।
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः ॥१३२॥
सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृत्
।
पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गलः ॥१३३॥
ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान्
।
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥१३४॥
गभस्तिर्ब्रह्मकृद्ब्रह्मी ब्रह्मविद्ब्राह्मणो गतिः
।
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयंभुवः ॥१३५॥
ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः
।
चन्दनी पद्मनालाग्रः सुरभ्युत्तरणो नरः ॥१३६॥
कर्णिकारमहास्रग्वी नीलमौलिः पिनाकधृत्
।
उमापतिरुमाकान्तो जाह्नवीधृदुमाधवः ॥१३७॥
वरो वराहो वरदो वरेण्यः सुमहास्वनः
।
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः ॥१३८॥
पीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत्
।
सवपार्श्वमुखस्त्र्यक्षो धर्मसाधारणो वरः ॥१३९॥
चराचरात्मा सुक्ष्मात्मा अमृतो गोवृषेश्वरः
।
साध्यर्षिर्वसुरादित्यो विवस्वान्सवितामृतः ॥१४०॥
व्यासः सर्गः सुसंक्षेपो विस्तरः पर्ययो नरः
।
ऋतुः संवत्सरो मासः पक्षः संख्यासमापनः ॥१४१॥
कला काष्ठा लवा मात्रा मुहूर्ताहः क्षपाः क्षणाः
।
विश्वक्षेत्रं प्रजाबीजं लिङ्गमाद्यस्तु निर्गमः ॥१४२॥
सदसद्व्यक्तमव्यक्तं पिता माता पितामहः
।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम्॥१४३॥
निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः
।
देवासुरविनिर्माता देवासुरपरायणः ॥१४४॥
देवासुरगुरुर्देवो देवासुरनमस्कृतः
।
देवासुरमहामात्रो देवासुरगणाश्रयः ॥१४५॥
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः
।
दवातिदेवो देवर्षिर्देवासुरवरप्रदः ॥१४६॥
देवासुरेश्वरो विश्वो देवासुरमहेश्वरः
।
सर्वदेवमयोऽचिन्त्यो देवतात्माऽऽत्मसंभवः ॥१४७॥
उद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः
।
ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥१४८॥
विबुधोऽग्रवरः सूक्ष्मः सवदेवस्तपोमयः
।
सुयुक्तः शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥१४९॥
गुहः कान्तो निजः सर्गः पवित्रं सर्वपावनः
।
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥१५०॥
अभिरामः सुरगणो विरामः सर्वसाधनः
।
ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥१५१॥
स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः
।
सिद्धार्थः सिद्धभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः ॥१५२॥
व्रताधिपः परं ब्रह्म भक्तानां परमा गतिः
।
विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥१५३॥
यथा प्रधानं भगवानिति भक्त्या स्तुतो मया
।
यन्न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः ॥१५४॥
स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम्
।
भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥१५५॥
ततोऽभ्यनुज्ञां संप्राप्य स्तुतो मतिमतां वरः
।
शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः॥१५६॥
नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ॥१५७॥
एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति
।
ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ॥१५८॥
स्तूयमानो महादेवस्तुष्यते नियतात्मभिः
।
भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः ॥१५९॥
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः
।
आस्तिकाः श्रद्दधानाश्च वहुभिर्जन्मभिः स्तवैः ॥१६०॥
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम्
।
कर्मणा मनसा वाचा भावेनामिततेजसः ॥१६१॥
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा
।
उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः ॥१६२॥
शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम्
।
स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च ॥१६३॥
जन्मकोटिसहस्त्रेषु नानासंसारयोनिषु
।
जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ॥१६४॥
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः
।
भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ॥१६५॥
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते
।
निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी ॥१६६॥
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम्
।
येन यान्ति परां सिद्धिं तद्भागवतचेतसः ॥१६७॥
ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम्
।
प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ॥१६८॥
एवमन्ये विकुर्वन्ति देवाः संसारमोचनम्
।
मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ॥१६९॥
इति तेनेन्द्रकल्पेन भगवान्सदसत्पतिः
।
कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना ॥१७०॥
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत्
।
गीयते च स बुद्ध्येत ब्रह्मा शङ्करसन्निधौ ॥१७१॥
इदं पुण्यं पवित्रं च सर्वदा पापनाशनम्
।
योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ॥१७२॥
एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम्
।
या गतिः सांख्ययोगानां व्रजन्त्येतां गतिं तदा ॥१७३॥
स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ
।
अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् ॥१७४॥
एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम्
।
ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ॥१७५॥
मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत्
।
महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ॥१७६॥
तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः
।
वैवस्वताय मनवे गौतमः प्राह माधव ॥१७७॥
नारायणाय साध्याय समाधिष्ठाय धीमते
।
यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः ॥१७८॥
नाचिकेताय भगवानाह वैवस्वतो यमः
।
मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ॥१७९॥
मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन
।
तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम् ॥१८०॥
स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन संमितम्
।
नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः
।
पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥१८१॥
यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः
।
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥१८२॥
वैशम्पायन उवाच। महायोगी ततः प्राह कृष्णद्वैपायनो मुनिः
।
पठस्व पुत्र भद्रं ते प्रीयतां ते महेश्वरः ॥१॥
पुरा पुत्र मया मेरौ तप्यता परमं तपः
।
पुत्रहेतोर्महाराज स्तव एषोऽनुकीर्तितः ॥२॥
लब्धवानीप्सितान्कामानहं वै पाण्डुनन्दन
।
तथा त्वमपि शर्वाद्धि सर्वान्कामानवाप्स्यसि ॥३॥
कपिलश्च ततः प्राह सांख्यर्षिर्देवसंमतः
।
मया जन्मान्यनेकानि भक्त्या चाराधितो भवः ॥४॥
प्रीतश्च भगवान् ज्ञानं ददौ मम भवान्तकम्
।
चारुशीर्षस्ततः प्राह शक्रस्य दयितः सखा
।
आलम्वायन इत्येवं विश्रुतः करुणात्मकः ॥५॥
मया गोकर्णमासाद्य तपस्तप्त्वा शतं समाः
।
अयोनिजानां दान्तानां धर्मज्ञानां सुवर्चसाम् ॥६॥
अजराणामदुःखानां शतवर्षसहस्रिणाम्
।
लब्धं पुत्रशतं शर्वात्पुरा पाण्डुनृपात्मज ॥७॥
वाल्मीकिश्चाह भगवान्युधिष्ठिरमिदं वचः
।
विवादे साग्निमुनिभिर्ब्रह्मघ्नो वै भवानिति ॥८॥
उक्तः क्षणेन चाविष्टस्तेनाधर्मेण भारत
।
सोऽहमीशानमनघममोघं शरणं गतः ॥९॥
मुक्तश्चास्मि ततः पापैस्ततो दुःखविनाशनः
।
आह मां त्रिपुरघ्नो वै यशस्तेऽग्र्यं भविष्यति ॥१०॥
जामदग्न्यश्च कौन्तेयमिदं धर्मभृतां वरः
।
ऋषिमध्ये स्थितः प्राह ज्वलन्निव दिवाकरः ॥११॥
पितृविप्रवधेनाहमार्तो वै पाण्डवाग्रज
।
शुचिर्भूत्वा महादेवं गतोऽस्मि शरणं नृप ॥१२॥
नामभिश्चास्तुवं देवं ततस्तुष्टोऽभवद्भवः
।
परशुं च ततो देवो दिव्यान्यस्त्राणि चैव मे ॥१३॥
पापं च ते न भविता अजेयश्च भविष्यसि
।
न ते प्रभविता मृत्युरजरश्च भविष्यसि ॥१४॥
आह मां भगवानेवं शिखण्डी शिवविग्रहः
।
तदवाप्तं च मे सर्वं प्रसादात्तस्य धीमतः ॥१५॥
विश्वामित्रस्तदोवाच क्षत्रियोऽहं तदाऽभवम्
।
ब्राह्मणोऽहं भवानीति मया चाराधितो भवः ॥१६॥
तत्प्रसादान्मया प्राप्तं ब्राह्मण्यं दुर्लभं महत्
।
असितो देवलश्चैव प्राह पाण्डुसुतं नृपम् ॥१७॥
शापाच्छक्रस्य कौन्तेय विभो धर्मोऽनशत्तदा
।
तन्मे धर्मं यशश्चाग्र्यमायुश्चैवाददत्प्रभुः ॥१८॥
ऋषिर्गृत्समदो नाम शक्रस्य दयितः सखा
।
प्राहाजमीढं भगवान् बृहस्पतिसमद्युतिः ॥१९॥
वरिष्ठो नाम भगवांश्चाक्षुषस्य मनोः सुतः
।
शतक्रतोरचिन्त्यस्य सत्रे वर्षसहस्त्रिके ॥२०॥
वर्तमानेऽब्रवीद्वाक्यं साम्नि ह्युच्चारिते मया
।
रथन्तरे द्विजश्रेष्ठ न सम्यगिति वर्तते ॥२१॥
समीक्षस्व पुनर्बुद्ध्या पापं त्यक्त्वा द्विजोत्तम
।
अयज्ञवाहिनं पापमकार्षीस्त्वं सुदुर्मते ॥२२॥
एवमुक्त्वा महाक्रोधः प्राह शंभुं पुनर्वचः
।
प्रज्ञया रहितो दुःखी नित्यभीतो वनेचरः ॥२३॥
दशवर्षसहस्राणि दशाष्टौ च शतानि च
।
नष्टपानीय पवने मृगैरन्यैश्च वर्जिते ॥२४॥
अयज्ञीयद्रमे देशे रुरुसिंहनिषेविते
।
भविता त्वं मृगः क्रूरो महादुःखसमन्वितः ॥२५॥
तस्य वाक्यस्य निर्धने पार्थ जातो ह्यहं मृगः
।
ततो मां शरणं प्राप्तं प्राह योगी महेश्वरः ॥२६॥
अजरश्चामरश्चैव भविता दुःखवर्जितः
।
साम्यं ममास्तु ते सौख्यं युवयोर्वर्धतां क्रतुः ॥२७॥
अनुग्रहानेवमेष करोति भगवान् विभुः
।
परं धाता विधाता च सुखदुःखे च सर्वदा ॥२८॥
अचिन्त्य एष भगवान्कर्मणा मनसा गिरा
।
न मे तात युधिश्रेष्ठ विद्यया पण्डितः समः ॥२९॥
वासुदेवस्तदोवाच पुनर्मतिमतां वरः
।
सुवर्णाक्षो महादेवस्तपसा तोषितो मया ॥३०॥
ततोऽथ भगवानाह प्रीतो मां वै युधिष्ठिर
।
अर्थात्प्रियतरः कृष्ण मत्प्रसादाद्भविष्यसि ॥३१॥
अपराजितश्च युद्धेषु तेजश्चैवानलोपमम्
।
एवं सहस्रशश्चान्यान्महादेवो वरं ददौ ॥३२॥
मणिमन्थेऽथ शैले वै पुरा संपूजितो मया
।
वर्षायुतसहस्राणां सहस्रं शतमेव च ॥३३॥
ततो मां भगवान्प्रीत इदं वचनमब्रवीत्
।
वरं वृष्णीष्व भद्रं ते यस्ते मनसि वर्तते ॥३४॥
ततः प्रणम्य शिरसा इदं वचनमब्रुवम्
।
यदि प्रीतो महादेवो भक्त्या परमया प्रभुः ॥३५॥
नित्यकालं तवेशान भक्तिर्भवतु मे स्थिरा
।
एवमस्त्विति भगवान्स्तत्रोक्त्वाऽन्तरधीयत ॥३६॥
जैगीषव्य उवाच
।
ममाष्टगुणमैश्वर्यं दत्तं भगवता पुरा
।
यत्नेनान्येन बलिना वाराणस्यां युधिष्ठिर ॥३७॥
गर्ग उवाच
।
चतुःषष्ट्यङ्गमददत्कलाज्ञानं ममाद्भुतम्
।
सरस्वत्यास्तटे तुष्टो मनोयज्ञेन पाण्डव ॥३८॥
मम सहस्रं तु सुतानां ब्रह्मवादिनाम्
।
आयुश्चैव सपुत्रस्य संवत्सरशतायुतम् ॥३९॥
पराशर उवाच
।
प्रसाद्येह पुरा शर्वं मनसाऽचिन्तयं नृप
।
महातपा महातेजा महायोगी महायशाः ॥४०॥
वेदव्यासः श्रियावासो ब्राह्मणः करुणान्वितः
।
अप्यसावीप्सितः पुत्रो मम स्याद्वै महेश्वरात् ॥४१॥
इति मत्वा हृदि मतं प्राह मां सुरसत्तमः
।
मयि संभावना यास्याः फलात्कृष्णो भविष्यति ॥४२॥
सावर्णस्य मनोः सर्गे सप्तर्षिश्च भविष्यति
।
वेदानां च स वै वक्ता कुरुवंशकरस्तथा ॥४३॥
इतिहासस्य कर्ता च पुत्रस्ते जगतो हितः
।
भविष्यति महेन्द्रस्य दयितः स महामुनिः ॥४४॥
अजरश्चामरश्चैव पराशरसुतस्तव
।
एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥४५॥
युधिष्ठिर महायोगी वीर्यवानक्षयोऽव्ययः
।
माण्डव्य उवाच
।
अचौरश्चौरशङ्कायां शूले भिन्नो ह्यहं तदा ॥४६॥
तत्रस्थेन स्तुतो देवः प्राह मां वै नरेश्वर
।
मोक्षं प्राप्स्यसि शूलाच्च जीविष्यसि समार्बुदम् ॥४७॥
रुजा शूलकृता चैव न ते विप्र भविष्यति
।
आधिभिर्व्याधिभिश्चैव वर्जितस्त्वं भविष्यसि ॥४८॥
पादाच्चतुर्थात्संभूत आत्मा यस्मान्मुने तव
।
त्वं भविष्यस्यनुपमो जन्म वै सफलं कुरु ॥४९॥
तीर्थाभिषेकं सकलं त्वमविघ्नेन चाप्स्यसि
।
स्वर्गं चैवाक्षयं विप्र विद्धामि तवोर्जितम् ॥५०॥
एवमुक्त्वा तु भगवान् वरेण्यो वृषवाहनः
।
महेश्वरो महाराज कृत्तिवासा महाद्युतिः ॥५१॥
सगणो दैवतश्रेष्ठस्तत्रैवान्तरधीयत
।
गालव उवाच
।
विश्वामित्राभ्यनुज्ञातो ह्यहं पितरमागतः ॥५२॥
अब्रवीन्मां ततो माता दुःखिता रुदती भृशम्
।
कौशिकेनाभ्यनुज्ञातं पुत्रं वेदविभूषितम् ॥५३॥
न तात तरुणं दान्तं पिता त्वां पश्यतेऽनघ
।
श्रुत्वा जनन्या वचनं निराशो गुरुदर्शने ॥५४॥
नियतात्मा महादेवमपश्यं सोऽब्रवीच्च माम्
।
पिता माता च ते त्वं च पुत्र मृत्युविवर्जिताः ॥५५॥
भविष्यथ विश क्षिप्रं द्रष्टासि पितरं क्षये
।
अनुज्ञातो भगवता गृहं गत्वा युधिष्ठिर ॥५६॥
अपश्यं पितरं तात इष्टिं कृत्वा विनिःसृतम्
।
उपस्पृश्य गृहीत्वेध्मं कुशांश्च शरणाकुरून् ॥५७॥
तान्विसृज्य च मां प्राह पिता सास्राविलेक्षणः
।
प्रणमन्तं परिष्वज्य मूर्ध्न्युपाघ्राय पाण्डव ॥५८॥
दिष्ट्या दृष्टोऽसि मे पुत्र कृतविद्य इहागतः
।
वैशम्पायन उवाच। एतान्यत्यद्भुतान्येव कर्माण्यथ महात्मनः॥५९॥
प्रोक्तानि सुनिभिः श्रुत्वा विस्मयामास पाण्डवः
।
ततः कृष्णोऽब्रवीद्वाक्यं पुनर्मतिमतां वरः ॥६०॥
युधिष्ठिरं धर्मनिधिं पुरुहूतमिवेश्वरः
।
वासुदेव उवाच। उपमन्युर्मयि प्राह तपन्निव दिवाकरः ॥६१॥
अशुभैः पापकर्माणो ये नराः कलुषीकृताः
।
ईशानं न प्रपद्यन्ते तमोराजसवृत्तयः ॥६२॥
ईश्वरं संप्रपद्यन्ते द्विजा भावितभावनाः
।
सर्वथा वर्तमानोऽपि यो भक्तः परमेश्वरे ॥६३॥
सदृशोऽरण्यवासीनां मुनीनां भावितात्मनाम्
।
ब्रह्मत्वं केशवत्वं वा शक्रत्वं वा सुरैः सह ॥६४॥
त्रैलोक्यस्याधिपत्यं वा तुष्टो रुद्रः प्रयच्छति
।
मनसाऽपि शिवं तात ये प्रपद्यन्ति मानवाः ॥६५॥
विधूय सर्वपापानि देवैः सह वसन्ति ते
।
भित्त्वा भित्त्वा च कूलानि हुत्वा सर्वमिदं जगत् ॥६६॥
यजेद्देवं विरूपाक्षं न स पापेन लिप्यते
।
सर्वलक्षणहीनोऽपि युक्तो वा सर्व पातकैः ॥६७॥
सर्वं तुदति तत्पापं भावयञ्छिवमात्मना
।
कीटपक्षिपतङ्गानां तिरश्चामपि केशव ॥६८॥
महादेवप्रपन्नानां न भयं विद्यते क्वचित्
।
एवमेव महादेवं भक्ता ये मानवा भुवि ॥६९॥
न ते संसारवशगा इति मे निश्चिता मतिः
।
ततः कृष्णोऽब्रवीद्वाक्यं धर्मपुत्रं युधिष्ठिरम् ॥७०॥
विष्णुरुवाच
।
आदित्यचन्द्रावनिलानलौ च द्यौर्भूमिरापो वसवोऽथ विश्वे
।
धातार्यमा शुक्रबृहस्पती च रुद्राः ससाध्या वरुणोऽथ गोपः ॥७१॥
ब्रह्मा शक्रो मारुतो ब्रह्म सत्यं वेदा यज्ञा दक्षिणा वेदवाहाः
।
सोमो यष्टा यच्च हव्यं हविश्च रक्षा दीक्षा संयमा ये च केचित् ॥७२॥
स्वाहा वौषट् ब्राह्मणाः सौरभेयी धर्मं चाग्र्यं कालचक्रं बलं च
।
यशो दमो बुद्धिमतां स्थितिश्च शुभाशुभं ये मुनयश्च सप्त ॥७३॥
अग्र्या बुद्धिर्मनसा दर्शने च स्पर्शश्चाग्र्यः कर्मणां या च सिद्धिः
।
गणा देवानामूष्मपाः सोमपाश्च लेखाः सुयामास्तुषिता ब्रह्मकायाः ॥७४॥
आभासुरा गन्धपा धूमपाश्च वाचा विरुद्धाश्च मनोविरुद्धाः
।
शुद्धाश्च निर्माणरताश्च देवाः स्पर्शाशना दर्शपा आज्यपाश्च ॥७५॥
चिन्त्यद्योता ये च देवेषु मुख्या ये चाप्यन्ये देवताश्चाजमीढ
।
सुपर्ण-गन्धर्व-पिशाच-दानवा यक्षास्तथा चारण-पन्नगाश्च ॥७६॥
स्थूलं सूक्ष्मं मृदु चाप्यसूक्ष्मं दुःखं सुखं दुःखमनन्तरं च
।
सांख्यं योगं तत्पराणां परं च शर्वाज्जातं विद्धि यत्कीर्तितं मे ॥७७॥
तत्संभूता भूतकृतो वरेण्याः सर्वे देवा भुवनस्यास्य गोपाः
।
आविश्येमां धरणीं येऽभ्यरक्षन् पुरातनीं तस्य देवस्य सृष्टिम् ॥७८॥
विचिन्वन्तस्तपसा तत्स्थवीयः किञ्चित्तत्त्वं प्राणहेतोर्नतोऽस्मि
।
ददातु देवः स वरानिहेष्टानभिष्टुतो नः प्रभुरव्ययः सदा ॥७९॥
इमं स्तवं सन्नियतेन्द्रियश्च भूत्वा शुचिर्यः पुरुषः पठेत
।
अभग्नयोगो नियतो मासमेकं संप्राप्नुयादश्वमेधे फलं यत् ॥८०॥
वेदान् कृत्स्नान् ब्राह्मणः प्राप्नुयात्तु जयेन्नृपः पार्थ महीं च कृत्स्नाम्
।
वैश्यो लाभं प्राप्नुयान्नैपुणं च शूद्रो गतिं प्रेत्य तथा सुखं च ॥८१॥
स्तवराजमिमं कृत्त्वा रुद्राय दधिरे मनः
।
सर्वदोषापहं पुण्यं पवित्रं च यशस्विनः ॥८२॥
यावन्त्यस्य शरीरेषु रोमकूपाणि भारत
।
तावन्त्यब्दसहस्राणि स्वर्गे वसति मानवः ॥८३॥
युधिष्ठिर उवाच। यदिदं सहधर्मेति प्रोच्यते भरतर्षभ
।
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥१॥
आर्ष एष भवेद्धर्मः प्राजापत्योऽथवाऽऽसुरः
।
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥२॥
सन्देहः सुमहानेष विरुद्ध इति मे मतिः
।
इह यः सहधर्मो वै प्रेत्यायं विहितः क्व नु ॥३॥
स्वर्गो मृतानां भवति सहधर्मः पितामह
।
पूर्वमेकस्तु म्रियते क्व चैकस्तिष्ठते वद ॥४॥
नानाधर्मफलोपेता नानाकर्मानवासिताः
।
नानानिरयनिष्ठान्ता मानुषा बहवो यदा ॥५॥
अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति
।
यदानृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥६॥
अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते
।
धर्मोऽयं पूर्विका संज्ञा उपचारः क्रियाविधिः ॥७॥
गह्वरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम्
।
निःसन्देहमिदं सर्वं पितामह यथाश्रुति ॥८॥
यदैतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम्
।
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥९॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
अष्टावक्रस्य संवादं दिशया सह भारत ॥१०॥
निर्वेष्टुकामस्तु पुरा अष्टावक्रो महातपाः
।
ऋषेरथ वदान्यस्य वव्रे कन्यां महात्मनः ॥११॥
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि
।
गुणप्रभावशीलेन चारित्रेण च शोभनाम् ॥१२॥
सा तस्य दृष्ट्वैव मनो जहार शुभलोचना
।
वनराजी यथा चित्रा वसन्ते कुसुमाचिता ॥१३॥
ऋषिस्तमाह देया मे सुता तुभ्यं हि तच्छृणु
।
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥१४॥
अष्टावक्र उवाच
।
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान्
।
तथेदानीं मया कार्यं यथा वक्ष्यति मां भवान् ॥१५॥
वदान्य उवाच
।
धनदं समतिक्रम्य हिमवन्तं च पर्वतम्
।
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥१६॥
संहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः
।
दिव्याङ्गरागैः पैशाचैरन्यैर्नानाविधैः प्रभोः ॥१७॥
पाणितालसुतालैश्च शंपातालैः समैस्तथा
।
संप्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥१८॥
इष्टं किल गिरौ स्थानं तद्दिव्यमिति शुश्रुम
।
नित्यं सन्निहितो देवस्तथा ते पार्षदाः स्मृताः ॥१९॥
तत्र देव्या तपस्तप्तं शङ्करार्थं सुदुश्चरम्
।
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥२०॥
पूर्वे तत्र महापार्श्वे देवस्योत्तरतस्तथा
।
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥२१॥
देवं चोपासते सर्वे रूपिणः किल तत्र ह
।
तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥२२॥
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसन्निभम्
।
रमणीयं मनोग्राहि तत्र वै द्रक्ष्यसे स्त्रियम् ॥२३॥
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम्
।
द्रष्टव्या सा त्वया तत्र संपूज्या चैव यत्नतः ॥२४॥
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि
।
यद्येष समयः सर्वः साध्यतां तत्र गम्यताम् ॥२५॥
अष्टावक्र उवाच
।
तथास्तु साधयिष्यामि तत्र यास्याम्यसंशयम्
।
यत्र त्वं वदसे साधो भवान् भवतु सत्यवाक् ॥२६॥
भीष्म उवाच। ततोऽगच्छत् स भगवानुत्तरामुत्तरां दिशम्
।
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥२७॥
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम्
।
अभ्यगच्छन्नदीं पुण्यां बाहुदां धर्मशालिनीम् ॥२८॥
अशोके विमले तीर्थे स्नात्वा वै तर्प्य देवताः
।
तत्र वासाय शयने कौशे सुखमुवास ह ॥२९॥
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः
।
स्नात्वा प्रादुश्चकाराग्निं स्तुत्वा चैनं प्रधानतः ॥३०॥
रुद्राणीं रुद्रमासाद्य ह्रदे तत्र समाश्वसत्
।
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ॥३१॥
सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया
।
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ॥३२॥
अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम्
।
प्रत्युत्थिता भगवन्तं मणिभद्रपुरोगमाः ॥३३॥
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान्
।
निवेद्यत मां क्षिप्रं धनदायेति चाब्रवीत् ॥३४॥
ते राक्षसास्तथा राजन् भगवन्तमथाब्रुवन्
।
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ॥३५॥
विदितो भगवानस्य कार्यमागमनस्य यत्
।
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ॥३६॥
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम्
।
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥३७॥
सुखं प्राप्तो भवान्कच्चित्किं वा मत्तश्चिकीर्षति
।
ब्रूहि सर्वं करिष्यामि यन्मां वक्ष्यसि वै द्विज ॥३८॥
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम
।
सत्कृतः कृतकार्यश्च भवान् यास्यत्यविघ्नतः ॥३९॥
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम्
।
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ॥४०॥
अथोपविष्टयोस्तत्र मणिभद्रपुरोगमाः
।
निषेदुस्तत्र कौबेरा यक्षगन्धर्वकिन्नराः ॥४१॥
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत्
।
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ॥४२॥
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा
।
संवर्ततामित्युवाच मुनिर्मधुरया गिरा ॥४३॥
अथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा
।
अलम्बुषा घृताची च चित्रा चित्राङ्गदा रुचि॥४४॥
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा
।
विद्युता प्रशमी दान्ता विद्योता रतिरेव च ॥४५॥
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः
।
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ॥४६॥
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपाविशत्
।
दिव्यं संवत्सरं तत्रारमतैष महातपाः ॥४७॥
ततो वैश्रवणो राजा भगवन्तमुवाच ह
।
साग्रः संवत्सरो जातो विप्रेह तव पश्यतः ॥४८॥
हार्योऽयं विषयो ब्रह्मन् गान्धर्वो नाम नामतः
।
छन्दतो वर्ततां विप्र यथा वदति वा भवान् ॥४९॥
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम्
।
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ॥५०॥
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत
।
अर्चितोऽस्मि यथान्यायं गमिष्यामि धनेश्वर ॥५१॥
प्रीतोऽस्मि सदृशं चैव तव सर्वं धनाधिप
।
तव प्रसादाद्भगवन् महर्षेश्च महात्मनः ॥५२॥
नियोगादद्य यास्यामि वृद्धिमानृद्धिमान् भव
।
अथ निष्क्रम्य भगवान् प्रययावुत्तरामुखः ॥५३॥
कैलासं मन्दरं हैमं सर्वाननुचचार ह
।
तानतीत्य महाशैलान् कैरातं स्थानमुत्तमम् ॥५४॥
प्रदक्षिणं तथा चक्रे प्रयतः शिरसा नतः
।
धरणीमवतीर्याथ पूतात्माऽसौ तदाऽभवत् ॥५५॥
स तं प्रदक्षिणं कृत्वा त्रिः शैलं चोत्तरामुखः
।
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ॥५६॥
ततोऽपरं वनोद्देशं रमणीयमपश्यत
।
सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितैः ॥५७॥
रमणीयैर्वनोद्देशैस्तत्र तत्र विभूषितम्
।
तत्राश्रमपदं दिव्यं ददर्श भगवानथ ॥५८॥
शैलांश्च विविधाकारान् काञ्चनान् रत्नभूषितान्
।
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ॥५९॥
अन्यान्यपि सुरम्याणि पश्यतः सुबहून्यथ
।
भृशं तस्य मनो रेमे महर्षेर्भावितात्मनः ॥६०॥
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम्
।
ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम् ॥६१॥
महान्तो यत्र विविधा मणिकाञ्चनपर्वताः
।
विमानानि च रम्याणि रत्नानि विविधानि च ॥६२॥
मन्दारपुष्पैः सङ्कीर्णां तथा मन्दाकिनीं नदीम्
।
स्वयंप्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ॥६३॥
नानाविधैश्च भवनैर्विचित्रमणितोरणैः
।
मुक्ताजालविनिक्षिप्तैर्मणिरत्नविभूषितैः ॥६४॥
मनोदृष्टिहरै रम्यैः सर्वतः संवृतं शुभैः
।
ऋषिभिश्चावृतं तत्र आश्रमं तं मनोहरम् ॥६५॥
ततस्तस्याभवच्चिन्ता कुत्र वासो भवेदिति
।
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् ॥६६॥
अतिथिं समनुप्राप्तमभिजानन्तु येऽत्र वै
।
अथ कन्याः परिवृता गृहात्तस्माद्विनिर्गताः ॥६७॥
नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः
।
यां यामपश्यत्कन्यां वै सा सा तस्य मनोऽहरत् ॥६८॥
न च शक्तो वारयितुं मनोऽस्याथावसीदति
।
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः ॥६९॥
अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति
।
स च तासां सुरूपाणां तस्यैव भवनस्य हि ॥७०॥
कौतूहलं समाविष्टः प्रविवेश गृहं द्विजः
।
तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् ॥७१॥
वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम्
।
स्वस्तीति तेन चैवोक्ता सा स्त्री प्रत्यवदत्तदा ॥७२॥
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह
।
अष्टावक्र उवाच
।
सर्वाः खानालयान् यान्तु एका मामुपतिष्ठतु ॥७३॥
प्रज्ञाता या प्रशान्ता या शेषा गच्छन्तु च्छन्दतः
।
ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा ॥७४॥
निश्चक्रमुर्गृहात्तस्मात्सा वृद्धाऽथ व्यतिष्ठत
।
अथ तां संविशन् प्राह शयने भास्वरे तदा ॥७५॥
त्वयापि सुप्यतां भद्रे रजनी ह्यतिवर्तते
।
संलापात्तेन विप्रेण तथा सा तत्र भाषिता ॥७६॥
द्वितीये शयने दिव्ये संविवेश महाप्रभे
।
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा ॥७७॥
व्यपदिश्य महर्षैर्वै शयनं व्यवरोहत
।
स्वागतेनागतां तां तु भगवानभ्यभाषत ॥७८॥
सोपागूहद्भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ
।
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा ॥७९॥
दुःखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह
।
ब्रह्मन्न कामतोऽन्यास्ति स्त्रीणां पुरुषतो धृतिः ॥८०॥
कामेन मोहिता चाहं त्वां भजन्ती भजस्व माम्
।
प्रहृष्टो भव विप्रर्षे समागच्छ मया सह ॥८१॥
उपगूह च मां विप्र कामार्ताऽहं भृशं त्वयि
।
एतद्धि तव धर्मात्मंस्तपसः पूज्यते फलम् ॥८२॥
प्रार्थितं दर्शनादेव भजमानां भजस्व माम्
।
मम चेदं धनं सर्वं यच्चान्यदपि पश्यसि ॥८३॥
प्रभुस्त्वं भव सर्वत्र मयि चैव न संशयः
।
सर्वान्कामान्विधास्यामि रमस्व सहितो मया ॥८४॥
रमणीये वने विप्र सर्वकामफलप्रदे
।
त्वद्वशाहं भविष्यामि रंस्यसे च मया सह ॥८५॥
सर्वान्कामानुपाश्नीमो ये दिव्या ये च मानुषाः
।
नातः परं हि नारीणां विद्यते च कदाचन ॥८६॥
यथा पुरुषसंसर्गः परमेतद्धि नः फलम्
।
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ॥८७॥
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः
।
अष्टावक्र उवाच
।
परदारानहं भद्रे न गच्छेयं कथञ्चन ॥८८॥
दूषितं धर्मशास्त्रज्ञैः परदाराभिमर्शनम्
।
भद्रे निर्वेष्टुकामं मां विद्धि सत्येन वै शपे ॥८९॥
विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः
।
एवं लोकान् गमिष्यामि पुत्रैरिति न संशयः ॥९०॥
भद्रे धर्मं विजानीहि ज्ञात्वा चोपरमस्व ह
।
स्त्र्युवाच
।
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज ॥९१॥
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः
।
सहस्त्रे किल नारीणां प्राप्येतैका कदाचन ॥९२॥
तथा शतसहस्त्रेषु यदि काचित्पतिव्रता
।
नैता जानन्ति पितरं न कुलं न च मातरम् ॥९३॥
न भ्रातॄन्न च भर्तारं न च पुत्रान्न देवरान्
।
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः
।
दोषान्सर्वांश्च मत्वाऽऽशु प्रजापतिरभाषत ॥९४॥
भीष्म उवाच। ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत
।
आस्यतां रुचितश्छन्दः किं च कार्यं ब्रवीहि मे ॥९५॥
सा स्त्री प्रोवाच भगवन् द्रक्ष्यसे देशकालतः
।
वस तावन्महाभाग कृतकृत्यो भविष्यसि ॥९६॥
ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर
।
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ॥९७॥
अथर्षिरभिसंप्रेक्ष्य स्त्रियं तां जरयाऽर्दिताम्
।
चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् ॥९८॥
यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा
।
नारमत्तत्र तत्रास्य दृष्टी रूपविरागिता ॥९९॥
देवतेयं गृहस्यास्य शापात्किं नु विरूपिता
।
अस्याश्च कारणं वेत्तुं न युक्तं सहसा मया ॥१००॥
इति चिन्ता विविक्तस्य तमर्थं ज्ञातुमिच्छतः
।
व्यगच्छत्तदहःशेषं मनसा व्याकुलेन तु ॥१०१॥
अथ सा स्त्री तथोवाच भगवन्पश्य वै रवेः
।
रूपं सन्ध्याभ्रसंरक्तं किमुपस्थाप्यतां तव ॥१०२॥
स उवाच ततस्तां स्त्रीं स्नानोदकमिहानय
।
उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः ॥१०३॥
भीष्म उवाच। अथ सा स्त्री तमुवाच बाढमेवं भवत्विति
।
तैलं दिव्यमुपादाय स्नानशाटीमुपानयत् ॥१॥
अनुज्ञाता च मिनिना सा स्त्री तेन महात्मना
।
अथास्य तैलेनाङ्गानि सर्वाण्येवाभ्यमृक्षत ॥२॥
शनैश्चोत्सादितस्तत्र स्नानशालामुपागमत्
।
भद्रासनं ततश्चित्रं ऋषिरन्वगमन्नवम् ॥३॥
अथोपविष्टश्च यदा तस्मिन्भद्रासने तदा
।
स्नापयामास शनकैस्तमृषिं सुखहस्तवत् ॥४॥
दिव्यं च विधिवच्चक्रे सोपचारं मुनेस्तदा
।
स तेन सुसुखोष्णेन तस्या हस्तसुखेन च ॥५॥
व्यतीतां रजनीं कृत्स्नां नाजानात्स महाव्रतः
।
तत उत्थाय स मुनिस्तदा परमविस्मितः ॥६॥
पूर्वस्यां दिशि सूर्यं च सोऽपश्यदुदितं दिवि
।
तस्य बुद्धिरियं किन्तु मोहस्तत्त्वमिदं भवेत् ॥७॥
अथोपास्य सहस्त्रांशुं किं करोमीत्युवाच ताम्
।
सा चामृतरसप्रख्यं ऋषेरन्नमुपाहरत् ॥८॥
तस्य स्वादुतयाऽन्नस्य न प्रभूतं चकार सः
।
व्यगमच्चाप्यहःशेषं ततः सन्ध्यागमत्पुनः ॥९॥
अथ सा स्त्री भगवन्तं सुप्यतामित्यचोदयत्
।
तत्र वै शयने दिव्ये तस्य तस्याश्च कल्पिते ॥१०॥
पृथक्चैव तथा सुप्तौ सा स्त्री स च मुनिस्तदा
।
तथार्धरात्रे सा स्त्री तु शयनं तदुपागमत् ॥११॥
अष्टावक्र उवाच
।
न भद्रे परदारेषु मनो मे संप्रसज्जति
।
उत्तिष्ठ भद्रे भद्रं ते स्वयं वै विरमस्व च ॥१२॥
भीष्म उवाच। सा तदा तेन विप्रेण तथा तेन निवर्तिता
।
स्वतन्त्राऽस्मीत्युवाचर्षिं न धर्मच्छलमस्ति ते ॥१३॥
अष्टावक्र उवाच
।
नास्ति स्वतन्त्रता स्त्रीणामस्वतन्त्रा हि योषितः
।
प्रजापतिमतं ह्येतन्न स्त्री स्वातन्त्र्यमर्हति ॥१४॥
स्त्र्युवाच
।
बाधते मैथुनं विप्र मम भक्तिं च पश्य वै
।
अधर्मं प्राप्स्यसे विप्र यन्मां त्वं नाभिनन्दसि ॥१५॥
अष्टावक्र उवाच
।
हरन्ति दोषजातानि नरं जातं यथेच्छकम्
।
प्रभवामि सदा धृत्या भद्रे स्वशयनं व्रज ॥१६॥
स्त्र्युवाच
।
शिरसा प्रणमे विप्र प्रसादं कर्तुमर्हसि
।
भूमौ निपतमानायाः शरणं भव मेऽनघ ॥१७॥
यदि वा दोषजातं त्वं परदारेषु पश्यसि
।
आत्मानं स्पर्शयाम्यद्य पाणिं गृह्णीष्व मे द्विज ॥१८॥
न दोषो भविता चैव सत्येनैतद्ब्रवीम्यहम्
।
स्वतन्त्रां मां विजानीहि योऽधर्मः सोऽस्तु वै मयि
।
त्वय्यावेशितचित्ता च स्वतन्त्राऽस्मि भजस्व माम् ॥१९॥
अष्टावक्र उवाच
।
स्वतन्त्रा त्वं कथं भद्रे ब्रूहि कारणमत्र वै
।
नास्ति त्रिलोके स्त्री काचिद्या वै स्वातन्त्र्यमर्हति ॥२०॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने
।
पुत्राश्च स्थाविरे काले नास्ति स्त्रीणां स्वतन्त्रता ॥२१॥
स्त्र्युवाच
।
कौमारं ब्रह्मचर्यं मे कन्यैवास्मि न संशयः
।
पत्नीं कुरुष्व मां विप्र श्रद्धां विजहि मा मम ॥२२॥
अष्टावक्र उवाच
।
यथा मम तथा तुभ्यं यथा तुभ्यं तथा मम
।
जिज्ञासेयमृषेस्तस्य विघ्नः सत्यं न किं भवेत् ॥२३॥
आश्चर्यं परमं हीदं किंतु श्रेयो हि मे भवेत्
।
दिव्याभरणवस्त्रा हि कन्येयं मामुपस्थिता ॥२४॥
किं त्वस्याः परमं रूपं जीर्णमासीत्कथं पुनः
।
कन्यारूपमिहाद्यैयं किमिवात्रोत्तरं भवेत् ॥२५॥
यथा परं शक्तिधृतेर्ने व्युत्थास्ये कथञ्चन
।
न रोचते हि व्युत्थानं सत्येनासादयाम्यहम् ॥२६॥
युधिष्ठिर उवाच। न बिभेति कथं सा स्त्री शापाच्च परमद्युतेः
।
कथं निवृत्तो भगवांस्तद्भवान् प्रब्रवीतु मे ॥१॥
भीष्म उवाच। अष्टावक्रोऽन्वपृच्छत्तां रूपं विकुरुषे कथम्
।
न चानृतं ते वक्तव्यं ब्रूहि ब्राह्मणकाम्यया ॥२॥
स्त्र्युवाच
।
द्यावापृथिव्योर्यत्रैषा काम्या ब्राह्मणसत्तम
।
शृणुष्वावहितः सर्वं यदिदं सत्यविक्रम ॥३॥
जिज्ञासेयं प्रयुक्ता मे स्थिरीकर्तुं तवानघ
।
अव्युत्थानेन ते लोका जिताः सत्यपराक्रम ॥४॥
उत्तरां मां दिशं विद्धि दृष्टं स्त्रीचापलं च ते
।
स्थविराणामपि स्त्रीणां बाधते मैथुनज्वरः ॥५॥
तुष्टः पितामहस्तेऽद्य तथा देवाः सवासवाः
।
स त्वं येन च कार्येण सम्प्राप्तो भगवानिह ॥६॥
प्रेषितस्तेन विप्रेण कन्यापित्रा द्विजर्षभ
।
तवोपदेशं कर्तुं वै तच्च सर्वं कृतं मया ॥७॥
क्षेमैर्गमिष्यसि गृहं श्रमश्च न भविष्यति
।
कन्यां प्राप्स्यसि तां विप्र पुत्रिणी च भविष्यति ॥८॥
काम्यया पृष्टवांस्त्वं मां ततो व्याहृतमुत्तमम्
।
अनतिक्रमणीया सा कृत्स्नैर्लोकैस्त्रिभिः सदा ॥९॥
गच्छस्व सुकृतं कृत्वा किं चान्यच्छ्रोतुमिच्छसि
।
यावद्ब्रवीमि विप्रर्षे अष्टावक्र यथातथम् ॥१०॥
ऋषिणा प्रसादिता चास्मि तव हेतोर्द्विजर्षभ
।
तस्य संमाननार्थं मे त्वयि वाक्यं प्रभाषितम् ॥११॥
भीष्म उवाच। श्रुत्वा तु वचनं तस्याः स विप्रः प्राञ्जलिः स्थितः
।
अनुज्ञातस्तया चापि स्वगृहं पुनराव्रजत् ॥१२॥
गृहमागत्य विश्रान्तः स्वजनं परिपृच्छ्य च
।
अभ्यगच्छच्च तं विप्रं न्यायतः कुरुनन्दन ॥१३॥
पृष्टश्च तेन विप्रेण दृष्टं त्वेतन्निदर्शनम्
।
प्राह विप्रं तदा विप्रः सुप्रीतेनान्तरात्मना ॥१४॥
भवता समनुज्ञातः प्रस्थितो गन्धमादनम्
।
तस्य चोत्तरतो देशे दृष्टं मे दैवतं महत् ॥१५॥
तया चाहमनुज्ञातो भवांश्चापि प्रकीर्तितः
।
श्रावितश्चापि तद्वाक्यं गृहं चाभ्यागतः प्रभो ॥१६॥
तमुवाच तदा विप्रः सुतां प्रति गृहाण मे
।
नक्षत्रविधियोगेन पात्रं हि परमं भवान् ॥१७॥
भीष्म उवाच। अष्टावक्रस्तथेत्युक्त्वा प्रतिगृह्य च तां प्रभो
।
कन्यां परमधर्मात्मा प्रीतिमांश्चाभवत्तदा ॥१८॥
कन्यां तां प्रतिगृह्यैव भार्यां परमशोभनाम्
।
उवास मुदितस्तत्र स्वाश्रमे विगतज्वरः ॥१९॥
युधिष्ठिर उवाच। किमाहुर्भरतश्रेष्ठ पात्रं विप्राः सनातनाः
।
ब्राह्मणं लिंगिनं चैव ब्राह्मणं वाऽप्यलिंगिनम् ॥१॥
भीष्म उवाच। स्ववृत्तिमभिपन्नाय लिंगिने चेतराय च
।
देयमाहुर्महाराज उभावेतौ तपस्विनौ ॥२॥
युधिष्ठिर उवाच। श्रद्धया परया पूतो यः प्रयच्छेद्द्विजातये
।
हव्यं कव्यं तथा दानं को दोषः स्यात्पितामह ॥३॥
भीष्म उवाच। श्रद्धापूतो नरस्तात दुर्दातोऽपि न संशयः
।
पूतो भवति सर्वत्र किमु तत्त्वं महाद्युते ॥४॥
युधिष्ठिर उवाच। न ब्राह्मणं परीक्षेत दैवेषु सततं नरः
।
कव्यप्रदाने तु बुधाः परीक्ष्यं ब्राह्मणं विदुः ॥५॥
भीष्म उवाच। न ब्राह्मणः साधयते हव्यं दैवात्प्रसिद्ध्यति
।
देवप्रसादादिज्यन्ते यजमानैर्न संशयः ॥६॥
ब्राह्मणान् भरतश्रेष्ठ सततं ब्रह्मवादिनः
।
मार्कण्डेयः पुरा प्राह इति लोकेषु बुद्धिमान् ॥७॥
युधिष्ठिर उवाच। अपूर्वोऽप्यथवा विद्वान् संबंधी वा यथा भवेत्
।
तपस्वी यज्ञशीलो वा कथं पात्रं भवेत्तु सः ॥८॥
भीष्म उवाच।
।
कुलीनः कर्मकृद्वैद्यस्तथैवाप्यानृशंस्यवान्
।
ह्रीमानृजुः सत्यवादी पात्रं पूर्वं च ये त्रयः ॥९॥
तत्रेमं शृणु मे पार्थ चतुर्णां तेजसां मतम्
।
पृथिव्याः काश्यपस्याग्नेर्मार्कण्डेयस्य चैव हि ॥१०॥
पृथिव्युवाच
।
यथा महार्णवे क्षिप्तः क्षिप्रं लेष्टुर्विनश्यति
।
तथा दुश्चरितं सर्वं त्रिवृत्यां च निमज्जति ॥११॥
काश्यप उवाच
।
सर्वे च वेदाः सह षड्भिरङ्गैः साङ्ख्यं पुराणं च कुले च जन्म
।
नैतानि सर्वाणि गतिर्भवन्ति शीलव्यपेतस्य नृप द्विजस्य ॥१२॥
अग्निरुवाच
।
अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परेषाम्
।
प्रभ्रश्यतेऽसौ चरते न सत्यं लोकास्तस्य ह्यन्तवन्तो भवन्ति ॥१३॥
मार्कण्डेय उवाच
।
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
।
नाभिजानामि यद्यस्य सत्यस्यार्धमवाप्नुयात् ॥१४॥
भीष्म उवाच। इत्युक्त्वा ते जग्मुराशु चत्वारोऽमिततेजसः
।
पृथिवी काश्यपोऽग्निश्च प्रहृष्टायुश्च भार्गवः ॥१५॥
युधिष्ठिर उवाच। यदि ते ब्राह्मणा लोके यतिनो भुञ्जते हविः
।
दत्तं ब्राह्मणकामाय कथं तत्सुकृतं भवेत् ॥१६॥
भीष्म उवाच। आदिृष्टिनो ये राजेन्द्र ब्राह्मणा वेदपारगाः
।
भुञ्जते ब्रह्मकामाय व्रतलुप्ता भवन्ति ते ॥१७॥
युधिष्ठिर उवाच।
।
अनेकान्तं बहुद्वारं धर्ममाहुर्मनीषिणः
।
किंनिमित्तं भवेदत्र तन्मे ब्रूहि पितामह ॥१८॥
भीष्म उवाच। अहिंसा सत्यमक्रोध आनृशंस्यं दमस्तथा
।
आर्जवं चैव राजेन्द्र निश्चितं धर्मलक्षणम् ॥१९॥
ये तु धर्मं प्रशंसन्तश्चरन्ति पृथिवीमिमाम्
।
अनाचरन्तस्तद्धर्मं सङ्करेऽभिरताः प्रभो ॥२०॥
तेभ्यो हिरण्यं रत्नं वा गामश्वं वा ददाति यः
।
दश वर्षाणि विष्ठां स भुङ्क्ते निरयमास्थितः ॥२१॥
मेदानां पुल्कसानां च तथैवान्तेवसायिनाम्
।
कृतं कर्माकृतं वापि रागमोहेन जल्पताम् ॥२२॥
वैश्वदेवं च ये मूढा विप्राय ब्रह्मचारिणे
।
ददते नेह राजेन्द्र ते लोकान् भुञ्जतेऽशुभान् ॥२३॥
युधिष्ठिर उवाच। किं परं ब्रह्मचर्यं च किं परं धर्मलक्षणम्
।
किं च श्रेष्ठतमं शौचं तन्मे ब्रूहि पितामह ॥२४॥
भीष्म उवाच। ब्रह्मचर्यात्परं तात मधुमांसस्य वर्जनम्
।
मर्यादायां स्थितो धर्मः शमश्चैवास्य लक्षणम् ॥२५॥
युधिष्ठिर उवाच। कस्मिन्काले चरेद्धर्मं कस्मिन्कालेऽर्थमाचरेत्
।
कस्मिन्काले सुखी च स्यात्तन्मे ब्रूहि पितामह ॥२६॥
भीष्म उवाच। कल्यमर्थं निषेवेत ततो धर्ममनन्तरम्
।
पश्चात्कामं निषेवेत न च गच्छेत्प्रसङ्गिताम् ॥२७॥
ब्राह्मणांश्चैव मन्येत गुरुंश्चाप्यभिपूजयेत्
।
सर्वभूतानुकलोमश्च मृदुशीलः प्रियंवदः ॥२८॥
अधिकारो यदनृतं यच्च राजसु पैशुनम्
।
गुरोश्चालीककरणं तुल्यं तद्ब्रह्महत्यया ॥२९॥
प्रहरेन्न नरेन्द्रेषु न हन्याद्गां तथैव च
।
भ्रूणहत्यासमं चैव उभयं यो निषेवते ॥३०॥
नाग्निं परित्यजेज्जातु न च वेदान् परित्यजेत्
।
न च ब्राह्मणमाक्रोशेत्समं तद्ब्रह्महत्यया ॥३१॥
युधिष्ठिर उवाच। कीदृशाः साधवो विप्राः केभ्यो दत्तं महाफलम्
।
कीदृशानां च भोक्तव्यं तन्मे ब्रूहि पितामह ॥३२॥
भीष्म उवाच। अक्रोधना धर्मपराः सत्यनित्या दमे रताः
।
तादृशाः साधवो विप्रास्तेभ्यो दत्तं महाफलम् ॥३३॥
अमानिनः सर्वसहा दृढार्था विजितेन्द्रियाः
।
सर्वभूतहिता मैत्रास्तेभ्यो दत्तं महाफलम् ॥३४॥
अलुब्धाः शुचयो वैद्या ह्रीमन्तः सत्यवादिनः
।
स्वकर्मनिरता ये च तेभ्यो दत्तं महाफलम् ॥३५॥
साङ्गांश्च चतुरो वेदानधीते यो द्विजर्षभः
।
षड्भ्यः प्रवृत्तः कर्मभ्यस्तं पात्रमृषयो विदुः ॥३६॥
ये त्वेवंगुणजातीयास्तेभ्यो दत्तं महाफलम्
।
सहस्रगुणमाप्नोति गुणार्हाय प्रदायकः ॥३७॥
प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च समन्वितः
।
तारयेत कुलं सर्वमेकोऽपीह द्विजर्षभः ॥३८॥
गामश्वं वित्तमन्नं वा तद्विधे प्रतिपादयेत्
।
द्रव्याणि चान्यानि तथा प्रेत्यभावे न शोचति ॥३९॥
तारयेत कुलं सर्वमेकोऽपीह द्विजोत्तमः
।
किमङ्ग पुनरेवैते तस्मात्पात्रं समाचरेत् ॥४०॥
निशम्य च गुणोपेतं ब्राह्मणं साधुसम्मतम्
।
दूरादानाय्य सत्कृत्य संवतश्चापि पूजयेत् ॥४१॥
युधिष्ठिर उवाच। श्राद्धकाले च दैवे च पित्र्येऽपि च पितामह
।
इच्छामीह त्वयाऽख्यातं विहितं यत्सुरर्षिभिः ॥१॥
भीष्म उवाच। दैवं पौर्वाह्णिकं कुर्यादपराह्णे तु पैतृकम्
।
मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान् ॥२॥
मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तिभिः
।
कालहीनं तु यद्दानं तं भागं रक्षसां विदुः ॥३॥
लङ्घितं चावलीढं च कलिपूर्वं च यत्कृतम्
।
रजस्वलाभिदृष्टं च तं भागं रक्षसां विदुः ॥४॥
अवघुष्टं च यद्भुक्तमव्रतेन च भारत
।
परामृष्टं शुना चैव तं भागं रक्षसां विदुः ॥५॥
केशकीटावपतितं क्षुतं श्वभिरवेक्षितम्
।
रुदितं चावधूतं च तं भागं रक्षसां विदुः ॥६॥
निरोङ्कारेण यद्भुक्तं सशस्त्रेन च भारत
।
दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः ॥७॥
परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत्
।
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः ॥८॥
मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते
।
त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः ॥९॥
आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते
।
दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः ॥१०॥
ये भागा रक्षसां प्राप्तास्त उक्ता भरतर्षभ
।
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु ॥११॥
यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च
।
दैवे वाऽप्यथ पित्र्ये वा राजन्नार्हन्ति केतनम् ॥१२॥
श्वित्री क्लीबश्च कुष्ठी च तथा यक्ष्महतश्च यः
।
अपस्मारी च यश्चान्धो राजन्नार्हन्ति केतनम् ॥१३॥
चिकित्सका देवलका वृथा नियमधारिणः
।
सोमविक्रयिणश्चैव राजन्नार्हन्ति केतनम् ॥१४॥
गायना नर्तकाश्चैव प्लवका वादकास्तथा
।
कथका योधकाश्चैव राजन्नार्हन्ति केतनम् ॥१५॥
होतारो वृषलानां च वृषलाध्यापकास्तथा
।
तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् ॥१६॥
अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत
।
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ ॥१७॥
अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः
।
ब्राह्मणः सर्वविद्योऽपि राजन्नार्हन्ति केतनम् ॥१८॥
अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये
।
स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् ॥१९॥
अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत
।
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् ॥२०॥
ऋणकर्ता च यो राजन्यश्च वार्धुषिको नरः
।
प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् ॥२१॥
स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ
।
अजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् ॥२२॥
श्राद्धे दैवे च निर्दिष्टो ब्राह्मणो भरतर्षभ
।
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः ॥२३॥
चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः
।
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः ॥२४॥
क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम्
।
न त्वेव वणिजं तात श्राद्धे च परिकल्पयेत् ॥२५॥
अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत्
।
अस्तेनश्चातिथिज्ञश्च स राजन् केतनक्षमः ॥२६॥
सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ
।
भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः ॥२७॥
उदितास्तमितो यश्च तथैवास्तमितोदितः
।
अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः ॥२८॥
अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ
।
संसर्गे भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः ॥२९॥
अव्रती कितवः स्तेनः प्राणिविक्रयिको वणिक्
।
पश्चाच्च पीतवान्सोमं स राजन्केतनक्षमः ॥३०॥
अर्जयित्वा धनं पूर्वं दारुणैरपि कर्मभिः
।
भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः ॥३१॥
ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम्
।
अदेयं पितृविप्रेभ्यो यच्च क्लैब्यादुपार्जितम् ॥३२॥
क्रियमाणेऽपवर्गे च यो द्विजो भरतर्षभ
।
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम् ॥३३॥
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा
।
सोमक्षयश्च मांसं च यदरण्यं युधिष्ठिर ॥३४॥
श्राद्धापवर्गे विप्रस्य स्वधा वै मुदिता भवेत्
।
क्षत्रियस्यापि यो ब्रूयात्प्रीयन्तां पितरस्त्विति ॥३५॥
अपवर्गे तु वैश्यस्य श्राद्धकर्माणि भारत
।
अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत ॥३६॥
पुण्याहवाचनं दैवं ब्राह्मणस्य विधीयते
।
एतदेव निरोङ्कारं क्षत्रियस्य विधीयते ॥३७॥
वैश्यस्य दैवे वक्तव्यं प्रीयन्तां देवता इति
।
कर्मणामानुपूर्व्येण विधिपूर्वं कृतं शृणु ॥३८॥
जातकर्मादिकाः सर्वास्त्रिषु वर्णेषु भारत
।
ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर ॥३९॥
विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी
।
बाल्वजी ह्येव वैश्यस्य धर्म एष युधिष्ठिर ॥४०॥
दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु
।
ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः
।
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः ॥४१॥
नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः
।
यवीयान्पशुहिंसायां तुल्यधर्मो भवेत्स हि ॥४२॥
तथा राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः
।
यवीयान् पशुहिंसायां भागार्धं समवाप्नुयात् ॥४३॥
दैवं वाऽप्यथवा पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु
।
अस्नातो ब्राह्मणो राजंस्तस्याधर्मो गवानृतम् ॥४४॥
आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु
।
ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् ॥४५॥
अर्थेनान्येन यो लिप्सेत्कर्मार्थं चैव भारत
।
आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम् ॥४६॥
अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर
।
मन्त्रवत्परिविष्यन्ते तस्याधर्मो गवानृतम् ॥४७॥
युधिष्ठिर उवाच। पित्र्यं वाऽप्यथवा दैवं दीयते यत्पितामह
।
एतदिच्छाम्यहं ज्ञातुं दत्तं केषु महाफलम् ॥४८॥
भीष्म उवाच। येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः
।
उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर ॥४९॥
चारित्रनिरता राजन्ये कृशाः कृशवृत्तयः
।
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ॥५०॥
तद्भक्तास्तद्गृहा राजंस्तद्बलास्तदपाश्रयाः
।
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् ॥५१॥
तस्करेभ्यः परेभ्यो वा ये भयार्ता युधिष्ठिर
।
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् ॥५२॥
अकल्ककस्य विप्रस्य रौक्ष्यात्कर्कशतात्मनः
।
वटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ॥५३॥
हृतस्वा हृतदाराश्च ये विप्रा देशसंप्लवे
।
अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् ॥५४॥
व्रतिनो नियमस्थाश्च ये विप्राः श्रुतसंमताः
।
तत्समाप्त्यर्थमिच्छन्ति तेभ्यो दत्तं महाफलम् ॥५५॥
अत्युत्क्रान्ताश्च धर्मेषु पाषण्डसमयेषु च
।
कृशप्राणाः कृशधनास्तेभ्यो दत्तं महाफलम् ॥५६॥
कृतसर्वस्वहरणा निर्दोषाः प्रविष्णुभिः
।
स्पृहयन्ति च भुक्त्वाऽन्नं तेषु दत्तं महाफलम् ॥५७॥
तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये
।
अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम् ॥७८॥
महाफलविधिर्दाने श्रुतस्ते भरतर्षभ
।
निरयं येन गच्छन्ति स्वर्गं चैव हि तच्छृणु ॥५९॥
गुर्वर्थमभयार्थं वा वर्जयित्वा युधिष्ठिर
।
येऽनृतं कथयन्ति स्म ते वै निरयगामिनः ॥६०॥
परदाराभिहर्तारः परदाराभिमर्शिनः
।
परदारप्रयोक्तारस्ते वै निरयगामिनः ॥६१॥
ये परस्वापहर्तारः परस्वानां च नाशकाः
।
सूचकाश्च परेषां ये ते वै निरयगामिनः ॥६२॥
प्रपाणां च सभानां च सङ्क्रमाणां च भारत
।
अगाराणां च भेत्तारो नरा निरयगामिनः ॥६३॥
अनाथं प्रमदां बालां वृद्धां भीतां तपस्विनीम्
।
वञ्चयन्ति नरा ये च ते वै निरयगामिनः ॥६४॥
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत
।
मित्रच्छेदं तथाऽऽशायास्ते वै निरयगामिनः ॥६५॥
सूचकाः सेतुभेत्तारः परवृत्त्युपजीवकाः
।
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥६६॥
पाषण्डा दूषकाश्चैव समयानां च दूषकाः
।
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ॥६७॥
विषमव्यवहाराश्च विषमाश्चैव वृद्धिषु
।
लाभेषु विषमाश्चैव ते वै निरयगामिनः ॥६८॥
दूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः
।
प्राणिहिंसाप्रवृत्ताश्च ते वै निरयगामिनः ॥६९॥
कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम्
।
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ॥७०॥
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा
।
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ॥७१॥
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः
।
वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥७२॥
चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः
।
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ॥७३॥
केशविक्रयिका राजन् विषविक्रयिकाश्च ये
।
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ॥७४॥
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर
।
येऽन्तरं यान्ति कार्येषु ते वै निरयगामिनः ॥७५॥
शस्त्रविक्रयिकाश्चैव कर्तारश्च युधिष्ठिर
।
शल्यानां धनुषां चैव ते वै निरयगामिनः ॥७६॥
शिलाभिः शंकुभिर्वापि श्वभ्रैर्वा भरतर्षभ
।
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ॥७७॥
उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ
।
ये त्यजन्त्यविकारांस्त्रींस्ते वै निरयगामिनः ॥७८॥
अप्राप्तदमकाश्चैव नासानां वेधकाश्च ये
।
बन्धकाश्च पशूनां ये ते वै निरयगामिनः ॥७९॥
अगोप्तारश्च राजानो बलिषड्भागतस्कराः
।
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ॥८०॥
क्षान्तान् दान्तांस्तथा प्राज्ञान् दीर्घकालं सहोषितान्
।
।
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥८१॥
बालानामथ वृद्धानां दासानां चैव ये नराः
।
अदत्वा भक्षयन्त्यग्रे ते वै निरयगामिनः ॥८२॥
एते पूर्वं विनिर्दिष्टाः प्रोक्ता निरयगामिनः
।
भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ ॥८३॥
सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत
।
हन्ति पुत्रान् पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः ॥८४॥
दानेन तपसा चैव सत्येन च युधिष्ठिर
।
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥८५॥
शुश्रूषाभिस्तपोभिश्च विद्यामादाय भारत
।
ये प्रतिग्रहानिःस्नेहास्ते नराः स्वर्गगामिनः ॥८६॥
भयात्पापात्तथा बाधाद्दारिद्र्याद्व्याधिधर्षणात्
।
यत्कृते प्रतिमुच्यन्ते ते नराः स्वर्गगामिनः ॥८७॥
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः
।
मङ्गलाचारसम्पन्नाः पुरुषाः स्वर्गगामिनः ॥८८॥
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च
।
निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ॥८९॥
आश्रमाणां च कर्तारः कुलानां चैव भारत
।
देशानां नगराणां च ते नराः स्वर्गगामिनः ॥९०॥
वस्त्राभरणदातारो भक्तपानान्नदास्तथा
।
कुटुम्बानां च दातारः पुरुषाः स्वर्गगामिनः ॥९१॥
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये
।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥९२॥
मातरं पितरं चैव शुश्रूषन्ति जितेन्द्रियाः
।
भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ॥९३॥
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत
।
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥९४॥
अपराधिषु सस्नेहा मृदवो मृदुवत्सलाः
।
आराधनसुखाश्चापि पुरुषाः स्वर्गगामिनः ॥९५॥
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः
।
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः ॥९६॥
सुवर्णस्य च दातारो गवां च भरतर्षभ
।
यानानां वाहनानां च ते नराः स्वर्गगामिनः ॥९७॥
वैवाहिकानां द्रव्याणां प्रेष्याणां च युधिष्ठिर
।
दातारो वाससां चैव ते नराः स्वर्गगामिनः ॥९८॥
विहारावसथोद्यानकूपारामसभाप्रपाः
।
वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ॥९९॥
निवेशनानां क्षेत्राणां वसतीनां च भारत
।
दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ॥१००॥
रसानां चाथ बीजानां धान्यानां च युधिष्ठिर
।
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥१०१॥
यस्मिंस्तस्मिन् कुले जाता बहुपुत्राः शतायुषः
।
सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ॥१०२॥
एतदुक्तममुत्रार्थ दैवं पित्र्यं च भारत
।
दानधर्मं च दानस्य यत्पूर्वमृषिभिः कृतम् ॥१०३॥
युधिष्ठिर उवाच। इदं मे तत्त्वतो राजन् वक्तुमर्हसि भारत
।
अहिंसयित्वाऽपि कथं ब्रह्महत्या विधीयते ॥१॥
भीष्म उवाच। व्यासमामन्त्र्य राजेन्द्र पुरा यत्पृष्टवानहम्
।
तत्तेऽहं संप्रवक्ष्यामि तदिहैकमनाः शृणु ॥२॥
चतुर्थस्त्वं वसिष्ठस्य तत्त्वमाख्याहि मे मुने
।
अहिंसयित्वा केनेह ब्रह्महत्या विधीयते ॥३॥
इति पृष्टो मया राजन् पराशरशरीरजः
।
अब्रवीन्निपुणो धर्मे निःसंशयमनुत्तमम् ॥४॥
ब्राह्मणं स्वयमाहूय भिक्षार्थे कृशवृत्तिनम्
।
ब्रूयान्नास्तीति यः पश्चात्तं विद्याद्ब्रह्मघातिनम् ॥५॥
मध्यस्थस्येह विप्रस्य योऽनूचानस्य भारत
।
वृत्तिं हरति दुर्बुद्धिस्तं विद्याद्ब्रह्मघातिनम् ॥६॥
गोकुलस्य तृषार्तस्य जलार्थे वसुधाधिप
।
उत्पादयति यो विघ्नं तं विद्याद्ब्रह्मघातिनम् ॥७॥
यः प्रवृत्तां श्रुतिं सम्यक् शास्त्रं वा मुनिभिः कृतं
।
दूषयत्यनभिज्ञाय तं विद्याद्ब्रह्मघातिनम् ॥८॥
आत्मजां रूपसंपन्नां महतीं सदृशे वरे
।
न प्रयच्छति यः कन्यां तं विद्याद्ब्रह्मघातिनम् ॥९॥
अधर्मनिरतो मूढो मिथ्या यो वै द्विजातिषु
।
दद्यान्मर्मातिगं शोकं तं विद्याद्ब्रह्मघातिनम् ॥१०॥
चक्षुषा विप्रहीणस्य पंगुलस्य जडस्य वा
।
हरेत यो वै सर्वस्वं तं विद्याद्ब्रह्मघातिनम् ॥११॥
आश्रमे वा वने वाऽपि ग्रामे वा यदि वा पुरे
।
अग्निं समुत्सृजेन्मोहात्तं विद्याद्ब्रह्मघातिनम् ॥१२॥
युधिष्ठिर उवाच। तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ
।
श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः ॥१॥
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ
।
वक्तुमर्हसि मे तानि श्रोतास्मि नियतं प्रभो ॥२॥
भीष्म उवाच। इममंगिरसा प्रोक्तं तीर्थवंशं महाद्युते
।
श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ॥३॥
तपोवनगतं विप्रमभिगम्य महामुनिम्
।
पप्रच्छांगिरसं धीरं गौतमः संशितव्रतः ॥४॥
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः
।
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ॥५॥
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने
।
प्रेत्यभावे महाप्राज्ञ तद्यथाऽस्ति तथा वद ॥६॥
अङ्गिरा उवाच
।
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम्
।
विगाह्य वै निराहारो निर्मलो मुनिवद्भवेत् ॥७॥
काश्मीरमण्डले नद्यो याः पतन्ति महानदम्
।
ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ॥८॥
पुष्करं च प्रभासं च नैमिषं सागरोदकम्
।
देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च ॥९॥
विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः
।
हिरण्यबिन्दुं विक्षोभ्य प्रयत्नश्चाभिवाद्य च ॥१०॥
कुशेशयं च देवं तं धूयते तस्य किल्विषम्
।
इन्द्रतोयां समासाद्य गन्धमादनसन्निधौ ॥११॥
करतोयां कुरङ्गे च त्रिरात्रोपोषितो नरः
।
अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः ॥१२॥
गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते
।
तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ॥१३॥
अपां ह्रद उपस्पृश्य वाजिमेधफलं लभेत्
।
ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः ॥१४॥
यत्र भागीरथी गङ्गा पतते दिशमुत्तराम्
।
महेश्वरस्य त्रिस्थाने यो नरस्त्वभिषिच्यते ॥१५॥
एकमासं निराहारः स पश्यति हि देवताः
।
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् ॥१६॥
सुधां वै लभते भोक्तुं यो नरो जायते पुनः
।
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः ॥१७॥
एकमासं निराहारः सिद्धिं मासेन स व्रजेत्
।
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः ॥१८॥
त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महृत्यया
।
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः ॥१९॥
देवेषु लभते कीर्तिं यशसा च विराजते ॥२०॥
देविकायामुपस्पृश्य तथा सुन्दरिकाह्रदे
।
अश्विन्यां रूपवर्चस्कं प्रेत्य वै लभते नरः ॥२१॥
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा
।
पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ॥२२॥
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा
।
निवासेऽप्सरसां दिव्ये कामचारी महीयते ॥२३॥
कालिकाश्रममासाद्य विपाशायां कृतोदकः
।
ब्रह्मचारी जितक्रोधस्त्रिरात्रं मुच्यते भवात् ॥२४॥
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन्
।
तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ॥२५॥
महापुर उपस्पृश्य त्रिरात्रोपोषितः शुचिः
।
त्रसानां स्थावराणां च द्विपदांनां भयं त्यजेत् ॥२६॥
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः
।
देवलोकमवाप्नोति सप्तरात्रोषितः शुचिः ॥२७॥
शरस्तम्बे कुशस्तम्बे द्रोणशर्मपदे तथा
।
अपां प्रपतनासेवी सेव्यते सोऽप्सरोगणैः ॥२८॥
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले
।
विगाह्य वै निराहारो राजलक्ष्म्या निषेव्यते
।
श्यामायास्त्वश्रमं गत्वा उपित्वा चाभिषिच्य च
।
एकपक्षं निराहारस्त्वन्तर्धानफलं लभेत् ॥३०॥
कौशिकीं तु समासाद्य वायुभक्षस्त्वलोलुपः
।
एकविंशतिरात्रेण स्वर्गमारोहते नरः ॥३१॥
मतङ्गवाप्यां यः स्नायादेकरात्रेण सिद्ध्यति
।
विगाहति ह्यनालम्बमन्धकं वै सनातनम् ॥३२॥
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः
।
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ॥३३॥
गङ्गाह्रद उपस्पृश्य तथा चैवोत्पलावने
।
अश्वमेधमवाप्नोति तत्र मासं कृतोदकः ॥३४॥
गङ्गायामुनयोस्तीर्थे तथा कालञ्जरे गिरौ
।
दशाश्वमेधानाप्नोति तत्र मासं कृतोदकः ॥३५॥
षष्टिह्रद उपस्पृश्य चान्नदानाद्विशिष्यते
।
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथा पराः ॥३५॥
समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ
।
माघमासं प्रयागे तु नियतः संशितव्रतः ॥३७॥
स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात्
।
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः ॥३८॥
वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः
।
तथा ब्रह्मसरो गत्वा भागीरथ्यां कृतोदकः ॥३९॥
एकमासं निराहारः सोमलोकमवाप्नुयात् ॥४०॥
उत्पातके नरः स्नात्वा अष्टावक्रे कृतोदकः
।
द्वादशाहं निराहारो नरमेधफलं लभेत् ॥४१॥
अश्मपृष्ठे गयायां च निरविन्दे च पर्वते
।
तृतीयां क्रौञ्चपद्यां च ब्रह्महत्या विशुध्यते ॥४२॥
कलविङ्क उपस्पृश्य विद्याच्च बहुशो जलम्
।
अग्नेः पुरे नरः स्नात्वा अग्निकन्यापुरे वसेत् ॥४३॥
करवीरपुरे स्नात्वा विशालायां कृतोदकः
।
देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते ॥४४॥
पुनरावर्तनन्दां च महानन्दां च सेव्य वै
।
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥४५॥
उर्वशीं कृत्तिकायोगे गत्वा चैव समाहितः
।
लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ॥४६॥
रामह्रद उपस्पृश्य विपाशायां कृतोदकः
।
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ॥४७॥
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः
।
एकमासं निराहारो जमदग्निगतिं लभेत् ॥४८॥
विन्ध्ये सन्ताप्य चात्मानं सत्यसन्धस्त्वहिंसकः
।
विनयात्तप आस्थाय मासेनैकेन सिद्ध्यति ॥४९॥
नर्मदायामुपस्पृश्य तथा शूर्पारकोदके
।
एकपक्षं निराहारो गजपुत्रो विधीयते ॥५०॥
जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः
।
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ॥५१॥
कोकामुखे विगाह्याथ गत्वा चाञ्जालिकाश्रमम्
।
शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ॥५२॥
वैवस्वतस्य सदनं न स गच्छेत्कदाचन
।
यस्य कन्याह्रदे वासो देवलोकं स गच्छति ॥५३॥
प्रभासे त्वेकरात्रेण अमावास्यां समाहितः
।
सिद्ध्यते तु महाबाहो यो नरो जायतेऽमरः ॥५४॥
उज्जानक उपस्पृश्य आर्ष्टिषेणस्य चाश्रमे
।
पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ॥५५॥
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम्
।
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः ॥५६॥
पिंडारक उपस्पृश्य एकरात्रोषितो नरः
।
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ॥५७॥
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम्
।
पुण्डरीकमवाप्नोति उपस्पृश्य नरः शुचिः ॥५८॥
मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च
।
कामं जित्वा च वै मासं सर्वयज्ञफलं लभेत् ॥५९॥
कालोदकं नन्दिकुण्डं तथा चोत्तरमानसयम्
।
अभ्येत्य योजनशताद्भ्रूणहा विप्रमुच्यते ॥६०॥
नन्दीश्वरस्य मूर्तिं तु दृष्टा मुच्येत किल्बिषैः
।
स्वर्गमार्गे नरः स्नात्वा ब्रह्मलोकं स गच्छति ॥६१॥
विख्यातो हिमवान्पुण्यः शङ्करश्वशुरो गिरिः
।
आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥६२॥
शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके
।
अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः ॥६३॥
अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा
।
ततः सिद्धो दिवं गच्छेद्ब्रह्मलोकं सनातनम् ॥६४॥
कामं क्रोधं च लोभं च यो जित्वा तीर्थमावसेत्
।
न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ॥६५॥
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च
।
मनसा तानि गम्यानि सर्वतीर्थसमीक्षया ॥६६॥
इदं मेध्यमिदं पुण्यमिदं स्वर्ग्यमनुत्तमम्
।
इदं रहस्यं वेदानामाप्लाव्यां पावनं तथा ॥६७॥
इदं दद्याद्द्विजातीनां साधोरात्महितस्य च
।
सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च ॥६८॥
दत्तवान् गौतमस्यैतदङ्गिरा वै महातपाः
।
अङ्गिराः समनुज्ञातः काश्यपेन च श्रीमता ॥६९॥
महर्षीणामिदं जप्यं पावनानां तथोत्तमम्
।
जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् ॥७०॥
इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम्
।
उत्तमे च कुले जन्म लभेज्जातीश्च संस्मरेत् ॥७१॥
वैशम्पायन उवाच। बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम्
।
पराक्रमे शक्रसममादित्यसमतेजसम् ॥१॥
गाङ्गेयमर्जुनेनाजौ निहतं भूरितेजसम्
।
भ्रातृभिः सहितोऽन्यैश्च पर्यपृच्छद्युधिष्ठिरः ॥२॥
शयानं वीरशयने कालाकाङ्क्षिणमच्युतम्
।
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः ॥३॥
अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः
।
अङ्गिरा गौतमोऽगस्त्यः सुमतिः सुयतात्मवान् ॥४॥
विश्वामित्रः स्थूलशिराः संवर्तः प्रमतिर्दमः
।
बृहस्पत्युशनोव्यासाश्च्यवनः काश्यपो ध्रुवः ॥५॥
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः
।
भरद्वाजोऽथ रैभ्यश्च यवक्रीतस्त्रितस्तथा ॥६॥
स्थूलाक्षः शबलाक्षश्च कण्वो मेधातिथिः कृशः
।
नारदः पर्वतश्चैव सुधन्वाऽथैकतो द्विजः ॥७॥
नितम्भूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः
।
जामदग्न्यस्तथा रामः कचश्चेत्येवमादयः ॥८॥
समागता महात्मानो भीष्मं द्रष्टुं महर्षयः
।
तेषां महात्मनां पूजामागातानां युधिष्ठिरः ॥९॥
भ्रातृभिः सहितश्चक्रे यथावदनुपूर्वशः
।
ते पूजिताः सुखासीनाः कथाश्चक्रुर्महर्षयः ॥१०॥
भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः
।
भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् ॥११॥
मेने दिविष्ठमात्मानं तुष्ट्या परमया युतः
।
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः ॥१२॥
अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम्
।
तानृषीन्सुमहाभागानन्तर्धानगतानपि ॥१३॥
पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः
।
प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमम् ॥१४॥
उपस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः
।
प्रभावात्तपसस्तेषामृषीणां वीक्ष्य पांडवाः ॥१५॥
प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः
।
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते
।
पांडवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः ॥१६॥
वैशम्पायन उवाच। कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पांडवः
।
धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः ॥१७॥
युधिष्ठिर उवाच। के देशाः के जनपदा आश्रमाः के च पर्वताः
।
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह ॥१८॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
शिलोंच्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥१९॥
इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषणाम्
।
असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ॥२०॥
शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनाऽर्चितः
।
उवास रजनीं तत्र सुमुखः सुखभागृषिः ॥२१॥
शिलवृत्तिस्तु यत् कृत्यं प्रातस्तत्कृतवाञ्छुचिः
।
कृतकृत्यमुपातिष्ठत् सिद्धं तमतिथिं तदा ॥२२॥
तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः
।
चक्रतुर्वेदसंबद्धास्तच्छेषकृतलक्षणाः ॥२३॥
शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः
।
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ॥२४॥
शिलवृत्तिरुवाच
।
के देशाः के जनपदाः के श्रमाः के च पर्वताः
।
प्रकृष्टा पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् ॥२५॥
सिद्ध उवाच
।
ते देशास्ते जनपदास्तेऽश्रमास्ते च पर्वताः
।
येषां भागीरथी गङ्गा मध्येनैति सरिद्वरा ॥२६॥
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः
।
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥२७॥
स्पृष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम्
।
न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ॥२८॥
सर्वाणि येषां गाङ्गेयैस्तोयैः कार्याणि देहिनाम्
।
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते जनाः ॥२९॥
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः
।
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥३०॥
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम्
।
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥३१॥
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति
।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥३२॥
अपहत्य तमस्तीव्रं यथा भात्युदये रविः
।
तथाऽपहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥३३॥
विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा
।
।
तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शिवैः ॥३४॥
वर्णाश्रमा यथा सर्वे धर्मज्ञानविवर्जिताः
।
क्रतवश्च यथाऽसोमास्तथा गङ्गां विना जगत् ॥३५॥
यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना
।
तथा देशा दिशश्चैव गंगाहीना न संशयः ॥३६॥
त्रिषु लोकेषु ये केचित् प्राणिनः सर्व एव ते
।
तर्प्यमाणाः परां तृप्तिं यान्ति गंगाजलैः शुभैः ॥३७॥
यस्तु सूर्येण निष्टप्तं गांगेयं पिबते जलम्
।
गवां निर्हारनिर्मुक्ताद्यावकात्तद्विशिष्यते ॥३८॥
इन्दुव्रतसहस्रं तु यश्चरेत्कायशोधनम्
।
पिबेद्यश्चापि गङ्गाम्भः समौ स्यातां न वा समौ ॥३९॥
तिष्ठेद्युगसहस्रं तु पदेनैकेन यः पुमान्
।
मासमेकं तु गंगायां समौ स्यातां न वा समौ ॥४०॥
लम्बतेऽवाक्शिरा यस्तु युगानामयुतं पुमान्
।
तिष्ठेद्यथेष्टं यश्चापि गंगायां स विशिष्यते ॥४१॥
अग्नौ प्रास्तं प्रधूयेत यथा तूलं द्विजोत्तम
।
तथा गंगावगाढस्य सर्वपापं प्रधूयते ॥४२॥
भूतानामिह सर्वेषां दुःखोपहतचेतसाम्
।
गतिमन्वेषमाणानां न गंगासदृशी गतिः ॥४३॥
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात्
।
गंगाया दर्शनात्तद्वत्सर्वपापैः प्रमुच्यते ॥४४॥
अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये
।
तेषां प्रतिष्ठा गंगेह शरणं शर्म वर्म च ॥४५॥
प्रकृष्टैरशुभैर्ग्रस्तनने-- पुरुषाधमान्
।
पततो नरके गंगा संश्रितान्प्रेत्य तारयेत् ॥४६॥
ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः
।
येऽभिगच्छन्ति सततं गङ्गां मतिमतां वर ॥४७॥
विनयाचारहीनाश्च अशिवाश्च नराधमाः
।
ते भवन्ति शिवा विप्र ये वै गङ्गामुपाश्रिताः ॥४८॥
यथा सुराणाममृतं पितॄणां च यथा स्वधा
।
सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ॥४९॥
उपासते यथा बाला मातरं क्षुधयाऽर्दिताः
।
श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ॥५०॥
स्वयंभुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते
।
स्नातानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ॥५१॥
यथोपजीविनां धेनुर्देवादीनां धरा स्मृता
।
।
तथोपजीविनां गंगा सर्वप्राणभृतामिह ॥५२॥
देवाः सोमार्कसंस्थानि यथा सत्रादिभिर्मखैः
।
अमृतान्युपजीवन्ति तथा गंगाजलं नराः ॥५३॥
जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितम्
।
आत्मानं मन्यते लोको दिविष्ठमिव शोभितम् ॥५४॥
जाह्नवीतीरसंभूतां मृदं मूर्ध्ना बिभर्ति यः
।
बिभर्ति रूपं सोऽर्कस्य तमोनाशाय निर्मलम् ॥५५॥
गंगोर्मिभिरथो दिग्धः पुरुषं पवनो यदा
।
स्पृशते सोऽस्य पाप्मानं सद्य एवापकर्षति ॥५६॥
व्यसनैरभितप्तस्य नरस्य विनशिष्यतः
।
गंगादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ॥५७॥
हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम्
।
पस्पर्ध गङ्गा गन्धर्वान् पुलिनैश्च शिलोच्चयान् ॥५८॥
हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम्
।
गंगां गोकुलसम्बाधां दृष्ट्वा स्वर्गोऽपि विस्मृतः ॥५९॥
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः
।
संभवेद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥६०॥
वाङ्मनःकर्मजैर्ग्रस्तः पापैरपि पुमानिह
।
वीक्ष्य गंगां भवेत्पूतो अत्र मे नास्ति संशयः ॥६१॥
सप्तावरान् सप्त परान् पितॄंस्तेभ्यश्च ये परे
।
पुमांस्तारयते गंगां वीक्ष्य स्पृष्ट्वाऽवगाह्य च ॥६२॥
श्रुताभिलषिता पीता स्पृष्टा दृष्टावगाहिता
।
गंगा तारयते नृणांमुभौ वंशौ विशेषतः ॥६३॥
दर्शनात्स्पर्शनात्पानात्तथा गंगेति कीर्तनात्
।
पुनात्यपुण्यान्पुरुषाञ्छतशोऽथ सहस्रशः ॥६४॥
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च
।
स पितॄंस्तर्पयेद्गंगामभिगम्य सुरांस्तथा ॥६५॥
न सुतैर्न च वित्तेन कर्मणा न च तत्फलम्
।
प्राप्नुयात्पुरुषोऽत्यन्तं गंगां प्राप्य यदाप्नुयात् ॥६६॥
जात्यन्धैरिह तुल्यास्ते मृतैः पंगुभिरेव च
।
समर्था ये न पश्यन्ति गंगां पुण्यजलां शिवाम् ॥६७॥
भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम्
।
देवैः सेन्द्रैश्च को गंगां नोपसेवेत मानवः ॥६८॥
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः
।
विद्यावद्भिः श्रितां गंगां पुमान्को नाम नाश्रयेत् ॥६९॥
उत्क्रामद्भिश्च यः प्राणैः प्रयत: शिष्टसंमतः
।
चिन्तयेन्मनसा गंगां स गतिं परमां लभेत् ॥७०॥
न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः
।
आ देहपतनाद्गंगामुपास्ते यः पुमानिह ॥७१॥
महापुण्यां च गगनात्पतंतीं वै महेश्वरः
।
दधार शिरसा गंगां तामेव दिवि सेवते ॥७२॥
अलंकृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः
।
यस्तु तस्या जलं सेवेत्कृतकृत्यः पुमान् भवेत् ॥७३॥
दिवि ज्योतिर्यथाऽऽदित्यः पितॄणां चैव चन्द्रमाः
।
देवेशश्च तथा नृणां गंगा च सरितां तथा ॥७४॥
मात्रा पित्रा सुतैर्दारैर्विमुक्तस्य धनेन वा
।
न भवेद्धि तथा दुःखं यथा गंगावियोगजम् ॥७५॥
नारण्यैर्नेष्टुविषयैर्न सुतैर्न धनागमैः
।
तथा प्रसादो भवति गंगां वीक्ष्य यथा भवेत् ॥७६॥
पूर्णमिंदुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति
।
तथा त्रिपथगां दृष्ट्वा नृणां दृष्टिः प्रसीदति ॥७७॥
तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः
।
गंगां योऽनुगतो भक्त्या स तस्याः प्रियतां व्रजेत् ॥७८॥
भूस्थैः स्वस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि
।
गंगा विगाह्या सततमेतत्कार्यतमं सताम् ॥७९॥
विश्वलोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः
।
यत्पुत्रान्सगरस्येतो भस्माख्याननयद्दिवम् ॥८०॥
वाय्वीरीरिताभिः सुमनोहराभिर्द्रुताभिरत्यर्थसमुत्थिताभिः
।
गंगोर्मिभिर्भानुमतीभिरिद्धाः सहस्ररश्मिप्रतिमा भवन्ति ॥८१॥
पयस्विनीं घृतिनीमत्युदारां समृद्धिनीं वेगिनीं दुर्विगाह्याम्
।
गंगां गत्वा यैः शरीरं विसृष्टं गता धीरास्ते विबुधैः समत्वम् ॥८२॥
अन्धान् जडान्द्रव्यहीनांश्च गंगा यशस्विनी बृहती विश्वरूपा
।
देवैः सेन्द्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकामैर्युनक्ति ॥८३॥
ऊर्जावतीं महापुण्यां मधुमतीं त्रिवर्त्मगाम्
।
त्रिलोकगोप्त्रीं ये गंगां संश्रितास्ते दिवं गताः ॥८४॥
यो वत्स्यति द्रक्ष्यति वापि मर्त्यस्तस्मै प्रयच्छन्ति सुखानि देवाः
।
तद्भाविताः स्पर्शनदर्शनेन इष्टां गतिं तस्य सुरा दिशन्ति ॥८५॥
दक्षां पृश्निं बृहतीं विप्रकृष्टां शिवामृद्धां भागिनीं सुप्रसन्नाम्
।
विभावरीं सर्वभूतप्रतिष्ठां गंगां गता ये त्रिदिवं गतास्ते ॥८६॥
ख्यातिर्यस्याः खं दिवं गां च नित्यं पुरा दिशो विदिशश्चावतस्थे
।
तस्या जलं सेव्य सरिद्वराया मर्त्याः सर्वे कृतकृत्या भवन्ति ॥८७॥
इयं गंगेति नियतं प्रतिष्ठा गुहस्य रुक्मस्य च गर्भयोषा
।
प्रातस्त्रिवर्गा घृतवहा विपाप्मा गंगायतीर्णा वियतो विश्वतोया ॥८८॥
सुतावतीध्रस्य हरस्य भार्या दिवो भुवश्चापि कृतानुरूपा
।
भव्या पृथिव्यां भागिनी चापि राजन् गंगा लोकानां पुण्यदा वै त्रयाणाम् ॥८९॥
मधुस्रवा घृतधारा घृतार्चिर्महोर्मिभिः शोभिता ब्राह्मणैश्च
।
दिवश्च्युता शिरसाऽऽप्ता शिवेन गंगाऽवनीध्रात्त्रिदिवस्य माता ॥९०॥
योनिर्वरिष्ठा विरजा वितन्वी शय्या चिरा वारिवहा यशोदा
।
विश्वावती चाकृतिरिष्टसिद्धा गंगोक्षितानां भुवनस्य पन्थाः ॥९१॥
क्षान्त्या मह्या गोपने धारणे च दीप्त्या कृशानोस्तपनस्य चैव
।
तुल्या गंगा संमता ब्राह्मणानां गुहस्य ब्रह्मण्यतया च नित्यं ॥९२॥
ऋषिष्टुतां विष्णुपदीं पुराणां सुपुण्यतोयां मनसाऽपि लोके
।
सर्वात्मना जाह्नवीं ये प्रपन्नास्ते ब्रह्मणः सदनं संप्रयाताः ॥९३॥
लोकानवेक्ष्य जननीव पुत्रान् सर्वात्मना सर्वगुणोपपन्नान्
।
तत्तस्थानकं ब्राह्ममभीप्समानैर्गंगा सदैवात्मवशैरुपास्या ॥९४॥
उस्रां पुष्टां मिषतीं विश्वभोज्यामिरावतीं धारिणीं भूधराणाम्
।
शिष्टाश्रयाममृतां ब्रह्मकान्तां गङ्गां श्रयेदात्मवान् सिद्धिकामः ॥९५॥
प्रसाद्य देवान् सविभून्समस्तान् भगीरथस्तपसोग्रेण गङ्गाम्
।
गामानयत्तामभिगम्य शश्वत् पुंसां भयं नेह चामुत्र विद्यात् ॥९६॥
उदाहृतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बुद्ध्या
।
शक्तिर्न मे काचिदिहास्ति वक्तुं गुणान्सर्वान्परिमार्तुं तथैव ॥९७॥
मेरोः समुद्रस्य च सर्वयत्नैः संख्योपलानामुदकस्य वापि
।
शक्यं वक्तुं नेह गंगाजलानां गुणाख्यानं परिमातुं तथैव ॥९८॥
तस्मादेतान्परया श्रद्धयोक्तान् गुणान्सर्वान् जाह्नवीयान् सदैव
।
भवेद्वाचा मनसा कर्मणा च भक्त्या युक्तः श्रद्धया श्रद्दधानः ॥९९॥
लोकानिमांस्त्रीन्यशसा वितत्य सिद्धिं प्राप्य महतीं तां दुरापाम्
।
गङ्गाकृतानचिरेणैव लोकान् यथेष्टमिष्टान् विहरिष्यसि त्वम् ॥१००॥
तव मम च गुणैर्महानुभावा जुषतु मतिं सततं स्वधर्मयुक्तैः
।
अभिमतजनवत्सला हि गंगा जगति पुनाति सुखैश्च भक्तिमन्तम् ॥१०१॥
भीष्म उवाच। इति परममतिर्गुणानशेषान् शिलरतये त्रिपथानुयोगरूपान्
।
बहुविधमनुशास्य तथ्यरूपान् गगनतलं द्युतिमान् विवेश सिद्धः ॥१०२॥
शिलवृत्तिस्तु सिद्धस्य वाक्यैः संबोधितस्तदा
।
गंगामुपास्य विधिवत्सिद्धिं प्राप सुदुर्लभाम् ॥१०३॥
तथा त्वमपि कौन्तेय भक्त्या परमया युतः
।
गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् ॥१०४॥
वैशम्पायन उवाच। श्रुत्वेतिहासं भीष्मोक्तं गंगायाः स्तवसंयुतम्
।
युधिष्ठिरः परां प्रीतिमगच्छद्भ्रातृभिः सह ॥१०५॥
इतिहासमिमं पुण्यं शृणुयाद्यः पठेत वा
।
गंगायाः स्तवसंयुक्तं स मुच्येतसर्वकिल्बिषैः ॥१०६॥
युधिष्ठिर उवाच। प्रज्ञाश्रुताभ्यां वृत्तेन शीलेन च यथा भवान्
।
गुणैश्च विविधैः सर्वैर्वयसा च समन्वितः ॥१॥
भवान् विशिष्टो बुद्ध्या च प्रज्ञया तपसा तथा
।
तस्माद्भवन्तं पृच्छामि धर्मं धर्मभृतां वर ॥२॥
नान्यस्त्वदन्यो लोकेषु प्रष्टव्योऽस्ति नराधिप
।
क्षत्रियो यदि वा वैश्यः शूद्रो वा राजसत्तम ॥३॥
ब्राह्मण्यं प्राप्नुयाद्येन तन्मे व्याख्यातुमर्हसि
।
तपसा वा सुमहता कर्मणा वा श्रुतेन वा
।
ब्राह्मण्यमथ चेदिच्छेत्तन्मे ब्रूहि पितामह ॥४॥
भीष्म उवाच। ब्राह्मण्यं तात दुष्प्राप्यं वर्णैः क्षत्रादिभिस्त्रिभिः
।
परं हि सर्वभूतानां स्थानमेतद्युधिष्ठिर ॥५॥
बह्वीस्तु संसरन् योनीर्जायमानः पुनः पुनः
।
पर्याये तात कस्मिंश्चिद्ब्राह्मणो नाम जायते ॥६॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
मतङ्गस्य च संवादं गर्दभ्याश्च युधिष्ठिर ॥७॥
द्विजातेः कस्यचित्तात तुल्यवर्णः सुतस्त्वभूत्
।
मतङ्गो नाम नाम्ना वै सर्वैः समुदितो गुणैः ॥८॥
स यज्ञकारः कौन्तेय पित्रोत्सृष्टः परन्तप
।
प्रायाद्गर्दभयुक्तेन रथेनाप्याशुगामिना ॥९॥
स बालं गर्दभं राजन् वहन्तं मातुरन्तिके
।
निरविध्यत्प्रतोदेन नासिकायां पुनः पुनः ॥१०॥
तत्र तीव्रं व्रणं दृष्ट्वा गर्दभी पुत्रगृद्धिनी
।
उवाच मा शुचः पुत्र चाण्डालस्त्वधितिष्ठति ॥११॥
ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते
।
आचार्यः सर्वभूतानां शास्ता किं प्रहरिष्यति ॥१२॥
अयं तु पापप्रकृतिर्बाले न कुरुते दयाम्
।
स्वयोनिं मानयत्येष भावो भावं नियच्छति ॥१३॥
एतच्छ्रुत्वा मतङ्गस्तु दारुणं रासभीवचः
।
अवतीर्य रथात्तूर्णं रासभीं प्रत्यभाषत ॥१४॥
ब्रूहि रासभि कल्याणि माता मे येन दूषिता
।
कथं मां वेत्सि चण्डालं क्षिप्रं रासभि शंस मे ॥१५॥
कथं मां वेत्सि चण्डालं ब्राह्मण्यं येन नश्यते
।
तत्त्वेनैतन्महाप्राज्ञे ब्रूहि सर्वमशेषतः ॥१६॥
गर्दभ्युवाच
।
ब्राह्मण्यां वृषलेन त्वं मत्तायां नापितेन ह
।
।
जातस्त्वमसि चाण्डालो ब्राह्मण्यं तेन तेऽनशत् ॥१७॥
एवमुक्तो मतङ्गस्तु प्रतिप्रायाद्गृहं प्रति
।
तमागतमभिप्रेक्ष्य पिता वाक्यमथाब्रवीत् ॥१८॥
मया त्वं यज्ञसंसिद्धौ नियुक्तो गुरुकर्मणि
।
कस्मात्प्रतिनिवृत्तोऽसि कच्चिन्न कुशलं तव ॥१९॥
मतङ्ग उवाच
।
अन्त्ययोनिरयोनिर्वा कथं स कुशली भवेत्
।
कुशलं तु कुतस्तस्य यस्येयं जननी पितः ॥२०॥
ब्राह्मण्यां वृषलाज्जातं पितर्वेदियतीव माम्
।
अमानुषी गर्दभीयं तस्मात्तप्स्ये तपो महत् ॥२१॥
एवमुक्त्वा स पितरं प्रतस्थे कृतनिश्चयः
।
ततो गत्वा महारण्यमतपत्सुमहत्तपः ॥२२॥
ततः स तापयामास विबुधांस्तपसान्वितः
।
मतङ्गः सुखसंप्रेप्सुः स्थानं सुचरितादपि ॥२३॥
तं तथा तपसा युक्तमुवाच हरिवाहनः
।
मतङ्ग तप्स्यसे किं त्वं भोगानुत्सृज्य मानुषान् ॥२४॥
वरं ददामि ते हंत वृणीष्व त्वं यदिच्छसि
।
यच्चाप्यवाप्यं हृदि ते सर्वं तद्ब्रूहि माचिरम् ॥२५॥
मतङ्ग उवाच
।
ब्राह्मण्यं कामयानोऽहमिदमारब्धवांस्तपः
।
गच्छेयं तदवाप्येह वर एष वृतो मया ॥२६॥
भीष्म उवाच। एतच्छ्रुत्वा तु वचनं तमुवाच पुरन्दरः
।
मतङ्ग दुर्लभमिदं विप्रत्वं प्रार्थ्यते त्वया ॥२७॥
ब्राह्मण्यं प्रार्थयानस्त्वमप्राप्यमकृतात्मभिः
।
विनशिष्यसि दुर्बुद्धे तदुपारम माचिरम् ॥२८॥
श्रेष्ठतां सर्वभूतेषु तपोऽर्थं नातिवर्तते
।
तदग्र्यं प्रार्थयानस्त्वमचिराद्विनशिष्यसि ॥२९॥
देवतासुरमर्त्येषु यत्पवित्रं परं स्मृतम्
।
चण्डालयोनौ जातेन न तत्प्राप्यं कथञ्चन ॥३०॥
भीष्म उवाच। एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः
।
अतिष्ठदेकपादेन वर्षाणां शतमच्युतः ॥१॥
तमुवाच ततः शक्रः पुनरेव महायशाः
।
ब्राह्मण्यं दुर्लभं तात प्रार्थयानो न लप्स्यसे ॥२॥
मतङ्ग परमं स्थानं प्रार्थयन्विनशिष्यसि
।
मा कृथाः साहसं पुत्र नैष धर्मपथस्तव ॥३॥
न हि शक्यं त्वया प्राप्तुं ब्राह्मण्यमिह दुर्मते
।
अप्राप्यं प्रार्थयानो हि न चिराद्विनशिष्यसि ॥४॥
मतङ्ग परमं स्थानं वार्यमाणोऽसकृन्मया
।
चिकीर्षस्येव तपसा सर्वथा न भविष्यसि ॥५॥
तिर्यग्योनिगतः सर्वो मानुष्यं यदि गच्छति
।
स जायते पुल्कसो वा चण्डालो वाऽप्यसंशयः ॥६॥
पुल्कसः पापयोनिर्वा यः कश्चिदिह लक्ष्यते
।
स तस्यामेव सुचिरं मतङ्ग परिवर्तते ॥७॥
ततो दशशते काले लभते शूद्रतामपि
।
शूद्रयोनावपि ततो बहुशः परिवर्तते ॥८॥
ततस्त्रिंशद्गुणे काले लभते वैश्यतामपि
।
वैश्यतायां चिरं कालं तत्रैव परिवर्तते ॥९॥
ततः षष्टिगुणे काले राजन्यो नाम जायते
।
ततः षष्टिगुणे काले लभते ब्रह्मबन्धुताम् ॥१०॥
ब्रह्मबन्धुश्चिरं कालं ततस्तु परिवर्तते
।
ततस्तु द्विशते काले लभते काण्डपृष्ठताम् ॥११॥
काण्डपृष्ठिश्चिरं कालं तत्रैव परिवर्तते
।
ततस्तु त्रिशते काले लभते जपतामपि ॥१२॥
तं च प्राप्य चिरं कालं तत्रैव परिवर्तते
।
ततश्चतुःशते काले श्रोत्रियो नाम जायते
।
श्रोत्रियत्वे चिरं कालं तत्रैव परिवर्तते ॥१३॥
तदेवं शोकहर्षौ तु कामद्वेषौ च पुत्रक
।
अतिमानातिवादौ च प्रविशेते द्विजाधमम् ॥१४॥
तांश्चेज्जयति शत्रून्स तदा प्राप्नोति सद्गतिम्
।
अथ ते वै जयन्त्येनं तालाग्रादिव पात्यते ॥१५॥
मतङ्ग संप्रधार्यैवं यदहं त्वामचूचुदम्
।
वृणीष्व काममन्यं त्वं ब्राह्मण्यं हि सुदुर्लभम् ॥१६॥
भीष्म उवाच। एवमुक्तो मतङ्गस्तु संशितात्मा यतव्रतः
।
सहस्रमेकपादेन ततो ध्याने व्यतिष्ठत ॥१॥
तं सहस्रावरे काले शक्रो द्रष्टुमुपागमत्
।
तदेव च पुनर्वाक्यमुवाच बलवृत्रहा ॥२॥
मतङ्ग उवाच
।
इदं वर्षसहस्रं वै ब्रह्मचारी समाहितः
।
अतिष्ठमेकपादेन ब्राह्मण्यं नाप्नुयां कथम् ॥३॥
शक्र उवाच। चण्डालयोनौ जातेन नावाप्यं वै कथञ्चन
।
अन्यं कामं वृणीष्व त्वं मा वृथा तेऽस्त्वयं श्रमः ॥४॥
एवमुक्तो मतङ्गस्तु भृशं शोकपरायणः
।
अध्यतिष्ठद्गयां गत्वा सौङ्गुष्ठेन शतं समाः ॥५॥
सुदुर्वहं वहन्योगं कृशो धमनिसन्ततः
।
त्वगस्थिभूतो धर्मात्मा स पपातेति नः श्रुतम् ॥६॥
त पतन्तमभिद्रुत्य परिजग्राह वासवः
।
वराणामीश्वरो दाता सर्वभूतहिते रतः ॥७॥
शक्र उवाच। मतङ्ग ब्राह्मणत्वं ते विरुद्धमिह दृश्यते
।
ब्राह्मण्यं दुर्लभतरं संवृतं परिपन्थिभिः ॥८॥
पूजयन्सुखमाप्नोति दुःखमाप्नोत्यपूजयन्
।
ब्राह्मणः सर्वभूतानां योगक्षेमसमर्पिता ॥९॥
ब्राह्मणेभ्योऽनुतृप्यन्ते पितरो देवतास्तथा
।
ब्राह्मणः सर्वभूतानां मतङ्ग पर उच्यते ॥१०॥
ब्राह्मणः कुरुते तद्धि यथा यद्यच्च वाञ्छति
।
बह्वीस्तु संविशन्त्योनीर्जायमानः पुनःपुनः ॥११॥
पर्याये तात कस्मिंश्चिद्ब्राह्मण्यमिह विन्दति
।
तदुत्सृज्येह दुष्प्रापं ब्राह्मण्यमकृतात्मभिः ॥१२॥
अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः
।
मतङ्ग उवाच
।
किं मां तुदसि दुःखार्तं मृतं मारयसे च मां ॥१३॥
त्वां तु शोचामि यो लब्ध्वा ब्राह्मण्यं न बुभूषसे
।
ब्राह्मण्यं यदि दुष्प्रापं त्रिभिर्वर्णैः शतक्रतो ॥१४॥
सुदुर्लभं सदाऽवाप्य नानुतिष्ठन्ति मानवाः
।
यः पापेभ्यः पापतमस्तेषामधम एव सः ॥१५॥
ब्राह्मण्यं यो न जानीते धनं लब्ध्वेव दुर्लभम्
।
दुष्प्रापं खलु विप्रत्वं प्राप्तं दुरनुपालनम् ॥१६॥
दुरावापमवाप्यैतन्नानुतिष्ठन्ति मानवाः
।
एकारामो ह्यहं शक्र निर्द्वन्द्वो निष्परिग्रहः ॥१७॥
अहिंसादममास्थाय कथं नार्हामि विप्रताम्
।
दैवं तु कथमेतद्वै यदहं मातृदोषतः ॥१८॥
एतामवस्थां संप्राप्तो धर्मज्ञः सन्पुरन्दर
।
नूनं दैवं न शक्यं हि पौरुषेणातिवर्तितुम् ॥१९॥
यदर्थं यत्नवानेव न लभे विप्रतां विभो
।
एवंगते तु धर्मज्ञ दातुमर्हसि मे वरम् ॥२०॥
यदि तेऽहमनुग्राह्यः किञ्चिद्वा सुकृतं मम
।
वैशम्पायन उवाच। वृणीष्वेति तदा प्राह ततस्तं बलवृत्रहा ॥२१॥
चोदितस्तु महेन्द्रेण मतङ्गः प्राब्रवीदिदम्
।
यथा कामविहारी स्यां कामरूपी विहङ्गमः ॥२२॥
ब्रह्मक्षत्राविरोधेन पूजां च प्राप्नुयामहम्
।
यथा ममाक्षया कीर्तिर्भवेच्चापि पुरन्दर ॥२३॥
कर्तुमहसि तदेव शिरसा त्वां प्रसादये
।
शक्र उवाच। छन्दोदेव इति ख्यातः स्त्रीणां पूज्यो भविष्यसि
।
कीर्तिश्च तेऽतुला वत्स त्रिषु लोकेषु यास्यति ॥२४॥
एवं तस्मै वरं दत्वा वासवोऽन्तरधीयत ॥२५॥
प्राणांस्त्यक्त्वा मतङ्गोऽपि संप्राप्तःस्थानमुत्तमम्
।
एवमेतत्परं स्थानं ब्राह्मण्यं नाम भारत
।
तच्च दुष्प्रापमिह वै महेन्द्रवचनं यथा ॥२६॥
युधिष्ठिर उवाच। श्रुतं मे महदाख्यानमेतत्कुरुकुलोद्वह
।
सुदुष्प्रापं यद्ब्रवीषि ब्राह्मण्यं वदतां वर ॥१॥
विश्वामित्रेण च पुरा ब्राह्मण्यं प्राप्तमित्युत
।
श्रूयते वदसे तच्च दुष्प्रापमिति सत्तम ॥२॥
वीतहव्यश्च नृपतिः श्रुतो मे विप्रतां गतः
।
तदेव तावद्गाङ्गेय श्रोतुमिच्छाम्यहं विभो ॥३॥
स केन कर्मणा प्राप्तो ब्राह्मण्यं राजसत्तमः
।
वरेण तपसा चापि तन्मे व्याख्यातुमर्हसि ॥४॥
भीष्म उवाच। श्रृणु राजन् यथा राजा वीतहव्यो महायशाः
।
राजर्षिर्दुर्लभं प्राप्तो ब्राह्मण्यं लोकसत्कृतम् ॥५॥
मनोर्महात्मनस्तात प्रजा धर्मेण शासतः
।
बभूव पुत्रो धर्मात्मा शर्यातिरिति विश्रुतः ॥६॥
तस्यान्ववाये द्वौ राजन् राजानौ सम्बभूवतुः
।
हैहयस्तलजंघश्च वत्सस्य जयतां वर ॥७॥
हैहयस्य तु राजेन्द्र दशसु स्त्रीषु भारत
।
शतं बभूव पुत्राणां शूराणामनिवर्तिनाम् ॥८॥
तुल्यरूपप्रभावानां बलिनां युद्धशालिनाम्
।
धनुर्वेदे च वेदे च सर्वत्रैव कृतश्रमाः ॥९॥
काशिष्वपि नृपो राजन् दिवोदासपितामहः
।
हर्यश्व इति विख्यातो बभूव जयतां वरः ॥१०॥
स वीतहव्यदायादैरागत्य पुरुषर्षभ
।
गङ्गायमुनयोर्मध्ये संग्रामे विनिपातितः ॥११॥
तं तु हत्वा नरपतिं हैहयास्ते महारथाः
।
प्रतिजग्मुः पुरीं रम्यां वत्सानामकुतोभयाः ॥१२॥
हर्यश्वस्य च दायादः काशिराजोऽभ्यषिच्यत
।
सुदेवो देवसङ्काशः साक्षाद्धर्म इवापरः ॥१३॥
स पालयामास महीं धर्मात्मा काशिनन्दनः
।
तैर्वीतहव्यैरागत्य युधि सर्वैर्विनिर्जितः ॥१४॥
तमथाजौ विनिर्जित्य प्रतिजग्मुर्यथागतम्
।
सौदेवस्त्वथ काशिशो दिवोदासोऽभ्यषिच्यत ॥१५॥
दिवोदासस्तु विज्ञाय वीर्यं तेषां यतात्मनाम्
।
वाराणसीं महातेजा निर्ममे शक्रशासनात् ॥१६॥
विप्रक्षत्रियसम्बाधां वैश्यशूद्रसमाकुलाम्
।
नैकद्रव्योच्चयवतीं समृद्धविपणापणाम् ॥१७॥
गङ्गाया उत्तरे कूले वप्रान्ते राजसत्तम
।
गोमत्या दक्षिणे कूले शक्रस्येवामरावतीम् ॥१८॥
तत्र तं राजशार्दूलं निवसन्तं महीपतिम्
।
आगत्य हैहया भूयः पर्यधावन्त भारत ॥१९॥
स निष्क्रम्य ददौ युद्धं तेभ्यो राजा महाबलः
।
देवासुरसमं घोरं दिवोदासो महाद्युतिः ॥२०॥
स तु युद्धं महाराज दिनानां दशतीर्दश
।
हतवाहनभूयिष्ठस्ततो दैन्यमुपागमत् ॥२१॥
हययोधस्ततो राजन् क्षीणकोशश्च भूमिपः
।
दिवोदासः पुरीं त्यक्त्वा पलायनपरोऽभवत् ॥२२॥
गत्वाऽऽश्रमपदं रम्यं भरद्वाजस्य धीमतः
।
जगाम शरणं राजा कृताञ्जलिररिन्दम ॥२३॥
तमुवाच भरद्वाजो ज्येष्ठः पुत्रो बृहस्पतेः
।
पुरोधाः शीलसम्पन्नो दिवोदासं महीपतिम् ॥२४॥
किमागमनकृत्यं ते सर्वं प्रब्रूहि मे नृप
।
यत्ते प्रियं तत्करिष्ये न मेऽत्रास्ति विचारणा ॥२५॥
राजोवाच
।
भगवन्वैतहव्यैर्मे युद्धे वंशः प्रणाशितः
।
अहमेकः परिद्यूनो भवन्तं शरणं गतः ॥२६॥
शिष्यस्नेहेन भगवंस्त्वं मां रक्षितुमर्हसि
।
एकशेषः कृतो वंशो मम तैः पापकर्मभिः ॥२७॥
तमुवाच महाभागो भरद्वाजः प्रतापवान्
।
न भेतव्यं न भेतव्यं सौदेव व्येतु ते भयम् ॥२८॥
अहमिष्टिं करिष्यामि पुत्रार्थं ते विशाम्पते
।
वीतहव्यसहस्राणि येन त्वं प्रहरिष्यसि ॥२९॥
तत इष्टिं चकारर्षिस्तस्य वै पुत्रकामिकीम्
।
अथास्य तनयो जज्ञे प्रतर्दन इति श्रुतः ॥३०॥
स जातमात्रो ववृधे समाः सप्तत्रयोदश
।
वदं चापि जगौ कृत्स्नं धनुर्वेदं च भारत ॥३१॥
योगेन च समाविष्टो भरद्वाजेन धीमता
।
तेजोलोक्यं स संगृह्य तस्मिन्देशे समाविशत् ॥३२॥
ततः स कवची धन्वी स्तूयमानः सुरर्षिभिः
।
बन्दिभिर्वन्द्यमानश्च बभौ सूर्य इवोदितः ॥३३॥
स रथी बद्धनिस्त्रिंशो बभौ दीप्त इवानलः
।
प्रययौ स धनुर्धुन्वन् खड्गी चर्मी शरासनी ॥३४॥
तं दृष्ट्वा परमं हर्षं सुदेवतनयो ययौ
।
मेने च मनसा दग्धान् वैतहव्यान्स पार्थिवः ॥३५॥
ततोऽसौ यौवराज्ये च स्थापयित्वा प्रतर्दनम्
।
कृतकृत्यं तदाऽऽत्मानं स राजा अभ्यनन्दत ॥३५॥
ततस्तु वैतहव्यानां वधाय स महीपतेः
।
पुत्रं प्रस्थापयामास प्रतर्दनमरिन्दमम् ॥३७॥
सरथः स तु सन्तीर्य गंगामाशु पराक्रमी
।
प्रययौ वीतहव्यानां पुरीं परपुरंजयः ॥३८॥
वैतहव्यास्तु संश्रुत्य रथघोषं समुद्धतम्
।
निर्ययुर्नगराकारै रथैः पररथारुजैः ॥३९॥
निष्क्रम्य ते नरव्याघ्रा दंशिताश्चित्रयोधिनः
।
प्रतर्दनं समाजग्मुः शरवर्षैरुदायुधाः ॥४०॥
शस्त्रैश्च विविधाकारै रथौघैश्च युधिष्ठिर
।
अभ्यवर्षन्त राजानं हिमवन्तमिवम्बुदाः ॥४१॥
अस्त्रैरस्त्राणि संवार्य तेषां राजा प्रतर्दनः
।
जघान तान्महातेजा वज्रानलसमैः शरैः ॥४२॥
कृत्तोत्तमांगास्ते राजन् भल्लैः शतसहस्रशः
।
अपतन् रुधिरार्द्रांगा निकृत्ता इव किंशुकाः ॥४३॥
हतेषु तेषु सर्वेषु वीतहव्यः सुतेष्वथ
।
प्राद्रवन्नगरं हित्वा भृगोराश्रममप्युत ॥४४॥
ययौ भृगुं च शरणं वीतहव्यो नराधिपः
।
अभयं च ददौ तस्मै राज्ञे राजन् भृगुस्तदा ॥४५॥
अथानुपदमेवाशु तत्रागच्छत्प्रतर्दनः
।
स प्राप्य चाश्रमपदं दिवोदासात्मजोऽब्रवीत् ॥४६॥
भो भो केऽत्राश्रमे सन्ति भृगोः शिष्या महात्मनः
।
द्रष्टुमिच्छे मुनिमहं तस्याचक्षत मामिति ॥४७॥
स तं विदित्वा तु भृगुर्निश्चक्रामाश्रमात्तदा
।
पूजयामास च ततो विधिना नृपसत्तमम् ॥४८॥
उवाच चैनं राजेन्द्र किं कार्यं ब्रूहि पार्थिव
।
स चोवाच नृपस्तस्मै यदागमनकारणम् ॥४९॥
राजोवाच
।
अयं ब्रह्मन्नितो राजा वीतहव्यो विसृज्यताम्
।
तस्य पुत्रैर्हि मे कृत्स्नो ब्रह्मन्वंशः प्रणाशितः ॥५०॥
उत्सादितश्च विषयः काशीनां रत्नसञ्चयः
।
एतस्य वीर्यदृप्तस्य हतं पुत्रशतं मया ॥५१॥
अस्येदानीं वधादद्य भविष्याम्यनृणः पितुः
।
तमुवाच कृपाविष्टो भृगुर्धर्मभृतां वरः ॥५२॥
नेहास्ति क्षत्रियः कश्चित्सर्वे हीमे द्विजातयः
।
एतत्तु वचनं श्रुत्वा भृगोस्तथ्यं प्रतर्दनः ॥५३॥
पादावुपस्पृश्य शनैः प्रहृष्टो वाक्यमब्रवीत्
।
एवमप्यस्मि भगवन् कृतकृत्यो न संशयः ॥५४॥
य एष राजा वीर्येण स्वजातिं त्याजितो मया
।
अनुजानीहि मां ब्रह्मन् ध्यायस्व च शिवेन माम् ॥५५॥
त्याजितो हि मया जातिमेव राजा भृगूद्वह
।
ततस्तेनाभ्यनुज्ञातो ययौ राजा प्रतर्दनः ॥५६॥
यथागतं महाराज मुक्त्वा विषामिवोरगः
।
भृगोर्वचनमात्रेण स च ब्रह्मर्षितां गतः ॥५७॥
वीतहव्यो महाराज ब्रह्मवादित्वमेव च
।
तस्य गृत्समदः पुत्रो रूपेणेन्द्र इवापरः ॥५८॥
शक्रस्त्वमिति यो दैत्यैर्निगृहीतः किलाभवत्
।
ऋग्वेदे वर्तते चाग्र्या श्रुतिर्यस्य महात्मनः ॥५९॥
यत्र गृत्समदो राजन् ब्राह्मणैः स महीयते
।
स ब्रह्मचारी विप्रर्षिः श्रीमान् गृत्समदोऽभवत् ॥६०॥
पुत्रो गृत्समदस्यापि सुचेता अभवद्द्विजः
।
वर्चाः सुतेजसः पुत्रो विहव्यस्तस्य चात्मजः ॥६१॥
विहव्यस्य तु पुत्रस्तु वितत्यस्तस्य चात्मजः
।
वितत्यस्य सुतः सत्यः सन्तः सत्यस्य चात्मजः ॥६२॥
श्रवास्तस्य सुतश्चार्षिः श्रवसश्चाभवत्तमः
।
तमसश्च प्रकाशोऽभूत्तनयो द्विजसत्तमः
।
प्रकाशस्य च वागीन्द्रो बभूव जयतां वरः ॥६३॥
तस्यात्मजश्च प्रमितिर्वेदवेदाङ्गपारगः
।
घृताच्यां तस्य पुत्रस्तु रुरुर्नामोदपद्यत ॥६४॥
प्रमद्वरायां तु रुरोः पुत्रः समुदपद्यत
।
शुनको नाम विप्रर्षिर्यस्य पुत्रोऽथ शौनकः ॥६५॥
एवं विप्रत्वमगमद्वीतहव्यो नराधिपः
।
भृगोः प्रसादाद्राजेन्द्र क्षत्रियः क्षत्रियर्षभ ॥६६॥
तथैव कथितो वंशो मया गार्त्समदस्तव
।
विस्तरेण महाराज किमन्यदनुपृच्छसि ॥६७॥
युधिष्ठिर उवाच। के पूज्या वै त्रिलोकेऽस्मिन्मानवा भरतर्षभ
।
विस्तरेण तदाचक्ष्व न हि तृष्यामि कथ्यतः ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
नारदस्य च संवादं वासुदेवस्य चोभयोः ॥२॥
नारदं प्राञ्जलिं दृष्ट्वा पूजयानं द्विजर्षभान्
।
केशवः परिपप्रच्छ भगवन् कान्नमस्यसि ॥३॥
बहुमानपरस्तेषु भगवन्यान्नमस्यसि
।
शक्यं चेच्छ्रोतुमस्माभिर्ब्रूह्येतद्धर्मवित्तम ॥४॥
नारद उवाच। शृणु गोविन्द यानेतान् पूजयाम्यरिमर्दन
।
त्वत्तोऽन्यः कः पुमाँल्लोके श्रोतुमेतदिहार्हति ॥५॥
वरुणं वायुमादित्यं पर्जन्यं जातवेदसम्
।
स्थाणुं स्कन्दं तथा लक्ष्मीं विष्णुं ब्रह्माणमेव च ॥६॥
वाचस्पतिं चन्द्रमसमपः पृथ्वीं सरस्वतीम्
।
सततं ये नमस्यन्ति तान्नमस्याम्यहं विभो ॥७॥
तपोधनान्वेदविदो नित्यं वेदपरायणान्
।
महार्हान्वृष्णिशार्दूल सदा सम्पूजयाम्यहम् ॥८॥
अभुक्त्वा देवकार्याणि कुर्वते येऽविकत्थनाः
।
सन्तुष्टाश्च क्षमायुक्तास्तान्नमस्याम्यहं विभो ॥९॥
सम्यग्यजन्ति ये चेष्टीः क्षांता दान्ता जितेन्द्रियाः
।
सत्यं धर्मं क्षितिं गाश्च तान्नमस्यामि यादव ॥१०॥
ये वै तपसि वर्तन्ते वने मूलफलाशनाः
।
असञ्चयाः क्रियावन्तस्तान्नमस्यामि यादव ॥११॥
ये भृत्यभरणे शक्ताः सततं चातिथिव्रताः
।
भुञ्जते देवशेषाणि तान्नमस्यामि यादव ॥१२॥
ये वेदं प्राप्य दुर्धर्षा वाग्मिनो ब्रह्मचारिणः
।
याजनाध्यापने युक्ता नित्यं तान्पूजयाम्यहम् ॥१३॥
प्रसन्नहृदयाश्चैव सर्वसत्त्वेषु नित्यशः
।
आपृष्ठतापात्स्वाध्याये युक्तास्तान्पूजयाम्यहम् ॥१४॥
गुरुप्रसादे स्वाध्याये यतन्तो ये स्थिरव्रताः
।
शुश्रूषवोऽनसूयन्तस्तान्नमस्यामि यादव ॥१५॥
सुव्रता मुनयो ये च ब्राह्मणाः सत्यसंगराः
।
वोढारो हव्यकव्यानां तान्नमस्यामि यादव ॥१६॥
मैक्ष्यचर्यासु निरताः कुशा गुरुकुलाश्रयाः
।
निःसुखा निर्धना ये तु तान्नमस्यामि यादव ॥१७॥
निर्ममा निष्प्रतिद्वन्द्वा निह्रीका निष्प्रयोजनाः
।
ये वेदं प्राप्य दुधैर्षा वाग्मिनो ब्रह्मवादिनः ॥१८॥
अहिंसानिरता ये च ये च सत्यव्रता नराः
।
दांताः शमपराश्चैव तान्नमस्यामि केशव ॥१९॥
देवतातिथि पूजायां युक्ता ये गृहमेधिनः
।
कपोतवृत्तयो नित्यं तान्नमस्यामि यादव ॥२०॥
येषां त्रिवर्गः कृत्येषु वर्तते नोपहीयते
।
शिष्टाचारप्रवृत्ताश्च तान्नमस्याम्यहं सदा ॥२१॥
ब्राह्मणाः श्रुतसम्पन्ना ये त्रिवर्गमनुष्ठिताः
।
अलोलुपाः पुण्यशीलास्तान्नमस्यामि केशव ॥२२॥
अब्भक्षा वायुभक्षाश्च सुधाभक्षाश्च ये सदा
।
व्रतैश्च विविधैर्युक्तास्तान्नमस्यामि माधव ॥२३॥
अयोनीनग्नियोनींश्च ब्रह्मयोनींस्तथैव च
।
सर्वभूतात्मयोनींश्च तान्नमस्याम्यहं सदा ॥२४॥
नित्यमेतान्नमस्यामि कृष्ण लोककरानृषीन्
।
लोकज्येष्ठान्कुलज्येष्ठांस्तमोघ्नाँल्लोकभास्करान् ॥२५॥
तस्मात्त्वमपि वार्ष्णेय द्विजान् पूजय नित्यदा
।
पूजिताः पूजनार्हा हि सुखं दास्यन्ति तेऽनघ ॥२६॥
अस्मिन् लोके सदा ह्येते परत्र च सुखप्रदाः
।
चरन्ते मान्यमाना वै प्रदास्यन्ति सुखं तव ॥२७॥
ये सर्वातिथयो नित्यं गोषु च ब्राह्मणेषु च
।
नित्यं सत्ये चाभिरता दुर्गाण्यतितरन्ति ते ॥२८॥
नित्यं शमपरा ये च तथा ये चानसूयकाः
।
नित्यस्वाध्यायिनो ये च दुर्गाण्यतितरन्ति ते ॥२९॥
सर्वान्देवान्नमस्यान्ति ये चैकं वेदमाश्रिताः
।
श्रद्दधानाश्च दान्ताश्च दुर्गाण्यतितरन्ति ते ॥३०॥
तथैव विप्रप्रवरान्नमस्कृत्य यतव्रताः
।
भवन्ति ये दानरता दुर्गाण्यतितरन्ति ते ॥३१॥
तपस्विनश्च ये नित्यं कौमारब्रह्मचारिणः
।
तपसा भावितात्मानो दुर्गाण्यतितरन्ति ते ॥३२॥
देवतातिथिभृत्यानां पितॄणां चार्चने रताः
।
शिष्टान्नभोजिनो ये च दुर्गाण्यतितरन्ति ते ॥३३॥
अग्निमाधाय विधिवत्प्रणता धारयन्ति ये
।
प्राप्ताः सोमाहुतिं चैव दुर्गाण्यतितरन्ति ते ॥३४॥
मातापित्रोर्गुरुषु च सम्यग्वर्तन्ति ये सदा
।
यथा त्वं वृष्णिशार्दूलेत्युक्त्वैवं विरराम सः ॥३५॥
तस्मात्त्वमपि कौन्तेय पितृदेवद्विजातिथीन्
।
सम्यक्पूजयसे नित्यं गतिमिष्टामवाप्स्यसि ॥३६॥
युधिष्ठिर उवाच। पितामह महाप्राज्ञ सर्वशास्त्रविशारद
।
त्वत्तोऽहं श्रोतुमिच्छामि धर्मे भरतसत्तम ॥१॥
शरणागतं ये रक्षन्ति भूतग्रामं चतुर्विधम्
।
किं तस्य भरतश्रेष्ठ फलं भवति तत्त्वतः ॥२॥
भीष्म उवाच। इदं शृणु महाप्राज्ञ धर्मपुत्र महायशः
।
इतिहासं पुरावृत्तं शरणार्थं महाफलम् ॥३॥
प्रपात्यमानः श्येनेन कपोतः प्रियदर्शनः
।
वृषदर्भं महाभागं नरेन्द्रं शरणं गतः ॥४॥
स तं दृष्ट्वा विशुद्धात्मा त्रासादङ्कमुपागतम्
।
आश्वास्याश्वसिहीत्याह न तेऽस्ति भयमंडज ॥५॥
भयं ते सुमहत्कस्मात्कुत्र किं वा कृतं त्वया
।
येन त्वमिह संप्राप्तो विसंज्ञो भ्रान्तचेतनः ॥६॥
नवनीलोत्पलापीड चारुवर्ण सुदर्शन
।
दाडिमाशोकपुष्पाक्ष मा त्रसस्वाभयं तव ॥७॥
मत्सकाशमनुप्राप्तं न त्वां कश्चित्समुत्सहेत्
।
मनसा ग्रहणं कर्तुं रक्षाध्यक्षपुरस्कृतम् ॥८॥
काशिराज्यं तदद्यैव त्वदर्थं जीवितं तथा
।
त्यजेयं भव विस्रब्धः कपोत न भयं तव ॥९॥
श्येन उवाच। ममैतद्विहितं भक्ष्यं न राजंस्त्रातुमर्हसि
।
अतिक्रांतं च प्राप्तं च प्रयत्नाच्चोपपादितम् ॥१०॥
मांसं च रुधिरं चास्य मज्जा मेदश्च मे हितम्
।
परितोषकरो ह्येष मम माऽस्याग्रतो भव ॥११॥
तृष्णा मे बाधतेऽत्युग्रा क्षुधा निर्दहतीव माम्
।
मुञ्चैनं न हि शक्ष्यामि राजन्मन्दयितुं क्षुधाम् ॥१२॥
मया ह्यानुसृतो ह्येष मत्पक्षनखविक्षतः
।
किचिदुच्छ्वासनिःश्वासं न राजन् गोप्तुमर्हसि ॥१३॥
यदि स्वविषये राजन् प्रभुस्त्वं रक्षणे नृणाम्
।
खेचरस्य तृषार्तस्य न त्वं प्रभुरथोत्तम ॥१४॥
यदि वैरिषु भृत्येषु स्वजनव्यवहारयोः
।
विषयेष्विन्द्रियाणां च आकाशे मा पराक्रम ॥१५॥
प्रभुत्वं हि पराक्रम्य सम्यक् पक्षहरेषु ते
।
यदि त्वमिह धर्मार्थी मामपि द्रष्टुमर्हसि ॥१६॥
भीष्म उवाच। श्रुत्वा श्येनस्य तद्वाक्यं राजर्षिर्विस्मयं गतः
।
संभाव्य चैनं तद्वाक्यं तदर्थी प्रत्यभाषत ॥१७॥
राजोवाच
।
गोवृषी वा वराहो वा मृगो वा माहिषोऽपि वा
।
त्वदर्थमद्य क्रियतां क्षुधाप्रशमनाय ते ॥१८॥
शरणागतं न त्यजेयमिति मे व्रतमाहितम्
।
न मुञ्चति ममांगानि द्विजोऽयं पश्य वै द्विज ॥१९॥
श्येन उवाच। न वराहं न चोक्षाणं न चान्यान्विविधान्द्विजान्
।
भक्ष्यामि महाराज किमन्नाद्येन तेन मे ॥२०॥
यस्तु मे विहितो भक्ष्यः स्वयं देवैः सनातनः
।
श्येनाः कपोतान् खादन्ति स्थितिरेषा सनातनी ॥२१॥
उशीनर कपोते तु यदि स्नेहस्तवानघ
।
ततस्त्वं मे प्रयच्छाद्य स्वमांसं तुलया धृतम् ॥२२॥
राजोवाच
।
महाननुग्रहो मेऽद्य यस्त्वमेवमिहात्थ माम्
।
बाढमेव करिष्यामीत्युक्त्वाऽसौ राजसत्तमः ॥२३॥
उत्कृत्योत्कृत्य मांसानि तुलया समतोलयन्
।
अन्तःपुरे ततस्तस्य स्त्रियो रत्नविभूषिताः ॥२४॥
हाहाभूता विनिष्क्रान्ताः श्रुत्वा परमदुःखिताः
।
तासां रुदितशब्देन मन्त्रिभृत्यजनस्य च ॥२५॥
बभूव सुमहान्नादो मेघगम्भीरनिःस्वनः
।
निरुद्धं गगनं सर्वं शुभ्रं मेवेः समन्ततः ॥२६॥
मही प्रचलिता चासीत्तस्य सत्येन कर्मणा
।
स राजा पार्श्वतश्चैव बाहुभ्यामूरुतश्च यत् ॥२७॥
तानि मांसानि संच्छिद्य तुलां पूरयतेऽशनैः
।
तथापि न समस्तेन कपोतेन बभूव ह ॥२८॥
अस्थिभूतो यदा राजा निर्मांसो रुधिरस्रवः
।
तुलां ततः समारूढः स्वं मांसक्षयमुत्सृजन् ॥२९॥
ततः सेन्द्रास्त्रयो लोकास्तं नरेन्द्रमुपस्थिताः
।
भेर्यश्चाकाशगैस्तत्र वादिता देवदुन्दुभिः ॥३०॥
अमृतेनावसिक्तश्च वृषदर्भो नरेश्वरः
।
दिव्यैश्च सुसुखैर्माल्यैरभिवृष्टः पुनः पनः ॥३१॥
देवगन्धर्वसंघातैरप्सरोभिश्च सर्वतः
।
नृत्तश्चैवोपगीतश्च पितामह इव प्रभुः ॥३२॥
हेमप्रसादसम्बाधं मणिकाञ्चनतोरणम्
।
स वैदूर्यमणिस्तम्भं विमानं समधिष्ठितः ॥३३॥
स राजर्षिर्गतः स्वर्गं कर्मणा तेन शाश्वतम्
।
शरणागतेषु चैवं त्वं कुरु सर्वं युधिष्ठिर ॥३४॥
भक्तानामनुरक्तानामाश्रितानां च रक्षिता
।
दयावान्सर्वभूतेषु परत्र सुखमेधते ॥३५॥
साधुवृत्तो हि यो राजा सद्वृत्तमनुतिष्ठति
।
किं न प्राप्तं भवेत्तेन सव्याजेनेह कर्मणा ॥३६॥
स राजर्षेर्विशुद्धात्मा धीरः सत्यपराक्रमः
।
काशीनामीश्वरः ख्यातस्त्रिषु लोकेषु कर्मणा ॥३७॥
योऽप्यन्यः कारयेदेवं शरणागतरक्षणम्
।
सोऽपि गच्छेत तामेव गतिं भरतसत्तम ॥३८॥
इदं वृत्तं हि राजर्षे वृषदर्भस्य कीर्तयन्
।
पूतात्मा वै भवेल्लोके श्रुणुयाद्यश्च नित्यशः ॥३९॥
युधिष्ठिर उवाच। किं राज्ञः सर्वकृत्यानां गरीयः स्यात्पितामह
।
कुर्वन् किं कर्म नृपतिरुभौ लोकौ समश्नुते ॥१॥
भीष्म उवाच। एतद्राज्ञः कृत्यतममभिषिक्तस्य भारत
।
ब्राह्मणानामनुष्ठानमत्यन्तं सुखमिच्छता ॥२॥
कर्तव्यं पार्थिवेन्द्रेण तथैव भरतर्षभ
।
श्रोत्रियान् ब्राह्मणान् वृद्धान्नित्यमेवाभिपूजयेत् ॥३॥
पौरजानपदांश्चापि ब्राह्मणांश्च बहुश्रुतान्
।
सान्त्वेन भोगदानेन नमस्कारैस्तथाऽर्चयेत् ॥४॥
एतत्कृत्यतमं राज्ञो नित्यमेवोपलक्षयेत्
।
यथाऽऽत्मानं यथा पुत्रांस्तथैतान्प्रतिपालयेत् ॥५॥
ये चाप्येषां पूज्यतमास्तान् दृढं प्रति पूजयेत्
।
तेषु शान्तेषु तद्राष्ट्रं सर्वमेव विराजते ॥६॥
ते पूज्यास्ते नमस्कार्या मान्यास्ते पितरो यथा
।
तेष्वेव यात्रा लोकानां भूतानामिव वासवे ॥७॥
अभिचारैरुपायैश्च दहेयुरपि चेतसा
।
निःशेषं कुपिताः कुर्युरुग्राः सत्यपराक्रमाः ॥८॥
नान्तमेषां प्रपश्यामि न दिशश्चाप्यपावृताः
।
कुपिताः समुदीक्षन्ते दावेष्वग्निशिखा इव ॥९॥
बिभ्यत्येषां साहसिका गुणास्तेषामतीव हि
।
कूपा इव तृणच्छन्ना विशुद्धा द्यौरिवापरे ॥१०॥
प्रसह्यकारिणः केचित्कार्पासमृदवो परे
।
सन्ति चैषामतिशठास्तथैवान्ये तपस्विनः ॥११॥
कृषिगोरक्ष्यमप्येके भैक्ष्यमन्येऽप्यनुष्ठिताः
।
चौराश्चान्येऽनृताश्चान्ये तथान्ये नटनर्तकाः ॥१२॥
सर्वकर्मसहाश्चान्ये पार्थिवेष्वितरेषु च
।
विविधाकारयुक्ताश्च ब्राह्मणा भरतर्षभ ॥१३॥
नानाकर्मसु रक्तानां बहुकर्मोपजीविनाम्
।
धर्मज्ञानां सतां तेषां नित्यमेवानुकीर्तयेत् ॥१४॥
पितॄणां देवतानां च मनुष्योरगरक्षसाम्
।
पुराष्येते महाभागा ब्राह्मणा वै जनाधिप ॥१५॥
नैते देवैर्न पितृभिर्न गन्धर्वैर्न राक्षसैः
।
नासुरैर्न पिशाचैश्च शक्या जेतुं द्विजातयः ॥१६॥
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्
।
यमिच्छेयुः स राजा स्याद्यो नेष्टः स पराभवेत् ॥१७॥
परिवादं च ये कुर्युर्ब्राह्मणानामचेतसः
।
सत्यं ब्रवीमि ते राजन् विनश्येयुर्न संशयः ॥१८॥
निन्दाप्रशंसाकुशलाः कीर्त्यकीर्तिपरायणाः
।
परिकुप्यति ते राजन् सततं द्विषतां द्विजाः ॥१९॥
ब्राह्मणा यं प्रशंसन्ति पुरुषः स प्रवर्धते
।
ब्राह्मणैर्यः पराकृष्टः पराभूयात्क्षणाद्धि सः ॥२०॥
शका यवनकांबोजास्तास्ताः क्षत्रियजातयः
।
वृषलत्वं परिगता ब्राह्मणानामदर्शनात् ॥२१॥
द्राविडाश्च कलिङ्गाश्च पुलिंदाश्चाप्युशीनराः
।
कोलिसर्पा महिषकास्तास्ताः क्षत्रियजातयः ॥२२॥
वृषलत्वं परिगता ब्राह्मणानामदर्शनात्
।
श्रेयान् पराजयस्तेभ्यो न जयो जयतां वर ॥२३॥
यस्तु सर्वमिदं हन्यात् ब्राह्मणं च न तत्समम्
।
ब्रह्मवध्या महान्दोष इत्याहुः परमर्षयः ॥२४॥
परिवादो द्विजातीनां न श्रोतव्यः कथंचन
।
आसीताधोमुखस्तूष्णीं समुत्थाय व्रजेच्च वा ॥२५॥
न स जातोऽजनिष्यद्वा पृथिव्यामिह कश्चन
।
यो ब्राह्मणविरोधेन सुखं जीवितुमुत्सहेत् ॥२६॥
दुर्ग्राह्यो मुष्टिना वायुर्दुःस्पर्शः पाणिना शशी
।
दुर्धरा पृथिवी राजन् दुर्जया ब्राह्मणा भुवि ॥२७॥
भीष्म उवाच। ब्राह्मणानेव सततं भृशं सम्परिपूजयेत्
।
एते हि सोमराजान ईश्वराः सुखदुःखयोः ॥१॥
एते भौगैरलङ्कारैरन्यैश्चैव किमिच्छकैः
।
सदा पूज्या नमस्कारै रक्ष्याश्च पितृवन्नृपैः ॥२॥
ततो राष्ट्रस्य शान्तिर्हि भूतानामिव वासवात्
।
जायतां ब्रह्मवर्चस्वी राष्ट्र वै ब्राह्मणः शुचिः ॥३॥
महारथश्च राजन्य एष्टव्यः शत्रुतापनः
।
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितव्रतम् ॥४॥
वासयेत गृहे राजन्न तस्मात्परमस्ति वै
।
ब्राह्मणेभ्यो हविर्दत्तं प्रतिगृण्हन्ति देवताः ॥५॥
पितरः सर्वभूतानां नैतेभ्यो विद्यते परम्
।
आदित्यश्चन्द्रमा वायुरापो भूरम्बरं दिशः ॥६॥
सर्वे ब्राह्मणमाविश्य सदाऽन्नमुपभुञ्जते
।
न तस्याश्नन्ति पितरो यस्य विप्रा न भुञ्जते ॥७॥
देवाश्चाप्यस्य नाश्नन्ति पापस्य ब्राह्मणद्विषः
।
ब्राह्मणेषु तु तुष्टेषु प्रीयन्ते पितरः सदा ॥८॥
तथैव देवता राजन्नात्र कार्या विचारणा
।
तथैव तेऽपि प्रीयन्ते येषां भवति तद्धविः ॥९॥
न च प्रेत्य विनश्यन्ति गच्छन्ति च परां गतिम्
।
येन येनैव हविषा ब्राह्मणांस्तर्पयेन्नरः ॥१०॥
तेन तेनैव प्रीयन्ते पितरो देवतास्तथा
।
ब्राह्मणादेव तद्भूतं प्रभवन्ति यतः प्रजाः ॥११॥
यतश्चायं प्रभवति प्रेत्य यत्र च गच्छति
।
वेदैष मार्गं स्वर्गस्य तथैव नरकस्य च ॥१२॥
अगतानागते चोभे ब्राह्मणो द्विपदां वरः
।
ब्राह्मणो भरतश्रेष्ठ स्वधर्मं चैव वेद यः ॥१३॥
ये चैनमनुवर्तन्ते ते न यान्ति पराभवम्
।
न ते प्रेत्य विनश्यन्ति गच्छन्ति न पराभवम् ॥१४॥
यद्ब्राह्मणमुखात्प्राप्तं प्रतिगृह्णन्ति वै वचः
।
भूतात्मानो महात्मानस्ते न यान्ति पराभवम् ॥१५॥
क्षत्रियाणां प्रतपतां तेजसा च बलेन च
।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च बलानि च ॥१६॥
भृगवस्तालजंघांश्च नीपानाङ्गिरसोऽजयन्
।
भरद्वाजो वैहतव्यानैलांश्च भरतर्षभ ॥१७॥
चित्रायुधांश्चाप्यजयन्नेते कृष्णाजिनध्वजाः
।
प्रक्षिप्याथ च कुंभान्वै पारगामिनमारभेत् ॥१८॥
यत्किंचित्कथ्यते लोके श्रूयते पठ्यतेऽपि वा
।
सर्वं तद्ब्राहाणेष्वेव गूढोऽग्निरिव दारुषु ॥१९॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
संवादं वासुदेवस्य पृथ्व्याश्च भरतर्षभ ॥२०॥
वासुदेव उवाच। मातरं सर्वभूतानां पृच्छे त्वां संशयं शुभे
।
केनस्वित्कर्मणा पापं व्यपोहति नरो गृही ॥२१॥
पृथिव्युवाच
।
ब्राह्मणानेव सेवेत पवित्रं ह्येतदुत्तमम्
।
ब्राह्मणान्सेवमानस्य रजः सर्वं प्रणश्यति
।
अतो भूतिरतः कीर्तिरतो बुद्धिः प्रजायते ॥२२॥
महारथश्च राजन्य एष्टव्यः शत्रुतापनः
।
इति मां नारदः प्राह सततं सर्वभूतये ॥२३॥
ब्राह्मणं जातिसम्पन्नं धर्मज्ञं संशितं शुचिम्
।
अपरेषां परेषां च परेभ्यश्चैव येऽपरे ॥२४॥
ब्राह्मणा यं प्रशंसन्ति स मनुष्यः प्रवर्धते
।
अथ यो ब्राह्मणान् क्रुष्टः पराभवति सोऽचिरात् ॥२५॥
यथा महार्णवे क्षिप्ता सीता नेष्टुर्विनश्यति
।
तथा दुश्चरितं सर्वं पराभावाय कल्पते ॥२६॥
पश्य चन्द्रे कृतं लक्ष्म समुद्रो लवणोदकः
।
तथा भगसहस्रेण महेन्द्रः परिचिह्नितः ॥२७॥
तेषामेव प्रभावेन सहस्रनयनो ह्यसौ
।
शतक्रतुः समभवत्पश्य माधव यादृशम् ॥२८॥
इच्छन् कीर्तिं च भूतिं च लोकांश्च मधुसूदन
।
ब्राह्मणानुमते तिष्ठेत्पुरुषः शुचिरात्मवान् ॥२९॥
भीष्म उवाच। इत्येतद्वचनं श्रुत्वा मेदिन्या मधुसूदनः
।
साधु साध्विति कौरव्य मेदिनी प्रत्यपूजयत् ॥३०॥
एतां श्रुत्वोपमां पार्थ प्रयतो ब्राह्मणर्षभान्
।
सततं पूजयेथास्त्वं ततः श्रेयोऽभिपत्स्यसे ॥३१॥
भीष्म उवाच। जन्मनैव महाभागो ब्राह्मणो नाम जायते
।
नमस्यः सर्वभूतानामतिथिः प्रसृताग्रभुक् ॥१॥
सर्वार्थाः सुहृदस्तात ब्राहाणाः सुमनोमुखाः
।
गीर्भिर्मंगलयुक्ताभिरनुध्यायन्ति पूजिताः ॥२॥
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः
।
गीर्भिर्दारुणयुक्ताभिरभिध्यासुरपूजिताः ॥३॥
अत्र गाथाः पुरागीताः कीर्तयन्ति पुराविदः
।
सृष्ट्वा द्विजातीन् धाता हि यथापूर्वं समादधत् ॥४॥
न चान्यदिह कर्तव्यं किञ्चिदूर्ध्वं यथाविधि
।
गुप्तो गोपायते ब्रह्मा श्रेयो वस्तेन शोभनम् ॥५॥
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति
।
प्रमाणं सर्वभूतानां प्रग्रहाश्च भविष्यथ ॥६॥
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता
।
शौद्रं हि कुर्वतः कर्म धर्मः समुपरुध्यते ॥७॥
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी
।
स्वाध्याये चैव माहात्म्यं विपुलं प्रतिपत्स्यते ॥८॥
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः
।
अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्मयानुकल्पिताः ॥९॥
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया
।
दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ॥१०॥
यच्चैव मानुषे लोके यच्च देवेषु किञ्चन
।
सर्वं तु तपसा साध्यं ज्ञानेन नियमेन च ॥११॥
इत्येवं ब्रह्मगीतास्ते समाख्याता मयाऽनघ
।
विप्राणामनुकम्पार्थं तेन प्रोक्तं हि धीमता ॥१२॥
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः
।
दुरासदाश्च चण्डाश्च रभसाः क्षिप्रकारिणः ॥१३॥
सन्त्येषां सिंहसत्त्वाश्च व्याघ्रसत्त्वास्तथापरे
।
वराहमृगसत्त्वाञ्च जलसत्त्वास्तथापरे ॥१४॥
सर्पस्पर्शसमाः केचित्तथान्ये मकरस्पृशः
।
विभाष्यघातिनः केचित्तथा चक्षुर्हणो परे ॥१५॥
सन्ति चाशीविषसमाः सन्ति मन्दास्तथापरे
।
विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ॥१६॥
मेकला द्राविडा लाटाः पौंड्राः कान्वशिरास्तथा
।
शौंडिका दरदा दार्वाश्चौराः शबरबर्नराः ॥१७॥
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः
।
वृषलत्वमनुप्राप्ता ब्राह्मणानाममर्षणात् ॥१८॥
ब्राह्मणानां परिभवादसुराः सलिलेशयाः
।
ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ॥१९॥
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान् गिरिः
।
अधार्या सेतुना गङ्गा दुर्जया ब्राहाणा भुवि ॥२०॥
न ब्राह्मणविरोधेन शक्या शास्तुं बसुन्धरा
।
ब्राह्मणा हि महात्मानो देवानामपि देवताः ॥२१॥
तान्पूजयस्व सततं दानेन परिचर्यया
।
यदीच्छसि महीं भोक्तुमिमां सागरमेखलाम् ॥२२॥
प्रतिग्रहेण तेजो हि विप्राणां शाम्यतेऽनघ
।
प्रतिग्रहं ये नेच्छेयुस्तेभ्यो रक्ष्यं त्वया नृप ॥२३॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
शक्रशम्बरसंवादं तन्निबोध युधिष्ठिर ॥१॥
शक्रो ह्यज्ञातरूपेण जटी भूत्वा रजोगुणः
।
विरूपं रथमास्थाय प्रश्नं पप्रच्छ शम्बरम् ॥२॥
शक्र उवाच। केन शम्बर वृत्तेन स्वजात्यानधितिष्ठसि
।
श्रेष्ठं त्वां केन मन्यन्ते तद्वै प्रब्रूहि तत्त्वतः ॥३॥
शम्बर उवाच
।
नासूयामि यदा विप्रान्ब्राह्ममेव च मे मतम्
।
शास्त्राणि वदतो विप्रान्संमन्यामि यथासुखम् ॥४॥
श्रुत्वा च नावजानामि नापराध्यामि कर्हिचित्
।
अभ्यर्च्याभ्यनुपृच्छामि पादौ गृह्णामि धीमताम् ॥५॥
ते विश्रब्धाः प्रभाषन्ते संपृच्छन्ते च मां सदा
।
प्रमत्तेष्वप्रमत्तोऽस्मि सदा सुप्तेषु जागृमि ॥६॥
ते मां शास्त्रपथे युक्तं ब्रह्मण्यमनसूयकम्
।
समासिञ्चन्ति शास्तारः क्षौद्रं मध्विव मक्षिकाः ॥७॥
यच्च भाषन्ति सन्तुष्टास्तच्च गृह्णामि मेधया
।
समाधिमात्मनो नित्यमनुलोममचिन्तयम् ॥८॥
सोऽहं वागग्रमृष्टानां रसानामवलेहकः
।
स्वजात्यानधितिष्ठामि नक्षत्राणीव चन्द्रमाः ॥९॥
एतत्पृथिव्याममृतमेतच्चक्षुरनुत्तमम्
।
यद्ब्राह्मणमुखाच्छास्त्रमिह श्रुत्वा प्रवर्तते ॥१०॥
एतत्कारणमाज्ञाय दृष्ट्वा देवासुरं पुरा
।
युद्धं पिता मे हृष्टात्मा विस्मितः समपद्यत ॥११॥
दृष्ट्वा च ब्राह्मणानां तु महिमानं महात्मनाम्
।
पर्यपुच्छत्कथममी सिद्धा इति निशाकरम् ॥१२॥
सोम उवाच
।
ब्राह्मणास्तपसा सर्वे सिध्यन्ते वाग्बलाः सदा
।
भुजवीर्याश्च राजानो वागस्त्राश्च द्विजातयः ॥१३॥
प्रणवं चाप्यधीयीत ब्राह्मीर्दुर्वसतीर्वसन्
।
निर्मन्युरपि निर्वाणो यदि स्यात्समदर्शनः ॥१४॥
अपि च ज्ञानसम्पन्नः सर्वान्वेदान् पितुर्गुहे
।
श्लाघमान इवाधीयाद्ग्राम्य इत्येव तं विदुः ॥१५॥
भूमिरेतौ निगिरति सर्पो विलशयानिव
।
राजानं चाप्ययोद्धारं ब्राह्मणं चाप्रवासिनम् ॥१६॥
अभिमानः श्रियं हन्ति पुरुषस्याल्पमेधसः
।
गर्भेण दुष्यते कन्या गृहवासेन च द्विजः ॥१७॥
इत्येतन्मे पिता श्रुत्वा सोमादद्भुतदर्शनात्
।
ब्राह्मणान्पूजयामास तथैवाहं महाव्रतान् ॥१८॥
भीष्म उवाच। श्रुत्वैतद्वचनं शक्रो दानवेन्द्रमुखाच्च्युतम्
।
द्विजान्सम्पूजयामास महेन्द्रत्वमवाप च ॥१९॥
युधिष्ठिर उवाच। अपूर्वश्च भवेत्पात्रमथवापि चिरोषितः
।
दूरादभ्यागतं चापि किं पात्रं स्यात्पितामह ॥१॥
भीष्म उवाच। क्रिया भवति केषांचिदुपांशु व्रतमुत्तमम्
।
यो यो याचेत यत्किञ्चित्सर्वं दद्याम इत्यपि ॥२॥
अपीडयन् भृत्यवर्गमित्येवमनुशुश्रुम
।
पीडयन् भृत्यवर्गं हि आत्मानमपकर्षति ॥३॥
अपूर्वं भावयेत्पात्रं यच्चापि स्याच्चिरोषितम्
।
दूरादभ्यागतं चापि तत्पात्रं च विदुर्बुधाः ॥४॥
युधिष्ठिर उवाच। अपीडया च भूतानां धर्मस्याहिंसया तथा
।
पात्रं विद्यात्तु तत्त्वेन यस्मै दत्तं न सन्तपेत् ॥५॥
भीष्म उवाच। ऋत्विक् पुरोहिताचार्याः शिष्यसंबन्धिबान्धवाः
।
सर्वे पूज्याश्च मान्याश्च श्रुतवन्तोऽनसूयकाः ॥६॥
अतोऽन्यथा वर्तमानाः सर्वे नार्हन्ति सत्क्रियाम्
।
तस्मान्नित्यं परीक्षेत पुरुषान्प्रणिधाय वै ॥७॥
अक्रोधः सत्यवचनमहिंसा दम आर्जवम्
।
अद्रोहोऽनभिमानश्च ह्रीस्तितिक्षा दमः शमः ॥८॥
यस्मिन्नेतानि दृश्यन्ते न चाकार्याणि भारत
।
स्वभावतो निविष्टानि तत्पात्रं मानमर्हति ॥९॥
तथा चिरोषितं चापि संप्रत्यागतमेव च
।
अपूर्वं चैव पूर्वं च तत्पात्रं मानमर्हति ॥१०॥
अप्रामाण्यं च वेदानां शास्त्राणां चाभिलङ्घनम्
।
अव्यवस्था च सर्वत्र एतन्नाशनमात्मनः ॥११॥
भवेत्पण्डितमानी यो ब्राह्मणो वेदनिन्दकः
।
आन्वीक्षिकीं तर्कविद्यामनुरक्तो निरर्थिकाम् ॥१२॥
हेतुवादान्ब्रुवन्सत्सु विजेताऽहेतुवादिकः
।
आक्रोष्टा चातिवक्ता च ब्राह्मणानां सदैव हि ॥१३॥
सर्वाभिशङ्की मूढश्च बालः कटुकवागपि
।
बोद्धव्यस्तादृशस्तात नरं श्वानं हि तं विदुः ॥१४॥
यथा श्वा भषितुं चैव हन्तुं चैत्रावसज्जते
।
एवं संभाषणार्थाय सर्वशास्त्रवधाय च ॥१५॥
लोकयात्रा च द्रष्टव्या धर्मश्चात्महितानि च
।
एवं नरो वर्तमानः शाश्वतीर्वर्धते समाः ॥१६॥
ऋणमुन्मुच्य देवानामृषीणां च तथैव च
।
पितॄणामथ विप्राणामतिथीनां च पञ्चमम् ॥१७॥
पर्यायेण विशुद्धेन सुविनीतेन कर्मणा
।
एवं गृहस्थः कर्माणि कुर्वन्धर्मान्न हीयते ॥१८॥
युधिष्ठिर उवाच। स्त्रीणां स्वभावमिच्छामि श्रोतुं भरतसत्तम
।
स्त्रियो हि मूलं दोषाणां लघुचित्ता हि ताः स्मृताः ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
नारदस्य च संवादं पुंश्चल्या पञ्चचूडया ॥२॥
लोकाननुचरन् सर्वान् देवर्षिर्नारदः पुरा
।
ददर्शाप्सरसं ब्राह्मीं पञ्चचूडामनिन्दिताम् ॥३॥
तां दृष्ट्वा चारुसर्वांगीं पप्रच्छाप्सरसं मुनिः
।
संशयो हृदि कश्चिन्मे ब्रूहि तन्मे सुमध्यमे ॥४॥
भीष्म उवाच। एवमुक्ताऽथ सा विप्रं प्रत्युवाचाथ नारदम्
।
विषये सति वक्ष्यामि समर्थं मन्यसे च माम् ॥५॥
नारद उवाच। न त्वामविषये भद्रे नियोक्ष्यामि कथंचन
।
स्त्रीणां स्वभावमिच्छामि त्वत्तः श्रोतुं वरानने ॥६॥
भीष्म उवाच। एतच्छ्रुत्वा वचस्तस्य देवर्षेरप्सरोत्तमा
।
प्रत्युवाच न शक्ष्यामि स्त्री सती निन्दितुं स्त्रियः ॥७॥
विदितास्ते स्त्रियो याश्च यादृशाश्च स्वभावतः
।
न मामर्हसि देवर्षे नियोक्तुं कार्य ईदृशे ॥८॥
तामुवाच स देवर्षिः सत्यं वद सुमध्यमे
।
मृषावादे भवेद्दोषः सत्ये दोषो न विद्यते ॥९॥
इत्युक्ता सा कृतमतिरभवच्चारुहासिनी
।
स्त्रीदोषाञ्छाश्वतान् सत्यान्भाषितुं संप्रचक्रमे ॥१०॥
पञ्चचूडोबाच
।
कुलीना रूपवत्यश्च नाथवत्यश्च योषितः
।
मर्यादासु न तिष्ठन्ति स दोषः स्त्रीषु नारद ॥११॥
न स्त्रीभ्यः किञ्चिदन्यद्वै पापीयस्तरमस्ति वै
।
स्त्रियो हि मूलं दोषाणां तथा त्वमपि वेत्थ ह ॥१२॥
समाज्ञातानृद्धिमतः प्रतिरूपान्वशे स्थितान्
।
पतीनन्तरमासाद्य नालं नार्यः प्रतीक्षितुम् ॥१३॥
असद्धर्मस्त्वयं स्त्रीणामस्माकं भवति प्रभो
।
पापीयसो नरान् यद्वै लज्जां त्यक्त्वा भजामहे ॥१४॥
स्त्रियं हि यः प्रार्थयते सन्निकर्षं च गच्छति
।
ईषच्च कुरुते सेवां तमेवेच्छन्ति योषितः ॥१५॥
अनर्थित्वान्मनुष्याणां भयात्परिजनस्य च
।
मर्यादायाममर्यादाः स्त्रियस्तिष्ठन्ति भर्तृषु ॥१६॥
नासां कश्चिदगम्योऽस्ति नासां वयसि निश्चयः
।
विरूपं रूपवन्तं वा पुमानित्येव भुञ्जते ॥१७॥
न भयान्नाप्यनुक्रोशान्नार्थहेतोः कथंचन
।
न ज्ञातिकुलसम्बन्धात्स्त्रियस्तिष्ठन्ति भर्तृषु ॥१८॥
यौवने वर्तमानानां मृष्टाभरणवाससाम्
।
नारीणां स्वैरवृत्तीनां स्पृहयन्ति कुलस्त्रियः ॥१९॥
याश्च शश्वद्बहुमता रक्ष्यन्ते दयिताः स्त्रियः
।
अपि ताः संप्रसज्जन्ते कुब्जान्धजडवामनैः ॥२०॥
पङ्गुष्वथ च देवर्षे येचान्ये कुत्सिता नराः
।
स्त्रीणामगम्यो लोकेऽस्मिन्नास्ति कश्चिन्महामुने ॥२१॥
यदि पुंसां गतिर्ब्रह्मन् कथंचिन्नोपपद्यते
।
अप्यन्योन्यं प्रवर्तन्ते नहि तिष्ठन्ति भर्तृषु ॥२२॥
अलाभात्पुरुषाणां हि भयात्परिजनस्य च
।
वधबन्धभयाच्चापि स्वयं गुप्ता भवन्ति ताः ॥२३॥
चलस्वभावा दुःसेव्या दुर्गाह्या भावतस्तथा
।
प्राज्ञस्य पुरुषस्येह यथा वाचस्तथा स्त्रियः ॥२४॥
नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः
।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥२५॥
इदमन्यच्च देवर्षे रहस्यं सर्वयोषिताम्
।
दृष्ट्वैव पुरुषं हृद्यं योनिः प्रक्लिद्यते स्त्रियाः ॥२६॥
कामानामपि दातारं कर्तारं मनसां प्रियम्
।
रक्षितारं न मृष्यन्ति स्वभर्तारमलं स्त्रियः ॥२७॥
न कामभोगान्विपुलान्नालंकारान्न संश्रयान्
।
तथैव बहु मन्यन्ते यथा रत्यामनुग्रहम् ॥२८॥
अन्तकः पवनो मृत्युः पातालं वडवामुखम्
।
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः ॥२९॥
यतश्च भूतानि महान्ति पञ्च यतश्च लोका विहिता विधात्रा
।
यतः पुमांसः प्रमदाश्च निर्मितास्तदैव दोषाः प्रमदासु नारद ॥३०॥
युधिष्ठिर उवाच। इमे वै मानवा लोके स्त्रीषु सज्जन्त्यभीक्ष्णशः
।
मोहेन परमाविष्टा देवसृष्टेन पार्थिव ॥१॥
स्त्रियश्च पुरुषेष्वेव प्रत्यक्षं लोकसाक्षिकम्
।
अत्र मे संशयस्तीव्रो हृदि संपरिवर्तते ॥२॥
कथमासां नराः सङ्गं कुर्वते कुरुनन्दन
।
स्त्रियो वा केषु रज्यन्ते विरज्यन्ते च ताःपुनः ॥३॥
इति ताः पुरुषव्याघ्र कथं शक्यास्तु रक्षितुम्
।
प्रमदाः पुरुषेणेह तन्मे व्याख्यातुमर्हसि ॥४॥
एता हि रममाणास्तु वञ्चयन्तीह मानवान्
।
न चासां मुच्यते कश्चित्पुरुषो हस्तमागतः ॥५॥
गावो नवतृणानीव गृह्णन्त्येता नवं नवम्
।
शंबरस्य च या माया माया या नमुचेरपि ॥६॥
बलेः कुम्भीनसेश्चैव सर्वास्ता योषितो विदुः
।
हसन्तं प्रहसन्त्येता रुदन्तं प्ररुदन्ति च ॥७॥
अप्रियं प्रियवाक्यैश्च गृह्णते कालयोगतः
।
उशना वेद यच्छास्रं यच्च वेद बृहस्पतिः ॥८॥
स्त्रीबुद्ध्या न विशिष्येत तास्तु रक्ष्याः कथं नरैः
।
अनृतं सत्यमित्याहुः सत्यं चापि तथानृतम् ॥९॥
इति यास्ताः कथं वीर संरक्ष्याः पुरुषैरिह
।
स्त्रीणां बुद्ध्यर्थनिष्कर्षादर्थशास्त्राणि शत्रुहन् ॥१०॥
बृहस्पतिप्रभृतिभिर्मन्ये सद्भिः कृतानि वै
।
संपूज्यमानाः पुरुषैर्विकुर्वन्ति मनो नृषु ॥११॥
अपास्ताश्च तथा राजन् विकुर्वन्ति मनः स्त्रियः
।
इमाः प्रजा महाबाहो धार्मिक्य इति नः श्रुतम् ॥१२॥
सत्कृतासत्कृताश्चापि विकुर्वन्ति मनः सदा
।
कस्ताः शक्तो रक्षितुं स्यादिति मे संशयो महान् ॥१३॥
तथा ब्रूहि महाभाग कुरूणां वंशवर्धन
।
यदि शक्या कुरुश्रेष्ठ रक्षा तासां कदाचन
।
कर्तुं वा कृतपूर्वं वा तन्मे व्याख्यातुमर्हसि ॥१४॥
भीष्म उवाच। एवमेव महाबाहो नात्र मिथ्याऽस्ति किञ्चन
।
यथा ब्रवीषि कौरव्य नारीं प्रति जनाधिप ॥१॥
अत्र ते वर्तयिष्यामि इतिहासं पुरातनम्
।
यथा रक्षा कृता पूर्वं विपुलेन महात्मना ॥२॥
प्रमदाश्च यथा सृष्टा ब्रह्मणा भरतर्षभ
।
यदर्थं तच्च ते तात प्रवक्ष्यामि नराधिप ॥३॥
न हि स्त्रीभ्यः परं पुत्र पापीयः किञ्चिदस्ति वै
।
अग्निर्हि प्रमदा दीप्तो मायाश्च मयजा विभो ॥४॥
क्षुरधारा विषं सर्पो वह्निरित्येकतः स्त्रियः
।
प्रजा इमा महाबाहो धार्मिक्य इति नः श्रुतम् ॥५॥
स्वयं गच्छन्ति देवत्वं ततो देवानियाद्भयम्
।
अथाभ्यगच्छन् देवास्ते पितामहमरिन्दम ॥६॥
निवेद्य मानसं चापि तूष्णीमासन्नधोमुखाः
।
तेषामन्तर्गतं ज्ञात्वा देवानां स पितामहः ॥७॥
मानवानां प्रमोहार्थं कृत्या नार्योऽसृजत्प्रभुः
।
पूर्वसर्गे तु कौन्तेय साध्व्यो नार्य इहाभवन् ॥८॥
आसाध्व्यस्तु समुत्पन्नाः कृत्याः सर्गात्प्रजापतेः
।
ताभ्यः कामान्यथाकामं प्रादाद्धि स पितामहः ॥९॥
ताः कामलुब्धाः प्रमदाः प्रबाधन्ते नरान्सदा
।
क्रोधं कामस्य देवेशः सहायं चासृजत्प्रभुः ॥१०॥
असज्जन्त प्रजाः सर्वाः कामक्रोधवशं गताः
।
न च स्त्रीणां क्रियाः काश्चिदिति धर्मो व्यवस्थितः ॥११॥
निरिन्द्रिया ह्यशास्त्राश्च स्त्रियोऽनृतमिति श्रुतिः
।
शय्यासनमलंकारमन्नपानमनार्यताम् ॥१२॥
दुर्वाग्भावं रातें चैव ददौ स्त्रीभ्यः प्रजापतिः
।
न तासां रक्षणं शक्यं कर्तुं पुंसा कथंचन ॥१३॥
अपि विश्वकृता तात कुतस्तु पुरुषैरिह
।
वाचा च वधबंधैर्वा क्लेशैर्वा विविधैस्तथा ॥१४॥
न शक्या रक्षितुं नार्यस्ता हि नित्यमसंयताः
।
इदं तु पुरुषव्याघ्र पुरस्ताच्छ्रुतवानहम् ॥१५॥
यथा रक्षा कुता पूर्वं विपुलेन गुरुस्त्रियाः
।
ऋषिरासीन्महाभागो देवशर्मेति विश्रुतः ॥१६॥
तस्य भार्या रुचिर्नाम रूपेणाऽसदृशी भुवि
।
तस्या रूपेण सम्मत्ता देवगन्धर्वदानवाः ॥१७॥
विशेषेण तु राजेन्द्र वृत्रहा पाकशासनः
।
नारीणां चरितज्ञश्च देवशर्मा महामुनिः ॥१८॥
यथाशक्ति यथोत्साहं भार्यां तामभ्यरक्षत
।
पुरन्दरं च जानीते परस्त्रीकामचारिणम् ॥१९॥
तस्माद्बलेन भार्याया रक्षणं स चकार ह
।
स कदाचिदृषिस्तात यज्ञं कर्तुमनास्तदा ॥२०॥
भार्यासंरक्षणं कार्यं कथं स्यादित्यचिन्तयत्
।
रक्षाविधानं मनसा स सञ्चिन्त्य महातपाः ॥२१॥
आहूय दयितं शिष्यं विपुलं प्राह भार्गवम्
।
देवशर्मोवाच
।
यज्ञकारो गमिष्यामि रुचिं चेमां सुरेश्वरः ॥२२॥
यतः प्रार्थयते नित्यं तां रक्षस्व यथाबलम्
।
अप्रमत्तेन ते भाव्यं सदा प्रति पुरन्दरम् ॥२३॥
स हि रूपाणि कुरुते विविधानि भृगूत्तम
।
भीष्म उवाच। इत्युक्तो विपुलस्तेन तपस्वी नियतेन्द्रियः ॥२४॥
सदैवोग्रतपा राजन्नग्न्यर्कसदृशद्युतिः
।
धर्मज्ञः सत्यवादी च तथेति प्रत्यभाषत ॥२५॥
पुनश्चेदं महाराज पप्रच्छ प्रस्थितं गुरुम्
।
विपुल उवाच
।
कानि रूपाणि शक्रस्य भवन्त्यागच्छतो मुने ॥२६॥
वपुस्तेजश्च कीदृग्वै तन्मे व्याख्यातुमर्हसि
।
भीष्म उवाच। ततः स भगवांस्तस्मै विपुलाय महात्मने ॥२७॥
आचचक्षे यथातत्त्वं मायां शक्रस्य भारत
।
देवशर्मोवाच
।
बहुमायः स विप्रर्षे भगवान्पाकशासनः ॥२८॥
तांस्तान्विकुरुते भावान्बहूनथ मुहुर्मुहुः
।
किरीटी वज्रधृग्धन्वी मुकुटी बद्धकुण्डलः ॥२९॥
भवत्यथ मुहूर्तेन चण्डालसमदर्शनः
।
शिखी जटी चीरवासाः पुनर्भवति पुत्रक ॥३०॥
बृहच्छरीरश्च पुनश्चीरवासाः पुनः कुशः
।
गौरं श्यामं च कृष्णं च वर्णं विकुरुते पुनः ॥३१॥
विरूपो रूपवांश्चैव युवा वृद्धस्तथैव च
।
ब्राह्मणः क्षत्रियश्चैव वैश्यः शूद्रस्तथैव च ॥३२॥
प्रतिलोमोऽनुलोमश्च भवत्यथ शतक्रतुः
।
शुक्रवायसरूपां च हंसकोकिलरूपवान् ॥३३॥
सिंहव्याघ्रगजानां च रूपं धारयते पुनः
।
दैवं दैत्यमथो राज्ञां वपुर्धारयतेऽपि च ॥३४॥
अकृशो वायुभग्नाङ्गः शकुनिर्विकृतस्तथा
।
चतुष्पाद्बहुरूपश्च पुनर्भवति बालिशः ॥३५॥
मक्षिकामशकादीनां वपुर्धारयतेऽपि च
।
न शक्यमस्य ग्रहणं कर्तुं विपुल केनचित् ॥३६॥
अपि विश्वकृता तात येन सृष्टमिदं जगत्
।
पुनरन्तर्हितः शक्रो दृश्यते ज्ञानचक्षुषा ॥३७॥
वायुभूतश्च स पुनर्देवराजो भवन्त्युत
।
एवं रूपाणि सततं कुरुते पाकशासनः ॥३८॥
तस्माद्विपुल यत्नेन रक्षमां तनुमध्यमाम्
।
यथा रुचिं नावलिहेद्देवेन्द्रो भृगुसत्तम ॥३९॥
क्रतावुपहिते न्यस्तं हविः श्वेव दुरात्मवान्
।
एवमाख्याय स मुनिर्यज्ञकारोऽगमत्तदा ॥४०॥
देवशर्मा महाभागस्ततो भरतसत्तम
।
विपुलस्तु वचः श्रुत्वा गुरोश्चिन्तामुपेयिवान् ॥४१॥
रक्षां च परमां चक्रे देवराजान्महाबलात्
।
किं नु शक्यं मया कर्तुं गुरुदाराभिरक्षणे ॥४२॥
मायावी हि सुरेन्द्रोसौ दुर्धर्षश्वापि वीर्यवान्
।
नापिधायाश्रमं शक्यो रक्षितुं पाकशासनः ॥४३॥
उटजं वा तथा ह्यस्य नानाविधसरूपता
।
वायु रूपेण वा शक्रो गुरुपत्नीं प्रधर्षयेत् ॥४४॥
तस्मादिमां संप्रविश्य रुचिं स्थास्येहमद्य वै
।
अथवा पौरुषेणेयं न शक्या रक्षितुं मया ॥४५॥
बहुरूपो हि भगवाञ्छ्रूयते पाकशासनः
।
सोऽहं योगबलादेनां रक्षिष्ये पाकशासनात् ॥४६॥
गात्राणि गात्रैरस्याहं संप्रवेक्ष्ये हि रक्षितुम्
।
यद्युच्छिष्टामि मां पात्नीमद्य पश्यति मे गुरुः ॥४७॥
शप्स्यत्यसंशयं कोपाद्दिव्यज्ञानो महातपाः
।
न चेयं रक्षितुं शक्या यथाऽन्या प्रमदा नृभिः ॥४८॥
मायावी हि सुरेन्द्रोऽसावहो प्राप्तोऽस्मि संशयम्
।
अवश्यं करणीयं हि गुरोरिह हि शासनम् ॥४९॥
यदि त्वेतदहं कुर्यामाश्चर्यं स्यात्कृतं मया
।
योगेनाथ प्रवेशो हि गुरुपत्न्याः कलेवरे ॥५०॥
एवमेव शरीरेऽस्या निवत्स्यामि समाहितः
।
अशक्तः पद्मपत्रस्थो जलबिन्दुर्यथा चलः ॥५१॥
निर्मुक्तस्य रजोरूपान्नापराधो भवेन्मम
।
यथा हि शून्यां पथिकः सभामध्यावसेत्पथि ॥५२॥
तथाद्यावासयिष्यामि गुरुपत्न्याः कलेवरम्
।
एवमेव शरीरेऽस्या निवत्स्यामि समाहितः ॥५३॥
इत्येवं धर्ममालोक्य वेदवेदांश्च सर्वशः
।
तपश्च विपुलं दृष्ट्वा गुरोरात्मन एव च ॥५४॥
इति निश्चित्य मनसा रक्षां प्रति स भार्गवः
।
अन्वतिष्ठत्परं यत्नं यथा तच्छृणु पार्थिव ॥५५॥
गुरुपत्नीं समासीनो विपुलः स महातपाः
।
उपासीनामनिन्द्याङ्गीं यथार्थे समलोभयत् ॥५६॥
नेत्राभ्यां नेत्रयोरस्या रश्मिं संयोज्यरश्मिभिः
।
विवेश विपुलः कायमाकाशं पवनो यथा ॥५७॥
लक्षणं लक्षणेनैव वदनं वदनेन च
।
अविचेष्टन्नतिष्टद्वै छायेवान्तहितो मुनिः ॥५८॥
ततो विष्टभ्य विपुलो गुरुपत्न्याः कलेवरम्
।
उवास रक्षणे युक्तो न च सा तमबुद्ध्यत ॥५९॥
यं कालं नागतो राजन् गुरुस्तस्य महात्मनः
।
क्रर्तुं समाप्य स्वगृहं तं कालं सोऽभ्यरक्षत ॥६०॥
भीष्म उवाच। ततः कदाचिद्देवेन्द्रो दिव्यरूपवपुर्धरः
।
इदमन्तरमित्येवमभ्यगात्तमथाश्रमम् ॥१॥
रूपमप्रतिमं कृत्वा लोभनीयं जनाधिपः
।
दर्शनीयतमो भूत्वा प्रविवेश तमाश्रमम् ॥२॥
स ददर्श तमासीनं विपुलस्य कलेवरम्
।
निश्चेष्टं स्तब्धनयनं यथा लेख्यगतं तथा ॥३॥
रुचिं च रुचिरापांगीं पीनश्रोणिपयोधराम्
।
पद्मपत्रविशालाक्षीं संपूर्णेन्दुनिभाननाम् ॥४॥
सा तमालोक्य सहसा प्रत्युत्थातुमियेष ह
।
रूपेण विस्मिता कोऽसीत्यथ वक्तुमिवेच्छती॥५॥
उत्थातुकामा तु सती विष्टब्धा विपुलेन सा
।
निगृहीता मनुष्येन्द्र न शशाक विचेष्टितुम्॥६॥
तामाबभाषे देवेन्द्रः साम्ना परमवल्गुना
।
त्वदर्थमागतं विद्धि देवेन्द्रं मां शुचिस्मिते॥७॥
क्लिश्यमानमनङ्गेन त्वत्संकल्पभवेन ह
।
तत्संप्राप्तं हि मां सुभ्रु पुरा कालोऽतिवर्तते॥८॥
तमेवंवादिनं शक्रं शुश्राव विपुलो सुनिः
।
गुरुपत्न्याः शरीरस्थो ददर्श त्रिदशाधिपम्॥९॥
न शशाक च सा राजन्प्रत्युत्थातुमनिन्दिता
।
वक्तुं च नाशकद्राजन्विष्टब्धा विपुलेन सा ॥१०॥
आकारं गुरुपत्न्यास्तु स विज्ञाय भृगूद्वहः
।
निजग्राह महातेजा योगन बलवत्प्रभो॥११॥
बबन्ध योगबब्धैश्च तस्याः सर्वेन्द्रियाणि सः
।
तां निर्विकारां दृष्ट्वा तु पुनरेव शचीपतिः ॥१२॥
उवाच व्रीडितो राजंस्तां योगबलमोहिताम्
।
एह्येहीति ततः सा तु प्रतिवक्तुमियेष तम्॥१३॥
स तां वाचं गुरोः पत्न्या विपुलः पर्यवर्तयत्
।
भोः किमागमने कृत्यमिति तस्यास्तु निःसृता॥१४॥
वक्त्राच्छशांकसदृशाद्वाणी संस्कारभूषणा
।
व्रीडिता सा तु तद्वाक्यमुक्त्वा परवशा तदा॥१५॥
पुरन्दरश्च तत्रस्थो बभूव विमना भृशम्
।
स तद्वैकृतमालक्ष्य देवराजो विशांपते ॥१६॥
अवैक्षत सहस्राक्षस्तदा दिव्येन चक्षुषा
।
स ददर्श मुनिं तस्याः शरीरान्तरगोचरम् ॥१७॥
प्रतिबिम्बमिवादर्शे गुरुपत्न्याः शरीरगस्
।
स तं घोरेण तपसा युक्तं दृष्ट्वा पुरन्दरः ॥१८॥
प्रावेपत सुसन्त्रस्तः शापभीतस्तदा विभो
।
विमुच्य गुरुपत्नीं तु विपुलः सुमहातपाः
।
स्वकलेवरमाविश्य शक्रं भीतमथाब्रवीत् ॥१९॥
विपुल उवाच
।
आजितेन्द्रिय दुर्बुद्धे पापात्मक पुरन्दर
।
न चिरं पूजयिष्यन्ति देवास्त्वां मानुषास्तथा
।
किं नु तद्विस्मृतं शक्र न तन्मनसि ते स्थितम्
।
गौतमेनासि यन्मुक्तो भगाङ्कपरिचिह्नितः ॥२१॥
जाने त्वां बालिशमतिमकृतात्मानमस्थिरम्
।
मयेयं रक्ष्यते मूढ गच्छ पाप यथागतम् ॥२२॥
नाहं त्वामद्य मूढात्मन्दहेयं हि स्वतेजसा
।
कृपायमानस्तु न ते दग्धुमिच्छामि वासव ॥२३॥
स च घोरतमो धीमान्गुरुस्त्वं पापचेतसम्
।
दृष्ट्वा त्वां निर्दहेदद्य क्रोधदीप्तेन चक्षुषा ॥२४॥
नैवं तु शक्र कर्तव्यं पुनर्मान्याश्च ते द्विजाः
।
मा गमः स्वसुतामात्यः क्षयं ब्रह्मबलार्दितः ॥२५॥
अमरोऽस्मीति यद्बुद्धिं समास्थाय प्रर्वतसे
।
मावमंस्था न तपसा न साध्यं नाम किञ्चन ॥२६॥
भीष्म उवाच। तच्छ्रुत्वा वचनं शक्रो विपुलस्य महात्मनः
।
अकिञ्चिदुक्त्वा व्रीडार्तस्तत्रैवान्तरधीयत॥२७॥
मुहूर्तयाते तस्मिंस्तु देवशर्मा महातपाः
।
कृत्वा यज्ञं यथाकाममाजगाम स्वमाश्रमम्॥२८॥
आगतेऽथ गुरौ राजन्विपुलः प्रियकर्मकृत्
।
रक्षितां गुरवे भार्यां न्यवेदयदनिन्दिताम्॥२९॥
अभिवाद्य च शान्तात्मा स गुरुं गुरुवत्सलः
।
विपुलः पर्युपातिष्ठद्यथापूर्वमशङ्कितः ॥३०॥
विश्रान्ताय ततस्तस्मै सहासीनाय भार्यया
।
निवेदयामास तदा विपुलः शक्रकर्म तत् ॥३१॥
तच्छ्रुत्वा स मुनिस्तुष्टो विपुलस्य प्रतापवान्
।
बभूव शीलवृत्ताभ्यां तपसा नियमेन च ॥३२॥
विपुलस्य गुरौ वृत्तिं भक्तिमात्मनि तत्प्रभुः
।
धर्मे च स्थिरतां दृष्ट्वा साधु साध्वित्यभाषत ॥३३॥
प्रतिलभ्य च धर्मात्मा शिष्यं धर्मपरायणम्
।
वरेण छन्दयामास देवशर्मा महामतिः ॥३४॥
स्थितिं च धर्मे जग्राह स तस्माद्गुरुवत्सलः
।
अनुज्ञातश्च गुरुणा चचारानुत्तमं तपः ॥३५॥
तथैव देवशर्मापि सभार्यः स महातपाः
।
निर्भयो बलवृत्रघ्नाच्चचार विजने वने ॥३६॥
भीष्म उवाच। विपुलस्त्वकरोत्तीव्रं तपः कृत्वा गुरोर्वचः
।
तपोयुक्तमथात्मानममन्यत स वीर्यवान् ॥१॥
स तेन कर्मणा स्पर्धन्पृथिवीं पृथिवीपते
।
चचार गतभीः प्रीतो लब्धकीर्तिवरो नृप॥२॥
उभौ लोकौ जितौ चापि तथैवामन्यत प्रभुः
।
कर्मणा तेन कौरव्य तपसा विपुलेन च ॥३॥
अथ काले व्यतिक्रान्ते कस्मिंश्चित्कुरुनन्दन
।
रुच्या भगिन्या आदानं प्रभूतधनधान्यवत् ॥४॥
एतस्मिन्नेव काले तु दिव्या काचिद्वराङ्गना
।
बिभ्रती परमं रूपं जगामाथ विहायसा ॥५॥
तस्याः शरीरात्पुष्पाणि पतितानि महीतले
।
तस्याश्रमस्याविदूरे दिव्यगन्धानि भारत ॥६॥
तान्यगृह्णात्ततो राजन् रुचिर्ललितलोचना
।
तदा निमन्त्रकस्तस्या अङ्गेभ्यः क्षिप्रमागमत्॥७॥
तस्या हि भगिनी तात ज्येष्ठा नाम्ना प्रभावती
।
भार्या चित्ररथस्याथ बभूवाङ्गेश्वरस्य वै ॥८॥
पिनह्य तानि पुष्पाणि केशेषु वरवर्णिनी
।
आमन्त्रिता ततोऽगच्छद्रुचिरङ्गपतेर्गृहम् ॥९॥
पुष्पाणि तानि दृष्ट्वा तु तदाङ्गेन्द्र वरांगना
।
भगिनीं चोदयामास पुष्पार्थे चारुलोचना ॥१०॥
सा भर्त्रे सर्वमाचष्ट रुचिः सुरुचिरानना
।
भगिन्या भाषितं सर्वमृषिस्तच्चाभ्यनन्दत॥११॥
ततो विपुलमानाय्य देवशर्मा महातपाः
।
पुष्पार्थे चोदयामास गच्छ गच्छेति भारत ॥१२॥
विपुलस्तु गुरोर्वाक्यमविचार्य महातपाः
।
स तथेत्यब्रवीद्राजंस्तं च देशं जगाम ह ॥१३॥
यस्मिन्देशे तु तान्यासन् पतितानि नभस्तलात्
।
अम्लानान्यपि तत्रासन् कुसुमान्यपराण्यपि॥१४
।
स ततस्तानि जग्राह दिव्यानि रुचिराणि च
।
प्राप्तानि स्वेन तपसा दिव्यगन्धानि भारत॥१५॥
संप्राप्य तानि प्रीतात्मा गुरोर्वचनकारकः
।
तदा जगाम तूर्णं च चम्पां चंपकमालिनीम्॥१६॥
स वने निर्जने तात ददर्श मिथुनं नृणाम्
।
चक्रवत्परिवर्तन्तं गृहीत्वा पाणिना करम् ॥१७॥
तत्रैकस्तूर्णमगमत्तत्पदे च विवर्तयन्
।
एकस्तु न तदा राजंश्चक्रतुः कलहं ततः ॥१८॥
त्वं शीघ्रं गच्छसीत्येकोऽब्रवीन्नेति तथा परः
।
नेति नेति च तौ राजन् परस्परमथोचतुः ॥१९॥
तयोर्विस्पर्धतोरेवं शपथोऽयमभूत्तदा
।
सहसोद्दिश्य विपुलं ततो वाक्यमथोचतुः॥२०॥
आवयोरनृतं प्राह यस्तस्याभूद्द्विजस्य वै
।
विपुलस्य परे लोके या गतिः सा भवेदिति॥२१॥
एतच्छ्रुत्वा तु विपुलो विषण्णवदनोऽभवत्
।
एवं तीव्रतपाश्चाहं कष्टश्चायं परिश्रमः ॥२२॥
मिथुनस्यास्य किं मे स्यात्कृतं पापं यथा गतिः
।
अनिष्टा सर्वभूतानां कीर्तिताऽनेन मेऽद्य वै ॥२३॥
एवं सञ्चिन्तयन्नेव विपुलो राजसत्तम
।
अवाङ्मुखो दीनमना दध्यौ दुष्कृतमात्मनः॥२४॥
ततः षडन्यान्पुरुषानक्षैः काञ्चनराजतैः
।
अपश्यद्दीव्यमानान्वै लोभहर्षान्वितांस्तथा ॥२५॥
कुर्वतः शपथं तेन यः कृतो मिथुनेन तु
।
पिपुलं वै समुद्दिश्य तेऽपि वाक्यमथाब्रुवन्॥२६॥
लोभमास्थाय योऽस्माकं विषमं कर्तुमुत्सहेत्
।
विपुलस्य परे लोके या गतिस्तामवाप्नुयात् ॥२७॥
एतच्छ्रुत्वा तु विपुलो नापश्यद्धर्मसङ्करम्
।
जन्मप्रभृति कौरव्य कृतपूर्वमथात्मनः ॥२८॥
संप्रदध्यौ तथा राजन्नग्नावग्निरिवाहितः
।
दह्यमानेन मनसा शापं श्रुत्वा तथाविधम् ॥२९॥
तस्य चिन्तयतस्तात बह्व्यो दिननिशा ययुः
।
इदमासीन्मनसि च रुच्या रक्षणकारितम् ॥३०॥
लक्षणं लक्षणेनैव वदनं वदनेन च
।
विधाय न मया चोक्तं सत्यमेद्गुरोस्तथा॥३१॥
एतदात्मनि कौरव्य दुष्कृतं विपुलस्तदा
।
अमन्यत महाभाग तथा तच्च न संशयः ॥३२॥
स चंपां नगरीमेत्य पुष्पाणि गुरवे ददौ
।
पूजयामास च गुरुं विधिवत्स गुरुप्रियः॥३३॥
भीष्म उवाच। तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत्
।
देवशर्मा महातेजा यत्तच्छृणु जनाधिप ॥१॥
देवशर्मोवाच
।
किं ते विपुल दृष्टं वै तस्मिन् शिष्य महावने
।
ते त्वां जानन्ति विपुल आत्मा च रुचिरेव च॥२॥
विपुल उवाच
।
ब्रह्मर्षे मिथुनं किं तत्के च ते पुरुषा विभो
।
ये मां जानन्ति तत्त्वेन यन्मां त्वं परिपृच्छसि॥३॥
देवशर्मोवाच
।
यद्वै तन्मिथुनं ब्रह्मन्नहोरात्रं हि विद्धि तत्
।
चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् ॥४॥
ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत्
।
ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम्॥५॥
न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत्
।
नरो रहसि पापात्मा पापकं कर्म वै द्विज॥६॥
कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा
।
पश्यन्ति ऋतवश्चापि तथा दिननिशेप्युत॥७॥
तथैव हि भवेयुस्ते लोकाः पापकृतो यथा
।
कृत्वा नाचक्षतः कर्म मम तच्च यथाकृतम् ॥८॥
ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम्
।
स्मारयन्तस्तथा प्राहुस्ते यथा श्रुतवान् भवान्॥९॥
अहोरात्रं विजानाति ऋतवश्चापि नित्यशः
।
पुरुषे पापकं कर्म शुभं वा शुभकर्मिणः ॥१०॥
तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम्
।
नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज॥११॥
तेनैव हि भवेयुस्ते लोकाः पापकृतो यथा
।
कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ॥१२॥
त्वयाशक्या च दुर्वृत्त्या रक्षितुं प्रमदा द्विज
।
न च त्वं कृतवान् किञ्चिदतः प्रीतोऽस्मि तेन ते॥१३॥
यदि त्वहं त्वां दुर्वृत्तमद्राक्षं द्विजसत्तम
।
शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा॥१४॥
सज्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः
।
अन्यथा रक्षतः शापोऽभविष्यत्ते मतिश्च मे ॥१५॥
रक्षिता च त्वया पुत्र मम चापि निवेदिता
।
अहं ते प्रीतिमांस्तात स्वस्थः स्वर्गं गमिष्यसि॥१६॥
इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः
।
मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः॥१७॥
इदमाख्यातवांश्चापि ममाख्यानं महामुनिः
।
मार्कण्डेयः पुरा राजन् गङ्गाकूले कथान्तरे ॥१८॥
तस्माद्ब्रवीमि पार्थ त्वां स्त्रियो रक्ष्याः सदैव च
।
उभयं दृश्यते तासु सततं साध्वसाधु च॥१९॥
स्त्रियः साध्यो महाभागाः संमता लोकमातरः
।
धारयन्ति महीं राजन्निमां सवनकाननाम्॥२०॥
असाध्व्यश्चापि दुर्वृत्ताः कुलघ्नाः पापनिश्चयाः
।
विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप ॥२१॥
एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः
।
अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः॥२२॥
एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः
।
नासामस्ति प्रियो नाम मैथुने सङ्गमेति यः ॥२३॥
एताः कृत्याश्च कार्याश्च कृताश्च भरतर्षभ
।
न चैकस्मिन् रमन्त्येताः पुरुषे पाण्डुनन्दन॥२४॥
नासां स्नेहो नरैः कार्यस्तथैवेर्ष्या जनेश्वर
।
खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव ह॥२५॥
निहन्यादन्यथाकुर्वन्नरः कौरवनन्दन
।
सर्वथा राजशार्दूल मुक्तिः सर्वत्र पुज्यते॥२६॥
तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः
।
नान्यः शक्तस्त्रिलोकेऽस्मिन् रक्षितुं नृप योषितम्॥२७॥
युधिष्ठिर उवाच। यन्मूलं सर्वधर्माणां स्वजनस्य गृहस्य च
।
पितृदेवातिथीनां च तन्मे ब्रूहि पितामह ॥१॥
अयं हि सर्वधर्माणां धर्मश्चिन्त्यतमो मतः
।
कीदृशस्य प्रदेया स्यात्कन्येति वसुधाधिप॥२॥
भीष्म उवाच। शीलवृत्ते समाज्ञाय विद्यां योनिं च कर्म च
।
सद्भिरेवं प्रदातव्या कन्या गुणयुते वरे ॥३॥
ब्राह्मणानां सतामेष ब्राह्मो धर्मो युधिष्ठिर
।
आवाह्यमावहेदेवं यो दद्यादनुकूलतः ॥४॥
शिष्टानां क्षत्रियाणां च धर्म एष सनातनः
।
आत्माभिप्रेतमुत्सृज्य कन्याभिप्रेत एव यः ॥५॥
अभिप्रेता च या यस्य तस्मै देया युधिष्ठिर
।
गान्धर्वमिति तं धर्मं प्राहुर्वेदविदो जनाः ॥६॥
धनेन बहुधा क्रीत्वा संप्रलोभ्य च बान्धवान्
।
असुराणां नृपैतं वै धर्ममाहुर्मनीषिणः ॥७॥
हत्वा छित्त्वा च शीर्षाणि रुदतां रुदतीं गृहात्
।
प्रसह्य हरणं तात राक्षसो विधिरुच्यते ॥८॥
पञ्चानां तु त्रयो धर्म्या द्वावधर्म्यौ युधिष्ठिर
।
पैशाचश्चासुरश्चैव न कर्तव्यौ कथञ्चन ॥९॥
ब्राह्मः क्षात्रोऽथ गान्धर्व एते धर्म्या नरर्षभ
।
पृथग्वा यदि वा मिश्राः कर्तव्या नात्र संशयः॥१०॥
तिस्रो भार्या ब्राह्मणस्य द्वे भार्ये क्षत्रियस्य तु
।
वैश्यः स्वजात्यां विन्देत तास्वपत्यं समं भवेत्॥११॥
ब्राह्मणी तु भवेज्ज्येष्ठा क्षत्रिया क्षत्रियस्य तु
।
रत्यर्थमपि शूद्रा स्यान्नेत्याहुरपरे जनाः ॥१२॥
अपत्यजन्म शूद्रायां न प्रशंसन्ति साधवः
।
शूद्रायां जनयन्विप्रः प्रायश्चित्ती विधीयते ॥१३॥
त्रिंशद्वर्षो दशवर्षीं भार्यां विन्देत नग्निकाम्
।
एकविंशतिवर्षो वा सप्तवर्षामवाप्नुयात् ॥१४॥
यस्यास्तु न भवेद्भ्राता पिता वा भरतर्षभ
।
नोपयच्छेत तां जातु पुत्रिकाधर्मिणी हि सा॥१५॥
त्रीणि वर्षाण्युदीक्षेत कन्या ऋतुमती सती
।
चतुर्थे त्वथ संप्राप्त स्वयं भर्तारमर्जयेत् ॥१६॥
प्रजा न हीयते तस्या रतिश्च भरतर्षभ
।
अतोऽन्यथा वर्तमाना भवेद्वाच्या प्रजापतेः॥१७॥
असपिण्डा च या मातुरसगोत्रा च या पितुः
।
इत्येतामनुगच्छेत तं धर्मं मनुरब्रवीत् ॥१८॥
युधिष्ठिर उवाच। शुल्कमन्येन दत्तं स्याद्ददानीत्याह चापरः
।
बलादन्यः प्रभाषेत धनमन्यः प्रदर्शयेत्॥१९॥
पाणिग्रहीता चान्यःस्यात्कस्य भार्या पितामह
।
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्॥२०॥
भीष्म उवाच। यत्किञ्चित्कर्म मानुष्यं संस्थानाय प्रदृश्यते
।
मन्त्रवन्मन्त्रितं तस्य मृषावादरतु पातकः॥२१॥
भार्यां पत्यर्त्विगाचार्याः शिष्योपाध्याय एव च
।
मृषोक्ते दण्डमर्हन्ति नेत्याहुरपरे जनाः ॥२२॥
न ह्यकामेन संवासं मनुरेवं प्रशंसति
।
अयशस्यमधर्म्यं च यन्मृषा धर्मकोपनम् ॥२३॥
नैकान्तो दोष एकस्मिंस्तदा केनोपपद्यते
।
धर्मतो यां प्रयच्छन्ति यां च क्रीणन्ति भारत॥२४॥
बन्धुभिः समनुज्ञाते मन्त्रहोमौ प्रयोजयेत्
।
तथा सिद्ध्यन्ति ते मन्त्रा नादत्तायाः कथञ्चन॥२५॥
यस्त्वत्र मन्त्रसमयो भार्यापत्त्योर्मिथः कृतः
।
तमेवाहुर्गरीयांसं यश्चासौ ज्ञातिभिः कृतः॥२६॥
देवदतां पतिर्भार्यां वेत्ति धर्मस्य शासनात्
।
स दैवीं मानुषीं वाचमनृतां पर्युदस्यति ॥२७॥
युधिष्ठिर उवाच। कन्यायां प्राप्तशुल्कायां ज्यायांश्चेदाव्रजेद्वरः
।
धर्मकामार्थसंपन्नो वाच्यमत्रानृतं न वा ॥२८॥
तस्मिन्नुभयतो दोषे कुर्वञ्छ्रेयः समाचरेत्
।
अयं नः सर्वधर्माणां धर्मश्चिन्त्यतमो मतः॥२९॥
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्
।
तदेतत्सर्वमाचक्ष्व न हि तृप्यामि कथ्यताम् ॥३०॥
भीष्म उवाच। नैव निष्ठाकरं शुल्कं ज्ञात्वाऽऽसीत्तेन नाहृतम्
।
न हि शुल्कपराः सन्तः कन्यां ददति कर्हिचित्॥३१॥
अन्यैर्गुणैरुपेतं तु शुल्कं याचन्ति बान्धवाः
।
अलंकृत्वा वहस्वेति यो दद्यादनुकूलतः ॥३२॥
यच्च तां च ददत्येवं न शुल्कं विक्रयो न सः
।
प्रतिगृह्य भवेद्देयमेष धर्मः सनातनः ॥३३॥
दास्यामि भवते कन्यामिति पूर्वं न भाषितम्
।
ये चाहुर्ये च नाहुर्ये ये चावश्यं वदन्त्युत ॥३४॥
तस्मादाग्रहणात्पाणेर्याचयन्ति परस्परम्
।
कन्यावरः पुरा दत्तो मरुद्भिरिति नः श्रुतम्॥३५॥
नानिष्टाय प्रदातव्या कन्या इत्यृषिचोदितम्
।
तन्मूलं काममूलस्य प्रजनस्येति मे मतिः॥३६॥
समीक्ष्य च बहून्दोषान्संवासाद्विद्धि पाणयोः
।
यथा निष्ठाकरं शुल्कं न जात्वासीत्तथा शृणु॥३७॥
अहं विचित्रर्वार्यस्य द्वे कन्ये समुदावहम्
।
जित्वा च मागधान्सर्वान् कार्शानथ च कोसलान् ॥३८॥
गृहीतपाणिरेकाऽऽसीत्प्राप्तशुल्का पराऽभवत्
।
कन्या गृहीता तत्रैव विसर्ज्या इति मे पिता॥३९॥
अब्रवीदितरां कन्यामावहेति स कौरवः
।
अप्यन्याननुपप्रच्छ शंकमानः पितुर्वचः ॥४०॥
अतीव ह्यस्य धर्मेच्छा पितुर्मेऽभ्यधिकाभवत्
।
ततोऽहमब्रुवं राजन्नाचारेप्सुरिदं वचः
।
आचारं तत्त्वतो वेत्तुमिच्छामि च पुनः पुनः॥४१॥
ततो मयैवमुक्ते तु वाक्ये धर्मभृतां वरः
।
पिता मम महाराज बाह्लीको वाक्यमब्रवीत्॥४२॥
यदि वः शुल्कतो निष्ठा न पाणिग्रहणात्तथा
।
लाजान्तरमुपासीत प्राप्तशुल्क इति स्मृतिः॥४३॥
न हि धर्मविदः प्राहुः प्रमाणं वाक्यतः स्मृतम्
।
येषां वै शुल्कतो निष्ठा न पाणिग्रहणात्तथा॥४४॥
प्रसिद्धं भाषितं दाने नैषां प्रत्यायकं पुनः
।
ये मन्यन्ते क्रयं शुल्कं न ते धर्मविदो नराः॥४५॥
न चैतेभ्यः प्रदातव्या न वोढव्या तथाविधा
।
न ह्येव भार्या क्रेतव्या न विक्रय्या कथञ्चन॥४६॥
ये च क्रीणन्ति दासीं च विक्रीणन्ति तथैव च
।
भवेत्तेषां तथा निष्ठा लुब्धानां पापचेतसाम्॥४७॥
अस्मिन्नर्थे सत्यवन्तं पर्यपृच्छन्त वै जनाः
।
कन्यायाः प्राप्तशुल्कायाः शुल्कदः प्रशमं गतः॥४८॥
पाणिग्रहीता वाऽन्यः स्यादत्र नो धर्मसंशयः
।
तन्नश्छिन्धि महाप्राज्ञ त्वं हि वै प्राज्ञसंमतः॥४९॥
तत्त्वं जिज्ञासमानानां चक्षुर्भवतु नो भवान्
।
तानेवं ब्रुवतः सर्वान्सत्यवान्वाक्यमब्रवीत्॥५०॥
यत्रेष्टं तत्र देया स्यान्नात्र कार्या विचारणा
।
कुर्वते जीवतोऽप्येवं मृते नैवास्ति संशयः॥५१॥
देवरं प्रविशेत्कन्या तप्येद्वाऽपि तपः पुनः
।
तमेवानुगता भूत्वा पाणिग्राहस्य काम्यया ॥५२॥
लिखन्त्येव तु केषांचिदपरेषां शनैरपि
।
इति ये संवदन्त्यत्र त एतं निश्चयं विदुः॥५३॥
तत्पाणिग्रहणात्पूर्वमन्तरं यत्र वर्तते
।
सर्वमङ्गलमन्त्रं वै मृषा वादस्तु पातकः ॥५४॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात्सप्तमे पदे
।
पाणिग्रहस्य भार्या स्याद्यस्य चाद्भिः प्रदीयते॥५५॥
इति देयं वदन्त्यत्र त एनं निश्चयं विदुः
।
अनुकूलामनुवंशां भ्रात्रा दत्तामुपाग्निकाम्
।
परिक्रम्य यथान्यायं भार्यां विन्देद्द्विजोत्तमः॥५६॥
युधिष्ठिर उवाच। कन्यायाः प्राप्तशुल्कायाः पतिश्चेन्नास्ति कश्चन
।
तत्र का प्रतिपत्तिः स्यात्तन्मे ब्रूहि पितामह॥१॥
भीष्म उवाच। याऽपुत्रकस्य ऋद्धस्य प्रतिपाल्या तदा भवेत्
।
अथ चेन्नाहरेच्छुल्कं क्रीता शुल्कप्रदस्य सा॥२॥
तस्यार्थेऽपत्यमीहेत येन न्यायेन शक्नुयात्
।
न तस्मान्मन्त्रवत्कार्यं कश्चित्कुर्वीत किञ्चन॥३॥
स्वयंवृतेन साऽऽज्ञप्ता पित्रा वै प्रत्यपद्यत
।
तत्तस्यान्ये प्रशंसन्ति धर्मज्ञा नेतरे द्विजाः॥४॥
एतत्तु नापरे चक्रुरपरे जातु साधवः
।
साधूनां पुनराचारो गरीयान्धर्मलक्षणः ॥५॥
अस्मिन्नेव प्रकरणे सुक्रतुर्वाक्यमब्रवीत्
।
नप्ता विदेहराजस्य जनकस्य महात्मनः ॥६॥
असदाचरिते मार्गे कथं स्यादनुकीर्तनम्
।
अत्र प्रश्नः संशयो वा सतामेवमुपालभेत् ॥७॥
असदेव हि धर्मस्य प्रदानं धर्म आसुरः
।
नानुशुश्रुम जात्वेतामिमां पूर्वेषु कर्मसु ॥८॥
भार्यापत्योर्हि सम्बन्धः स्त्रीपुंसोः स्वल्प एव तु
।
रतिः साधारणो धर्म इति चाह स पार्थिवः॥९॥
युधिष्ठिर उवाच। अथ केन प्रमाणेन पुंसामादीयते धनम्
।
पुत्रवद्धि पितुस्तस्य कन्या भवितुमर्हति ॥१०॥
भीष्म उवाच। यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा
।
तस्यामात्मनि तिष्ठन्त्यां कथमन्यो धनं हरेत्॥११॥
मातुश्च यौतकं यत्स्यात्कुमारीभाग एव सः
।
दौहित्र एव तद्रिक्थमपुत्रस्य पितुर्हरेत् ॥१२॥
ददाति हि सपिण्डान्वै पितुर्मातामहस्य च
।
पुत्रदौहित्रयोरेव विशेषो नास्ति धर्मतः ॥१३॥
अन्यत्र जामया सार्धं प्रजानां पुत्र ईहते
।
दुहिताऽन्यत्र जातेन पुत्रेणापि विशिष्यते ॥१४॥
दौहित्रकेण धर्मेण नात्र पश्यामि कारणम्
।
विक्रीतासु हि ये पुत्रा भवन्ति पितुरेव ते ॥१५॥
असूयवस्त्वधर्मिष्ठाः परस्वादायिनः शठाः
।
आसुरादधिसम्भूता धर्माद्विषमवृत्तयः ॥१६॥
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः
।
धर्मज्ञा धर्मशास्त्रेषु निबद्धा धर्मसेतुषु ॥१७॥
यो मनुष्यः स्वकं पुत्रं विक्रीय धनमिच्छति
।
कन्यां वा जीवितार्थाय यः शुल्केन प्रयच्छति॥१८॥
सप्तावरे महाघोरे निरये कालसाह्वये
।
स्वेदं मूत्रं पुरीषं च तस्मिन्मूढः समश्रुते ॥१९॥
आर्षे गोमिथुनं शुल्कं केचिदाहुर्मृषैव तत्
।
अल्पो वा बहु वा राजन् विक्रयस्तावदेव सः॥२०॥
यद्यप्याचरितः कैश्चिन्नैष धर्मः सनातनः
।
अन्येषामपि दृश्यन्ते लोकतः संप्रवृत्तयः ॥२१॥
वश्यां कुमारीं बलतो ये तां समुपभुञ्जते
।
एते पापस्य कर्तारस्तमस्यन्धे च शेरते ॥२२॥
अन्योऽप्यथ न विक्रेयो मनुष्यः किं पुनः प्रजाः
।
अधर्ममूलैर्हि धनैस्तैर्न धर्मोऽथ कश्चन ॥२३॥
भीष्म उवाच। प्राचेतसस्य वचनं कीर्तयन्ति पुराविदः
।
यस्याः किञ्चिनाददते ज्ञातयो न स विक्रयः॥१॥
अर्हणं तत्कुमारीणामानृशंस्यतमं च तत्
।
सर्वं च प्रतिदेयं स्यात्कन्यायै तदशेषतः ॥२॥
पितृभिर्भ्रातृभिश्चापि श्वशुरैरथ देवरैः
।
पूज्या भूषयितव्याश्च बहुकल्याणमीप्सुभिः ॥३॥
यदि वै स्त्री न रोचेत पुमांसं न प्रमोदयेत्
।
अप्रमोदात्पुनः पुंसः प्रजनो न प्रवर्धते ॥४॥
पूज्या लालयितव्याश्च स्त्रियो नित्यं जनाधिप
।
स्त्रियो यत्र च पूज्यन्ते रमन्ते तत्र देवताः ॥५॥
अपूजिताश्च यत्रैताः सर्वास्तत्राफलाः क्रियाः
।
तदा चैतत्कुलं नास्ति यदा शोचन्ति जामयः॥६॥
जामीशप्तानि गेहानि निकृत्तानीव कृत्यया
।
नैव भान्ति न वर्धन्ते श्रिया हीनानि पार्थिव॥७॥
स्त्रियः पुंसां परिददे मनुर्जिगमिषुर्दिवम्
।
अबलाः स्वल्पकौपीनाः सुहृदः सत्यजिष्णवः॥८॥
ईर्षवो मानकामाश्च चण्डाश्च सुहृदोऽबुधाः
।
स्त्रियस्तु मानमर्हन्ति ता मानयत मानवाः ॥९॥
स्त्रीप्रत्ययो हि वै धर्मो रतिभोगाश्च केवलाः
।
परिचर्या नमस्कारास्तदायत्ता भवन्तु वः॥१०॥
उत्पादनमपत्यस्य जातस्य परिपालनम्
।
प्रीत्यर्थं लोकयात्रायाः पश्यत स्त्रीनिबन्धनम्
।
संमान्यमानाश्चैता हि सर्वकार्याण्यवाप्स्यथ
।
विदेहराजदुहिता चात्र श्लोकमगायत ॥१२॥
नास्ति यज्ञक्रिया काचिन्न श्राद्धं नोपवासकम्
।
धर्मः स्वभर्तृशुश्रूषा तया स्वर्गं जयन्त्युत ॥१३॥
पिता रक्षति कौमारे भर्ता रक्षति यौवने
।
पुत्राश्च स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति॥१४॥
श्रिय एताः स्त्रियो नाम सत्कार्या भूतिमिच्छता
।
पालिता निगृहीता च श्रीः स्त्री भवति भारत॥१५॥
युधिष्ठिर उवाच। सर्वशास्त्रविधानज्ञ राजधर्मविदुत्तम
।
अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ ॥१॥
कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह
।
जातेऽस्मिन्संशये राजन्नान्यं पृच्छेम कञ्चन॥२॥
यथा नरेण कर्तव्यं धर्ममार्गानुवर्तिना
।
एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति ॥३॥
चतस्रो विहिता भार्या ब्राह्मणस्य पितामह
।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः
।
तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम
।
आनुपूर्व्येण कस्तेषां पित्र्यं दायादमर्हति ॥५॥
केन वा किं ततो हार्यं पितृवित्तात्पितामह
।
एतदिच्छामि कथितं विभागस्तेषु यः स्मृतः॥६॥
भीष्म उवाच। ब्राह्मणो क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः
।
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ॥७॥
वैषम्यादथवा लोभात्कामाद्वापि परन्तप
।
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥८॥
शूद्रां शयनमारोप्य ब्राह्मणो यात्यधोगतिम्
।
प्रायश्चित्तीयते चापि विधिदृष्टेन कर्मणा ॥९॥
तत्र जातेष्वपत्येषु द्विगुणं स्याद्युधिष्ठिर
।
आपद्यमानमृक्थं तु संप्रवक्ष्यामि भारत ॥१०॥
लक्षण्यं गोवृषो यानं यत्प्रधानतमं भवेत्
।
ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ॥११॥
शेषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर
।
तत्र तेनैव हर्तव्याश्चत्वारोंऽशाः पितुर्धनात्॥१२॥
क्षत्रियायास्तु यः पुत्रो ब्राह्मणः सोऽप्यसंशयः
।
स तु मातुर्विशेषेण त्रीनंशान्हर्तुमर्हति ॥१३॥
वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि
।
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर॥१४॥
शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः
।
अल्पं चापि प्रदातव्यं शूद्रापुत्राय भारत॥१५॥
दशधा प्रविभक्तस्य धनस्यैष भवेत्क्रमः
।
सवर्णासु तु जातानां समान् भागान्प्रकल्पयेत्॥१६॥
अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात्
।
त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् ॥१७॥
स्मृताश्च वर्णाश्चत्वारः पञ्चमो नाधिगम्यते
।
हरेच्च दशमं भागं शूद्रापुत्रः पितुर्धनात् ॥१८॥
तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति
।
अवश्यं हि धनं देयं शूद्रापुत्राय भारत ॥१९॥
आनृशंस्यं परो धर्म इति तस्मै प्रदीयते
।
यत्र तत्र समुत्पन्नं गुणायैवोपपद्यते ॥२०॥
यद्यप्येष सपुत्रः स्यादपुत्रो यदि वा भवेत्
।
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ॥२१॥
त्रैवार्षिकाद्यदा भक्तादधिकं स्याद्विजस्य तु
।
यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ॥२२॥
त्रिसहस्रपरो दायः स्त्रियै देयो धनस्य वै
।
भर्त्रा तच्च धनं दत्तं यथार्हं भोक्तुमर्हति ॥२३॥
स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम्
।
नापहारं स्त्रियः कुर्युः पतिवित्तात्कथञ्चन॥२४॥
स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर
।
ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथा हि सा॥२५॥
सा हि पुत्रसमा राजन्विहिता कुरुनन्दन
।
एवमेव समुद्दिष्टो धर्मो वै भरतर्षभ
।
एवं धर्ममनुस्मृत्य न वृथा साधयेद्धनम् ॥२६॥
युधिष्ठिर उवाच। शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः
।
केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ॥२७॥
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः
।
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥२८॥
कस्मात्तु विषमं भागं भजेरन्नृपसत्तम
।
यदा सर्वे त्रयो वर्णास्त्वथोक्ता ब्राह्मणा इति॥२९॥
भीष्म उवाच। दारा इत्युच्यते लोके नाम्नैकेन परन्तप
।
प्रोक्तेन चैव नाम्नाऽयं विशेषः सुमहान्भवेत्॥३०॥
तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम्
।
सा ज्येष्ठा सा च पूज्या स्यात्सा च भार्या गरीयसी॥३१॥
स्नानं प्रसाधनं भर्तुर्दन्तधावनमञ्जनम्
।
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं गृहे भवेत् ॥३२॥
न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति
।
ब्राह्मणी त्वेव कुर्याद्वा ब्राह्मणस्य युधिष्ठिर॥३३॥
अन्नं पानं च माम्यं च वासांस्याभरणानि च
।
ब्राह्मण्यैतानि देयानि भर्तुः सा हि गरीयसी॥३४॥
मनुनाभिहितं शास्रं यच्चापि कुरुनन्दन
।
तत्राप्येष महाराज दृष्टो धर्मः सनतनः ॥३५॥
अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर
।
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥३६॥
ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत्
।
राजन्विशेषो यस्त्वत्र वर्णयोरुभयोरपि ॥३७॥
न तु जात्या समालोके ब्राह्मण्याः क्षत्रियाभवेत्
।
ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम॥३८॥
भूयो भूयोऽपि संहार्यः पितृवित्ताद्युधिष्ठिर
।
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत्॥३९॥
क्षत्रियायास्तथा वैश्या न जातु सहशी भवेत्
।
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर॥४०॥
विहितं दृश्यते राजन्सागरान्तां च मेदिनीम्
।
क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम्॥४१॥
राजा दण्डधरो राजन् रक्षा नान्यत्र क्षत्रियात्
।
ब्राह्मणा हि महाभागा देवानामपि देवताः
।
तेषु राजन्प्रवर्तेत पूजया विधिपूर्वकम् ॥४२॥
प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम्
।
लुप्यमानं स्वधर्मेण क्षत्रियो ह्येष रक्षति ॥४३॥
दस्युभिर्ह्रियमाणं च धनं दारांश्च सर्वशः
।
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः॥४४॥
भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः
।
भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ॥४५॥
युधिष्ठिर उवाच। उक्तं ते विधिवद्राजन्ब्राह्मणस्य पितामह
।
इतरेषां तु वर्णानां कथं वै नियमो भवेत्॥४६॥
भीष्म उवाच। क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन
।
तृतीया च भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥४७॥
एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर
।
अष्टधा तु भवेत्कार्यं क्षत्रियस्वं जनाधिप॥४८॥
क्षत्रियाया हरेत्पुत्रश्चतुरोंशान्पितुर्धनात्
।
युद्धावहारिकं यच्च पितुः स्यात्स हरेत्तु तत् ॥४९॥
वैश्यापुत्रस्तु भागांस्त्रीन् शूद्रापुत्रस्तथाऽष्टमम्
।
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ॥५०॥
एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन
।
द्वितीया तु भवेच्छूद्रा न तु दृष्टान्ततः स्मृता ॥५१॥
वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ
।
शूद्रायां चापि कौन्तेय तयोर्विनियमः स्मृतः॥५२॥
पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ
।
तयोरपत्ये वक्ष्यामि विभागं च जनाधिप॥५३॥
वैश्यापुत्रेण हर्तव्याश्चत्वारोंशाः पितुर्धनात्
।
पञ्चमस्तु स्मृतो भागः शूद्रापुत्राय भारत ॥५४॥
सोऽपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति
।
त्रिभिर्वर्णैः सदा जातः शूद्रोऽदेयधनो भवेत् ॥५५॥
शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथञ्चन
।
समभागाश्च पुत्राः स्युर्यदि पुत्रशतं भवेत् ॥५६॥
जातानां समवर्णायाः पुत्राणामविशेषतः
।
सर्वेषामेव वर्णानां समभागो धनात्स्मृतः॥५७॥
ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः
।
एष दायविधिः पार्थ पूर्वमुक्तः स्वयम्भुवा॥५८॥
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप
।
विवाहवैशिष्ट्यकृतः पूर्वपूर्वो विशिष्यते॥५९॥
हरेज्ज्येष्ठः प्रधानांशमेकं तुल्यासु तेष्वपि
।
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ॥६०॥
एवं जातिषु सर्वासु सवर्णः श्रेष्ठतां गतः
।
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ॥६१॥
युधिष्ठिर उवाच। अर्थाल्लोभाद्वा कामाद्वा वर्णानां चाप्यनिश्चयात्
।
अज्ञानाद्वापि वर्णानां जायते वर्णसंकरः ॥१॥
तेषामेतेन विधिना जातानां वर्णसंकरे
।
को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह॥२॥
भीष्म उवाच। चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम्
।
असृजत्स हि यज्ञार्थे पूर्वमेव प्रजापतिः ॥३॥
भार्याश्चतस्रो विप्रस्य द्वयोरात्मा प्रजायते
।
आनुपूर्व्याद्वयोर्हीनौ मातृजात्यौ प्रसूयतः॥४॥
परंशवाद्ब्राह्मणस्यैव पुत्रः शूद्रापुत्रं पारशवं तमाहुः
।
शुश्रूषकः स्वस्य कुलस्य स स्यात्स्वचारित्रं नित्यमथो न जह्यात् ॥५॥
सर्वानुपायानथ संप्रधार्य समुद्धरेत् स्वस्य कुलस्य तन्त्रम्
।
ज्येष्ठो यवीयानपि यो द्विजस्य शुश्रूषया दानपरायणः स्यात् ॥६॥
तिस्रः क्षत्रियसम्बन्धाद्द्वयोरात्माऽस्य जायते
।
हीनवर्णास्तृतीयायां शूद्रा उग्रा इति स्मृतिः॥७॥
द्वे चापी भार्ये वैश्यस्य द्वयोरात्माऽस्य जायते
।
शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ॥८॥
अतोऽपि शिष्टस्त्वधमो गुरुदारप्रधर्षकः
।
बाह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥९॥
विप्रायां क्षत्रियो बाह्यं सूतं स्तोमक्रियापरम्
।
वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम्॥१०॥
शूद्रश्चांडालमत्युग्रं वध्यघ्नं बाह्यवासिनम्
।
ब्राह्मण्यां संप्रजायन्त इत्येते कुलपांसनाः
।
एते मतिमतां श्रेष्ठे वर्णसंकरजाः प्रभो ॥११॥
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः
।
शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥१२॥
शूद्रादायोगवश्चापि वैश्यायां ग्राम्यधर्मिणः
।
ब्राह्मणैरप्रतिग्राह्यस्तक्षा स्वधनजीवनः ॥१३॥
एतेऽपि सदृशान् वर्णान् जनयन्ति स्वयोनिषु
।
मातृजात्याः प्रसूयन्ते ह्यवरा हीनयोनिषु ॥१४॥
यथा चतुर्षु वर्णेषु द्वयोरात्मास्य जायते
।
आनन्तर्यात्प्रजायन्ते तथा बाह्याः प्रधानतः॥१५॥
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु
।
परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥१६॥
यथा शूद्रोऽपि ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते
।
एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यत्प्रजायते ॥१७॥
प्रतिलोमं तु वर्धन्ते बाह्याद्बाह्यतरात्पुनः
।
हीनाद्धीनाः प्रसूयन्ते वर्णाः पंचदशैव तु॥१८॥
अगम्यागमनाच्चैव जायते वर्णसङ्करः
।
बाह्यानामनुजायन्ते सैरन्ध्र्यां मागधेषु च
।
प्रसाधनोपचारज्ञमदासं दासजीवनम् ॥१९॥
अतश्चायोगवं सूते वागुराबन्धजीवनम्
।
मैरेयकं च वैदेहः संप्रसूतेऽथ माधुकम् ॥२०॥
निषादो मद्गुरं सूते दासं नावोपजीविनम्
।
मृतपं चापि चाण्डालः श्वपाकमिति विश्रुतम्॥२१॥
चतुरो मागधी सुते क्रूरान्मायोपजीविनः
।
मांसं स्वादुकरं क्षौद्रं सौगन्धमिति विश्रुतम्॥२२॥
वैदेहकाच्च पापिष्ठा क्रूरं मायोपजीविनम्
।
निषादान्मद्रनाभं च खरयानप्रयायिनम् ॥२२॥
चांडालात्पुल्कसं चापि खराश्वगजभोजिनम्
।
मृतचैलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ॥२४॥
आयोगवीषु जायन्ते हीनवर्णास्तु ते त्रयः
।
क्षुद्रो वैदेहकादन्ध्रो बहिर्ग्रामप्रतिश्रयः॥२५॥
कारावरो निषाद्यां तु चर्मकारः प्रसूयते
।
चांडालात्पांडुसौपाकस्त्वक्सारव्यवहारवान् ॥२६॥
आहिण्डको निषादेन वैदेह्यां संप्रसूयते
।
चण्डालेन तु सौपाकश्चण्डालसमवृत्तिमान्॥२७॥
निषादी चापि चाण्डालात्पुत्रमन्तेवसायिनम्
।
श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ॥२८॥
इत्येते संकरे जाताः पितृमातृव्यतिक्रमात्
।
प्रच्छन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः॥२९॥
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते
।
वर्णानां धर्महीनेषु संख्या नास्तीह कस्यचित्॥३०॥
यदृच्छयोपसंपन्नैर्यज्ञसाधुबहिष्कृतैः
।
बाह्या बाह्यैश्च जायन्ते यथावृत्ति यथाश्रयम्॥३१॥
चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन्
।
कार्ष्णायसमलंकारं परिगृह्य च नित्यशः॥३२॥
वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः
।
युञ्जन्तो वाप्यलंकारांस्तथोपकरणानि च॥३३॥
गोब्राह्मणाय साहाय्यं कुर्वाणा वै न संशयः
।
आनृशंस्यमनुक्रोशः सत्यवाक्यं तथा क्षमा॥३४॥
स्वशरीरैरापि त्राणं बाह्यानां सिद्धिकारणम्
।
भवन्ति मनुजव्याघ्र तत्र मे नास्ति संशयः ॥३५॥
यथोपदेशं परिकीर्तितासु नरः प्रजायते विचार्य बुद्धिमान्
।
निहीनयोनिर्हि सुतोऽवसादयेत्तितीर्षमाणं हि यथोपलो जले ॥३६॥
अविद्वांसमलं लोके विद्वांसमपि वा पुनः
।
नयन्ति ह्यपथं नार्यः कामक्रोधवशानुगम् ॥३७॥
स्वभावश्चैव नारीणां नराणामिह दूषणम्
।
अत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ॥३८॥
युधिष्ठिर उवाच। वर्णापेतमविज्ञाय नरं कलुषयोनिजम्
।
आर्यरूपमिवानार्यं कथं विद्यामहे वयम् ॥३९॥
भीष्म उवाच। योनिसंकलुषे जातं नानाभावसमन्वितम्
।
कर्मभिः सज्जनाचीर्णैर्विज्ञेया योनिशुद्धता॥४०॥
अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता
।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥४१॥
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम्
।
न कथंचन संकीर्णः प्रकृतिं स्वां नियच्छति॥४२॥
यथैव सदृशो रूपे मातापित्रोर्हि जायते
।
व्याघ्रश्चित्रैस्तथा योनिं पुरुषः स्वां नियच्छति॥४३॥
कुले स्रोतसि संच्छन्ने यस्य स्याद्योनिसंकरः
।
संश्रयत्येव तच्छीलं नरोऽल्पमथवा बहु ॥४४॥
आर्यरूपसमाचारं चरन्तं कृतके पथि
।
सुवर्णमन्यवर्णं वा स्वशीलं शास्ति निश्चये॥४५॥
नानावृत्तेषु भूतेषु नानाकर्मरतेषु च
।
जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ॥४६॥
शरीरमिह सत्त्वेन न तस्य परिकृष्यते
।
ज्येष्ठमध्यावरं सत्त्वं तुल्यसत्त्वं प्रमोदते ॥४७॥
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत्
।
अपि शूद्रं च धर्मज्ञं सद्वृत्तमभिपूजयेत् ॥४८॥
आत्मानमाख्याति हि कर्मभिर्नरः सुशीलचारित्रकुलैः शुभाशुभैः
।
प्रनष्टमप्याशु कुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मतः ॥४९॥
योनिष्वेतासु सर्वासु संकीर्णास्वितरासु च
।
यत्रात्मानं न जनयेद्बुधस्तां परिवर्जयेत् ॥५०॥
युधिष्ठिर उवाच। ब्रूहि तात कुरुश्रेष्ठ वर्णानां त्वं पृथक् पृथकू
।
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते॥१॥
विप्रवादाः सुबहवः श्रूयन्ते पुत्रकारिताः
।
अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ॥२॥
भीष्म उवाच। आत्मा पुत्रश्च विज्ञेयस्तस्यानन्तरजश्च यः
।
निरुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥३॥
पतितस्य तु भार्याया भर्त्रा सुसमवेतया
।
तथा दत्तकृतौ पुत्रावध्यूढश्च तथाऽपरः ॥४॥
षडपध्वंसजाश्चापि कानीनापसदास्तथा
।
इत्येते वै समाख्यातास्तान्विजानीहि भारत॥५॥
युधिष्ठिर उवाच। षडपध्वंसजाः के स्युः के वाप्यपसदास्तथा
।
एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ॥६॥
भीष्म उवाच। त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर
।
वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥७॥
एको विड्वर्ण एवाथ तथाऽत्रैवोपलक्षितः
।
षडपध्वंसजास्ते हि तथैवापसदान् शृणु ॥८॥
चाण्डालो व्रात्यवैद्यौ च ब्राह्मण्यां क्षत्रियासु च
।
वैश्यायां चैव शुद्रस्य लक्ष्यन्तेऽपसदास्त्रयः ॥९॥
मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ
।
ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥१०॥
ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः
।
पुत्रा ह्येते न शक्यन्ते मिथ्याकर्तुं नराधिप॥११॥
युधिष्ठिर उवाच। क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम्
।
तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ॥१२॥
भीष्म उवाच। रेतजो वा भवेत्पुत्रस्त्यक्तो वा क्षेत्रजो भवेत्
।
अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ॥१३॥
युधिष्ठिर उवाच। रेतजं विद्म वै पुत्रं क्षेत्रजस्यागमः कथम्
।
अध्यूढं विद्म वै पुत्रं भित्त्वा तु समयं कथम् ॥१४॥
भीष्म उवाच। आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे
।
न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥१५॥
पुत्रकामो हि पुत्रार्थे यां वृणीते विशांपते
।
क्षेत्रजं तु प्रमाणं स्यान्न वे तत्रात्मजः सुतः॥१६॥
अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ
।
न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ॥१७॥
क्वचिच्च कृतकः पुत्रः संग्रहादेव लक्ष्यते
।
न तत्र रेतः क्षेत्रं वा यत्र लक्ष्येत भारत ॥१८॥
युधिष्ठिर उवाच। कीदृशः कृतकः पुत्रः संग्रहादेव लक्ष्यते
।
शुक्र क्षेत्रं प्रमाणं वा यत्र लक्ष्यं न भारत ॥१९॥
भीष्म उवाच। मातापितृभ्यां यस्त्यक्तः पथि यस्तं प्रकल्पयेत्
।
न चास्य मातापितरौ ज्ञायेतां स हि कृत्रिमः ॥२०॥
अस्वामिकस्य स्वामित्वं यस्मिन्संप्रति लक्ष्यते
।
यो वर्णः पोषयेत्तं च तद्वर्णस्तस्य जायते ॥२१॥
युधिष्ठिर उवाच। कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम्
।
देया कन्या कथं चेति तन्मे ब्रूहि पितामह ॥२२॥
भीष्म उवाच। आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा
।
त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते॥२३॥
तद्गोत्रबन्धुजं तस्य कुर्यात्संस्कारमच्युत
।
अथ देया तु कन्या स्यात्तद्वर्णस्य युधिष्ठिर ॥२४॥
संस्कर्तुं वर्णगोत्रं च मातृवर्णविनिश्चये
।
कानीनाध्यूढजौ वापि विज्ञेयौ पुत्र किल्बिषौ ॥२५॥
तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः
।
क्षेत्रजो वाप्यपसदो येऽध्यूढास्तेषु चाप्युत॥२६॥
आत्मवद्वै प्रयुञ्जीरन्संस्कारान्ब्राह्मणादयः
।
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं प्रदृश्यते ॥२७॥
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि॥२८॥
युधिष्ठिर उवाच। दर्शने कीदृशः स्नेहः संवासे च पितामह
।
महाभाग्यं गवां चैव तन्मे व्याख्यातुमर्हसि ॥१॥
भीष्म उवाच। हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते
।
नहुषस्य च संवादं महर्षेश्च्यवनस्य च ॥२॥
पुरा महर्षिश्च्यवनो भार्गवो भरतर्षम
।
उदवासकृतारम्भो बभूव स महाव्रतः ॥३॥
निहत्य मानं कोधं च प्रहर्षं शोकमेव च
।
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ॥४॥
आदधत्सर्वभूतेषु विश्रम्भं परमं शुभम्
।
जलेचरेषु सर्वेषु शीतरश्मिरिव प्रभुः ॥५॥
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च
।
गङ्गायमुनयोर्मध्ये जलं संप्रविवेश ह ॥६॥
गङ्गायमुनयोर्येगं सुभीमं भीमनिःस्वनम्
।
प्रतिजग्राह शिरसा वातवेगसमं जवे ॥७॥
गङ्गा च यमुना चैव सरितश्च सरांसि च
।
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ॥८॥
अन्तर्जलेषु सुष्वाप काष्ठभूतो महामुनिः
।
ततश्चोर्ध्वास्थितो धीमानभवद्भरतर्षभ ॥९॥
जलौकसां स सत्त्वानां बभूव प्रियदर्शनः
।
उपाजिघ्रन्त च तदा तस्योष्ठं हृष्टमानसाः ॥१०॥
तत्र तस्यासतः कालः समतीतोऽभवन्महान्
।
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः
।
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते
।
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चयाः ॥१२॥
व्यायता बलिनः शूराः सलिलेष्वनिवर्तिनः
।
अभ्याययुश्च तं देशं निश्चिता जालकर्मणि ॥१३॥
जालं ते योजयामासुर्निशेषेण जनाधिप
।
मत्स्योदकं समासाद्य तदा भरतसत्तम ॥१४॥
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकांक्षिणः
।
गङ्गायमुनयोर्वारि जालैरभ्यकिरंस्ततः ॥१५॥
जालं सुविततं तेषां नवसूत्रकृतं तथा
।
विस्तारायामसम्पन्नं यत्तत्र सलिलेऽक्षिपन्॥१६॥
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम्
।
अवतीर्य ततः सर्वे जालं चकृषिरे तदा ॥१७॥
अभीतरूपाः संहृष्टा अन्योन्यवशवर्तिनः
।
बबन्धुस्तत्र मत्स्यांश्च तथाऽन्यान् जलचारिणः॥१८॥
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम्
।
आकर्षयन्महाराज जालेनाथ यदृच्छया ॥
।
१९॥
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम्
।
लग्नैः शङ्खनखैर्गात्रे क्रोडैश्चित्रैरिवार्पितम्॥२०॥
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम्
।
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि॥२१॥
परिस्वेदपरित्रासाज्जालस्याकर्षणेन च
।
मत्स्या बभूवुर्व्यापन्नाः स्थलसंस्पर्शनेन च॥२२॥
स सुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम्
।
बभूव कृपयाविष्टो निःश्वसंश्च पुनः पुनः॥२३॥
निषादा ऊचुः
।
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु
।
करवाम प्रियं किं ते तन्नो ब्रूहि महामुने ॥२४॥
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत्
।
यो मेऽद्य परमः कामस्तं शृणुध्वं समाहिताः॥२५॥
प्राणोत्सर्गं विसर्गं वा मत्स्यैर्यास्याम्यहं सह
।
संवासानोत्सहे त्यक्तुं सलिलेऽध्युषितानहम्
।
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः
।
सर्वे विवर्णवदना नहुषाय न्यवेदयन् ॥२७॥
नहुषस्तु ततः श्रुत्वा च्यवनं तं तथागतम्
।
त्वरितः प्रययौ तत्र सहामात्यपुरोहितः ॥१॥
शौचं कृत्वा यथान्यायं प्राञ्जलिः प्रयतो नृपः
।
आत्मानमाचचक्षे च च्यवनाय महात्मने ॥२॥
अर्चयामास तं चापि तस्य राज्ञः पुरोहितः
।
सत्यव्रतं महात्मानं देवकल्पं विशांपते ॥३॥
नहुष उवाच
।
करवाणि प्रियं किं ते तन्मे ब्रूहि द्विजोत्तम
।
सर्वं कर्तास्मि भगवन्यद्यपि स्यात्सुदुष्करम् ॥४॥
च्यवन उवाच। श्रमेण महता युक्ताः कैवर्ता मत्स्यजीविनः
।
मम मूल्यं प्रयच्छैभ्यो मत्स्यानां विक्रयैः सह ॥५॥
नहुष उवाच
।
सहस्रं दीयतां मूल्यं निषादेभ्यः पुरोहित
।
निष्क्रयार्थे भगवतो यथाऽऽह भृगुनन्दनः ॥६॥
च्यवन उवाच। सहस्रं नाहमर्हामि किंवा त्वं मन्यसे नृप
।
सदृशं दीयतां मूल्यं स्वबुद्ध्या निश्चयं कुरु ॥७॥
नहुष उवाच
।
सहस्राणां शतं विप्र निषादेभ्यः प्रदीयताम्
।
स्यादिदं भगवन्मूल्यं किंवाऽन्यन्मन्यते भवान् ॥८॥
च्यवन उवाच। नाहं शतसहस्रेण निमेयः पार्थिवर्षभ
।
दीयतां सदृशं मूल्यममात्यैः सह चिन्तय ॥९॥
नहुष उवाच
।
कोटिः प्रदीयतां मूल्यं निषादेभ्यः पुरोहित
।
यदेतदपि नो मूल्यमतो भूयः प्रदीयताम् ॥१०॥
च्यवन उवाच। राजन्नार्हाम्यहं कोटिं भूयो वाऽपि महाद्युते
।
सदृशं दीयतां मूल्यं ब्राह्मणैः सह चिन्तय ॥११॥
नहुष उवाच
।
अर्धं राज्यं समग्रं वा निषादेभ्यः प्रदीयताम्
।
एतन्मूल्यमहं मन्ये किंवाऽन्यन्मन्यसे द्विज ॥१२॥
च्यवन उवाच। अर्धं राज्यं समग्रं च मूल्यं नार्हामि पार्थिव
।
सदृशं दयितां मूल्यमृषिभिः सह चिन्त्यताम् ॥१३॥
भीष्म उवाच। महर्षेर्वचनं श्रुत्वा नहुषो दुःखकर्शितः
।
स चिन्तयामास तदा सहामात्यपुरोहितः ॥१४॥
तत्र त्वन्यो वनचरः कश्चिन्मूलफलाशनः
।
नहुषस्य समीपस्थो गविजातोऽभवन्मुनिः ॥१५॥
स तमाभाष्य राजानमब्रवीद्द्विजसत्तमः
।
तोषयिष्याम्यहं क्षिप्रं यथा तुष्टो भविष्यति ॥१६॥
नाहं मिथ्यावचो बूयां स्वैरेष्वपि कुतोऽन्यथा
।
भवतो यदहं ब्रूयां तत्कार्यमविशङ्कया ॥१७॥
नहुष उवाच
।
ब्रवीतु भगवान्मूल्यं महर्षेः सदृशं भृगोः
।
परित्रायस्व मामस्मद्विषयं च कुलं च मे ॥१८॥
हन्याद्धि भगवान् क्रुद्धस्त्रैलोक्यमपि केवलम्
।
किं पुनर्मां तपोहीनं बाहुवीर्यपरायणम् ॥१९॥
अगाधांभसि मग्नस्य सामात्यस्य सऋत्विजः
।
प्लवो भव महर्षे त्वं कुरु मूल्यविनिश्चयम् ॥२०॥
भीष्म उवाच। नहुषस्य वचः श्रुत्वा गविजातः प्रतापवान्
।
उवाच हर्षयन्सर्वानमात्यान्पार्थिवं च तम् ॥२१॥
अनर्घेया महाराज द्विजा वर्णेषु चोत्तमाः
।
गावश्च पुरुषव्याघ्र गौर्मूल्यं परिकल्प्यताम् ॥२२॥
नहुषस्तु ततः श्रुत्वा महर्षेर्वचनं नृप
।
हर्षेण महता युक्तः सहामात्यपुरोहितः ॥२३॥
अभिगम्य भृगोः पुत्रं च्यवनं संशितव्रतम्
।
इदं प्रोवाच नृपते वाचा सन्तर्पयन्निव ॥२४॥
नहुष उवाच
।
उत्तिष्ठोत्तिष्ठ विप्रर्षे गवा क्रीतोऽसि भार्गव
।
एतन्मूल्यमहं मन्ये तव धर्मभृतां वर ॥२५॥
च्यवन उवाच। उत्तिष्ठाम्येष राजेन्द्र सम्यक् क्रीतोऽस्मि तेऽनघ
।
गोभिस्तुल्यं न पश्यामि धनं किञ्चिदिहाच्युत ॥२६॥
कीर्तनं श्रवणं दानं दर्शनं चापि पार्थिव
।
गवां प्रशस्यते वीर सर्वपापहरं शिवम् ॥२७॥
गावो लक्ष्म्याः सदा मूलं गोषु पाप्मा न विद्यते
।
अन्नमेव सदा गावो देवानां परमं हविः ॥२८॥
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ
।
गावो यज्ञस्य नेत्र्यो वै तथा यज्ञस्य ता मुखम् ॥२९॥
अमृतं ह्यव्ययं दिव्यं क्षरन्ति च वहन्ति च
।
अमृतायतनं चैताः सर्वलोकनमस्कृताः ॥३०॥
तेजसा वपुषा चैव गावो वह्निसमा भुवि
।
गावो हि सुमहत्तेजः प्राणिनां च सुखप्रदाः ॥३१॥
निविष्टं गोकुलं यत्र श्वासं मुञ्चति निर्भयम्
।
विराजयति तं देशं पापं चास्यापकर्षति ॥३२॥
गावः स्वर्गस्य सोपानं गावः स्वर्गेऽपि पूजिताः
।
गावः कामदुहो देव्यो नान्यत्किञ्चित्परं स्मृतम् ॥३३॥
इत्येतद्गोषु मे प्रोक्तं माहात्म्यं भरतर्षभ
।
गुणैकदेशवचनं शक्यं पारायणं न तु ॥३४॥
निषादा ऊचुः
।
दर्शनं कथनं चैव सहास्माभिः कृतं मुने
।
सतां साप्तपदं मैत्रं प्रसादं नः कुरु प्रभो ॥३५॥
हवींषि सर्वाणि यथा ह्युपभुङ्क्ते हुताशनः
।
एवं त्वमपि धर्मात्मन्पुरुषाग्निः प्रतापवान् ॥३६॥
प्रसादयामहे विद्वन्भवन्तं प्रणता वयम्
।
अनुग्रहार्थमस्माकमियं गौः प्रतिगृह्यताम् ॥३७॥
च्यवन उवाच। कृपणस्य च यच्चक्षुर्मुनेराशीविषस्य च
।
नरं समूलं दहति कक्षमग्निरिव ज्वलन् ॥३८॥
प्रतिगृह्णामि वो धेनुं कैवर्ता मुक्तकिल्बिषाः
।
दिवं गच्छत वैक्षिप्रं मत्स्यैः सह जलोद्भवैः ॥३९॥
भीष्म उवाच। ततस्तस्य प्रभावात्ते महर्षेर्भावितात्मनः
।
निषादास्तेन वाक्येन सह मत्स्यैर्दिवं ययुः ॥४०॥
ततः स राजा नहुषो विस्मितः प्रेक्ष्य धीवरान्
।
आरोहमाणांस्त्रिदिवं मत्स्यांश्च भरतर्षभ ॥४१॥
ततस्तौ गविजश्चैव च्यवनश्च भृगूद्वहः
।
वराभ्यामनुरूपाभ्यां छन्दयामासतुर्नृपम् ॥४२॥
ततो राजा महावीर्यो नहुषः पृथिवीपतिः
।
परमित्यब्रवीत्प्रीतस्तदा भरतसत्तम ॥४३॥
ततो जग्राह धर्मे स स्थितिमिन्द्रनिभो नृपः
।
तथेति चोदितः प्रीतस्तावृषी प्रत्यपूजयत् ॥४४॥
समाप्तदीक्षश्च्यवनस्ततोऽगच्छत्स्वमाश्रमम्
।
गविजश्च महातेजाः स्वमाश्रमपदं ययौ ॥४५॥
निषादाश्च दिवं जग्मुस्ते च मत्स्या जनाधिप
।
नहुषोऽपि वरं लब्ध्वा प्रविवेश स्वकं पुरम् ॥४६॥
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि
।
दर्शने यादृशः स्नेहः संवासे वा युधिष्ठिर ॥४७॥
महाभाग्यं गवां चैव तथा धर्मविनिश्चयम्
।
किं भूयः कथ्यतां वीर किं ते हृदि विवक्षितम् ॥४८॥
युधिष्ठिर उवाच। संशयो मे महाप्राज्ञ सुमहान्सागरोपमः
।
तं मे शृणु महाबाहो श्रुत्वा व्याख्यातुमर्हसि ॥१॥
कौतूहलं मे सुमहज्जामदग्न्यं प्रति प्रभो
।
रामं धर्मभृतां श्रेष्ठं तन्मे व्याख्यातुमर्हसि ॥२॥
कथमेष समुत्पन्नो रामः सत्यपराक्रमः
।
कथं ब्रह्मर्षिवंशोऽयं क्षत्रधर्मा व्यजायत ॥३॥
तदस्य संभवं राजन्निखिलेनानुकीर्तय
।
कौशिकाच्च कथं वंशात्क्षत्राद्वै ब्राह्मणो भवेत् ॥४॥
अहो प्रभावः सुमहानासीद्वै सुमहात्मनः
।
रामस्य च नरव्याघ्र विश्वामित्रस्य चैव हि ॥५॥
कथं पुत्रानतिक्रम्य तेषां नप्तृष्वथाभवत्
।
एष दोषः सुतान् हित्वा तत्त्वं व्याख्यातुमर्हसि ॥६॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
च्यवनस्य च संवादं कुशिकस्य च भारत ॥७॥
एतं दोषं पुरा दृष्ट्वा भार्गवश्च्यवनस्तदा
।
आगामिनं महाबुद्धिः स्ववंशे मुनिसत्तमः ॥८॥
निश्चित्य मनसा सर्वं गुणदोषबलाबलम्
।
दग्धुकामः कुलं सर्वं कुशिकानां तपोधनः ॥९॥
च्यवनः समनुप्राप्य कुशिकं वाक्यमब्रवीत्
।
वस्तुमिच्छा समुत्पन्ना त्वया सह ममानघ ॥१०॥
कुशिक उवाच
।
भगवन्सहधर्मोऽयं पण्डितैरिह धार्यते
।
प्रदानकाले कन्यानामुच्यते च सदा बुधैः ॥११॥
यत्तु तावदतिक्रान्तं धर्मद्वारं तपोधन
।
तत्कार्यं प्रकरिष्यामि तदनुज्ञातुमर्हसि ॥१२॥
भीष्म उवाच। अथासनमुपादाय च्यवनस्य महामुनेः
।
कुशिको भार्यया सार्धमाजगाम यतो मुनिः ॥१३॥
प्रगृह्य राजा भृङ्गारं पाद्यमस्मै न्यवेदयत्
।
कारयामास सर्वाश्च क्रियास्तस्य महात्मनः ॥१४॥
ततः स राजा च्यवनं मधुपर्कं यथाविधि
।
ग्राहयामास चाव्यग्रो महात्मा नियतव्रतः ॥१५॥
सत्कृत्य तं तथा विप्रमिदं पुनरथाब्रवीत्
।
भगवन्परवन्तौ स्वो ब्रूहि किं करवावहे ॥१६॥
यदि राज्यं यदि धनं यदि गाः संशितव्रत
।
यज्ञदानानि च तथा ब्रूहि सर्वं ददामि ते ॥१७॥
इदं गृहमिदं राज्यमिदं धर्मासनं च ते
।
राजा त्वमसि शाध्युर्वीमहं तु परवांस्त्वयि ॥१८॥
एवमुक्ते ततो वाक्ये च्यवनो भार्गवस्तदा
।
कुशिकं प्रत्युवाचेदं मुदा परमया युतः ॥१९॥
न राज्यं कामये राजन्न धनं न च योषितः
।
न च गा न च वै देशान्न यज्ञं श्रूयतामिदम् ॥२०॥
नियमं किञ्चिदारप्स्ये युवयोर्यदि रोचते
।
परिचर्योऽस्मि यत्ताभ्यां युवाभ्यामविशङ्कया ॥२१॥
एवमुक्ते तदा तेन दम्पती तौ जहर्षतुः
।
प्रत्यब्रूतां च तमृषिमेवमस्त्विति भारत ॥२२॥
अथ तं कुारीको हृष्टः प्रावेशयदनुत्तमम्
।
गृहोद्देशं ततस्तस्य दर्शनीयमदर्शयत् ॥२३॥
इयं शय्या भगवतो यथाकाममिहोष्यताम्
।
प्रयतिष्यावहे प्रीतिमाहर्तुं ते तपोधन ॥२४॥
अथ सूर्योऽतिचक्राम तेषां संवदतां तथा
।
अथर्षिश्चोदयामास पानमन्नं तथैव च ॥२५॥
तमपृच्छत्ततो राजा कुशिकः प्रणतस्तदा
।
किमन्नजातमिष्टं ते किमुपस्थापयाम्यहम् ॥२६॥
ततः स परया प्रीत्या प्रत्युवाच नराधिपम्
।
औपपत्तिकमाहारं प्रयच्छस्वेति भारत ॥२७॥
तद्वचः पूजयित्वा तु तथेत्याह स पार्थिवः
।
यथोपपन्नमाहारं तस्मै प्रादाज्जनाधिप ॥२८॥
ततः स भुक्त्वा भगवान्दम्पती प्राह धर्मवित्
।
स्वप्तुमिच्छाम्यहं निद्रा बाधते मामिति प्रभो ॥२९॥
ततः शय्यागृहं प्राप्य भगवानृषिसत्तमः
।
संविवेश नरेशस्तु सपत्नीकः स्थितोऽभवत् ॥३०॥
न प्रबोध्योऽस्मि संसुप्त इत्युवाचाथ भार्गवः
।
संवाहितव्यौ मे पादौ जागृतव्यं च तेऽनिशम् ॥३१॥
अविशङ्कस्तु कुशिकस्तथेत्येवाह धर्मवित्
।
न प्रबोधयतां तौ च दम्पती रजनीक्षये ॥३२॥
यथादेशं महर्षेस्तु शुश्रूषापरमौ तदा
।
बभूवतुर्महाराज प्रयतावथ दम्पती ॥३३॥
ततः स भगवान्विप्रः समादिश्य नराधिपम्
।
सुष्वापैकेन पार्श्वेन दिवसानेकविंशतिम् ॥३४॥
स तु राजा निराहारः सभार्यः कुरुनन्दन
।
पर्युपासत तं हृष्टश्च्यवनाराधने रतः ॥३५॥
भार्गवस्तु समुत्तस्थौ स्वयमेव तपोधनः
।
अकिञ्चिदुक्त्वा तु गृहान्निश्चक्राम महातपाः॥३६॥
तमन्वगच्छतां तौ च क्षुधितौ श्रमकर्शितौ
।
भार्यापती मुनिश्रेष्ठस्तावेतौ नावलोकयत् ॥३७॥
तयोस्तु प्रेक्षतोरेव भार्गवाणां कुलोद्वहः
।
अन्तर्हितोऽभूद्राजेन्द्र ततो राजाऽपतत्क्षितौ ॥३८॥
स मुहूर्तं समाश्वस्य सह देव्या महाद्युतिः
।
पुनरन्वेषणे यत्नमकरोत्परमं तदा ॥३९॥
युधिष्ठिर उवाच। तस्मिन्नन्तर्हिते विप्रे राजा किमकरोत्तदा
।
भार्या चास्य महाभागा तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच। अदृष्ट्वा स महीपालस्तमृषिं सह भार्यया
।
परिश्रान्तो निववृते व्रीडितो नष्टचेतनः ॥२॥
स प्रविश्य पुरीं दीनो नाभ्यभाषत किञ्चन
।
तदेव चिन्तयामास च्यवनस्य विचेष्टितम् ॥३॥
अथ शून्येन मनसा प्रविश्य स्वगृहं नृपः
।
ददर्श शयने तस्मिन् शयानं भृगुनन्दनम् ॥४॥
विस्मितौ तमृषिं दृष्ट्वा तदाश्चर्यं विचिन्त्य च
।
दर्शनात्तस्य तु तदा विश्रान्तौ सम्बभूवतुः॥५॥
यथास्थानं च तौ स्थित्वा भूयस्तं संववाहतुः
।
अथापरेण पार्श्वेन सुष्वाप स महामुनिः ॥६॥
तेनैव च स कालेन प्रत्यबुद्ध्यत वीर्यवान्
।
न च तौ चक्रतुः किञ्चिद्विकारं भयशङ्कितौ ॥७॥
प्रतिबुद्धस्तु स मुनिस्तौ प्रोवाच विशाम्पते
।
तैलाभ्यङ्गो दीयतां मे स्नास्येऽहमिति भारत ॥८॥
तौ तथेति प्रतिश्रुत्य क्षुधितौ श्रमकर्शितौ
।
शतपाकेन तैलेन महार्हेणोपतस्थतुः ॥९॥
ततः सुखासीनमृषिं वाग्यतौ संववाहतुः
।
न च पर्याप्तमित्याह भार्गवः सुमहातपाः ॥१०॥
यदा तौ निर्विकारौ तु लक्षयामास भार्गवः
।
तत उत्थाय सहसा स्नानशालां विवेश ह ॥११॥
क्लृप्तमेव तु तत्रासीत्स्नानीयं पार्थिवोचितम्
।
असत्कृत्य च तत्सर्वं तत्रैवान्तरधीयत ॥१२॥
स मुनिः पुनरेवाथ नृपतेः पश्यतस्तदा
।
नासूयां चक्रतुस्तौ च दम्पती भरतर्षभ ॥१३॥
अथ स्नातः स भगवान्सिंहासनगतः प्रभुः
।
दर्शयामास कुशिकं सभार्यं कुरुनन्दन ॥१४॥
संहृष्टवदनो राजा सभार्यः कुशिको मुनिम्
।
सिद्धमन्नमिति प्रह्वो निर्विकारो न्यवेदयत् ॥१५॥
आनीयतामिति मुनिस्तं चोवाच नराधिपम्
।
स राजा समुपाजह्रे तदन्नं सह भार्यया ॥१६॥
मांसप्रकारान्विविधान् शाकानि विविधानि च
।
वेसवारविकारांश्च पानकानि लघूनि च ॥१७॥
रसालापूपकांश्चित्रान्मोदकानथ खाण्डवान्
।
रसान्नानाप्रकारांश्च वन्यं च मुनिभोजनम् ॥१८॥
फलानि च विचित्राणि राजभोज्यानि भूरिशः
।
बदरेङ्गुदकाश्मर्यभल्लातकफलानि च ॥१९॥
गृहस्थानां च यद्भोज्यं यच्चापि वनवासिनाम्
।
सर्वमाहारयामास राजा शापभयात्ततः ॥२०॥
अथ सर्वमुपन्यस्तमग्रतश्च्यवनस्य तत्
।
ततः सर्वं समानीय तच्च शय्यासनं मुनिः ॥२१॥
वस्त्रैः शुभैरवच्छाद्य भोजनोपस्करैः सह
।
सर्वमादीपयामास च्यवनो भृगुनन्दनः ॥२२॥
न च तौ चक्रतुः क्रोधं दम्पती सुमहामती
।
तयोः संप्रेक्षतोरेव पुनरन्तर्हितोऽभवत् ॥२३॥
तथैव च स राजर्षिस्तस्थौ तां रजनीं तदा
।
सभार्यो वाग्यतः श्रीमान्न च कोपं समाविशद ॥२४॥
नित्यसंस्कृतमन्नं तु विविधं राजवेश्मनि
।
शयनानि च मुख्यानि परिषेकाश्च पुष्कलाः ॥२५॥
वस्त्रं च विविधाकारमभवत्समुपार्जितम्
।
न शशाक ततो द्रष्टुमन्तरं च्यवनस्तदा ॥२६॥
पुनरेव च विप्रर्षिः प्रोवाच कुशिकं नृपम्
।
सभार्यो मां रथेनाशु वह यत्र ब्रवीम्यहम् ॥२७॥
तथेति च प्राह नृपो निर्विशङ्कस्तपोधनम्
।
क्रीडारथोऽस्तु भगवन्नुत सांग्रामिको रथः ॥२८॥
इत्युक्तः स मुनी राज्ञा तेन हृष्टेन तद्वचः
।
च्यवनः प्रत्युवाचेदं हृष्टः परपुरञ्जयम् ॥२९॥
सज्जीकुरु रथं क्षिप्रं यस्ते सांग्रामिको मतः
।
सायुधः सपताकश्च शक्तीकनकयष्टिमान् ॥३०॥
किङ्किणीस्वननिर्घोषो युक्तस्तोरणकल्पनैः
।
जाम्बूनदनिबद्धश्च परमेषुशतान्वितः ॥३१॥
ततः स तं तथेत्युक्त्वा कल्पयित्वा महारथम्
।
भार्यां वामे धुरि तदा चात्मानं दक्षिणे तथा ॥३२॥
त्रिदण्डं वज्रसूच्यग्रं प्रतोदं तत्र चादधत्
।
सर्वमेतत्तथा दत्वा नृपो वाक्यमथाब्रवीत् ॥३३॥
भगवन्क्व रथो यातु ब्रवीतु भृगुनन्दन
।
यत्र वक्ष्यसि विप्रर्षे तत्र यास्यति ते रथः ॥३४॥
एवमुक्तस्तु भगवान्प्रत्युवाचाथ तं नृपम्
।
इतः प्रभृति यातव्यं पदकं पदकं शनैः ॥३५॥
श्रमो मम यथा न स्यात्तथा मच्छंदचारिणौ
।
सुसुखं चैव वोढव्यो जनः सर्वश्च पश्यतु ॥३६॥
नोत्सार्याः पथिकाः केचित्तेभ्यो दास्ये वसुह्यहम्
।
ब्राह्मणेभ्यश्च ये कामानर्थयिष्यन्ति मां पथि ॥३७॥
सर्वान्दास्याम्यशेषेण धनं रत्नानि चैव हि
।
क्रियतां निखिलेनैतन्मा विचारय पार्थिव ॥३८॥
तस्य तद्वचनं श्रुत्वा राजा भृत्यांस्तथाऽब्रवीत्
।
यद्यद्ब्रूयान्मुनिस्तत्तत्सर्वं देयमशङ्कितैः ॥३९॥
ततो रत्नन्यनेकानि स्त्रियो युग्यमजाविकम्
।
कृताकृतं च कनकं गजेन्द्राश्चाचलोपमाः ॥४०॥
अन्वगच्छन्त तमृषिं राजामात्याश्च सर्वशः
।
हाहाभूतं च तत्सर्वमासीन्नगरमार्तवत् ॥४१॥
तौ तीक्ष्णाग्रेण सहसा प्रतोदेन प्रतोदितौ
।
पृष्ठे विद्धौ कटे चैव निर्विकारौ तमूहतुः ॥४२॥
वेपमानौ निराहारौ पञ्चाशद्रात्रकर्शितौ
।
कथञ्चिदूहतुर्वीरौ दम्पती तं रथोत्तमम् ॥४३॥
बहुशो भृशविद्धौ तौ स्रवन्तौ च क्षतोद्भवम्
।
ददृशाते महाराज पुष्पिताविव किंशुकौ ॥४४॥
तौ दृष्ट्वा पौरवर्गस्तु भृशं शोकसमाकुलः
।
अभिशापभयत्रस्तो न च किञ्चिदुवाच ह ॥४५॥
द्वन्द्वशश्चाव्रुवन्सर्वे पश्यध्वं तपसो बलम्
।
क्रुद्धा अपि मुनिश्रेष्ठं वीक्षितुं नेह शक्नुमः ॥४६॥
अहो भगवतो वीर्यं महर्षेर्भावितात्मनः
।
राज्ञश्चापि सभार्यस्य धैर्यं पश्यत यादृशम् ॥४७॥
श्रान्तावपि हि कृच्छ्रेण रथमेनं समूहतुः
।
न चैतयोर्विकारं वै ददर्श भृगुनन्दनः ॥४८॥
भीष्म उवाच। ततः स निर्विकारौ तु दृष्ट्वा भृगुकुलोद्वहम्
।
वसु विश्राणयामास यथा वैश्रवणस्तथा ॥४९॥
तत्रापि राजा प्रीतात्मा यथादिष्टमथाकरोत्
।
ततोऽस्य भगवान्प्रीतो बभूव मुनिसत्तमः ॥५०॥
अवतीर्य रथश्रेष्ठाद्दम्पती तौ मुमोच ह
।
विमोच्यं चैतौ विधिवत्ततो वाक्यमुवाच ह ॥५१॥
स्निग्धगम्भीरया वाचा भार्गवः सुप्रसन्नया
।
ददानि वां वरं श्रेष्ठं तं ब्रूतामिति भारत ॥५२॥
सुकुमारौ च तौ विद्धौ कराभ्यां मुनिसत्तमः
।
पस्पर्शामृतकल्पाभ्यां स्नेहाद्भरतसत्तम ॥५३॥
अथाब्रवीन्नृपो वाक्यं श्रमो नास्त्यावयोरिह
।
विश्रान्तौ च प्रभावात्ते ऊचतुस्तौ तु भार्गवम् ॥५४॥
अथ तौ भगवान्प्राह प्रहृष्टश्च्यवनस्तदा
।
न वृथा व्याहृतं पूर्वं यन्मया तद्भविष्यति ॥५५॥
रमणीयः समुद्देशो गङ्गातीरमिदं शुभम्
।
किञ्चित्कालं व्रतपरो निवत्स्यामीह पार्थिव ॥५६॥
गम्यतां स्वपुरं पुत्र विश्रान्तः पुनरेष्यसि
।
इहस्थं मां सभार्यस्त्वं द्रष्टासि श्वो नराधिप
।
न च मन्युस्त्वया कार्यः श्रेयस्ते समुपस्थितम् ॥५७॥
यत्कांक्षितं हृदिस्थं ते तत्सर्वं हि भविष्यति
।
इत्येवमुक्तः कुशिकः प्रहृष्टेनान्तरात्मना ॥५८॥
प्रोवाच मुनिशार्दूलमिदं वचनमर्थवत्
।
न मे मन्युर्महाभाग पूत्रौ स्वो भगवंस्त्वया ॥५९॥
संवृतौ यौवनस्थौ स्वो वपुष्मंतौ बलान्वितौ
।
प्रतोदेन व्रणा ये मे सभार्यस्य त्वया कृताः ॥६०॥
तान्न पश्यामि गात्रेषु स्वस्थोऽस्मि सह भार्यया
।
इमां च देवीं पश्यामि वपुषाऽप्सरसोपमाम् ॥६१॥
श्रिया परमया युक्ता तथा दृष्टा पुरा मया
।
तव प्रसादसंवृत्तमिदं सर्वं महामुने ॥६२॥
नैतच्चित्रं तु भगवंस्त्वयि सत्यपराक्रम
।
इत्युक्तः प्रत्युवाचैनं कुशिकं च्यवनस्तदा ॥६३॥
आगच्छेथाः सभार्यश्च त्वमिहेति नराधिप
।
इत्युक्तः समनुज्ञातो राजर्षिरभिवाद्य तम् ॥६४॥
प्रययौ वपुषा युक्तो नगरं देवराजवत्
।
तत एनमुपाजग्मुरमात्याः सपुरोहिताः ॥६५॥
बलस्था गणिकायुक्ताः सर्वाः प्रकृतयस्तथा
।
तैर्वृतः कुशिको राजा श्रिया परमया ज्वलन् ॥६६॥
प्रविवेश पुरं हृष्टः पूज्यमानोऽथ बंदिभिः
।
ततः प्रविश्य नगरं कृत्वा पौर्वाह्णिकीः क्रियाः
।
भुक्त्वा सभार्यो रजनीमुवास स महाद्युतिः ॥६७॥
ततस्तु तौ नवमभिवीक्ष्य यौवनं परस्परं विगतरुजाविवामरौ
।
ननन्दतुः शयनगतौ वपुर्धरौ श्रिया युतौ द्विजवरदत्तया तदा ॥६७॥
अथाप्यृषिर्भृगुकुलकीर्तिवर्धनस्तपोधनो वनमभिराममृद्धिमत्
।
मनीषया बहुविधरत्नभूषितं ससर्ज यन्न पुरि शतक्रतोरपि ॥६८॥
भीष्म उवाच। ततः स राजा रात्र्यन्ते प्रतिबुद्धो महामनाः
।
कृतपूर्वाह्णिकः प्रायात्सभार्यस्तद्वनं प्रति ॥१॥
ततो ददर्श नृपतिः प्रासादं सर्वकाञ्चनम्
।
मणिस्तम्भसहस्राढ्यं गन्धर्वनगरोपमम्
।
तत्र दिव्यानभिप्रायान्ददर्श कुशिकस्तदा ॥२॥
पर्वतान् रूप्यसानूंश्च नलिनीश्च स पङ्कजाः
।
चित्रशालाश्च विविधास्तोरणानि च भारत
।
शाद्वलोपचितां भूमिं तथा काञ्चनकुट्टिमाम् ॥३॥
सहकारान्प्रफुल्लांश्च केतकोद्दालकान्वरान्
।
अशोकान्सहकुन्दांश्च फुल्लांश्चैवातिमुक्तकान् ॥४॥
चम्पकांस्तिलकान् भव्यान्पनसान्वंजुलानपि
।
पुष्पितान्कर्णिकारांश्च तत्र तन्त्र ददर्श ह ॥५॥
श्यामान्वारणपुष्पांश्च तथाऽष्टपदिका लताः
।
तत्र तत्र परिक्लृप्ता ददर्श स महीपतिः ॥६॥
रम्यान्पद्मोत्पलधरान्सर्वर्तुकुसुमांस्तथा
।
विमानप्रतिमांश्चापि प्रासादान्शैलसन्निभान् ॥७॥
शीतलानि च तोयानि क्वचिदुष्णानि भारत
।
आसनानि विचित्राणि शयनप्रवराणि च ॥८॥
पर्यङ्कान् रत्नसौवर्णान्परार्ध्यास्तरणावृतान्
।
भक्ष्यं भोज्यमनन्तं च तत्र तत्रोपकल्पितम् ॥९॥
वाणीवादाञ्छुकांश्चैव सारिकान्भृङ्गराजकान्
।
कोकिलाञ्छतपत्रांश्च सकोयष्टिककुक्कुभान् ॥१०॥
मयूरान्कुक्कुटांश्चापि दात्यूहान् जीवजीवकान्
।
चकोरान्वानरान्हंसान्सारसांश्चक्रसाह्वयान् ॥११॥
समन्ततः प्रमुदितान्ददर्श सुमनोहरान्
।
क्वचिदप्सरसां संघान् गन्धर्वाणां च पार्थिव ॥१२॥
कान्ताभिरपरांस्तत्र परिष्वक्तान्ददर्श ह
।
न ददर्श च तान्भूयो ददर्श च पुनर्नुपः ॥१३॥
गीतध्वनिं सुमधुरं तथैवाध्यापनध्वनिम्
।
हंसान्सुमधुरांश्चापि तत्र शुश्राव पार्थिवः ॥१४॥
तं दृष्ट्वाऽत्यद्भुतं राजा मनसाऽचिन्तयत्तदा
।
स्वप्नोऽयं चित्तविभ्रंश उताहो सत्यमेव तु ॥१५॥
अहो सह शरीरेण प्राप्तोऽस्मि परमां गतिम्
।
उत्तरान्वा कुरून्पुण्यानथवाऽप्यमरावतीम् ॥१६॥
किञ्चेदं महदाश्चर्यं संपश्यामीत्यचिन्तयत्
।
एवं सञ्चिन्तयन्नेव ददर्श मुनिपुङ्गवम् ॥१७॥
तस्मिन्विमाने सौवर्णे मणिस्तम्भसमाकुले
।
महार्हे शयने दिव्ये शयानं भृगुनन्दनम् ॥१८॥
तमभ्ययात्प्रहर्षेण नरेन्द्रः सह भार्यया
।
अन्तर्हितस्ततो भूयश्च्यवनः शयनं च तत् ॥१९॥
ततोऽन्यस्मिन्वनोद्देशे पुनरेव ददर्श तम्
।
कौश्यां वृस्यां समासीनं जपमानं महाव्रतम् ॥२०॥
एवं योगबलाद्विप्रो मोहयामास पार्थिवम्
।
क्षणेन तद्धनं चैव ते चैवाप्सरसां गणाः ॥२१॥
गन्धर्वाः पादपाश्चैव सर्वमन्तरधीयत
।
निःशब्दमभवच्चापि गङ्गाकूलं पुननृप ॥२२॥
कुशवल्मीकभूयिष्ठं बभूव च यथा पुरा
।
ततः स राजा कुशिकः सभार्यस्तेन कर्मणा ॥२३॥
विस्मयं परमं प्राप्तस्तद्दृष्ट्वा महदद्भुतम्
।
ततः प्रोवाच कुशिको भार्यां हर्षसमन्वितः ॥२४॥
पश्य भद्रे यथा भावाश्चित्रा दृष्टाः सुदुर्लभाः
।
प्रसादाद्भृगुमुख्यस्य किमन्यत्र तपोबलात् ॥२५॥
तपसा तदवाप्यं हि यत्तु शक्यं मनोरथैः
।
त्रैलोक्यराज्यादपि हि तप एव विशिष्यते ॥२६॥
तपसा हि सुतप्तेन शक्यो मोक्षस्तपोबलात्
।
अहो प्रभावो ब्रह्मर्षेश्च्यवनस्य महात्मनः ॥२७॥
इच्छयैष तपोवीर्यादन्याঁल्लोकान्सृजेदपि
।
ब्राह्मणा एव जायेरन्पुण्यवाग्बुद्धिकर्मणः ॥२८॥
उत्सहेदिह कृत्वैव कोऽन्यो वै च्यवनादृते
।
ब्राह्मण्यं दुर्लभं लोके राज्यं हि सुलभं नरैः ॥२९॥
ब्राह्मण्यस्य प्रभावाद्धि रथे युक्तौ स्वधुर्यवत्
।
इत्येवं चिन्तयानः स विदितश्च्यवनस्य वै ॥३०॥
संप्रेक्ष्योवाच नृपतिं क्षिप्रमागम्यतामिति
।
इत्युक्तः सहभार्यस्तु सोऽभ्यगच्छन्महामुनिम् ॥३१॥
शिरसा वन्दनीयं तमवन्दत च पार्थिवः
।
तस्याशिषः प्रयुज्याथ स मुनिस्तं नराधिपम्
।
निषीदेत्यब्रवीद्धीमान्सान्त्वयन्पुरुषर्षभः ॥३२॥
ततः प्रकृतिमापन्नो भार्गवो नृपते नृपम्
।
उवाच श्लक्ष्णया वाचा तर्पयन्निव भारत ॥३३॥
राजन्सम्यग्जितानीह पञ्च पञ्च स्वयं त्वया
।
मनःषष्ठानीन्द्रियाणि कृछ्रान्मुक्तोऽसि तेन वै ॥३४॥
सम्यगाराधितः पुत्र त्वया प्रवदतां वर
।
न हि ते वृजिनं किञ्चित्सुसूक्ष्ममपि विद्यते ॥३५॥
अनुजानीहि मां राजन्गमिष्यामि यथागतम्
।
प्रीतोऽस्मि तव राजेन्द्र वरश्च प्रतिगृह्यताम् ॥३६॥
कुशिक उवाच
।
अग्निमध्ये गतेनेव भगवन्सन्निधौ मया
।
वर्तितं भृगुशार्दूल यन्न दग्धोऽस्मि तद्बहु ॥३७॥
एष एव वरो मुख्यः प्राप्तो मे भृगुनन्दन
।
यत्प्रीतोऽसि मया ब्रह्मन् कुलं त्रातं च मेऽनघ ॥३८॥
एष मेऽनुग्रहो विप्र जीविते च प्रयोजनम्
।
एतद्राज्यफलं चैव तपसश्च फलं मम ॥३९॥
यदि त्वं प्रीतिमान्विप्र मयि वै भृगुनन्दन
।
अस्ति मे संशयः कश्चित्तन्मे व्याख्यातुमर्हसि ॥४०॥
च्यवन उवाच। वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि
।
तं प्रबूहि नरश्रेष्ठ सर्वं सम्पादयामि ते ॥१॥
कुशिक उवाच
।
यदि प्रीतोऽसि भगवंस्ततो मे वद भार्गव
।
कारणं श्रोतुमिच्छामि मद्गृहे वासकारितम् ॥२॥
शयनं चैकपार्श्वेन दिवसानेकविंशतिम्
।
अकिञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गव ॥३॥
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम्
।
पुनश्च शयनं विप्र दिवसानेकविंशतिम् ॥४॥
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम
।
समुपानीय विविधं यद्दग्धं जातवेदसा ॥५॥
निर्याणं च रथेनाशु सहसा यत्कृतं त्वया
।
धनानां च विसर्गस्य वनस्यापि च दर्शनम् ॥६॥
प्रासादानां बहूनां च काञ्चनानां महामुने
।
मणिविद्रुमपादानां पर्यङ्काणां च दर्शनम् ॥७॥
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम्
।
अतीव ह्यत्र मुह्यामि चिन्तयानो भृगूद्वह ॥८॥
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम्
।
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ॥९॥
च्यवन उवाच। शृणु सर्वमशेषेण यदिदं येन हेतुना
।
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ॥१०॥
पितामहस्य वदतः पुरा देवसमागमे
।
श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ॥११॥
ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः
।
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ॥१२॥
ततस्ते कुलनाशार्थमहं त्वां समुपागतः
।
चिकीर्षन्कुशिकोच्छेदं सन्दिधक्षुः कुलं तव ॥१३॥
ततोऽहमागम्य पुरे त्वामवोचं महीपते
।
नियमं कञ्चिदारप्स्ये शुश्रूषा क्रियतामिति ॥१४॥
न च ते दुष्कृतं किञ्चिदहमासादयं गृहे
।
तेन जीवसि राजर्षे न भवेथास्त्वमन्यथा ॥१५॥
एवं बुद्धिं समास्थाय दिवसानेकविंशतिम्
।
सुप्तोऽस्मि यदि मां कश्चिद्बोधयोदिति पार्थिव ॥१६॥
यदा त्वया सभार्येण संसुप्तो न प्रबोधितः
।
अहं तदैव ते प्रीतो मनसा राजसत्तम ॥१७॥
उत्थाय चास्मि निष्क्रांतो यदि मां त्वं महीपते
।
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ॥१८॥
अन्तर्हितः पुनश्चास्मि पुनरेव च ते गृहे
।
योगमास्थाय संसुप्तो दिवसानेकविंशतिम् ॥१९॥
क्षुधितौ मामसूयेथां श्रमाद्वेति नराधिप
।
एवं बुद्धिं समास्थाय कर्शितौ वां क्षुधा मया ॥२०॥
न च तेऽभूत्सुसूक्ष्मोऽपि मन्युर्मनसि पार्थिव
।
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ॥२१॥
भोजनं च समानाय्य यत्तदा दीपितं मया
।
क्रुद्ध्येथा यदि मात्सर्यादिति तन्मर्षितं च मे ॥२२॥
ततोऽहं रथमारुह्य त्वामवोचं नराधिप
।
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ॥२३॥
अविशङ्को नरपते प्रीतोऽहं चापि तेन ह
।
धनोत्सर्गेऽपि च कृते न त्वां क्रोधः प्रधर्षयत् ॥२४॥
ततः प्रीतेन ते राजन् पुनरेतत्कृतं तव
।
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ॥२५॥
प्रीत्यर्थं तव चैतन्मे स्वर्गसन्दर्शनं कृतम्
।
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं निदर्शनम् ॥२६॥
स्वर्गोद्देशस्त्वया राजन् सशरीरेण पार्थिव
।
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ॥२७॥
निदर्शनार्थं तपसो धर्मस्य च नराधिप
।
तत्र याऽऽसीत्स्पृहा राजंस्तच्चापि विदितं मया ॥२८॥
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते
।
अवमन्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ॥२९॥
एवमेतद्यथाऽऽत्थ त्वं ब्राह्मण्यं तात दुर्लभम्
।
ब्राह्मणे सति चर्षित्वमृषित्वे च तपस्विता ॥३०॥
भविष्यत्येष ते कामःकुशिकात्कौशिको द्विजः
।
तृतीयं पुरुषं तुभ्यं ब्राह्मणत्वं गमिष्यति ॥३१॥
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा
।
पौत्रस्ते भविता विप्र तपस्वी पावकद्युतिः ॥३२॥
यः स देवमनुष्याणां भयमुत्पादयिष्यति
।
त्रयाणामेव लोकानां सत्यमेतद्ब्रवीमि ते ॥३३॥
वरं गृहाण राजर्षे यत्ते मनसि वर्तते
।
तीर्थयात्रां गमिष्यामि पुरा कालोऽभिवर्तते ॥३४॥
कुशिक उवाच
।
एष एव वरो मेऽद्य यस्त्वं प्रीतो महामुने
।
भवत्वेतद्यथाऽऽत्थ त्वं भवेत्पौत्रो ममानघ ॥३५॥
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः
।
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै ॥३६॥
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन
।
कश्चासौ भविता बन्धुर्मम कश्चापि संमतः ॥३७॥
च्यवन उवाच। अवश्यं कथनीयं मे तवैतन्नरपुङ्गव
।
यदर्थं त्वाहमुच्छेत्तुं संप्राप्तो मनुजाधिप ॥१॥
भृगूणां क्षत्रिया याज्या नित्यमेतज्जनाधिप
।
ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ॥२॥
क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप
।
आ गर्भादनुकृन्तन्तो दैवदण्डनिपीडताः ॥३॥
तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः
।
ऊर्वो नाम महातेजा ज्वलनार्कसमद्युतिः ॥४॥
स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति
।
महीं सपर्वतवानां यः करिष्यति भस्मसात् ॥५॥
कञ्चित्कालं तु वह्निं च स एव शमयिष्यति
।
समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः ॥६॥
पुत्रं तस्य महाराजा ऋचीकं भृगुनन्दनम्
।
साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ ॥७॥
क्षत्रियाणामभावाय दौवयुक्तेन हेतुना
।
स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति ॥८॥
जमदग्नौ महाभागे तपसा भावितात्मनि
।
स चापि भृगुशार्दुलस्तं वेदं धारयिष्यति ॥९॥
कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति
।
उद्भावनार्थं भवतो वंशस्य भरतर्षभ
।
गाधेर्दुहितरं प्राप्य पौत्रीं तव महातपाः
।
ब्राह्मणं क्षत्रधर्माणं पुत्रमुत्पादयिष्यति ॥११॥
क्षत्रियं विप्रकर्माणं बृहस्पतिमिवौजसा
।
विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् ॥१२॥
तपसा महता युक्तं प्रदास्यति महाद्युते
।
स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः ॥१३॥
पितामहनियोगाद्वै नान्यथैतद्भविष्यति
।
तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति
।
भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम् ॥१४॥
भीष्म उवाच। कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः
।
श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह ॥१५॥
एवमस्त्विति धर्मात्मा तदा भरतसत्तम
।
च्यवनस्तु महातेजाः पुनरेव नराधिपम् ॥१६॥
वरार्थं चोदयामास तमुवाच स पार्थिवः
।
बाढमेवं करिष्यामि कामं त्वत्तो महामुने ॥१७॥
ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् ॥१८॥
एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः
।
अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा ॥१९॥
एतत्ते कथितं सर्वमशेषेण मया नृप
।
भृगूणां कुशिकानां च अभिसम्बन्धकारणम् ॥२०॥
यथोक्तमृषिणा चापि तदा तदभवन्नृप
।
जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव हि ॥२१॥
युधिष्ठिर उवाच। मुह्यामीव निशम्याद्य चिन्तयानः पुनः पुनः
।
हीनां पार्थिवसंघातैः श्रीमद्भिः पृथिवीमिमाम् ॥१॥
प्राप्य राज्यानि शतशो महीं जित्वाऽथ भारत
।
कोटिशः पुरुषान्हत्वा परितप्ये पितामह ॥२॥
का नु तासां वरस्त्रीणां समवस्था भविष्यति
।
या हीनाः पतिभिः पुत्रैर्मातुलैर्भ्रातृभिस्तथा ॥३॥
वयं हि तान् कुरून्हत्वा शातींश्च सुहृदोऽपि वा
।
अवाक्शीर्षाः पतिष्यामो नरके नात्र संशयः ॥४॥
शरीरं योक्तुमिच्छामि तपसोग्रेण भारत
।
उपदिष्टमिहेच्छामि तत्त्वतोऽहं विशांपते ॥५॥
वैशम्पायन उवाच। युधिष्ठिरस्य तद्वाक्यं श्रुत्वा भीष्मो महामनाः
।
परीक्ष्य निपुणं बुद्ध्या युधिष्ठिरमभाषत ॥६॥
रहस्यमद्भुतं चैव शृणु वक्ष्यामि यत्त्वयि
।
या गतिः प्राप्यते येन प्रेत्यभावे विशांपते ॥७॥
तपसा प्राप्यते स्वर्गस्तपसा प्राप्यते यशः
।
आयुः प्रकर्षो भोगाश्च लभ्यन्ते तपसा विभो ॥८॥
ज्ञानं विज्ञानमारोग्यं रूपं संपत्तथैव च
।
सौभाग्यं चैव तपसा प्राप्यते भरतर्षभ ॥९॥
धनं प्राप्नोति तपसा मौनेनाज्ञां प्रयच्छति
।
उपभोगांस्तु दानेन ब्रह्मचर्येण जीवितम् ॥१०॥
अहिंसायाः फलं रूपं दीक्षाया जन्म वै कुले
।
फलमूलाशिनां राज्यं स्वर्गः पर्णाशिनां भवेत् ॥११॥
पयोभक्षो दिवं याति दानेन द्रविणाधिकः
।
गुरुशुश्रूषया विद्या नित्यश्राद्धेन सन्ततिः ॥१२॥
गवाढ्यः शाकदीक्षाभिः स्वर्गमाहुस्तृणाशिनाम्
।
स्त्रियस्त्रिषवणं स्नात्वा वायुं पीत्वा क्रतुं लभेत् ॥१३॥
नित्यस्नायी भवेद्दक्षः सन्ध्ये तु द्वे जपन्द्विजः
।
मरुं साधयतो राजन्नाकपृष्ठमनाशके ॥१४॥
स्थण्डिले शयमानानां गृहाणि शयनानि च
।
चीरवल्कलवासोभिर्वासांस्याभरणानि च ॥१५॥
शय्यासनानि यानानि योगयुक्ते तपोधने
।
अग्निप्रवेशे नियतं ब्रह्मलोके महीयते ॥१६॥
रसानां प्रतिसंहारात्सौभाग्यमिह विन्दति
।
आमिषप्रतिसंहारात्प्रजा ह्यायुष्मती भवेत् ॥१७॥
उदवासं वसेद्यस्तु स नराधिपतिर्भवेत्
।
सत्यवादी नरश्रेष्ठ दैवतैः सह मोदते ॥१८॥
कीर्तिर्भवति दानेन तथाऽऽरोग्यमहिंसया
।
द्विजशुश्रूषया राज्यं द्विजत्वं चापि पुष्कलम् ॥१९॥
पानीयस्य प्रदानेन कीर्तिर्भवति शाश्वती
।
अन्नस्य तु प्रदानेन तृप्यन्ते कामभोगतः ॥२०॥
सान्त्वदः सर्वभूतानां सर्वशोकैर्विमुच्यते
।
देवशुश्रूषया राज्यं दिव्यं रूपं नियच्छति ॥२१॥
दीपालोकप्रदानेन चक्षुष्मान्भवते नरः
।
प्रेक्षणीयप्रदानेन स्मृतिं मेधां च विन्दति ॥२२॥
गन्धमाल्यप्रदानेन कीर्तिर्भवति पुष्कला
।
केशश्मश्रु धारयतामग्र्या भवति संततिः ॥२३॥
उपवासं च दीक्षां च अभिषेकं च पार्थिव
।
कृत्वा द्वादशवर्षाणि वीरस्थानाद्विशिष्यते ॥२४॥
दासीदासमलङ्कारान्क्षेत्राणि च गृहाणि च
।
ब्रह्मदेयां सुतां दत्वा प्राप्नोति मनुजर्षभ ॥२५॥
क्रतुभिश्चोपवासैश्च त्रिदिवं याति भारत
।
लभते च शिवं ज्ञानं फलपुष्पप्रदो नरः ॥२६॥
सुवर्णशृंगैस्तु विराजितानां गवां सहस्रस्य नरः प्रदानात्
।
प्राप्नोति पुण्यं दिवि देवलोकमित्येवमाहुर्दिवि देवसंघाः ॥२७॥
प्रयच्छते यः कपिलां सवत्सां कांस्योपदोहां कनकाग्रशृङ्गीम्
।
तैस्तैर्गुणैः कामदुहास्य भूत्वा नरं प्रदातारमुपैति सा गौः ॥२८॥
यावन्ति रोमाणि भवन्ति धेन्वास्तावत्कालं प्राप्य स गोप्रदानात्
।
पुत्रांश्च पौत्रांश्च कुलं च सर्वमासप्तमं तारयते परत्र ॥२९॥
सदक्षिणां काञ्चनचारुशृङ्गीं कांस्योपदोहां द्रविणोत्तरीयाम्
।
धेनुं तिलानां ददतो द्विजाय लोका वसूनां सुलभा भवन्ति ॥३०॥
स्वकर्मभिर्मानवं सन्निरुद्धं तीव्रान्धकारे नरके पतन्तम्
।
महार्णवे नौरिव वायुयुक्ता दानं गवां तारयते परत्र ॥३१॥
यो ब्रह्मदेयां तु ददाति कन्यां भूमिप्रदानं च करोति विप्रे
।
ददाति चान्नं विधिवच्च यश्च स लोकमाप्नोति पुरन्दरस्य ॥३२॥
नैवेशिकं सर्वगुणोपपन्नं ददाति वै यस्तु नरो द्विजाय
।
स्वाध्यायचारित्र्यगुणान्विताय तस्यापि लोकाः कुरुषूत्तरेषु ॥३३॥
धुर्यप्रदानेन गवां तथा वै लोकानवाप्नोति नरो वसूनाम्
।
स्वर्गाय चाहुस्तु हिरण्यदानं ततो विशिष्टं कनकप्रदानम् ॥३४॥
छत्रप्रदानेन गृहं वरिष्ठं यानं तथोपानहसंप्रदाने
।
वस्त्रप्रदानेन फलं स्वरूपं गन्धप्रदानात्सुरभिर्नरः स्यात् ॥३५॥
पुष्पोपगं वाऽथ फलोपगं वा यः पादपं स्पर्शयते द्विजाय
।
सश्रीकमृद्धं बहुरत्नपूर्णं लभत्ययत्नोपगतं गृहं वै ॥३६॥
भक्ष्यान्नपानीयरसप्रदाता सर्वान्समाप्नोति रसान्प्रकामम्
।
प्रतिश्रयाच्छादनसंप्रदाता प्राप्नोति तान्येव न संशयोऽत्र ॥३७॥
स्रग्धूपगन्धाननुलेपनानि स्नानानि माल्यानि च मानवो यः
।
दद्याद्द्विजेभ्यः स भवेदरोगस्तथाभिरूपश्च नरेन्द्रलोके ॥३८॥
बीजैरशून्यं शयनैरुपेतं दद्याद्गृहं यः पुरुषो द्विजाय
।
पुण्याभिरामं बहुरत्नपूर्णं लभत्यधिष्ठानवरं स राजन् ॥३९॥
सुगन्धचित्रास्तरणोपधानं दद्यान्नरो यः शयनं द्विजाय
।
रूपान्वितां पक्षवतीं मनोज्ञां भार्यामयत्नोपगतां लभेत्सः ॥४०॥
पितामहस्यानवरो वीरशायी भवेन्नरः
।
नाधिकं विद्यते यस्मादित्याहुः परमर्षयः ॥४१॥
वैशम्पायन उवाच। तस्य तद्वचनं श्रुत्वा प्रीतात्मा कुरुनन्दनः
।
नाश्रमेऽरोचयद्वासं वीरमार्गाभिकांक्षया ॥४२॥
ततो युधिष्ठिरः प्राह पाण्डवान्पुरुषर्षभ
।
पितामहस्य यद्वाक्यं तद्वो रोचत्विति प्रभुः ॥४३॥
ततस्तु पाण्डवाः सर्वे द्रौपदी च यशस्विनी
।
युधिष्ठिरस्य तद्वाक्यं बाढमित्यभ्यपूजयन् ॥४४॥
युधिष्ठिर उवाच। आरामाणां तडागानां यत्फलं कुरुपुङ्गव
।
तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ॥१॥
भीष्म उवाच। सुप्रदर्शा बलवती चित्रा धातुविभूषिता
।
उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते ॥२॥
तस्याः क्षेत्रविशेषाश्च तडागानां च बन्धनम्
।
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥३॥
तडागानां च वक्ष्यामि कृतानां चापि ये गुणाः
।
त्रिषु लोकेषु सर्वत्र पूजनीयस्तडागवान् ॥४॥
अथवा मित्रसदनं मैत्रं मित्रविवर्धनम्
।
कीर्तिसञ्जननं श्रेष्ठं तडागानां निवेशनम् ॥५॥
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः
।
तडागसुकृतं देशे क्षेत्रमेकं महाश्रयम् ॥६॥
चतुर्विधानां भूतानां तडागमुपलक्षयेत्
।
तडागानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥७॥
देवा मनुष्यगन्धर्वाः पितरोरगराक्षसाः
।
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥८॥
तस्मात्तांस्ते प्रवक्ष्यामि तडागे ये गुणाः स्मृताः
।
या च तत्र फलावाप्तिरृषिभिः समुदाहृता ॥९॥
वर्षाकाले तडागे तु सलिलं यस्य तिष्ठति
।
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥१०॥
शरत्काले तु सलिलं तडागे यस्य तिष्ठति
।
गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ॥११॥
हेमन्तकाले सलिलं तडागे यस्य तिष्ठति
।
स वै बहुसुवर्णस्य यशस्य लभते फलम् ॥१२॥
यस्य वै शैशिरे काले तडागे सलिलं भवेत्
।
तस्याग्निष्टोमयज्ञस्य फलमाहुर्मनीषिणः ॥१३॥
तडागं सुकृतं यस्य वसन्ते तु महाश्रयम्
।
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥१४॥
निदाघकाले पानीयं तडागे यस्य तिष्ठति
।
वाजिमेधफलं तस्य फलं वै मुनयो विदुः ॥१५॥
स कुलं तारयेत्सर्वं यस्य खाते जलाशये
।
गावः पिबन्ति सलिलं साधवश्च नराः सदा ॥१६॥
तडागे यस्य गावस्तु पिबन्ति तृषिता जलम्
।
मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत् ॥१७॥
यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च
।
तडागे यस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥१८॥
दुर्लभं सलिलं तात विशेषेण परत्र वै
।
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥१९॥
तिलान्ददत पानीयं दीपान्ददत जाग्रत
।
ज्ञातिभिः सह मोदध्वमेतत्प्रेत्य सुदुर्लभम् ॥२०॥
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते
।
पानीयं नरशार्दूल तस्माद्दातव्यमेव हि ॥२१॥
एवमेतत्तडागस्य कीर्तितं फलमुत्तमम्
।
अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामवरोपणम् ॥२२॥
स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः
।
वृक्षगुल्मलतावल्यस्त्वक्सारास्तृणजातयः ॥२३॥
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे
।
कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ॥२४॥
लभते नाम लोके च पितृभिश्च महीयते
।
देवलोके गतस्यापि नाम तस्य न नश्यति ॥२५॥
अतीतानागते चोभे पितृवंशं च भारत
।
तारयेद्वृक्षरोपी च तस्माद्वृक्षांश्च रोपयेत् ॥२६॥
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः
।
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ॥२७॥
पुष्पैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन्
।
छायया चातिथिं तात पूजयन्ति महीरुहः ॥२८॥
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः
।
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ॥२९॥
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान्
।
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु ॥३०॥
तस्मात्तडागे सद्वृक्षा रोप्याः श्रेयोर्थिना सदा
।
पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ॥३१॥
तडागकृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः
।
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥३२॥
तस्मात्तडागं कुर्वीत आरामांश्चैव रोपयेत्
।
यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ॥३३॥
युधिष्ठिर उवाच। यानीमानि बहिर्वेद्यां दानानि परिचक्षते
।
तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव ॥१॥
कौतूहलं हि परमं तत्र मे विद्यते प्रभो
।
दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे ॥२॥
भीष्म उवाच। अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहः
।
यच्चाभिलषितं दद्यात्तृषितायाभियाचते ॥३॥
दत्तं मन्येत यद्दत्वा तद्दानं श्रेष्ठमुच्यते
।
दत्तं दातारमन्वेति यद्दानं भरतर्षभ ॥४॥
हिरण्यदानं गोदानं पृथिवीदानमेव च
।
एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतम् ॥५॥
एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा
।
दानानि हि नरं पापान्मोक्षयन्ति न संशयः ॥६॥
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे
।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥७॥
प्रियाणि लभते नित्यं प्रियदः प्रियकृत्तथा
।
प्रियो भवति भूतानामिह चैव परत्र च ॥८॥
याचमानमभीमानादनासक्तमकिञ्चनम्
।
यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर ॥९॥
अमित्रमपि चेद्दीनं शरणैषिणमागतम्
।
व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥१०॥
कृशाय कृतविद्याय वृत्तिक्षीणाय सीदते
।
अपहन्यात्क्षुधां यस्तु न तेन पुरुषः समः ॥११॥
क्रियानियमितान्साधून् पुत्रदारैश्च कर्शितान्
।
अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रयेत् ॥१२॥
आशिषं ये न देवेषु न च मर्त्येषु कुर्वते
।
अर्हन्तो नित्यसन्तुष्टास्तथा लब्धोपजीविनः ॥१३॥
आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत
।
तान्युक्तैरुपजिज्ञास्यस्तथा द्विजवरोत्तमान् ॥१४॥
कृतैरावसथैर्नित्यं संप्रेष्यैः सपरिच्छदैः
।
निमन्त्रयेथाः कौरव्य सर्वकामसुखावहैः ॥१५॥
यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर
।
कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः॥१६॥
विद्यास्नाता व्रतस्नाता ये व्यपाश्रित्य जीविनः
।
गूढस्वाध्यायतपसो ब्राह्मणाः संशितव्रताः ॥१७॥
तेषु शुद्धेषु दान्तेषु स्वदारपरितोषिषु
।
यत्करिष्यसि कल्याणं तत्ते लोके युधांपते ॥१८॥
यथाग्निहोत्रं सुहुतं सायंप्रातर्द्विजातिना
।
तथा दत्तं द्विजातिभ्यो भवत्यथ यतात्मसु ॥१९॥
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः
।
विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् ॥२०॥
निवापदानसलिलस्तादृशेषु युधिष्ठिर
।
निवसन्पूजयंश्चैव तेष्वानृण्यं नियच्छति ॥२१॥
य एवं नैव कुप्यन्ते न लुभ्यन्ति तृणेष्वपि
।
त एव नः पूज्यतमा ये चापि प्रियवादिनः ॥२२॥
एते न बहु मन्यन्ते न प्रवर्तन्ति चापरे
।
पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाऽभयम् ॥२३॥
ऋत्विक्पुरोहिताचार्या मृदुब्रह्मधरा हि ते
।
क्षात्रेणापि हि संसृष्टं तेजः शाम्यति वै द्विजे ॥२४॥
अस्ति मे बलवानस्मि राजास्मीति युधिष्ठिर
।
ब्राह्मणान्मा च पर्यश्नीर्वासोभिरशनेन च ॥२५॥
यच्छोभार्थं बलार्थं वा वित्तमस्ति तवानघ
।
तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ॥२६॥
नमस्कार्यास्तथा विप्रा वर्तमाना यथातथम्
।
यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् ॥२७॥
को ह्यक्षयप्रसादानां सुहृदामल्पतोषिणाम्
।
वृत्तिमर्हत्यवक्षेप्तुं त्वदन्यः कुरुसत्तम ॥२८॥
यथा पत्याश्रयो धर्मः स्त्रीणां लोके सनातनः
।
सदैव सा गतिर्नान्या तथाऽस्माकं द्विजातयः ॥२९॥
यदि नो ब्राह्मणास्तात सन्त्यजेयुरपूजिताः
।
पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ॥३०॥
अवेदानामयज्ञानामलोकानामवर्तिनाम्
।
कस्तेषां जीवितेनार्थस्त्वां विना ब्राह्मणाश्रयम् ॥३१॥
अत्र ते वर्तयिष्यामि यथा धर्मं सनातनम्
।
राजन्यो ब्राह्मणान् राजन्पुरा परिचचार ह ॥३२॥
वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः
।
दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् ॥३३॥
संस्पर्शपरिचर्यस्तु वैश्येन क्षत्रियेण च
।
मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् ॥३४॥
आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान्
।
अपरेषां परेषां च परेभ्यश्चापि ये परे ॥३५॥
क्षत्रियाणां प्रतपतां तेजसा च बलेन च
।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च ॥३६॥
न मे पिता प्रियतरो न त्वं तात तथा प्रियः
।
न मे पितुः पिता राजन्न चात्मा न च जीवितम् ॥३७॥
त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन
।
त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ॥३८॥
ब्रवीमि सत्यमेतच्च यथाऽहं पाण्डुनन्दन
।
तेन सत्येन गच्छेयं लोकान्यत्र च शान्तनुः ॥३९॥
पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान्
।
तत्र मे तात गन्तव्यमन्हाय च चिराय च ॥४०॥
सोऽहमेतादृशान् लोकान्दृष्ट्वा भरतसत्तम
।
यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव ॥४१॥
युधिष्ठिर उवाच। यौ च स्यातां चरणेनोपपन्नौ यौ विद्यया सदृशौ जन्मना च
।
ताभ्यां दानं कतमस्मै विशिष्टमयाचमानाय च याचते च ॥१॥
भीष्म उवाच। श्रेयो वै याचतः पार्थ दानमाहुरयाचते
।
अर्हत्तमो वै धृतिमान्कृपणादधृतात्मनः ॥२॥
क्षत्रियो रक्षणधृतिर्ब्राह्मणोऽनर्थनाधृतिः
।
ब्राह्मणो धृतिमान्विद्वान्देवान्प्रीणाति तुष्टिमान् ॥३॥
याच्यमाहुरनीशस्य अभिहारं च भारत
।
उद्वेजयन्ति याचन्ति सदा भूतानि दस्युवत् ॥४॥
म्रियते याचमानो वै न जातु म्रियते ददत्
।
ददत्सञ्जीवयत्येनमात्मानं च युधिष्ठिर ॥५॥
आनृशंस्यं परो धर्मो याचते यत्प्रदीयते
।
अयाचतः सीदमानान्सर्वोपायैर्निमन्त्रयेत् ॥६॥
यदि वै तादृशा राष्ट्रान्वसेयुस्ते द्विजोत्तमाः
।
भस्मच्छन्नानिवाग्नींस्तान्बुध्येथास्त्वं प्रयत्नतः ॥७॥
तपसा दीप्यमानास्ते दहेयुः पृथिवीमपि
।
अपूज्यमानाः कौरव्य पूजार्हास्तु तथाविधाः ॥८॥
पूज्या हि ज्ञानविज्ञानतपोयोगसमन्विताः
।
तेभ्यः पूजां प्रयुञ्जीथा ब्राह्मणेभ्यः परन्तप ॥९॥
ददद्बहुविधान्दायानुपागच्छन्नयाचताम्
।
यदग्निहोत्रे सुहुते सायंप्रातर्भवेत्फलम् ॥१०॥
विद्यावेदव्रतवति तद्दानफलमुच्यते
।
विद्यावेदव्रतस्नातानव्यपाश्रयजीविनः ॥११॥
गूढास्वध्यायतपसो ब्राह्मणान्संशितव्रतान्
।
कृतैरावसथैर्हृद्यैः सप्रेष्यैः सपरिच्छदैः ॥१२॥
निमन्त्रयेथाः कौरव्य कामैश्चान्यैर्द्विजोत्तमान्
।
अपि ते प्रतिगृह्णीयुः श्रद्धोपेतं युधिष्ठिर ॥१३॥
कार्यमित्येव मन्वाना धर्मज्ञाः सूक्ष्मदर्शिनः
।
अपि ते ब्राह्मणा भुक्त्वा गताः सोद्धरणान् गृहान् ॥१४॥
येषां दाराः प्रतीक्षन्ते पर्जन्यमिव कर्षकाः
।
अन्नानि प्रातःसवने नियता ब्रह्मचारिणः ॥१५॥
ब्राह्मणास्तात भुञ्जानास्त्रेताग्निं प्रीणयन्त्युत
।
माध्यन्दिनं ते सवनं ददतस्तात वर्तताम् ॥१६॥
गोहिरण्यानि वासांसि तेनेन्द्रः प्रीयतां तव
।
तृतीयं सवनं ते वै वैश्वदेवं युधिष्ठिर ॥१७॥
यद्देवेभ्यः पितृभ्यश्च विप्रेभ्यश्च प्रयच्छसि
।
अहिंसा सर्वभूतेभ्यः संविभागश्च भागशः ॥१८॥
दमस्त्यागो धृतिः सत्यं भवत्यवभृथाय ते
।
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः ॥१९॥
विशिष्टः सर्वयज्ञानां नित्यं तात प्रवर्तताम् ॥२०॥
युधिष्ठिर उवाच। दानं यज्ञः क्रिया चेह किंस्वित्प्रेत्य महाफलम्
।
कस्य ज्यायः फलं प्रोक्तं कीदृशेभ्यः कथं कदा ॥१॥
एतदिच्छामि विज्ञातुं याथातथ्येन भारत
।
विद्वन् जिज्ञासमानाय दानधर्मान्प्रचक्ष्व मे ॥२॥
अन्तर्वेद्यां च यद्दत्तं श्रद्धया चानृशंस्यतः
।
किंस्विन्नैःश्रेयसं तात तन्मे ब्रूहि पितामह ॥३॥
भीष्म उवाच। रौद्रं कर्म क्षत्रियस्य सततं तात वर्तते
।
तस्य वैतानिकं कर्म दानं चैवेह पावनम् ॥४॥
न तु पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः
।
एतस्मात्कारणाद्यज्ञैर्यजेद्राजाऽऽप्तदक्षिणैः ॥५॥
अथ चेत्प्रतिगृह्णीयुर्दद्यादहरहर्नृपः
।
श्रद्धामास्थाय परमां पावनं ह्येतदुत्तमम् ॥६॥
ब्राह्मणांस्तर्पयन्द्रव्यैस्ततो यज्ञे यतव्रतः
।
मैत्रान् साधून्वेदविदः शीलवृत्ततपोर्जितान् ॥७॥
यत्ते तेन करिष्यन्ति कृतं तेन भविष्यति
।
यज्ञान्साधय साधुभ्यः स्वाद्वन्नान्दक्षिणावतः ॥८॥
इष्टं दत्तं च मन्येथा आत्मानं दानकर्मणा
।
पूजयेथा यायजूकांस्तवाप्यंशो भवेद्यथा ॥९॥
प्रजावतो भरेथाश्च ब्राह्मणान् बहुकारिणः
।
प्रजावांस्तेन भवति यथा जनयिता तथा ॥१०॥
यावतः साधुधर्मान्वै सन्तः संवर्धयन्त्युत
।
सर्वस्वैश्चापि भर्तव्या नरा ये बहुकारिणः ॥११॥
समृद्धः संप्रयच्छ त्वं ब्राह्मणेभ्यो युधिष्ठिर
।
धेनूरनडुहोऽन्नानि च्छत्रं वासांस्युपानहौ ॥१२॥
आज्यानि यजमानेभ्यस्तथाऽन्नानि च भारत
।
अश्ववन्ति च यानानि वेश्मानि शयनानि च ॥१३॥
एते देया व्युष्टिमन्तो लघुपायाश्च भारत
।
अजुगुप्सांश्च विज्ञाय ब्राह्मणान् वृत्तिकर्शितान् ॥१४॥
उपच्छन्नं प्रकाशं वा वृत्त्या तान्प्रतिपालयेत्
।
राजसूयाश्वमेधाभ्यां श्रेयस्तत्क्षत्रियान्प्रति ॥१५॥
एवं पापैर्विनिर्मुक्तस्त्वं पूतः स्वर्गमाप्स्यसि
।
सञ्चयित्वा पुनः कोशं यद्राष्ट्रं पालयिष्यसि ॥१६॥
तेन त्वं ब्रह्मभूयत्वमवाप्स्यसि धनानि च
।
आत्मनश्च परेषां च वृत्तिं संरक्ष भारत ॥१७॥
पुत्रवच्चापि भृत्यान्स्वान् प्रजाश्च परिपालय
।
योगः क्षेमश्च ते नित्यं ब्राह्मणेष्वस्तु भारत ॥१८॥
तदर्थं जीवितं तेऽस्तु मा तेभ्योऽप्रतिपालनम्
।
अनर्थो ब्राह्मणस्यैष यद्वित्तनिचयो महान् ॥१९॥
श्रिया ह्यभीक्ष्णं संवासो दर्पयेत्संप्रमोहयेत्
।
ब्राह्मणेषु प्रमूढेषु धर्मो विप्रणशेद्ध्रुवम्
।
धर्मप्रणाशे भूतानामभावः स्यान्न संशयः ॥२०॥
यो रक्षिभ्यः संप्रदाय राजा राष्ट्रं विलुंपति
।
यज्ञे राष्ट्राद्धनं तस्मादानयध्वमिति ब्रुवन् ॥२१॥
यच्चादाय तदाज्ञप्तं भीतं दत्तं सुदारुणम्
।
यजेद्राजा न तं यज्ञं प्रशंसन्त्यस्य साधवः ॥२२॥
अपीडिताः सुसंवृद्धा ये ददत्यनुकूलतः
।
तादृशेनाप्युपायेन यष्टव्यं नोद्यमाहृतैः ॥२३॥
यदा परिनिषिच्येत निहितो वै यथाविधि
।
तदा राजा महायज्ञैर्यजेत बहुदक्षिणैः ॥२४॥
वृद्धबालधनं रक्ष्यमन्धस्य कृपणस्य च
।
न खातपूर्वं कुर्वीत न रुदन्ती धनं हरेत् ॥२५॥
हतं कृपणवित्तं हि राष्ट्रं हन्ति नृपश्रियम्
।
दद्याच्च महतो भोगान् क्षुद्भयं प्रणुदेत्सताम् ॥२६॥
येषां स्वादूनि भोज्यानि समवेक्ष्यन्ति बालकाः
।
नाश्नन्ति विधिवत्तानि किं नु पापतरं ततः ॥२७॥
यदि ते तादृशो राष्ट्रे विद्वान्सीदेत्क्षुधा द्विजः
।
भ्रूणहत्यां च गच्छेथाः कृत्वा पापमिवोत्तमम् ॥२८॥
धिक्तस्य जीवितं राज्ञो राष्ट्रे यस्यावसीदति
।
द्विजोन्यो वा मनुष्योऽपि शिबिराह वचो यथा ॥॥२९॥
यस्य स्म विषये राज्ञः स्नातकः सीदति क्षुधा
।
अवृद्धिमेति तद्राष्ट्रं विन्दते सहराजकम् ॥३०॥
क्रोशन्त्यो यस्य वै राष्ट्रात्ध्रियंते तरसा स्त्रियः
।
क्रोशतां पतिपुत्राणां मृतोऽसौ न च जीवति ॥३१॥
अरक्षितारं हर्तारं विलोप्तारमनायकम्
।
तं वै राजकलिं हन्युः प्रजाः सन्नह्य निर्घृणम् ॥३२॥
अहं वो रक्षितेत्युक्त्वा यो न रक्षति भूमिपः
।
स संहत्य निहन्तव्यः श्वेव सोन्माद आतुरः ॥३३॥
पापं कुर्वन्ति यत्किञ्चित्प्रजा राज्ञा ह्यरक्षिताः
।
चतुर्थं तस्य पापस्य राजा विन्दति भारत ॥३४॥
अथाहुः सर्वमेवैति भूयोर्धमिति निश्चयः
।
चतुर्थं मतमस्माकं मनोः श्रुत्वाऽनुशासनम् ॥३५॥
शुभं वा यच्च कुर्वन्ति प्रजा राज्ञा सुरक्षिताः
।
चतुर्थं तस्य पुण्यस्य राजा चाप्नोति भारत ॥३६॥
जीवन्तं त्वाऽनुजीवन्तु प्रजाः सर्वा युधिष्ठिर
।
पर्जन्यमिव भूतानि महाद्रुममिवाण्डजाः ॥३७॥
कुबेरमिव रक्षांसि शतक्रतुमिवामराः
।
ज्ञातयस्त्वाऽनुजीवन्तु सुहृदश्च परन्तप ॥३८॥
युधिष्ठिर उवाच। एवं देयमिदं देयमिति यं श्रुतिरादरात्
।
बहुदेयाश्च राजानः किंस्विद्दानमनुत्तमम् ॥१॥
भीष्म उवाच। अतिदानानि सर्वाणि पृथिवी दानमुच्यते
।
अचला ह्यक्षया भूमिर्दोग्ध्री कामानिहोत्तमान् ॥२॥
दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा
।
भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ॥३॥
यावद्भूमेरायुरिह तावद्भूमिद एधते
।
न भूमिदानादस्तीह परं किञ्चिद्युधिष्ठिर ॥४॥
अप्यल्पं प्रददुः सर्वे पृथिव्या इति नः श्रुतम्
।
भूमिमेव ददुः सर्वे भूमिं ते भुञ्जते जनाः ॥५॥
स्वकर्मैषोपजीवन्ति नरा इह परत्र च
।
भूमिभूतिर्महादेवी दातारं कुरुते प्रियम् ॥६॥
य एतां दक्षिणां दद्यादक्षयां राजसत्तम
।
पुनर्नरत्वं संप्राप्य भवेत्स पृथिवीपतिः ॥७॥
यथा दानं तथा भोग इति धर्मेषु निश्चयः
।
संग्रामे वा तनुं जह्याद्दद्याच्च पृथिवीमिमाम् ॥८॥
इत्येतत्क्षत्रबन्धूनां वदन्ति परमां श्रियम्
।
पुनाति दत्ता पृथिवी दातारमिति शुश्रुम ॥९॥
अपि पापसमाचारं ब्रह्मघ्नमपि चानृतम्
।
सैव पापं प्लावयति सैव पापात्प्रमोचयेत् ॥१०॥
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः
।
पृथिवीं नान्यदिच्छन्ति पावनं जननी यथा ॥११॥
नामास्याः प्रियदत्तेति गुहां देव्याः सनातनम्
।
दानं वाऽप्यथवाऽऽदानं नामास्याः प्रथमप्रियम् ॥१२॥
य एतां विदुषे दद्यात्पृथिवीं पृथिवीपतिः
।
पृथिव्यामेतद्दिष्टं स राजा राज्यमितो व्रजेत् ॥१३॥
पुनश्चासौ जनिं प्राप्य राजवत् स्यान्न संशयः
।
तस्मात्प्राप्यैष पृथिवीं दद्याद्विप्राय पार्थिवः॥१४॥
नाभूमिपतिना भूमिरधिष्ठेया कथञ्चन
।
न चापात्रेण वा प्राह्या दत्तदाने न चाचरेत् ॥१५॥
ये चान्ये भूमिमिच्छेयुः कुर्युरेवं न संशयः
।
यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः ॥१६॥
भूमिं दत्वा तु साधुभ्यो विन्दते भूमिमुत्तमाम्
।
प्रेत्य चेह च धर्मात्मा संप्राप्नोति महद्यशः ॥१७॥
यस्य विप्रास्तु शंसन्ति साधोर्भूमिं सदैव हि
।
न तस्य शत्रयो राजन् प्रशंसन्ति वसुन्धराम् ॥१८॥
यत्किञ्चित्पुरुषः पापं कुरुते वृत्तिकर्शितः
।
अपि गोचर्ममात्रेण भूमिदानेन पूयते ॥१९॥
येऽपि संकीर्णकर्माणो राजानो रौद्रकर्मिणः
।
तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् ॥२०॥
अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः
।
यो यजेताश्वमेधेन दद्याद्वा साधवे महीम् ॥२१॥
अपि चेत्सुकृतं कृत्वा शङ्केरन्नापि पण्डिताः
।
अशक्यमेकमेवैतद्भूमिदानमनुत्तमम् ॥२२॥
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च
।
सर्वमेतन्महाप्राज्ञो ददाति वसुधां ददत् ॥२३॥
तपो यज्ञः श्रुतं शीलमलोभः सत्यसन्धता
।
गुरुदैवतपूजा च एता वर्तन्ति भूमिदम् ॥२४॥
भर्तृनिःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः
।
ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् ॥२५॥
यथा जनित्री स्वं पुत्रं क्षीरेण भरते सदा
।
अनुगृह्णाति दातारं तथा सर्वरसैर्मही ॥२६॥
मृत्युर्वै किङ्करो दण्डस्तमो वह्निः सुदारुणः
।
घोराश्च दारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥२७॥
पितॄंश्च पितृलोकस्थान्देवलोकाच्च देवताः
।
सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ॥२८॥
कुशाय प्रियमाणाय वृत्तिग्लानाय सीदते
।
भूमिं वृत्तिकरीं दत्वा सत्री भवति मानवः ॥२९॥
यथा धावति गौर्वत्सं स्रवन्ती वत्सला पयः
।
एवमेव महाभाग भूमिर्भवति भूमिदम् ॥३०॥
फालकृष्टां महीं दत्वा सबीजां सफलामपि
।
उदीर्णं वापि शरणं यथा भवति कामदः॥३१॥
ब्राह्मणं वृत्तिसंपन्नमाहिताग्निं शुचिव्रतम्
।
नरः प्रतिग्राह्य महीं न याति परमापदम् ॥३२॥
यथा चन्द्रमसो वृद्धिरहन्यहनि जायते
।
तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते ॥३३॥
अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः
।
याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ॥३४॥
मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ
।
अस्मिन् लोके परे चैव तद्दत्तं जायते पुनः ॥३५॥
य इमां व्याहृतिं वेद ब्राह्मणो वेदसांमिताम्
।
श्राद्धस्य क्रियमाणस्य ब्रह्मभूयं स गच्छति ॥३६॥
कृत्यानामधिशस्तानामरिष्टशमनं महत्
।
प्रायश्चित्तं महीं दत्त्वा पुनात्युभयतो दश ॥३७॥
पुनाति य इदं वेद वेदवादं तथैव च
।
प्रकृतिः सर्वभूतानां भूमिर्वैश्वानरी मता ॥३८॥
अभिषिच्यैव नृपतिं श्रावयेदिममागमम्
।
यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च ताम् ॥३९॥
सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयः
।
राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् ॥४०॥
अथ येषामधर्मज्ञो राजा भवति नास्तिकः
।
न ते सुखं प्रबुध्यन्ति न सुखं प्रस्वपन्ति च ॥४१॥
सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः
।
योगक्षेमा हि बहवो राष्ट्रं नास्याविशंति तत् ॥४२॥
अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः
।
सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च ॥४३॥
तस्य राज्ञः शुभै राज्यैः कर्मभिर्निर्वृता नराः
।
योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः ॥४४॥
स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत्
।
स दाता स च विक्रान्तो यो ददाति वसुंधराम् ॥४५॥
आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः
।
ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे ॥४६॥
यथा सस्यानि रोहन्ति प्रकीर्णानि महीतले
।
तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः ॥४७॥
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः
।
शूलपाणिश्च भगवान् प्रतिनन्दन्ति भूमिदम् ॥४८॥
भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च
।
चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः ॥४९॥
एषा माता पिता चैव जगतः पृथिवीपते
।
नानया सदृशं भूतं किञ्चिदस्ति जनाधिप ॥५०॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥५१॥
इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता
।
मघवा वाग्विदां श्रेष्ठं पप्रच्छेदं बृहस्पतिम् ॥५२॥
मघवोवाच
।
भगवन् केन दानेन स्वर्गतः सुखमेधते
।
यदक्षयं महार्घं च तद्ब्रूहि वदतां वर ॥५३॥
भीष्म उवाच। इत्युक्तः स सुरेन्द्रेण ततो देवपुरोहितः
।
बृहस्पतिर्बृहत्तेजाः प्रत्युवाच शतक्रतुम् ॥५४॥
बृहस्पतिरुवाच
।
सुवर्णदानं गोदानं भूमिदानं च वृत्रहन्
।
दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते ॥५५॥
न भूमिदानाद्देवेन्द्र परं किञ्चिदिति प्रभो
।
विशिष्टमिति मन्यामि यथा प्राहुर्मनीषिणः॥५६॥
ये शूरा निहता युद्धे स्वर्याता रणगृद्धिनः
।
सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् ॥५७॥
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः
।
ब्रह्मलोकगता मुक्ता नातिक्रामन्ति भूमिदम्॥५८॥
पञ्च पूर्वा हि पुरुषाः षडन्ये वसुधां गताः
।
एकादश ददद्भूमिं परित्रातीह मानवः ॥५९॥
रत्नोपकीर्णां वसुधां यो ददाति पुरन्दर
।
स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ॥६०॥
महीं स्फीतां ददद्राजन् सर्वकामगुणान्विताम्
।
राजाधिराजो भवति तद्धि दानमनुत्तमम् ॥६१॥
सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति
।
सर्वभूतानि मन्यन्ते मां ददातीति वासव ॥६२॥
सर्वकामदुघां धेनुं सर्वकामगुणान्विताम्
।
ददाति यः सहस्राक्ष स्वर्गं याति स मानवः ॥६३॥
मधुसर्पिः प्रवाहिण्यः पयोदधिवहास्तथा
।
सरितस्तर्पयन्तीह सुरेन्द्र वसुधाप्रदम् ॥६४॥
भूमिप्रदानान्नृपतिर्मुच्यते सर्वकिल्बिषात्
।
न हि भूमिप्रदानेन दानमन्यद्विशिष्यते ॥६५॥
ददाति यः समुद्रान्तां पृथिवीं शस्त्रनिर्जिताम्
।
तं जनाः कथयन्तीह यावद्भवति गौरियम् ॥६६॥
पुण्यामृद्धिरसां भूमिं यो ददाति पुरंदर
।
न तस्य लोकाः श्रीयन्ते भूमिदानगुणान्विताः ॥६७॥
सर्वदा पार्थिवेनेह सततं भूतिमिच्छता
।
भूर्देयाः विधिवच्छक्र पात्रे सुखमभीप्सुना ॥६८॥
अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये
।
समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः ॥६९॥
सागरान्सरितः शैलान् काननानि च सर्वशः
।
सर्वमेतन्नरः शक्र ददाति वसुधां ददत् ॥७०॥
तडागान्युदपानानि स्त्रोतांसि च सरांसि च
।
स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् ॥७१॥
ओषधीर्वीर्यसंपन्ना नगान्पुष्पफलान्वितान्
।
काननोपलशैलांश्च ददाति वसुधां ददत् ॥७२॥
अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः
।
न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ॥७३॥
दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन्
।
पूर्वदत्तां हरन् भूमिं नरकायोपगच्छति ॥७४॥
न ददाति प्रतिश्रुत्य दत्त्वाऽपि च हरेत्तु यः
।
स बद्धो वारुणैः पाशैस्तप्यते मृत्युशासनात् ॥७५॥
आहिताग्निं सदायज्ञं कुशवृत्तिं प्रियातिथिम्
।
ये भजन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् ॥७६॥
ब्राह्मणेष्वनृणीभूतः पार्थिवः स्यात्पुरंदर
।
इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् ॥७७॥
नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप
।
ब्राह्मणस्य सुरश्रेष्ठ कृशवृत्तेः कदाचन ॥७८॥
यथाऽश्रु पतितं तेषां दीनानामथ सीदताम्
।
ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् ॥७९॥
भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेन्नरः
।
तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ॥८०॥
इक्षुभिः सन्ततां भूमिं यवगोधूमशालिनीम्
।
गोऽश्ववाहनपूर्णां वा बाहुवीर्यादुपार्जिताम्॥८१॥
निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम्
।
अक्षयाँल्लभते लोकान् भूमिसत्रं हि तस्य तत् ॥८२॥
विधूय कलुषं सर्वं विरजाः संमतः सताम्
।
लोके महीयते सद्भिर्यो ददाति वसुंधराम् ॥८३॥
यथाऽप्सु पतितः शक्र तैलबिन्दुर्विसर्पति
।
तथा भूमिकृतं दानं सस्ये सस्ये विवर्धते ॥८४॥
ये रणाग्रे महीपालाः शूराः समितिशोभनाः
।
वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते॥८५॥
नृत्यगीतपरा नार्यो दिव्यमाल्यविभूषिताः
।
उपतिष्ठन्ति देवेन्द्र तथा भूमिप्रदं दिवि ॥८६॥
मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः
।
यो ददाति महीं सम्यग्विधिनेह द्विजातये ॥८७॥
शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः
।
उपतिष्ठन्ति देवेन्द्र ब्रह्मलोके धराप्रदम् ॥८८॥
उपतिष्ठन्ति पुण्यानि सदा भूमिप्रदं नरम्
।
शङ्खभद्रासनं छत्रं वराश्वा वरवाहनम् ॥८९॥
भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा
।
आज्ञा सदाऽप्रतिहता जयशब्दा वसूनि च ॥९०॥
भूमिदानस्य पुण्यानि फलं स्वर्गः पुरंदर
।
हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाद्वलाः ॥९१॥
अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत्
।
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः ॥९२॥
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः
।
एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम्
।
वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा ॥९३॥
य इदं श्रावयेच्छ्राद्धे भूमिदानस्य संभवम्
।
न तस्य रक्षसां भागो नासुराणां भवत्युत ॥९४॥
अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः
।
तस्माछ्राद्धेष्विदं विद्वान् भुञ्जतःश्रावयेद्द्विजान् ॥९५॥
इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ
।
मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि ॥९६॥
युधिष्ठिर उवाच। कानि दानानि लोकेऽस्मिन्दातुकामो महीपतिः
।
गुणाधिकेभ्यो विप्रेभ्यो दद्याद्भरतसत्तम ॥१॥
केन तुष्यन्ति ते सद्यः किं तुष्टाः प्रदिशन्ति च
।
शंस मे तन्महाबाहो फलं पुण्यकृतं महत् ॥२॥
दत्तं कि फलवद्राजन्निह लोके परत्र च
।
भवतः श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥३॥
भीष्म उवाच। इममर्थं पुरा पृष्टो नारदो देवदर्शनः
।
यदुक्तवानसौ वाक्यं तन्मे निगदतः शृणु ॥४॥
नारद उवाच। अन्नमेव प्रशंसन्ति देवा ऋषिगणास्तथा
।
लोकतन्त्रं हि संज्ञाश्च सर्वमन्ने प्रतिष्ठितम् ॥५॥
अन्नेन सदृशं दानं न भूतं न भविष्यति
।
तस्मादन्नं विशेषेण दातुमिच्छन्ति मानवाः ॥६॥
अन्नमूर्जस्करं लोके प्राणाश्चान्ने प्रतिष्ठिताः
।
अन्नेन धार्यते सर्वं विश्वं जगदिदं प्रभो ॥७॥
अन्नाद्गृहस्था लोकेऽस्मिन् भिक्षवस्तापसास्तथा
।
अन्नाद्भवन्ति वै प्राणाः प्रत्यक्षं नात्र संशयः ॥८॥
कुटुम्बिने सीदते च ब्राह्मणाय महात्मने
।
दातव्यं भिक्षषे चान्नमात्मनो भूतिमिच्छता ॥९॥
ब्राह्मणायाभिरूपाय यो दद्यादन्नमर्थिने
।
विदधाति निधिं श्रेष्ठं पारलौकिकमात्मनः ॥१०॥
श्रान्तमध्वनि वर्तन्तं वृद्धमर्हमुपस्थितम्
।
अर्चयेद्भूतिमन्विच्छन् गृहस्थो गृहमागतम् ॥११॥
क्रोधमुत्पतितं हित्वा सुशीलो वीतमत्सरः
।
अन्नदः प्राप्नुते राजन् दिविः चेह च यत्सुखम् ॥१२॥
नावमन्येदभिगतं न प्रणुद्यात्कदाचन
।
अपि श्वपाके शुनि वा न दानं विप्रणश्यति ॥१३॥
यो दद्यादपरिक्लिष्टमन्नमध्वनि वर्तते
।
आर्तायादृष्टपूर्वाय स महद्धर्ममाप्नुयात् ॥१४॥
पितॄन्देवानृषीन्विप्रानतिथींश्च जनाधिप
।
यो नरः प्रीणयत्यनैस्तस्य पुण्यफलं महत् ॥१५॥
कृत्वाऽतिपातकं कर्म यो दद्यादन्नमर्थिने
।
ब्राह्मणाय विशेषेण न स पापेन मुह्यते ॥१६॥
ब्राह्मणेष्वक्षयं दानमन्नं शुद्रे महाफलम्
।
अन्नदानं हि शूद्रे च ब्राह्मणे च विशिष्यते ॥१७॥
न पृच्छेद्गोत्रचरणं स्वाध्यायं देशमेव च
।
भिक्षितो ब्राह्मणेनेह दद्यादन्नं प्रयाचितः ॥१८॥
अन्नदस्यान्नवृक्षाश्च सर्वकामफलप्रदाः
।
भवन्ति चेह चामुत्र नृपतेर्नात्र संशयः ॥१९॥
आशंसन्ते हि पितरः सुवृष्टिमिव कर्षकाः
।
अस्माकमपि पुत्रो वा पौत्रो वाऽन्न प्रदास्यति ॥२०॥
ब्राह्मणो हि महद्भूतं स्वयं देहीति याचति
।
अकामो वा सकामो वा दत्त्वा पुण्यमवाप्नुयात् ॥२१॥
ब्राह्मणः सर्वभूतानामतिथिः प्रसृताग्रभुक्
।
विप्रा यदधिगच्छन्ति भिक्षमाणा गृहं सदा ॥२२॥
सत्कृताश्च निवर्तन्ते तदतीव प्रवर्धते
।
महाभागे कुले प्रेत्य जन्म चाप्नोति भारत ॥२३॥
दत्त्वा त्वन्नं नरो लोके तथा स्थानमनुत्तमम्
।
नित्यं मिष्टान्नदायी तु स्वर्गे वसति सत्कृतः ॥२४॥
अन्नं प्राणा नराणां हि सर्वमन्ने प्रतिष्ठितम्
।
अन्नदः पशुमान्पुत्री धनवान् भोगवानपि ॥२५॥
प्राणवांश्चापि भवति रूपवांश्च तथा नृप
।
अन्नदः प्राणदो लोके सर्वदः प्रोच्यते तु सः ॥२६॥
अन्नं हि दत्वाऽतिथये ब्राह्मणाय यथाविधि
।
प्रदाता सुखमामोति दैवतैश्वापि पूज्यते ॥२७॥
ब्राह्मणो हि महद्भूतं क्षेत्रभूतं युधिष्ठिर
।
उप्यते तत्र यद्बीजं तद्धि पुण्यफलं महत् ॥२८॥
प्रत्यक्षं प्रीतिजननं भोक्तुर्दातुर्भवत्युत
।
सर्वाण्यन्यानि दानानि परोक्षफलवन्त्युत ॥२९॥
अन्नाद्धि प्रसवं यान्ति रतिरन्नाद्धि भारत
।
धर्मार्थावन्नतो विद्धि रोगनाशं तथाऽन्नतः ॥३०॥
अन्नं ह्यमृतमित्याह पुराकल्पे प्रजापतिः
।
अन्नं भुवं दिवं खं च सर्वमन्ने प्रतिष्ठितम् ॥३१॥
अन्नप्रणाशे भिद्यन्ते शरीरे पञ्च धातवः
।
बलं बलवतोऽपीह प्रणश्यत्यन्नहानितः ॥३२॥
आवाहाश्च विवाहाश्च यज्ञाश्चान्नमृते तथा
।
निवर्तन्ते नरश्रेष्ठ ब्रह्म चात्र प्रलीयते ॥३३॥
अन्नतः सर्वमेतद्धि यत्किञ्चित्स्थाणुजंगमम्
।
त्रिषु लोकेषु धर्मार्थमन्नं देयमतो बुधैः ॥३४॥
अन्नदस्य मनुष्यस्य बलमोजो यशांसि च
।
कीर्तिश्च वर्धते शश्वत्त्रिषु लोकेषु पार्थिव ॥३५॥
मेघेषूर्ध्वं सन्निधत्ते प्राणानां पवनः पतिः
।
तच्च मेघगतं वारि शक्रो वर्षति भारत ॥३६॥
आदत्ते च रसान्भौमानादित्यः स्वगभस्तिभिः
।
वायुरादित्यतस्तांश्च रसान्देवः प्रवर्षति ॥३७॥
तद्यदा मेघतो वारि पतितं भवति क्षितौ
।
तदा वसुमती देवी स्निग्धा भवति भारत ॥३८॥
ततः सस्यानि रोहन्ति येन वर्तयते जगत्
।
मांसमेदोस्थिशुक्राणां प्रादुर्भावस्ततः पुनः ॥३९॥
संभवन्ति ततः शुक्रात्प्राणिनः पृथिवीपते
।
अग्नीषोमौ हि तच्छुक्रं सृजतः पुष्पतश्च ह ॥४०॥
एवमन्नाद्धि सूर्यश्च पवनः शुक्रमेव च
।
एक एव स्मृतो राशिस्ततो भूतानि जज्ञिरे ॥४१॥
प्राणान्ददाति भूतानां तेजश्च भरतर्षभ
।
गृहमभ्यागतायाथ यो दद्यादन्नमर्थिने ॥४२॥
भीष्म उवाच। नारदेनैवमुक्तोऽहमदामन्नं सदा नृप
।
अनसूयुस्त्वमप्यन्नं तस्माद्देहि गतज्वरः ॥४३॥
दत्वाऽन्नं विधिवद्राजन्विप्रेभ्यस्त्वमिति प्रभा
।
यथावदनुरूपेभ्यस्ततः स्वर्गमवाप्स्यसि ॥४४॥
अन्नदानां हि ये लोकास्तांस्त्वं शृणु जनाधिप
।
भवनानि प्रकाशन्ते दिवि तेषां महात्मनाम् ॥५४॥
तारासंस्थानि रूपाणि नानास्तंभान्वितानि च
।
चन्द्रमण्डलशुभ्राणि किंकिणीजालवन्ति च ॥४५॥
तरुणादित्यवर्णानि स्थावराणि चराणि च
।
अनेकशतभौमानि सान्तर्जलचराणि च ॥४७॥
वैदूर्यार्कप्रकाशानि रौप्यरुक्ममयानि च
।
सर्वकामफलाश्चापि वृक्षा भवनसंस्थिताः ॥४८॥
वाप्यो वीथ्यः सभाः कूपा दीर्घिकाश्चैव सर्वशः
।
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः ॥४९॥
भक्ष्यभोज्यमयाः शैला वासांस्याभरणानि च
।
क्षीरं स्रवन्ति सरितस्तथा चैवान्नपर्वताः ॥५०॥
प्रासादाः पाण्डुराभ्राभाः शय्याश्च कांचनोज्ज्वलाः
।
तान्यन्नदाः प्रपद्यन्ते तस्मादन्नप्रदो भव ॥५१॥
एते लोकाः पुण्यकृता अन्नदानां महात्मनाम्
।
तस्मादन्नं प्रयत्नेन दातव्यं मानवैर्भुवि ॥५२॥
युधिष्ठिर उवाच। श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः
।
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
देवक्याश्चैव संवादं महर्षेर्नारदस्य च ॥२॥
द्वारकामनुसंप्राप्तं नारदं देवदर्शनम्
।
पप्रच्छेदं वचः प्रश्नं देवकी धर्मदर्शनम् ॥३॥
तस्याः संपृच्छमानाया देवर्षिर्नारदस्ततः
।
आचष्ट विधिवत्सर्वं तच्छृणुष्व विशांपते ॥४॥
नारद उवाच। कृत्तिकासु महाभागे पायसेन ससर्पिषा
।
संतर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान् ॥५॥
रोहिण्यां प्रसृतैर्मार्गैर्मांसैरन्नेन सर्पिषा
।
पयोन्नपानं दातव्यमनृणार्थं द्विजातये ॥६॥
दोग्ध्रीं दत्वा सवत्सां तु नक्षत्रे सोमदैवते
।
गच्छन्ति मानुषाल्लोकात्स्वर्गलोकमनुत्तमम् ॥७॥
आर्द्रायां कृसरं दत्वा तिलमिश्रमुपोषितः
।
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ॥८॥
पूपान्पुनर्वसौ दत्वा तथैवान्नानि शोभने
।
यशस्वी रूपसंपन्नो बह्वन्नो जायते कुले ॥९॥
पुष्येण कनकं दत्वा कृतं वा कृतमेव च
।
अनालोकेषु लोकेषु सोमवत्स विराजते ॥१०॥
आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति
।
स सर्वभयनिर्मुक्तः सम्भवानधितिष्ठति ॥११॥
मघासु तिलपूर्णानि वर्धमानानि मानवः
।
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ॥१२॥
फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः
।
भक्ष्यान्फाणितसंयुक्तान् दत्वा सौभाग्यमृच्छति ॥१३॥
घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम्
।
उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥१४॥
यद्यत्प्रदीयते दानमुत्तराविषये नरैः
।
महाफलमनन्तं तद्भवतीति विनिश्चयः ॥१५॥
हस्ते हस्तिरथं दत्वा चतुर्युक्तमुपोषितः
।
प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान् ॥१६॥
चित्रायां वृषभं दत्वा पुण्यगन्धांश्च भारत
।
चरन्त्यप्सरसां लोके रमन्ते नन्दने तथा ॥१७॥
स्वात्यामथ धनं दत्वा यदिष्टतममात्मनः
।
प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ॥१८॥
विशाखायामनड्वाहं धेनुं दत्वा च दुग्धदाम्
।
सप्रासंगं च शकटं सधान्यं वस्त्रसंयुतम् ॥१९॥
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्रुते
।
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥२०॥
दत्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति
।
नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः ॥२१॥
अनुराधासु प्रावारं वरान्नं समुपोषितः
।
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥२२॥
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम्
।
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां स गच्छति ॥२३॥
मूले मूलफलं दत्वा ब्राह्मणेभ्यः समाहितः
।
पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति ॥२४॥
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः
।
कुलवृत्तोपसंपन्ने ब्राह्मणे वेदपारगे ॥२५॥
पुरुषो जायते प्रेत्य कुले सुबहुगोधने
।
उदमन्थं ससर्पिष्कं प्रभूतमधिफाणितम् ॥२६॥
दत्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात्
।
दुग्धं त्वभिजिते योगे दत्वा मधुघृतप्लुतम्
।
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते ॥२७॥
श्रवणे कम्बलं दत्वा वस्त्रान्तरितमेव वा
।
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान् ॥२८॥
गोप्रयुक्तं धनिष्ठासु यानं दत्वा समाहितः
।
वस्त्रराशिधनं सद्यः प्रेत्य राज्यं प्रपद्यते ॥२९॥
गन्धाञ्छतभिषायोगे दत्वा सागुरुचन्दनान्
।
प्राप्नोत्यप्सरसां संघान्प्रेत्य गन्धांश्च शाश्वतान् ॥३०॥
पूर्वाभाद्रपदायोगे राजमाषान्प्रदाय तु
।
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ॥३१॥
औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति
।
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्रुते ॥३२॥
कांस्योपदोहनां धेनुं रेवत्यां यः प्रयच्छति
।
सा प्रेत्य कामानादाय दातारमुपतिष्ठति ॥३३॥
रथमश्वसमायुक्तं दत्वाऽश्विन्यां नरोत्तमः
।
हस्त्यश्वरथसंपन्ने वर्चस्वी जायते कुले ॥३४॥
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै
।
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ॥३५॥
भीष्म उवाच। इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः
।
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् ॥३६॥
भीष्म उवाच। सर्वान्कामान्प्रयच्छन्ति ये प्रयच्छन्ति कांचनम्
।
इत्येवं भगवानत्रिः पितामहसुतोऽब्रवीत् ॥१॥
पवित्रमथ चायुष्यं पितॄणामक्षयं च तत्
।
सुवर्णं मनुजेन्द्रेण हरिश्चन्द्रेण कीर्तितम् ॥२॥
पानीयं परमं दानं दानानां मनुरब्रवीत्
।
तस्मात्कृपांश्च वापीश्च तडागानि च खानयेत् ॥३॥
अर्धं पापस्य हरति पुरुषस्येह कर्मणः
।
कूपः प्रवृत्तपानीयः सुप्रवृत्तश्च नित्यशः ॥४॥
सर्वं तारयते वंशं यस्य खाते जलाशये
।
गावः पिबन्ति विप्राश्च साधवश्च नराः सदा ॥५॥
निदाघकाले पानीयं यस्य तिष्ठत्यवारितम्
।
स दुर्गं विषमं कृत्स्नं न कदाचिदवाप्नुते ॥६॥
बृहस्पतेर्भगवतः पूष्णश्चैव भगस्य च
।
अश्विनोश्चैव वह्नेश्च प्रीतिर्भवति सर्पिषा ॥७॥
परमं भेषजं ह्येतद्यज्ञानामेतदुत्तमम्
।
रसानामुत्तमं चैतत्फलानां चैतदुत्तमम् ॥८॥
फलकामो यशस्कामः पुष्टिकामश्च नित्यदा
।
घृतं दद्याद्द्विजातिभ्यः पुरुषः शुचिरात्मवान् ॥९॥
घृतं मासे आश्वयुजि विप्रेभ्यो यः प्रयच्छति
।
तस्मै प्रयच्छतो रूपं प्रीतौ देवाविहाश्विनौ ॥१०॥
पायसं सर्पिषा मिश्र द्विजेभ्यो यः प्रयच्छति
।
गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥११॥
पिपासया न म्रियते सोपच्छन्दश्च जायते
।
न प्राप्नुयाच्च व्यसनं करकान्यः प्रयच्छति ॥१२॥
प्रयतो ब्राह्मणग्रे यः श्रद्धया परया युतः
।
उपस्पर्शनषड्भागं लभते पुरुषः सदा ॥१३॥
यः साधनार्थं काष्ठानि ब्राह्मणेभ्यः प्रयच्छति
।
प्रतापनार्थं राजेन्द्र वृत्तवद्ध्यः सदा नरः ॥१४॥
सिद्ध्यन्त्यर्थाः सदा तस्य कार्याणि विविधानि च
।
उपर्युपरि शत्रूणां वपुषा दीप्यते च सः ॥१५॥
भगवांश्चापि संप्रीतो वह्निर्भवति नित्यशः
।
न तं त्यजन्ति पशवः संग्रामे च जयत्यपि ॥१६॥
पुत्राञ्छ्रियं च लभते यश्छत्रं संप्रयच्छति
।
न चक्षुर्व्याधिं लभते यज्ञभागमथाश्रुते ॥१७॥
निदाघकाले वर्षे वा यश्छत्रं संप्रयच्छति
।
नास्य कश्चिन्मनोदाहः कदाचिदपि जायते ॥१८॥
कृच्छ्रात्स विषमाच्चैव क्षिप्रं मोक्षमवाप्नुते
।
प्रदानं सर्वदानानां शकटस्य विशांपते
।
एवमाह महाभागः शांडिल्यो भगवानृषिः ॥१९॥
युधिष्ठिर उवाच। दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ
।
यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच। उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः
।
मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि ॥२॥
स शत्रूणामुपरि च सन्तिष्टति युधिष्ठिर
।
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशांपते ॥३॥
उपतिष्ठति कौन्तेय रौप्यकांचनभूषितम्
।
शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥४॥
युधिष्ठिर उवाच। यत्फलं तिलदाने च भूमिदाने च कीर्तितम्
।
गोदाने चान्नदाने च भूयस्तद्ब्रूहि कौरव ॥५॥
भीष्म उवाच। शृणुष्व मम कौन्तेय तिलदानस्य यत्फलम्
।
निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ॥६॥
पितॄणां परमं भोज्यं तिलाः सृष्टाः स्वयंभुवा
।
तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ॥७॥
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति
।
सर्वसत्त्वसमाकीर्णं नरकं स न पश्यति ॥८॥
सर्वसत्रैश्च यजते यस्तिलैर्यजते पितॄन्
।
न चाकामेन दातव्यं तिलश्राद्धं कदाचन ॥९॥
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः
।
ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो ॥१०॥
पौष्टिका रूपदाश्चैव तथा पापविनाशनाः
।
तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ॥११॥
आपस्तंबश्च मेधावी शंखश्च लिखितस्तथा
।
महर्षिगौतमश्चापि तिलदानैर्दिवं गताः ॥१२॥
तिलहोमरता विप्राः सर्वे संयतमैथुनाः
।
समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ॥१३॥
सर्वेषामिति दानानां तिलदानं विशिष्यते
।
अक्षयं सर्वदानानां तिलदानमिहोच्यते ॥१४॥
उच्छिन्ने तु पुरा हव्ये कुशिकर्षिः परंतपः
।
तिलैरग्नित्रयं हुत्वा प्राप्तवान् गतिमुत्तमाम् ॥१५॥
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम्
।
विधानं येन विधिना तिलानामिह शस्यते ॥१६॥
अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम्
।
समागमे महाराज ब्रह्मणा वै स्वयंभुवा ॥१७॥
देवाः समेत्य ब्रह्माणं भूमिभागे यियक्षवः
।
शुभं देशमयाचन्त यजेम इति पार्थिव ॥१८॥
देवा ऊचुः
।
भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च
।
यजेमहि महाभाग यज्ञं भवदनुज्ञया ॥१९॥
नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्रुते
।
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च ॥२०॥
प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि
।
ब्रह्मोवाच
।
ददानि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः॥२१॥
यस्मिन्देशे करिष्यध्वं यज्ञान्काश्यपनन्दनाः
।
देवा ऊचुः
।
भगवन्कृतकार्याः स्म यक्ष्महे स्वाप्तदक्षिणैः ॥२२॥
इमं तु देशं मुनयः पर्युपासन्ति नित्यदा
।
ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः॥२३॥
असितो देवलश्चैव देवयज्ञमुपागमन्
।
ततो देवा महात्मान ईजिरे यज्ञमच्युतम् ॥२४॥
तथा समापयामासुर्यथाकालं सुरर्षभाः
।
त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे ॥२५॥
षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे
।
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् ॥२६॥
न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते
।
शीतवातातपसहां गृहभूमिं सुसंस्कृताम् ॥२७॥
प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते
।
मुदितो वसति प्राज्ञः शक्रेण सह पार्थिव ॥२८॥
प्रतिश्रयप्रदानाच्च सोऽपि स्वर्गे महीयते
।
अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः ॥२९॥
गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते
।
तथा गवार्थे शरणं शीतवर्षसहं दृढम् ॥३०॥
आसप्तमं तारयति कुलं भरतसत्तम
।
क्षेत्रभूमिं ददल्लोके शुभां श्रियमवाप्नुयात् ॥३१॥
रत्नभूमिं प्रदद्यात्तु कुलवंशं प्रवर्धयेत्
।
न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन ॥३२॥
न श्मशानपरीतां च न च पापनिषेविताम्
।
पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः॥३३॥
तद्भूमिं वापि पितृभिः श्राद्धकर्म विहन्यते
।
तस्मात्क्रीत्वामहींदद्यात्स्वल्पामपि विचक्षणः ॥३४॥
पिंडः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः
।
अटवीपर्वताश्चैव नद्यस्तीर्थानि यानि च ॥३५॥
सर्वाण्यस्वामिकान्याहुर्नहि तत्र परिग्रहः
।
इत्येतद्भूमिदानस्य फलमुक्तं विशांपते ॥३६॥
अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ
।
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च ॥३७॥
तस्मान्महेश्वरो देवस्तपस्ताभिः सहास्थितः
।
ब्राह्मे लोके वसन्त्येताः सोमेन सह भारत ॥३८॥
यां तां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम्
।
पयसा हविषा दध्ना शकृता चाथ चर्मणा ॥३९॥
अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत
।
नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते ॥४०॥
न वर्षविषयं वापि दुवुःखमासां भवत्युत
।
ब्राह्मणैः सहिता यान्ति तस्मात्पारमकं पदम् ॥४१॥
एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः
।
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः ॥४२॥
अतश्चर्मण्वती राजन् गोचर्मभ्यः प्रवर्तिता
।
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः ॥४३॥
ता इमा विप्रमुख्येभ्यो यो ददाति महीपते
।
निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ॥४४॥
गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते
।
सर्वत्र विजयं चापि लभते मनुजाधिप ॥४५॥
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः
।
तस्मादद्दाति यो धेनुममृतं स प्रयच्छति ॥४६॥
अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः
।
तस्माद्ददाति यो धेनुं स हौम्यं संप्रयच्छति ॥४७॥
स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम्
।
विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ॥४८॥
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ
।
तस्माद्ददाति यो धेनुं प्राणानेष प्रयच्छति ॥४९॥
गावः शरण्या भूतानामिति वेदविदो विदुः
।
तस्माद्ददाति यो धेनुं शरणं संप्रयच्छति ॥५०॥
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके
।
गोजीविने न दातव्या तथा गौर्भरतर्षभ ॥५१॥
ददत्स तादृशानां वै नरो गां पापकर्मणाम्
।
अक्षयं नरकं यातीत्येवमाहुर्महर्षयः ॥५२॥
न कृशां नापवत्सां वा वंध्यां रोगान्वितां तथा
।
न व्यङ्गां न परिश्रान्तां दद्याङ्गां ब्राह्मणाय वै ॥५३॥
दशगोसहस्रदो हि शक्रेण सह मोदते
।
अक्षयाँल्लभते लोकान्नरः शतसहस्रशः ॥५४॥
इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम्
।
तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ॥५५॥
अन्नदानं प्रधानं हि कौन्तेय परिचक्षते
।
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥५६॥
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिपः
।
स्वायंभुवं महत्स्थानं स गच्छति नराधिप ॥५७॥
न हिरण्यैर्न वासोभिर्नान्यदानेन भारत
।
प्राप्नुवन्ति नराः श्रेयो यथा ह्यन्नप्रदाः प्रभो ॥५८॥
अन्नं वै प्रथमं द्रव्यमन्नं श्रीश्च परा मता
।
अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ॥५९॥
सद्यो ददाति यश्चान्नं सदैकाग्रमना नरः
।
न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ॥६०॥
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेव
।
यदन्ना हि नरा राजंस्तदन्नास्तस्य देवताः ॥६१॥
कौमुदे शुक्लपक्षे तु योऽन्नदानं करोत्युत
।
स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्रुते ॥६२॥
अभुक्त्वाऽतिथये चान्नं प्रयच्छेद्यः समाहितः
।
स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ॥६३॥
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत्
।
पापं तरति चैवेह दुष्कृतं चापकर्षति ॥६४॥
इत्येतदन्नदानस्य तिलदानस्य चैव ह
।
भूमिदानस्य च फलं गोदानस्य च कीर्तितम् ॥६५॥
युधिष्ठिर उवाच। श्रुतं दानफलं तात यत्त्वया परिकीर्तितम्
।
अन्नदानं विशेषेण प्रशस्तमिह भारत ॥१॥
पानीयदानमेवैतत्कथं चेह महाफलम्
।
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ॥२॥
भीष्म उवाच। हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ
।
गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ॥३॥
पानीयदानाप्रभृति सर्वं वक्ष्यामि तेऽनघ
।
यदन्नं यच्च पानीयं संप्रदायाश्नुते नरः ॥४॥
न तस्मात्परमं दानं किञ्चिदस्तीति मे मनः
।
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः ॥५॥
तस्मादन्नं परं लोके सर्वलोकेषु कथ्यते
।
अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा ॥६॥
अन्नदानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः
।
सावित्र्या ह्यपि कौन्तेय श्रुतं ते वचनं शुभम् ॥७॥
यतश्च यद्यथा चैव देवसत्रे महामते
।
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत ॥८॥
प्राणदानाद्धि परमं न दानमिह विद्यते
।
श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः ॥९॥
प्राणान्दत्त्वा कपोतय संम्प्राप्तं शिबिना पुरा
।
तां गतिं लभते दत्वा द्विजस्यान्नं विशांपते ॥१०॥
तस्माद्विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतम्
।
अन्नं वापि प्रभवति पानीयात्कुरुसत्तम ॥११॥
नीरजातेन हि विना न किञ्चित्संप्रवर्तते ॥११॥
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः
।
अमृतं च सुधा चैव सुधा चैवामृतं तथा ॥१२॥
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः
।
यतः प्राणभृतां प्राणाः संभवन्ति विशांपते ॥१२॥
देवानममृतं ह्यन्नं नगानां च सुधा तथा
।
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ॥१३॥
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः
।
तच्च सर्वं नरव्याघ्र पानीयात्संप्रवर्तते ॥१५॥
तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित्
।
तच्च दद्यान्नरो नित्यं यदीच्छेद्भूतिमात्मनः ॥१६॥
धन्यं यशस्यमायुष्यं जलदानामिहोच्यते
।
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः ॥१७॥
सर्वकामानवाप्नोति कीर्तिं चैव हि शाश्वतीम्
।
प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते ॥१८॥
तोयदो मनुजव्याघ्र स्वर्गे गत्वा महाद्युते
।
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः ॥१९॥
तिलानां किदृशम् दानमथ दीपस्य चैव हि
।
अन्नानां वाससां चैव भूय एव ब्रवीहि मे ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
ब्राह्मणस्य च संवादं यमस्य च युधिष्ठिर ॥२॥
मध्यदेशे महान्ग्रामो ब्राह्मणानां बभूव ह
।
गंगायमुनयोर्मध्ये यामुनस्य गिरेरधः ॥३॥
पर्णशालेति विख्यातो रमणीयो नराधिप
।
विद्वांसस्तत्र भूयिष्ठा ब्राह्मणाश्चावसंस्तथा ॥४॥
अथ प्राह यमः कंचित्पुरुष कृष्णवाससम्
।
रक्ताक्षमूर्ध्वरोमाणं काकजंघाक्षिनासिकम् ॥५॥
गच्छ त्वं ब्राह्मणग्रामं ततो गत्वा तमानय
।
अगस्त्यं गोत्रतश्चापि नामतश्चापि शर्मिणम् ॥६॥
शमे निविष्टं विद्वांसमध्यापकमनावृतम्
।
मा चान्यमानयेथास्त्वं सगोत्रं तस्य पार्श्वतः ॥७॥
स हि तादृग्गुणस्तेन तुल्योऽध्ययनजन्मना
।
अपत्येषु तथा वृत्ते समस्तेनैव धीमता ॥८॥
तमानय यथोद्दिष्टं पूजा कार्या हि तस्य वै
।
स गत्वा प्रतिकूलं तच्चकार यमशासनम् ॥९॥
तमाक्रम्यानयामास प्रतिषिद्धो यमेन यः
।
तस्मै यमः समुत्थाय पूजां कृत्वा च वीर्यवान् ॥१०॥
प्रोवाच नीयतामेष सोऽन्य आनीयतामिति
।
एवमुक्ते तु वचने धर्मराजेन स द्विजः ॥११॥
उवाच धर्मराजानं निर्विण्णोऽध्ययनेन वै
।
यो मे कालो भवेच्छेषस्तं वसेयमिहाच्युत ॥१२॥
यम उवाच
।
नाहं कालस्य विहितं प्राप्नोमीह कथंचन
।
यो हि धर्मं चरति वै तं तु जानामि केवलम् ॥१३॥
गच्छ विप्र त्वमद्यैव आलयं स्व महाद्युते
।
ब्रूहि सर्वं यथा स्वैरं करवाणि किमच्युत ॥१४॥
ब्राह्मण उवाच
।
यत्तत्र कृत्वा सुमहत्पुण्यं स्यात्तद्ब्रवीहि मे
।
सर्वस्य हि प्रमाणं त्वं त्रैलोक्यस्यापि सत्तम ॥१५॥
यम उवाच
।
शृणु तत्त्वेन विप्रर्षे प्रदानविधिमुत्तमम्
।
तिलाः परमकं दानं पुण्यं चैवेह शाश्वतम् ॥१६॥
तिलाश्च संप्रदातव्या यथाशक्ति द्विजर्षभ
।
नित्यदानात्सर्वकामांस्तिला निर्वर्तयन्त्युत ॥१७॥
तिलान् श्राद्धे प्रशंसन्ति दानमेतद्ध्यनुत्तमम्
।
तान्प्रयच्छस्व विप्रेभ्यो विधिदृष्टेन कर्मणा ॥१८॥
वैशाख्यां पौर्णमास्यां तु तिलान्दद्याद्द्विजातिषु
।
तिला भक्षयितव्याश्च सदा त्वालंभनं च तैः ॥१९॥
कार्यं सततमिच्छद्भिः श्रेयः सर्वात्मना गृहे
।
तथाऽऽपः सर्वदा देयाः पेयाश्चैव न संशयः ॥२०॥
पुष्करिण्यस्तडागानि कूपांश्चैवात्र खानयेत्
।
एतत्सुदुर्लभतरमिहलोके द्विजोत्तम ॥२१॥
आपो नित्यं प्रदेयास्ते पुण्यं ह्येतदनुत्तमम्
।
प्रपाश्च कार्या दानार्थं नित्यं ते द्विजसत्तम
।
भुक्तेऽप्यन्नं प्रदेयं तु पानीयं वै विशेषतः ॥२२॥
भीष्म उवाच। इत्युक्ते स तदा तेन यमदूने वै गृहान्
।
नीतश्च कारयामास सर्वं तद्यमशासनम् ॥२३॥
नीत्वा तं यमदूतोऽपि गृहीत्वा शर्मिणं तदा
।
ययौ स धर्मराजाय न्यवेदयत चापि तम् ॥२४॥
तं धर्मराजो धर्मज्ञं पूजयित्वा प्रतापवान्
।
कृत्वा च संविदं तेन विससर्ज यथागतम् ॥२५॥
तस्यापि च यमः सर्वमुपदेशं चकारा ह
।
प्रेत्यैत्य च ततः सर्वं चक्रारोक्तं यमेन तत् ॥२६॥
तथा प्रशंसते दीपान्यमः पितृहितेप्सया
।
तस्माद्दीपप्रदो नित्यं सन्तारयति पितॄन् ॥२७॥
दातव्याः सततं दीपास्तस्माद्भरतसत्तम
।
देवतानां पितॄणां च चक्षुष्यं चात्मनां विभो ॥२८॥
रत्नदानं चः सुमहत्पुण्यमुक्तं जनाधिप
।
यस्तान् विक्रीय यजते ब्राह्मणो ह्यभयंकरम् ॥२९॥
यद्वै ददाति विप्रेभ्यो ब्राह्मणः प्रतिगृह्य वै
।
उभयोः स्यात्तदक्षय्यं दातुरादातुरेव च ॥३०॥
यो ददाति स्थितः स्थित्यां तादृशाय प्रतिग्रहम्
।
उभयोरक्षयं धर्मं तं मनुः प्राह धर्मवित् ॥३१॥
वाससां संप्रदानेन स्वदारनिरतो नरः
।
सुवस्त्रश्च सुवेषश्च भवतीत्यनुशुश्रुम ॥३२॥
गावः सुवर्णं च तथा तिलाश्चेवानुवर्णिताः
।
बहुशः पुरुषव्याघ्र वेदप्रामाण्यदर्शनात् ॥३३॥
विवाहांश्चैव कुर्वीत पुत्रानुत्पादयते च
।
पुत्रलाभो हि कौरव्य सर्वलाभाद्विशिष्यते ॥३४॥
युधिष्ठिर उवाच। भूय एव कुरुश्रेष्ठ दानानां विधिमुत्तमम्
।
कथयस्व महाप्राज्ञ भूमिदानं विशेषतः ॥१॥
पृथिवीं क्षत्रियो दद्याद्ब्राह्मणायेष्टिकर्मिणे
।
विधिवत्प्रतिगृह्णीयान्न त्वन्यो दातुमर्हति ॥२॥
सर्ववर्णैस्तु यच्छक्यं प्रदातुं फलकांक्षिभिः
।
वेदे वा यत्समाख्यातं तन्मे व्याख्यातुमर्हसि ॥३॥
भीष्म उवाच। तुल्यनामानि देयानि त्रीणि तुल्यफलानि च
।
सर्वकामफलानीह गावः पृथ्वी सरस्वती ॥४॥
यो ब्रूयाच्चापि शिष्याय धर्म्यां ब्राह्मीं सरस्वतीम्
।
पृथिवीगोप्रदानाभ्यां तुल्यं स फलमश्रुते ॥५॥
तथैव गाः प्रशंसन्ति न तु देयं ततः परम्
।
सन्निकृष्टफलास्ता हि लघ्वर्थाश्च युधिष्ठिर ॥६॥
मातरः सर्वभूतानां गावः सर्वसुखप्रदाः
।
वृद्धिमाकांक्षता नित्यं गावः कार्याः प्रदक्षिणाः ॥७॥
संताड्या न तु पादेन गवां मध्ये न च व्रजेत्
।
मङ्गलायतनं देव्यस्तस्मात्पूज्याः सदैव हि ॥८॥
प्रचोदनं देवकृतं गवां कर्मसु वर्तताम्
।
पूर्वमेवाक्षरं चान्यदभिधेयं ततः परम् ॥९॥
प्रचारे वा निवाते वा बुधो नोद्वेजयेत गाः
।
तृषिता ह्यभिवीक्षन्त्यो नरं हन्युः सबान्धवम् ॥१०॥
पितृसद्मानि सततं देवतायतनानि च
।
पूयन्ते शकृता यासां पूतं किमधिकं ततः ॥११॥
घासमुष्टिं परगवे दद्यात्संवत्सरं तु यः
।
अकृत्वा स्वयमाहारं व्रतं तत्सार्वकामिकम् ॥१२॥
स हि पुत्रान्यशोर्थं च श्रियं चाप्यधिगच्छति
।
नाशयत्यशुभं चैव दुःस्वप्नं चाप्यपोहति ॥१३॥
युधिष्ठिर उवाच। देयाः किंलक्षणा गावः काश्चापि परिवर्जयेत्
।
कीदृशाय प्रदातव्या न देयाः कीदृशाय च ॥१४॥
भीष्म उवाच। असद्वृत्ताय पापाय लुब्धायानृतवादिने
।
हव्यकव्यव्यपेताय न देया गौः कथञ्चन ॥१५॥
भिक्षवे बहुपुत्राय श्रोत्रियायाहिताग्नये
।
दत्त्वा दशगवां दाता लोकानाप्नोत्यनुत्तमान् ॥१६॥
यश्चैव धर्मं कुरुते तस्य धर्मफलं च यत्
।
सर्वस्यैवांशभाग्दाता तं निमित्तं प्रवृत्तयः ॥१७॥
यश्चैनमुत्पादयते यश्चैनं त्रायते भयात्
।
यश्चास्य कुरुते वृत्तिं सर्वे ते पितरस्त्रयः ॥१८॥
कल्मषं गुरुशुश्रूषा हन्ति मानो महद्यशः
।
अपुत्रतां त्रयः पुत्रा अवृत्तिं दश घेनवः ॥१९॥
वेदान्तनिष्ठस्य बहुश्रुतस्य प्रज्ञानतृप्तस्य जितेन्द्रियस्य
।
शिष्टस्य दान्तस्य यतस्य चैव भूतेषु नित्यं प्रियवादिनश्च ॥२०॥
यः क्षुद्भयाद्वै न विकर्म कुर्यान्मृदुश्च शान्तौ ह्यतिथिप्रियश्च
।
वृत्तिं द्विजायातिसृजेत तस्मै यस्तुल्यशीलश्च सपुत्रदारः ॥२१॥
शुभे पात्रे ये गुणा गोप्रदाने तावान्दोषो ब्राह्मणस्वापहारे
।
सर्वावस्थं ब्राह्मणस्वापहारो दाराश्चैषां दूरतो वर्जनीयाः ॥२२॥
भीष्म उवाच। अत्रैव कीर्त्यते सद्भिर्ब्रह्मणस्वाभिमर्शने
।
नृगेण सुमहत्कृच्छ्रं यदवाप्तं कुरुद्वह ॥१॥
निविशंत्यां पुरा पार्थ द्वारवत्यामिति श्रुतिः
।
अदृश्यत महाकूपस्तृणवीरुत्समावृतः ॥२॥
प्रयत्नं तत्र कुर्वाणास्तस्मात्कूपाज्जलार्थिनः
।
श्रमेण महता युक्तास्तस्मिंस्तोये सुसंवृते ॥३॥
ददृशुस्ते महाकायं कृकलासमवस्थितम्
।
तस्य चोद्धरणे यत्नमकुर्वंस्ते सहस्रशः ॥४॥
प्रग्रहैश्चर्मपट्टैश्च तं बध्वा पर्वतोपमम्
।
नाशक्नुवन् समुद्धर्तुं ततो जग्मुर्जनार्दनम् ॥५॥
खमावृत्त्योदपानस्य कृकलासः स्थितो महान्
।
तस्य नास्ति समुद्धर्तेत्येतत्कृष्णे न्यवेदयन् ॥६॥
स वासुदेवेन समुद्धृतश्च पृष्टश्च कार्यं निजगाद राजा
।
नृगस्तदात्मानमथो न्यवेदयत् पुरातनं यज्ञसहस्रयाजिनम् ॥७॥
तथा ब्रुवाणं तु तमाह माधवः शुभं त्वया कर्म कृतं न पापकम्
।
कथं भवान्दुर्गतिमीदृशीं गतो नरेन्द्र तद्ब्रूहि किमेतदीदृशम् ॥८॥
शतं सहस्राणि गवां शतं पुनः पुनः शतान्यष्टशतायुतानि
।
त्वया पुरा दत्तमितीह शुश्रुम नृप द्विजेभ्यः क्व नु तद्गतं तव ॥९॥
नृगस्ततोऽब्रवीत्कृष्णं ब्राह्मणस्याग्निहोत्रिणः
।
प्रोषितस्य परिभ्रष्टा गौरेका मम गोधने ॥१०॥
गवां सहस्रे संख्याता तदा सा पशुपैर्मम
।
सा ब्राह्मणाय मे दत्ता प्रेत्यार्थमभिकांक्षता ॥११॥
अपश्यत्परिमार्गंश्च तां गां परगृहे द्विजः
।
ममेयमिति चोवाच ब्राह्मणो यस्य साऽभवत् ॥१२॥
तावुभौ समनुप्राप्तौ विवदन्तौ भृशज्वरौ
।
भवान्दाता भवान्हर्तेत्यथ तौ मामवोचताम् ॥१३॥
शतेन शतसंख्येन गवां विनिमयेन वै
।
याचे प्रतिग्रहीतारं स तु मामब्रवीदिदम् ॥१४॥
देशकालोपसम्पन्ना दोग्ध्री शांतातिवत्सला
।
स्वादुक्षीरप्रदा धन्या मम नित्यं निवेशने ॥१५॥
कृतं च भरते सा गौर्मम पुत्रमपस्तनम्
।
न सा शक्या मया दातुमित्युक्त्वा स जगाम ह ॥१६॥
ततस्तमपरं विप्रं याचे विनिमयेन वै
।
गवां शतसहस्रं हि तत्कृते गृह्यतामिति ॥१७॥
ब्राह्मण उवाच
।
न राज्ञां प्रतिगृह्णामि शक्तोऽहं स्वस्य मार्गणे
।
सैव गौर्दीयतां शीघ्रं ममेति मधुसूदन ॥१८॥
रुक्ममश्वांश्च ददतो रजतस्यन्दनांस्तथा
।
न जग्राह ययौ चापि तदा स ब्राह्मणर्षभः ॥१९॥
एतस्मिन्नेव काले तु चोदितः कालधर्मणा
।
पितृलोकमहं प्राप्य धर्मराजमुपागमम् ॥२०॥
यमस्तु पूजयित्वा मां ततो वचनमब्रवीत्
।
नान्तः संख्यायते राजंस्तव पुण्यस्य कर्मणः ॥२१॥
अस्ति चैव कृतं पापमज्ञानात्तदपि त्वया
।
चरस्व पापं पश्चाद्वा पूर्वं वा त्वं यथेच्छसि ॥२२॥
रक्षिताऽस्मीति चोक्तं ते प्रतिज्ञा चानृता तव
।
ब्राह्मणस्वस्य चादानं द्विविधस्ते व्यतिक्रमः ॥२३॥
पूर्वं कृच्छ्रं चरिष्येऽहं पश्चाच्छुभमिति प्रभो
।
धर्मराजं ब्रुवन्नेवं पतितोऽस्मि महीतले ॥२४॥
अश्रौषं पतितश्चाहं यमस्योच्चैः प्रभाषतः
।
वासुदेवः समुद्धर्ता भविता ते जनार्दनः ॥२५॥
पूर्णे वर्षसहस्रान्ते क्षीणे कर्मणि दुष्कृते
।
प्राप्स्यसे शाश्वतान् लोकाञ्जितान्स्वेनैव कर्मणा ॥२६॥
कूपेऽऽत्मानमधःशीर्षमपश्यं पतितश्च ह
।
तिर्यग्योनिमनुप्राप्तं न च मामजहात्स्मृतिः ॥२७॥
त्वया तु तोरितोऽस्म्यद्य किमन्यत्र तपोबलात्
।
अनुजानीहि मां कृष्ण गच्छेयं दिवमद्य वै ॥२८॥
अनुज्ञातः स कृष्णेन नमस्कृत्य जनार्दनम्
।
दिव्यमास्थाय पन्थानं ययौ दिवमरिन्दमः ॥२९॥
ततस्तस्मिन्दिवं याते नृगे भरतसत्तम
।
वासुदेव इमं श्लोकं जगाद कुरुनन्दन ॥३०॥
ब्राह्मणस्वं न हर्तव्यं पुरुषेण विजानता
।
ब्राह्मणस्वं हृतं हन्ति नृगं ब्राह्मणगौरिव ॥३१॥
सतां समागमः सद्भिर्नाफलः पार्थ विद्यते
।
विमुक्तं नरकात्पश्य नृगं साधुसमागमात् ॥३२॥
प्रदानफलवत्तत्र द्रोहस्तत्र तथाफलः
।
अपचारं गवां तस्माद्वर्जयेत युधिष्ठिर ॥३३॥
युधिष्ठिर उवाच। दत्तानां फलसंप्राप्तिं गवां प्रब्रूहि मेऽनघ
।
विस्तरेण महाबाहो न हि तृप्यामि कथ्यताम् ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
ऋषेरुद्दालकेर्वाक्यं नाचिकेतस्य चोभयोः ॥२॥
ऋषिरुद्दालकिर्दीक्षामुपगम्य ततः सुतम्
।
त्वं मामुपचरस्वेति नाचिकेतमभाषत ॥३॥
समाप्ते नियमे तस्मिन्महर्षिः पुत्रमब्रवीत्
।
उपस्पर्शनसक्तस्य स्वाध्यायाभिरतस्य च ॥४॥
इध्मा दर्भाः सुमनसः कलशश्चातिभोजनम्
।
विस्मृतं मे तदादाय नदीतीरादिहाव्रज ॥५॥
गत्वाऽनवाप्य तत्सर्वं नदी वेगसमाप्लुतम्
।
न पश्यामि तदित्येवं पितरं सोऽब्रवीन्मुनिः ॥६॥
क्षुत्पिपासाश्रमाविष्टो मुनिरुद्दालकिस्तदा
।
यमं पश्येति तं पुत्रमशपत्स महातपाः ॥७॥
तथा स पित्राऽभिहतो वाग्वज्रेण कृताञ्जलिः
।
प्रसीदेति ब्रुवन्नेव गतसत्त्वोऽपतद्भुवि ॥८॥
नाचिकेतं पिता दृष्ट्वा पतितं दुःखमूर्च्छितः
।
किं मया कृतमित्युक्त्वा निपपात महीतले ॥९॥
तस्य दुःखपरीतस्य स्वं पुत्रमनुशोचतः
।
व्यतीतं तदहःशेषं साचोग्रा तत्र शर्वरी ॥१०॥
पित्र्येणाश्रुप्रपातेन नाचिकेतः कुरूद्वह
।
प्रास्यन्दच्छयने कौश्ये वृष्ट्या सस्यमिवाप्लुतम् ॥११॥
स पर्यपृच्छत्तं पुत्रं क्षीणं पर्यागतं पुनः
।
दिव्यैर्गन्धैः समादिग्धं क्षीणस्वप्नमिवोत्थितम् ॥१२॥
अपि पुत्र जिता लोकाः शुभास्ते स्वेन कर्मणा
।
दिष्ट्या चासि पुनः प्राप्तो न हि ते मानुषं वपुः ॥१३॥
प्रत्यक्षदर्शी सर्वस्य पित्रा पृष्टो महात्मना
।
स तां वार्तां पितुर्मध्ये महर्षीणां न्यवेदयत् ॥१४॥
कुर्वन् भवच्छासनमाशु यातो ह्यहं विशालां रुचिरप्रभावाम्
।
वैवस्वतीं प्राप्य सभामपश्यं सहस्रशो योजनहेमभासम् ॥१५॥
दृष्ट्वैव मामभिमुखमापतन्तं देहीति स ह्यासनमादिदेश
।
वैवस्वतोऽर्घ्यादिभिरर्हणैश्च भवत्कृते पूजयामास मां सः ॥१६॥
ततस्त्वहं तं शनकैरवोचं वृतः सदस्यैरभिपूज्यमानः
।
प्राप्तोऽस्मि ते विषयं धर्मराज लोकानर्हो यानहं तान्विधत्स्व ॥१७॥
यमोऽब्रवीन्मां न मृतोऽसि सौम्य यमं पश्येत्याह स त्वां तपस्वी
।
पिता प्रदीप्ताग्निसमानतेजा न तच्छक्यमनृतं विप्रकर्तुम् ॥१८॥
दृष्टस्तेऽहं प्रतिगच्छस्व तात शोचत्यसौ तव देहस्य कर्ता
।
ददानि किं चापि मनःप्रणीतं प्रियातिथेस्तव कामान्वृणीष्व ॥१९॥
तेनैवमुक्तस्तमहं प्रत्यवोचं प्राप्तोऽस्मि ते विषयं दुर्निवर्त्यम्
।
इच्छाम्यहं पुण्यकृतां समृद्धाँल्लोकान्द्रष्टुं यदि तेऽहं वरार्हः ॥२०॥
यानं समारोप्य तु मां स देवो वाहैर्युक्तं सुप्रभं भानुमत्तत्
।
संदर्शयामास तदात्मलोकान् सर्वांस्तथा पुण्यकृतां द्विजेन्द्र ॥२१॥
अपश्यं तत्र वेश्मानि तैजसानि महात्मनाम्
।
नानासंस्थानरूपाणि सर्वरत्नमयानि च ॥२२॥
चन्द्रमण्डलशुभ्राणि किङ्किणीजालवन्ति च
।
अनेकशतभौमानि सान्तर्जलवनानि च ॥२३॥
वैदूर्यार्कप्रकाशानि रूप्यरुक्ममयानि च
।
तरुणादित्यवर्णानि स्थावराणि चराणि च ॥२४॥
भक्ष्यभोज्यमयान्शैलान्वासांसि शयनानि च
।
सर्वकर्माफलांश्चैव वृक्षान्भवनसंस्थितान् ॥२५॥
नद्यो वीथ्यः सभावाप्यो दीर्घिकाश्चैव सर्वशः
।
घोषवन्ति च यानानि युक्तान्यथ सहस्रशः ॥२६॥
क्षीरस्रवा वै सरितो गिरींश्च सर्पिस्तथा विमलं चापि तोयम्
।
वैवस्वतस्यानुमतांश्च देशानदृष्टपूर्वान्सुबहूनपश्यम् ॥२७॥
सर्वान्दृष्ट्वा तदहं धर्मराजमवोचं वै प्रभविष्णुं पुराणम्
।
क्षीरस्यैताः सर्पिषश्चैव नद्यः शश्वत्स्रोताः कस्य भोज्याः प्रदिष्टाः ॥२८॥
यमोऽब्रवीद्विद्धि भोज्यास्त्वमेता ये दातारः साधवो गोरसानाम्
।
अन्ये लोकाः शाश्वता वीतशोकैः समाकीर्णा गोप्रदाने रतानाम् ॥२९॥
न त्वेतासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च
।
ज्ञात्वा देयं विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥३०॥
स्वाध्यायवान् योऽतिमात्रं तपस्वी वैतानस्थो ब्राह्मणः पात्रमासाम्
।
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥३१॥
तिस्रो रात्र्यस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः
।
वत्सैः प्रीताः सुप्रजाः सोपचारास्त्र्यहं दत्वा गोरसैर्वर्तितव्यम् ॥३२॥
दत्त्वा धेनुं सुव्रतां कांस्यदोहां कल्याणवत्सामपलायिनीं च
।
यावन्ति रोमाणि भवन्ति तस्यास्तावद्वर्षाण्यश्नुते स्वर्गलोकम् ॥३३॥
तथाऽनड्वाहं ब्राह्मणेभ्यः प्रदाय दान्तं धुर्यं बलवन्तं युवानम्
।
कुलानुजीव्यं वीर्यवन्तं बृहन्तं भुङ्क्ते लोकान्संमितान्धेनुदस्य ॥३४॥
गोषु क्षान्तं गोशरण्यं कृतज्ञं वृत्तिग्लानं तादृशं पात्रमाहुः
।
वृद्धे ग्लाने संभ्रमे वा महार्थे कृष्यर्थं वा होम्यहेतोः प्रसूत्याम् ॥३५॥
गुर्वर्थं वा बालपुष्ट्याभिषङ्गां गां वै दातुं देश कालोऽविशिष्टः
।
अन्तर्ज्ञाताः सक्रयज्ञानलब्धाः प्राणक्रीता निर्जिता यौतकाश्च ॥३६॥
नाचिकेत उवाच
।
श्रुत्वा वैवस्वतवचस्तमहं पुनरब्रुवम्
।
अभावे गोप्रदातॄणां कथं लोकान् हि गच्छति ॥३७॥
ततोऽब्रवीद्यमो धीमान् गोप्रदानपरां गतिम्
।
गोप्रदानानुकल्पं तु गामृते सन्ति गोप्रदाः ॥३८॥
अलाभे यो गवां दद्यात् घृतधेनुं यतव्रतः
।
तस्यैता घृतवाहिन्यः क्षरन्ते वत्सला इव ॥३९॥
घृतालाभे तु यो दद्यात्तिलधेनुं यतव्रतः
।
स दुर्गात्तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥४०॥
तिलालाभे तु यो दद्याज्जलधेनुं यतव्रतः
।
स कामप्रवहां शीतां नदीमेतामुपाश्नुते ॥४१॥
एवमेतानि मे तत्र धर्मराजो न्यदर्शयत्
।
दृष्ट्वा च परमं हर्षमवापमहमच्युत ॥४२॥
निवेदये चाहमिमं प्रियं ते क्रतुर्महानल्पधनप्रचारः
।
प्राप्तो मया तात स मत्प्रसूतः प्रपत्स्यते वेदविधिप्रवृत्तः ॥४३॥
शापो ह्ययं भवतोऽनुग्रहाय प्राप्तो मया यत्र दृष्टो यमो वै
।
दानव्युष्टिं तत्र दृष्ट्वा महात्मन्निःसन्दिग्धान्दानधर्मांश्चरिष्ये ॥४४॥
इदं च मामब्रवीद्धर्मराजः पुनः पुनः संप्रहृष्टो महर्षे
।
दानेन यः प्रयतोऽभूत्सदैव विशेषतो गोप्रदानं च कुर्यात् ॥४५॥
शुद्धो ह्यर्थो नावमन्यस्व धर्मान् पात्रे देयं देशकालोपपन्ने
।
तस्माद्गावस्ते नित्यमेव प्रदेया मा भूच्च ते संशयः कश्चिदत्र ॥४६॥
एताः पुरा ह्यददन्नित्यमेव शान्तात्मानो दानपथे निविष्टाः
।
तपांस्युग्राण्यप्रतिशंकमानास्ते वै दानं प्रददुश्चैव शक्त्या ॥४७॥
काले च शक्त्या मत्सरं वर्जयित्वा शुद्धात्मानः श्रद्धिनः पुण्यशीलाः
।
दत्त्वा गा वै लोकममुं प्रपन्ना देदीप्यन्ते पुण्यशीलास्तु नाके ॥४८॥
एतद्दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्तं प्रापणीयं परीक्ष्य
।
काम्याष्टम्या वर्तितव्यं दशार्हं रसैर्गवां शकृता प्रस्नवैर्वा ॥४९॥
देवव्रती स्याद्वृषभप्रदानैर्वेदावाप्तिर्गोयुक्तस्य प्रदाने
।
तीर्थावाप्तिर्गोप्रयुक्तप्रदाने पापोत्सर्गः कपिलायाः प्रदाने ॥५०॥
गामप्येकां कपिलां संप्रदाय न्यायोपेतां कलुषाद्विप्रमुच्येत्
।
गवां रसात्परमं नास्ति किञ्चिद्गवां प्रदानं सुमहद्वदन्ति ॥५१॥
गावो लोकांस्तारयन्ति क्षरन्त्यो गावश्चान्नं सञ्जनयन्ति लोके
।
यस्तं जानन्न गवां हार्दमेति स वै गन्ता निरयं पापचेताः ॥५२॥
यैस्तद्दत्तं गोसहस्रं शतं वा दशार्धं वा दश वा साधुवत्सम्
।
अप्येका वै साधवे ब्राह्मणाय साऽस्यामुष्मिन्पुण्यतीर्था नदी वै ॥५३॥
प्राप्त्या पुष्ट्या लोकसंरक्षणेन गावस्तुल्याः सूर्यपादैः पृथिव्याम्
।
शब्दश्चैकः सन्नितिश्चोपभोगास्तस्माद्भोदः सूर्य इवावभाति ॥५४॥
गुरुं शिष्यो वरयेद्गोप्रदाने स वै गन्ता नियतं स्वर्गमेव
।
विधिज्ञानां सुमहान्धर्म एषो विधिं ह्याद्यं विधयः संविशन्ति ॥५५॥
इदं दानं न्यायलब्धं द्विजेभ्यः पात्रे दत्वा प्रापयेथाः परीक्ष्य
।
त्वय्याशंसन्त्यमरा मानवाश्च वयं चापि प्रसृते पुण्यशीले ॥५६॥
इत्युक्तोऽहं धर्मराजं द्विजर्षे धर्मात्मानं शिरसाऽभिप्रणम्य
।
अनुज्ञातस्तेन वैवस्वतेन प्रत्यागमं भगवत्पादमूलम् ॥५७॥
युधिष्ठिर उवाच। उक्तं ते गोप्रदानं वै नाचिकेतमृषिं प्रति
।
माहात्म्यमपि चैवोक्तमुद्देशेन गवां प्रभो ॥१॥
नृगेण च महद्दुःखमनुभूतं महात्मना
।
एकापराधादज्ञानात्पितामह महामते ॥२॥
द्वारवत्यां यथा चासौ निविशन्त्यां समुद्धृतः
।
मोक्षहेतुरभूत्कृष्णस्तदप्यवधृतं मया ॥३॥
किं त्वस्ति मम सन्देहो गवां लोकं प्रति प्रभो
।
तत्त्वतः श्रोतुमिच्छामि गोदा यत्र वसन्त्युत ॥४॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
यथाऽपृच्छत्पद्मयोनिमेतदेव शतक्रतुः ॥५॥
शक्र उवाच। स्वर्लोकवासिनां लक्ष्मीमभिभूय स्वयार्चिषा
।
गोलोकवासिनः पश्ये व्रजतः संशयोऽत्र मे ॥६॥
कीदृशा भगवঁल्लोका गवां तद्ब्रूहि मेऽनघ
।
यानावसन्ति दातार एतदिच्छामि वेदितुम् ॥७॥
कीदृशाः किंफलाः किंस्वित्परमस्तत्र को गुणः
।
कथं च पुरुषास्तत्र गच्छन्ति विगतज्वराः ॥८॥
कियत्कालं प्रदानस्य दाता च फलमश्नुते
।
कथं बहुविधं दानं स्यादल्पमपि वा कथम् ॥९॥
बह्वीनां कीदृशं दानमल्पानां वाऽपि कीदृशम्
।
अदत्वा गोप्रदाः सन्ति केन वा तच्च शंस मे ॥१०॥
कथं वा बहुदाता स्यादल्पदात्रा समः प्रभो
।
अल्पप्रदाता बहुदः कथं स्वित्स्यादिहेश्वर ॥११॥
कीदृशी दक्षिणा चैव गोप्रदाने विशिष्यते
।
एतत्तथ्येन भगवन्मम शंसितुमर्हसि ॥१२॥
पितामह उवाच
।
योऽयं प्रश्नस्त्वया पृष्टो गोप्रदानादिकारितः
।
नास्ति प्रष्टाऽस्ति लोकेऽस्मिंस्त्वत्तोऽन्यो हि शतक्रतो ॥१॥
सन्ति नानाविधा लोका यांस्त्वं शक्र न पश्यसि
।
पश्यामि यानहं लोकानेकपत्न्यश्च याः स्त्रियः ॥२॥
कर्मभिश्चापि सुशुभैः सुव्रता ऋषयस्तथा
।
सशरीरा हि तान्यान्ति ब्राह्मणाः शुभबुद्धयः ॥३॥
शरीरन्यासमोक्षेण मनसा निर्मलेन च
।
स्वप्नभूतांश्च ताँल्लोकान्पश्यन्तीहापि सुव्रताः ॥४॥
ते तु लोकाः सहस्त्राक्ष शृणु यादृग्गुणान्विताः
।
न तत्र क्रमते कालो न जरा न च पावकः ॥५॥
तथा नास्त्यशुभं किञ्चिन्न व्याधिस्तत्र न क्लमः
।
यद्यच्च गावो मनसा तस्मिन्वांच्छन्ति वासव ॥६॥
तत्सर्वं प्राप्नुवन्ति स्म मम प्रत्यक्षदर्शनात्
।
कामगाः कामचारिण्यः कामात्कामांश्च भुञ्जते ॥७॥
वाप्यः सरांसि सरितो विविधानि वनानि च
।
गृहाणि पर्वताश्चैव यावद्द्रव्यं च किञ्चन ॥८॥
मनोज्ञं सर्वभूतेभ्यः सर्वतन्त्रं प्रदृश्यत
।
ईदृशाद्विपुलाल्लोकान्नास्ति लोकस्तथाविधः ॥९॥
तत्र सर्वसहाः क्षान्ता वत्सला गुरुवर्तिनः
।
अहङ्कारैर्विरहिता यान्ति शक्र नरोत्तमाः ॥१०॥
यः सर्वमांसानि न भक्षयीत पुमान्सदा भाविता धर्मयुक्तः
।
मातापित्रोरर्चिता सत्ययुक्तः शुश्रूषिता ब्राह्मणानामनिन्द्यः ॥११॥
अक्रोधनो गोषु तथा द्विजेषु धर्मे रतो गुरुशुश्रूषकश्च
।
यावज्जीवं सत्यवृत्ते रतश्च दाने रतो यः क्षमी चापराधे ॥१२॥
मृदुर्दान्तो देवपरायणश्च सर्वातिथिश्चापि तथा दयावान्
।
ईदृग्गुणो मानवस्तं प्रयाति लोकं गवां शाश्वतं चाव्ययं च ॥१३॥
न पारदारी पश्यति लोकमेतं न वै गुरुघ्नो न मृषा संप्रलापी
।
सदा प्रवादी ब्राह्मणेष्वात्तवैरो दोषैरेतैर्यश्च युक्तो दुरात्मा ॥१४॥
न मित्रध्रुङ्नैकृतिकः कृतघ्नः शठोऽनृजुर्धर्मविद्वेषकश्च
।
न ब्रह्महा मनसापि प्रपश्येद्गवां लोकं पुण्यकृतां निवासम् ॥१५॥
एतत्ते सर्वमाख्यातं निपुणेन सुरेश्वर
।
गोप्रदानरतानां तु फलं शृणु शतक्रतो ॥१६॥
दायाद्यलब्धैरर्थैर्यो गाः क्रीत्वा संप्रयच्छति
।
धर्मार्जितान्धनैः क्रीतान्स लोकानाप्नुनेऽक्षयान् ॥१७॥
यो वै द्यूते धनं जित्वा गाः क्रीत्वा संप्रयच्छति
।
स दिव्यमयुतं शक्रं वर्षाणां फलमश्नुते ॥१८॥
दायाद्याद्याः स्म वै गावो न्यायपूर्वैरुपार्जिताः
।
प्रदद्यात्ताः प्रदातॄणां सम्भवन्त्यपि च ध्रुवाः ॥१९॥
प्रतिगृह्य तु यो दद्याद्गाः संशुद्धेन चेतसा
।
तस्यापीहाक्षयान्लोकान् ध्रुवान् विद्धि शचीपते ॥२०॥
जन्मप्रभृति सत्यं च यो ब्रूयान्नियतेन्द्रियः
।
गुरुद्विजसहः क्षान्तस्तस्य गोभिः समा गतिः ॥२१॥
न जातु ब्राह्मणो वाच्यो यदवाच्यं शचीपते
।
मनसा गोषु न द्रुह्येद्गोवृत्तिर्गोऽनुकल्पकः ॥२२॥
सत्ये धर्मे च निरतस्तस्य शक्र फलं शृणु
।
गोसहस्रेण समिता तस्य घेनुर्भवत्युत ॥२३॥
क्षत्रियस्य गुणैरेतैरपि तुल्यफलं शृणु
।
तस्यापि द्विजतुल्या गौर्भवतीति विनिश्चयः ॥२४॥
वैशस्यैते यदि गुणास्तस्य पञ्चशतं भवेत्
।
शूद्रस्यापि विनीतस्य चतुर्भागफलं स्मृतम् ॥२५॥
एतच्चैनं योऽनुतिष्ठेत युक्तः सत्ये रतो गुरुशुश्रूषया च
।
दक्षः क्षान्तो देवतार्थी प्रशान्तः शुचिर्बुद्धो धर्मशीलोऽनहंवाक् ॥२६॥
महत्फलं प्राप्यते स द्विजाय दत्वा दोग्ध्रीं विधिनाऽनेन धेनुम्
।
नित्यं दद्यादेकभक्तः सदा च सत्ये स्थितो गुरुशुश्रूषिता च ॥२७॥
वेदाध्यायी गोषु यो भक्तिमांश्च नित्यं दत्वा योऽभिनन्देत गाश्च
।
आजातितो यश्च गवां नमेत इदं फलं शक्र निबोध तस्य ॥२८॥
यत्स्यादिष्ट्वा राजसूये फलं तु यत्स्यादिष्ट्वा बहुना काञ्चनेन
।
एतत्तुल्यं फलमप्याहुरतग्र्यं सर्वे सन्तस्त्वृषयो ये च सिद्धाः ॥२९॥
योऽग्रं भक्तं किञ्चिदप्राश्य दद्याद्गोभ्यो नित्यं गोव्रती सत्यवादी
।
शान्तोऽलुब्धो गोसहस्त्रस्य पुण्यं संवत्सरेणाप्नुयात्सत्यशीलः ॥३०॥
यदेकभक्तमश्नीयाद्दद्यादेकं गवां च यत्
।
दशवर्षाण्यनन्तानि गोव्रती गोऽनुकम्पकः ॥३१॥
एकेनैव च भक्तेन यः क्रीत्वा गां प्रयच्छति
।
यावन्ति तस्या रोमाणि संभवन्ति शतक्रतो ॥३२॥
तावत्प्रदानात्स गवां फलमाप्नोति शाश्वतम्
।
ब्राह्मणस्य फलं हीदं क्षत्रियस्य तु वै शृणु ॥३३॥
पञ्चवार्षिकमेवं तु क्षत्रियस्य फलं स्मृतम्
।
ततोऽर्धेन तु वैश्यस्य शूद्रो वैश्यार्धतः स्मृतः ॥३४॥
यश्चात्मविक्रयं कृत्वा गाः क्रीत्वा संप्रयच्छति
।
यावत्सन्दर्शयेद्गां वै स तावत्फलमश्नुते ॥३५॥
रोम्णि रोम्णि महाभाग लोकाश्चास्याऽक्षयाः स्मृताः
।
संग्रामेष्वर्जयित्वा तु यो वै गाः सम्प्रयच्छति
।
आत्मविक्रयतुल्यास्ताः शाश्वता विद्धि कौशिक ॥३६॥
अभावे यो गवां दद्यात्तिलधेनुं यतव्रतः
।
दुर्गात्स तारितो धेन्वा क्षीरनद्यां प्रमोदते ॥३७॥
न त्वेवासां दानमात्रं प्रशस्तं पात्रं कालो गोविशेषो विधिश्च
।
कालज्ञानं विप्र गवान्तरं हि दुःखं ज्ञातुं पावकादित्यभूतम् ॥३८॥
स्वाध्यायाढ्यं शुद्धयोनिं प्रशान्तं वैतानस्थं पापभीरुं बहुज्ञम्
।
गोषु क्षान्तं नातितीक्ष्णं शरण्यं वृत्तिग्लानं तादृशं पात्रमाहुः ॥३९॥
वृत्तिग्लाने सीदति चातिमात्रं कृष्यर्थे वा होम्यहेतोः प्रसूतेः
।
गुर्वर्थं वा बालसंवृद्धये वा धेनुं दद्याद्देशकाले विशिष्टे ॥४०॥
अन्तर्ज्ञाताः सक्रयज्ञानलब्धाः प्राणैः क्रीतास्तेजसा यौतकाश्च
।
कृच्छ्रोत्सृष्टाः पोषणाभ्यागताश्च द्वारैरेतैर्गोविशेषाः प्रशस्ताः ॥४१॥
बलान्विताः शीलवयोपपन्नाः सर्वाः प्रशंसन्ते सुगन्धवत्यः
।
यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा ॥४२॥
तिस्रो रात्रीस्त्वद्भिरुपोष्य भूमौ तृप्ता गावस्तर्पितेभ्यः प्रदेयाः
।
वत्सैः पुष्टैः क्षीरपैः सुप्रचारास्त्र्यहं दत्त्वा गोरसैर्वर्तितव्यम् ॥४३॥
दत्त्वा धेनुं सुव्रतां साधुदोहां कल्याणवत्सामपलायुनी च
।
यावन्ति रोमाणि भवन्ति तस्या स्तावन्ति वर्षाणि भवन्त्यमुत्र ॥४४॥
तथाऽनड्वाहं ब्राह्मणाय प्रदाय धुर्यं युवानं बलिनं विनीतम्
।
हलस्य वोढारमनन्तवीर्यं प्राप्नोति लोकान् दशधेनुदस्य ॥४५॥
कांतारे ब्राह्मणान्गाश्च यः परित्राति कौशिक
।
क्षणेन विप्रमुच्येत तस्य पुण्यफलं शृणु ॥४६॥
अश्वमेधक्रतोस्तुल्यं फलं भवति शाश्वतम्
।
मृत्युकाले सहस्त्राक्ष यां वृत्तिमनुकाङ्क्षते ॥४७॥
लोकान्बहुविधान्दिव्यान्यच्चास्य हृदि वर्तते
।
तत्सर्वं समवाप्नोति कर्मणैतेन मानवः ॥४८॥
गोभिश्च समनुज्ञातः सर्वत्र च महीयते
।
यस्त्वेतेनैव कल्पेन गां वनेष्वनुगच्छति ॥४९॥
तृणगोमयपर्णाशी निस्पृहो नियतः शुचिः
।
अकामं तेन वस्तव्यं मुदितेन शतक्रतो ॥५०॥
मम लोके सुरैः सार्धं लोके यत्रापि चेच्छति॥५१॥
इन्द्र उवाच। जानन्यो गामपहरेद्विक्रीयाच्चार्थकारणात्
।
एतद्विज्ञातुमिच्छामि क्व नु तस्य गतिर्भवेत्॥१॥
पितामह उवाच
।
भक्षार्थं विक्रयार्थं वा येऽपहारं हि कुर्वते
।
दानार्थं ब्राह्मणार्थाय तत्रेदं श्रूयतां फलम् ॥२॥
विक्रयार्थं हि यो हिंस्याद्भक्षयेद्वा निरंकुशः
।
घातयानं हि पुरुषं येऽनुमन्येयुरर्थिनः ॥३॥
घातकः खादको वापि तथा यश्चानुमन्यते
।
यावन्ति तस्या रोमाणि ताचद्वर्षाणि मज्जति ॥४॥
ये दोषा यादृशाश्चैव द्विजयज्ञोपघातके
।
विक्रये चापहारे च ते दोषा वै स्मृताः प्रभो ॥५॥
अपहृत्य तु यो गां वै ब्राह्मणाय प्रयच्छति
।
यावद्दानफलं तस्यास्तावन्निरयमृच्छति ॥६॥
सुवर्णं दक्षिणामाहुर्गोप्रदाने महाद्युते
।
सुवर्णं परमित्युक्तं दक्षिणार्थमसंशयम् ॥७॥
गोप्रदानात्तारयते सप्त पूर्वांस्तथा परान्
।
सुवर्णं दक्षिणां कृत्वा तावद्द्विगुणमुच्यते ॥८॥
सुवर्णं परमं दानं सुवर्णं दक्षिणा परा
।
सुवर्णं पावनं शक्र पावनानां परं स्मृतम् ॥९॥
कुलानां पावनं प्राहुर्जातरूपं शतक्रतो
।
एषा मे दक्षिणा प्रोक्ता समासेन महाद्युते ॥१०॥
भीष्म उवाच। एतत्पितामहेनोक्तमिन्द्राय भरतर्षभ
।
इन्द्रो दशरथायाह रामायाह पिता तथा ॥११॥
राघवोऽपि प्रियभ्रात्रे लक्ष्मणाय यशस्विने
।
ऋषिभ्यो लक्ष्मणेनोक्तमरण्ये वसता प्रभो ॥१२॥
पारंपर्यागतं चेदमृषयः संशितव्रताः
।
दुर्धरं धारयामासू राजानश्चैव धार्मिकाः ॥१३॥
उपाध्यायेन गदितं मम चेदं युधिष्ठिर
।
य इदं ब्राह्मणो नित्यं वदेद्ब्राह्मणसंसदि ॥१४॥
यज्ञेषु गोप्रदानेषु द्वयोरपि समागमे
।
तस्य लोकाः किलाक्षय्या दैवतैः सह नित्यदा ॥१५॥
युधिष्ठिर उवाच। विस्रंभितोऽहं भवता धर्मान्प्रवदता विभो
।
प्रवक्ष्यामि तु सन्देहं तन्मे ब्रूहि पितामह ॥१॥
व्रतानां किं फलं प्रोक्तं कीदृशं वा महाद्युते
।
नियमानां फलं किं च स्वधीतस्य च किं फलम् ॥२॥
दत्तस्येह फलं किं च वेदानां धारणे च किम्
।
अध्यापने फलं किं च सर्वमिच्छामि वेदितुम् ॥३॥
अप्रतिग्राहके किं च फलं लोके पितामह
।
तस्य किं च फलं दृष्टं श्रुतं यस्तु प्रयच्छति ॥४॥
स्वकर्मनिरतानां च शूराणां चापि किं फलम्
।
शौचे च किं फलं प्रोक्तं ब्रह्मचर्ये च किं फलम् ॥५॥
पितृशुश्रूषणे किं च मातृशुश्रूषणे तथा
।
आचार्यगुरुशुश्रूषास्वनुक्रोशानुकंपने ॥६॥
एतत्सर्वमशेषेण पितामह यथातथम्
।
वेत्तुमिच्छामि धर्मक्ष परं कौतूहलं हि मे ॥७॥
भीष्म उवाच। यो व्रतं वै यथोद्दिष्टं तथा संप्रतिपद्यते
।
अखण्डं सम्यगारभ्य तस्य लोकाः सनातनाः ॥८॥
नियमानां फलं राजन्प्रत्यक्षमिह दृश्यते
।
नियमानां क्रतूनां च त्वयाऽवाप्तमिदं फलम् ॥९॥
स्वधीतस्यापि च फलं दृश्यतेऽमुत्र चेह च
।
इहलोकेऽथवा नित्यं ब्रह्मलोके च मोदते ॥१०॥
दमस्य तु फलं राजञ्छृणु त्वं विस्तरेण मे
।
दान्ताः सर्वत्र सुखिनो दान्ताः सर्वत्र निर्वृताः ॥११॥
यत्रेच्छागामिनो दान्ताः सर्वशत्रुनिषूदनाः
।
प्रार्थयन्ति च यद्दान्ता लभन्ते तन्न संशयः ॥१२॥
युज्यन्ते सर्वकामैर्हि दान्ताः सर्वत्र पाण्डव
।
स्वर्गे यथा प्रमोदन्ते तपसा विक्रमेण च ॥१३॥
दानैर्यज्ञैश्च विविधैस्तथा दान्ताः क्षमान्विताः
।
दानाद्दमो विशिष्टो हि ददत्किञ्चिद्द्विजातये ॥१४॥
दाता कुप्यति नो दान्तस्तस्माद्दानात्परं दमः
।
यस्तु दद्यादकुप्यह्नि तस्य लोकाः सनातनाः ॥१५॥
क्रोधो हन्ति हि यद्दानं तस्माद्दानात्परं दमः
।
अदृश्यानि महाराज स्थानान्ययुतशो दिवि ॥१६॥
ऋषीणां सर्वलोकेषु यानि ते यान्ति देवताः
।
दमेन यानि नृपते गच्छन्ति परमर्षयः ॥१७॥
कामयाना महत्स्थानं तस्माद्दानात्परं दमः
।
अध्यापकः परिक्लेशादक्षयं फलमश्नुते ॥१८॥
विधिवत्पावकं हुत्वा ब्रह्मलोके नराधिप
।
अधीत्यापि हि यो वेदान्न्यायविद्भ्यः प्रयच्छति ॥१९॥
गुरुकर्मप्रशंसी तु सोऽपि स्वर्गे महीयते
।
क्षत्रियोऽध्ययने युक्तो यजने दानकर्मणि
।
युद्धे यश्च परित्राता सोऽपि स्वर्गे महीयते ॥२०॥
वैश्यः स्वकर्मनिरतः प्रदानाल्लभते महत्
।
शूद्रः स्वकर्मनिरतः स्वर्गं शुश्रूषयाऽर्च्छति ॥२१॥
शूरा बहुविधाः प्रोक्तास्तेषामर्थांस्तु मे शृणु
।
शूरान्वयानां निर्दिष्टं फलं शूरस्य चैव हि ॥२२॥
यज्ञशूरा दमे शूराः सत्यशूरास्तथाऽपरे
।
युद्धशूरास्तथैवोक्ता दानशूराश्च मानवाः ॥२३॥
सांख्यशूराश्च बहवो योगशूरास्तथाऽपरे
।
अरण्ये गृहवासे च त्यागे शूरास्तथाऽपरे ॥२४॥
आर्जवे च तथा शूराः शमे वर्तन्ति मानवाः
।
तैस्तैश्च नियमैः शूरा बहवः सन्ति चापरे
।
वेदाध्ययनशूराश्च शूराश्चाध्यापने रताः ॥२५॥
गुरुशुश्रूषया शूराः पितृशुश्रूषयाऽपरे
।
मातृशुश्रूषया शूरा भैक्ष्यशूरास्तथाऽपरे ॥२६॥
अरण्ये गृहवासे च शूराश्चातिथिपूजने
।
सर्वे यान्ति परान्लोकान् स्वकर्मफलनिर्जितान् ॥२७॥
धारणं सर्ववेदानां सर्वतीर्थावगाहनम्
।
सत्यं च ब्रुवतो नित्यं समं वा स्यान्न वा समम् ॥२८॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम्
।
अश्वमेधसस्राद्धि सत्यमेव विशिष्यते ॥२९॥
सत्येन सूर्यस्तपति सन्येनाग्निः प्रदीप्यते
।
सत्येन मरुतो वान्ति सर्वं सत्ये प्रतिष्ठितम् ॥३०॥
सत्येन देवाः प्रीयन्ते पितरो ब्राह्मणास्तथा
।
सत्यमाहुः परो धर्मस्तस्मात्सत्यं न लङ्घयेत ॥३१॥
मुनयः सत्यनिरता मुनयः सत्यविक्रमाः
।
मुनयः सत्यशपथास्तस्मात्सत्यं विशिष्यते ॥३२॥
सत्यवन्तः स्वर्गलोके मोदन्ते भरतर्षभ
।
दमः सत्यफलावाप्तिरुक्ता सर्वात्मना मया ॥३३॥
असंशयं विनीतात्मा स वै स्वर्गे महीयते
।
ब्रह्मचर्यस्य च गुणं शृणु त्वं वसुधाधिप ॥३४॥
आजन्ममरणाद्यस्तु ब्रह्मचारी भवेदिह
।
न तस्य किञ्चिदप्राप्यमिति विद्धि नराधिप ॥३५॥
बह्व्यः कोट्यस्त्वृषीणां तु ब्रह्मलोके वसन्त्युत
।
सत्ये रतानां सततं दान्तानामूर्ध्वरेतसाम् ॥३६॥
ब्रह्मचर्यं दहेद्राजन् सर्वपापान्युपासितम्
।
ब्राह्मणेन विशेषेण ब्राह्मणो ह्यग्निरुच्यते ॥३७॥
प्रत्यक्षं हि तथा ह्येतद्ब्राह्मणेषु तपस्विषु
।
बिभेति हि यथा शक्रो ब्रह्मचारिप्रधर्षितः ॥३८॥
तद्ब्रह्मचर्यस्य फलमृषीणामिह दृश्यते
।
मातापित्रोः पूजने यो धर्मस्तमपि मे शृणु ॥३९॥
शुश्रूषते यः पितरं न चासूयेत्कदाचन
।
मातरं भ्रातरं वापि गुरुमाचार्यमेव च ॥४०॥
तस्य राजन्फलं विद्धि स्वर्लोके स्थानमर्चितम्
।
न च पश्येत नरकं गुरुशुश्रूषयाऽऽत्मवान् ॥४१॥
युधिष्ठिर उवाच। विधिं गवां परं श्रोतुमिच्छामि नृप तत्त्वतः
।
येन तान् शाश्वताँल्लोकानर्थिनां प्राप्नुयादिह ॥१॥
भीष्म उवाच। न गोदानात्परं किञ्चिद्विद्यते वसुधाधिप
।
गौर्हि न्यायागता दत्ता सद्यस्तारयते कुलम् ॥२॥
सतामर्थे सम्यगुत्पादितो यः स वै क्लृप्तः सम्यगाभ्यः प्रजाभ्यः
।
तस्मात्पूर्वं ह्यादिकालप्रवृत्तं गोदानार्थं शृणु राजन्विधिं मे ॥३॥
पुरा गोषूपनीतासु गोषु सन्दिग्धदर्शिना
।
मां धात्रा प्रकृतं प्रश्नं बृहस्पतिरभाषत ॥४॥
द्विजातिमतिसत्कृत्य श्वः कालमभिवेद्य च
।
गोदानार्थे प्रयुञ्जीत रोहिणीं नियतव्रतः ॥५॥
आह्वानं च प्रयुञ्जीत समङ्गे बहुलेति च
।
प्रविश्य च गवां मध्यमिमां श्रुतिमुदाहरेत् ॥६॥
गौर्मे माता वृषभः पिता मे दिवं शर्म जगती मे प्रतिष्ठा
।
प्रपद्यैवं शर्वरीमुष्य गोषु पुनर्वाणीमुत्सृजेद्गोप्रदाने ॥७॥
स तामेकां निशां गोभिः समसख्यः समव्रतः
।
ऐकात्म्यगमनात्सद्यः कलुषाद्विप्रमुच्यते ॥८॥
उत्सृष्टवृषवत्सा हि प्रदेया सूर्यदर्शने
।
त्रिदिवं प्रतिपत्तव्यमर्थवादाशिषस्तव ॥९॥
ऊर्जस्विन्य ऊर्जमेधाश्च यज्ञे गर्भोऽमृतस्य जगतोऽस्य प्रतिष्ठा
।
क्षिते रोहः प्रवहः शश्वदेव प्राजापत्याः सर्वमित्यर्थवादाः ॥१०॥
गावो ममैनः प्रणुदन्तु सौर्यास्तथा सौम्याः स्वर्गयानाय सन्तु
।
आत्मानं मे मातृवच्चाश्रयन्तु तथाऽनुक्ताः सन्तु सर्वाशिषो मे ॥११॥
शेषोत्सर्गे कर्मभिर्देहमोक्षे सरस्वत्यः श्रेयसे संप्रवृत्ताः
।
यूयं नित्यं सर्वपुण्योपवाह्यां दिशध्वं मे गतिमिष्टां प्रसन्नाः ॥१२॥
या वै यूयं सोऽहमद्यैव भावो युष्मान्दत्वा चाहमात्मप्रदाता
।
मनश्च्युता मन एवोपपन्नाः सन्धुक्षध्वं सौम्यरूपोग्ररूपाः ॥१३॥
एवं तस्याग्रे पूर्वमर्धं वदेत गवां दाता विधिवत्पूर्वदृष्टः
।
प्रतिब्रूयाच्छेषमर्धं द्विजातिः प्रतिगृह्णन्वै गोप्रदाने विधिज्ञः ॥१४॥
गोप्रदानीति वक्तव्यमर्घ्यवस्त्रवसुप्रदः
।
ऊर्ध्वास्या भवितव्या च वैष्णवीति च चोदयेत् ॥१५॥
नाम सङ्कीर्तयेत्तस्या यथासंख्योत्तरं स वै
।
फलं षट्त्रिंशदष्टौ च सहस्राणि च विंशतिः ॥१६॥
एवमेतान् गुणान्विद्याद्गवादीनां यथाक्रमम्
।
गोप्रदाता समाप्नोति समस्तानष्टमे क्रमे ॥१७॥
गोदः शीली निर्भयश्चार्घदाता न स्याद्दुःखी वसुदाता च कामम्
।
उषस्योढा भारते यश्च विद्वान् विख्यातास्ते वैष्णवाश्चन्द्रलोकाः ॥१८॥
गा वै दत्वा गोव्रती स्यात्त्रिरात्रं निशां चैकां संवसेतेह ताभिः
।
कामाष्टम्यां वर्तितव्यं त्रिरात्रं रसैर्वा गोः शकृता प्रस्नवैर्वा ॥१९॥
देवव्रती स्याद्वृषभप्रदाने वेदावाप्तिर्गोयुगस्य प्रदाने
।
तथा गवां विधिमासाद्य यज्वा लोकानग्र्यान्विन्दते नाविधिज्ञः ॥२०॥
कामान्सर्वान्पार्थिवानेकसंस्थान्यो वै दद्यात्कामदुघाञ्च धेनुम्
।
सम्यक्ताः स्युर्हव्यकव्यौघवत्यस्तासामुक्ष्णां ज्यायसां संप्रदानम् ॥२१॥
न चाशिष्यायाव्रतायोपकुर्यान्नाश्रद्दधानाय न वक्रबुद्धये
।
गुह्यो ह्ययं सर्वलोकस्य धर्मो नेमं धर्मं यत्र तत्र प्रजल्पेत् ॥२२॥
सन्ति लोके श्रद्दधाना मनुष्याः सन्ति क्षुद्रा राक्षसमानुषेषु
।
एषामेतद्दीयमानं ह्यनिष्टं ये नास्तिक्यं चाश्रयन्तेऽल्पपुण्याः ॥२३॥
बार्हस्पत्यं वाक्यमेतन्निशम्य ये राजानो गोप्रदानानि दत्वा
।
लोकान्प्राप्ताः पुण्यशीलाः प्रवृत्तास्तान्मे राजन्कीर्त्यमानान्निबोध ॥२४॥
उशीनरो विष्वगश्वो नृगश्च भगीरथो विश्रुतो यौवनाश्वः
।
मान्धाता वै मुचुकुन्दश्च राजा भूरिद्युम्नो नैषधः सोमकश्च ॥२५॥
पुरूरवो भरतश्चक्रवर्ती यस्यान्ववाये भरताः सर्व एव
।
तथा वीरो दाशरथिश्च रामो ये चाप्यन्ये विश्रुताः कीर्तिमन्तः ॥२६॥
तथा राजा पृथुकर्मा दिलीपो दिवं प्राप्तो गोप्रदानैर्विधिज्ञः
।
यज्ञैर्दानैस्तपसा राजधर्मैर्मान्धाताऽभूद्गोप्रदानैश्च युक्तः ॥२७॥
तस्मात्पार्थ त्वमपीमां मयोक्तां बार्हस्पतीं भारतीं धारयस्व
।
द्विजाग्र्येभ्यः संप्रयच्छस्व प्रीतो गाः पुण्या वै प्राप्य राज्यं कुरूणाम् ॥२८॥
वैशम्पायन उवाच। तथा सर्वं कृतवान्धर्मराजो भीष्मेणोक्तो विधिवद्गोप्रदाने
।
स मान्धातुर्वेद देवोपदिष्टं सम्यग्धर्मं धारयामास राजा ॥२९॥
इति नृप सततं गवां प्रदाने यवशकलान्सहू गोमयैः पिबानः
।
क्षितितलशयनः शिखी यतात्मा वृष इव राजवृषस्तदा बभूव ॥३०॥
नरपतिरभवत्सदैवताभ्यः प्रयतमनास्त्वभिसंस्तुवंश्च ताः स्म
।
नृपतिधुरि च गामयुक्त भूपस्तुरगवरैरगमच्च यत्र तत्र ॥३१॥
वैशम्पायन उवाच। ततो युधिष्ठिरो राजा भूयः शान्तनवं नृपम्
।
गोदानविस्तरं धर्मान्पप्रच्छ विनयान्वितः ॥१॥
युधिष्ठिर उवाच। गोप्रदानगुणान्सम्यक् पुनर्मे ब्रूहि भारत
।
न हि तृप्याम्यहं वीर शृण्वानोऽमृतमीदृशम् ॥२॥
वैशम्पायन उवाच। इत्युक्तो धर्मराजेन तदा शान्तनवो नृपः
।
सम्यगाह गुणांस्तस्मै गोप्रदानस्य केवलान् ॥३॥
भीष्म उवाच। वत्सलां गुणसंपन्नां तरुणीं वस्त्रसंयुताम्
।
दत्वेदृशीं गां विप्राय सर्वपापैः प्रमुच्यते ॥४॥
असुर्या नाम ते लोका गां दत्त्वा तान्न गच्छति
।
पीतोदकां जग्धतृणां नष्टक्षीरां निरिन्द्रियाम् ॥५॥
जरारोगोपसंपन्नां जीर्णां वापीमिवाजलाम्
।
दत्त्वा तमः प्रविशति द्विजं क्लेशेन योजयेत् ॥६॥
रुष्टा दुष्टा व्याधिता दुर्बला वा नो दातव्या याश्च मूल्यैरदत्तैः
।
क्लेशैर्विप्रं योऽफलैः संयुनक्ति तस्यावीर्याश्चाफलाश्चैव लोकाः ॥७॥
बलान्विताः शीलवयोपपन्नाः सर्वे प्रशंसन्ति सुगन्धवत्यः
।
यथा हि गङ्गा सरितां वरिष्ठा तथार्जुनीनां कपिला वरिष्ठा ॥८॥
युधिष्ठिर उवाच। कस्मात्समाने बहुलाप्रदाने सद्भिः प्रशस्तं कपिलाप्रदानम्
।
विशेषमिच्छामि महाप्रभावं श्रोतुं समर्थोऽस्मि भवान्प्रवक्तुम् ॥९॥
भीष्म उवाच। वृद्धानां ब्रुवतां तात श्रुतं मे यत्पुरातनम्
।
वक्ष्यामि तदशेषेण रोहिण्यो निर्मिता यथा ॥१०॥
प्रजा सृजेति चादिष्टः पूर्वं दक्षः स्वयंभुवा
।
असृजद्वृत्तिमेवाग्रे प्रजानां हितकाम्यया ॥११॥
यथा ह्यमृतमाश्रित्य वर्तयन्ति दिवौकसः
।
तथा वृत्तिं समाश्रित्य वर्तयन्ति प्रजा विभो ॥१२॥
अचरेभ्यश्च भूतेभ्यश्चराः श्रेष्ठाः सदा नराः
।
ब्राह्मणाश्च ततः श्रेष्ठास्तेषु यज्ञाः प्रतिष्ठिताः ॥१३॥
यज्ञैरवाप्यते सोमः स च गोषु प्रतिष्ठितः
।
ततो देवाः प्रमोदन्ते पूर्वं वृत्तिस्ततः प्रजाः ॥१४॥
प्रजातान्येव भूतानि प्राक्रोशन्वृत्तिकांक्षया
।
वृत्तिदं चान्वपद्यन्त तृषिताः पितृमातृवत् ॥१५॥
इतीदं मनसा गत्वा प्रजासर्गार्थमात्मनः
।
प्रजापतिस्तु भगवानमृतं प्रापिबत्तदा ॥१६॥
स गतस्तस्य तृप्तिं तु गन्धं सुरभिमुद्गिरन्
।
ददर्शोद्गारसंवृत्तां सुरभिं मुस्वजां सुताम् ॥१७॥
साऽसृजत्सौरभेयीस्तु सुरभिर्लोकमातृकाः
।
सुवर्णवर्णाः कपिलाः प्रजानां वृत्तिधेनवः ॥१८॥
तासाममृतवर्णानां क्षरन्तीनां समन्ततः
।
बभूवामृतजः फेनः स्रवन्तीनामिवोर्मिजः ॥१९॥
स वत्समुखविभ्रष्टो भवस्य भुवि तिष्ठतः
।
शिरस्यवाप तत्क्रुद्धः स तदैक्षत च प्रभुः ॥२०॥
ललाटप्रभवेणाक्ष्णा रोहिणीं प्रदहन्निव
।
तत्तेजस्तु ततो रौद्रं कपिलास्ता विशांपते ॥२१॥
नानावर्णत्वमनयन्मेघानिव दिवाकरः
।
यास्तु तस्मादपक्रम्य सोममेवाभिसंश्रिताः ॥२२॥
यथोत्पन्नाः स्ववर्णास्थास्ता नीताश्चान्यवर्णताम्
।
अथ क्रुद्धं महादेवं प्रजापतिरभाषत ॥२३॥
अमृतेनावसिक्तस्त्वं नोच्छिष्टं विद्यते गवाम्
।
यथा ह्यमृतमादाय सोमो विस्यन्दते पुनः ॥२४॥
तथा क्षीरं क्षरन्त्येता रोहिण्योऽमृतसंभवम्
।
न दुष्यत्यनिलो नाग्निर्न सुवर्णं न चोदधिः ॥२५॥
नामृतेनामृतं पीतं वत्सपीता न वत्सला
।
इमान्लोकान्भरिष्यन्ति हविषा प्रस्रवेण च ॥२६॥
आसामैश्वर्यमिच्छन्ति सर्वेऽमृतमयं शुभम्
।
वृषभं च ददौ तस्मै सह गोभिः प्रजापतिः ॥२७॥
प्रसादयामास मनस्तेन रुद्रस्य भारत
।
प्रीतश्चापि महादेवश्चकार वृषभं तदा ॥२८॥
ध्वजं च वाहनं चैव तस्मात्स वृषभध्वजः
।
ततो देवैर्महादेवस्तदा पशुपतिः कृतः
।
ईश्वरः स गवां मध्ये वृषभाङ्कः प्रकीर्तितः ॥२९॥
एवमव्यग्रवर्णानां कपिलानां महौजसाम्
।
प्रदाने प्रथमः कल्पः सर्वासामेव कीर्तितः ॥३०॥
लोकज्येष्ठा लोकवृत्तिप्रवृत्ता रुद्रोपेताः सोमविष्यन्दभूताः
।
सौम्याः पुण्याः कामदाः प्राणदाश्च गा वै दत्त्वा सर्वकामप्रदः स्यात् ॥३१॥
इदं गवां प्रभवविधानमुत्तमं पठन्सदाऽशुचिरपि मङ्गलप्रियः
।
विमुच्यते कलिकलुषेण मानवः श्रियं सुतान् धनपशुमाप्नुयात्सदा ॥३२॥
हव्यं कव्यं तर्पणं शान्तिकर्म यानं वासो वृद्धबालस्य तुष्टिः
।
एतान्सर्वान् गोप्रदाने गुणान्वै दाता राजन्नाप्नुयाद्वै सदैव ॥३३॥
वैशम्पायन उवाच। पितामहस्याथ निशम्य वाक्यं राजा सह भ्रातृभिराजमीढः
।
सुवर्णवर्णानडुहस्तथा गाः पार्थो ददौ ब्राह्मणसत्तमेभ्यः ॥३४॥
तथैव तेभ्योऽपि ददौ द्विजेभ्यो गवां सहस्राणि शतानि चैव
।
यज्ञान्समुद्दिश्य च दक्षिणार्थे लोकान्विजेतुं परमां च कीर्तिम् ॥३५॥
भीष्म उवाच। एतस्मिन्नेव काले तु वसिष्ठमृषिसत्तमम्
।
इक्ष्वाकुवंशजो राजा सौदासो वदतां वरः ॥१॥
सर्वलोकचरं सिद्धं ब्रह्मकोशं सनातनम्
।
पुरोहितमभिप्रष्टुमभिवाद्योपचक्रमे ॥२॥
सौदास उवाच
।
त्रैलोक्ये भगवन्किंस्वित्पवित्रं कथ्यतेऽनघ
।
यत्कीर्तयन्सदा मर्त्यः प्राप्नुयात्पुण्यमुत्तमम् ॥३॥
भीष्म उवाच। तस्मै प्रोवाच वचनं प्रणताय हितं तदा
।
गवामुपनिषद्विद्वान्नमस्कृत्य गवां शुचिः ॥४॥
गावः सुरभिगन्धिन्यस्तथा गुग्गुलुगन्धयः
।
गावः प्रतिष्ठा भूतानां गावः स्वस्त्ययनं महत् ॥५॥
गावो भूतं च भव्यं च गावः पुष्टिः सनातनी
।
गावो लक्ष्म्यास्तथा मूलं गोषु दत्तं न नश्यति ॥६॥
अन्नं हि परमं गावो देवानां परमं हविः
।
स्वाहाकारवषट्कारौ गोषु नित्यं प्रतिष्ठितौ ॥७॥
गावो यज्ञस्य हि फलं गोषु यज्ञाः प्रतिष्ठिताः
।
गावो भविष्यं भूतं च गोषु यज्ञाः प्रतिष्ठिताः ॥८॥
सायं प्रातश्च सततं होमकाले महाद्युते
।
गावो ददति वै हौम्यमृषिभ्यः पुरुषर्षभ ॥९॥
यानि कानि च दुर्गाणि दुष्कृतानि कृतानि च
।
तरन्ति चैव पाप्मानं धेनुं ये ददति प्रभो ॥१०॥
एकां च दशगुर्दद्याद्दश दद्याच्च गोशती
।
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥११॥
अनाहिताग्निः शतगुरयज्वा च सहस्रगुः
।
समृद्धो यश्च कीनाशो नार्घमर्हन्ति ते त्रयः ॥१२॥
कपिलां ये प्रयच्छन्ति सवत्सां कांस्यदोहनाम्
।
सुव्रतां वस्त्रसंवीतामुभौ लोकौ जयन्ति ते ॥१३॥
युवानमिन्द्रियोपेतं शतेन शतयूथपम्
।
गवेन्द्रं ब्राह्मणेन्द्राय भूरिशृङ्गमलङ्कृतम् ॥१४॥
वृषभं ये प्रयच्छन्ति श्रोत्रियाय परन्तप
।
ऐश्वर्यं तेऽधिगच्छन्ति जायमानाः पुनः पुनः ॥१५॥
नाकीर्तयित्वा गाः सुप्यात्तासां संस्मृत्य चोत्पतेत्
।
सायंप्रातर्नमस्येच्च गास्ततः पुष्टिमाप्नुयात् ॥१६॥
गवां मूत्रपुरीषस्य नोद्विजेत कथञ्चन
।
न चासां मांसमश्नीयाद्गवां पुष्टिं तथाप्नुयात् ॥१७॥
गाश्च संकीर्तयेन्नित्यं नावमन्येत तास्तथा
।
अनिष्टं स्वप्नमालक्ष्य गां नरः संप्रकीर्तयेत् ॥१८॥
गोमयेन सदा स्नायात्करीषे चापि संविशेत्
।
श्लेष्ममूत्रपुरीषाणि प्रतिघातं च वर्जयेत् ॥१९॥
सार्द्रे चर्मणि भुञ्जीत निरीक्षेद्वारुणीं दिशम्
।
वाग्यतः सर्पिषा भूमौ गवां पुष्टिं सदाऽश्नुते ॥२०॥
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्
।
घृतं दद्याद्घृतं प्राशेद्गवां पुष्टिं सदाऽश्नुते ॥२१॥
गोमत्या विद्यया धेनुं तिलानामभिमन्त्र्य यः
।
सर्वरत्नमयीं दद्यान्न स शोचेत्कृताकृते ॥२२॥
गावो मामुपतिष्ठन्तु हेमशृंग्यः पयोमुचः
।
सुरभ्यः सौरभेय्यश्च सरितः सागरं यथा ॥२३॥
गा वै पश्याम्यहं नित्यं गावः पश्यन्तु मां सदा
।
गावोऽस्माकं वयं तासां यतो गावस्ततो वयम् ॥२४॥
एवं रात्रौ दिवा चापि समेषु विषमेषु च
।
महाभयेषु च नरः कीर्तयन्मुच्यते भयात् ॥२५॥
वसिष्ठ उवाच
।
शतं वर्षसहस्राणां तपस्तप्तं सुदुष्करम्
।
गोभिः पूर्वं विसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥१॥
लोकेऽस्मिन्दक्षिणानां च सर्वासां वयमुत्तमाः
।
भवेम न च लिप्येम दोषेणेति परन्तप ॥२॥
अस्मत्परीषस्नानेन जनः पूयेत सर्वदा
।
शकृता च पवित्रार्थं कुर्वीरन्देवमानुषाः ॥३॥
तथा सर्वाणि भूतानि स्थावराणि चराणि च
।
प्रदातारश्च लोकान्नो गच्छेयुरिति मानद ॥४॥
ताभ्यो वरं ददौ ब्रह्मा तपसोऽन्ते स्वयं प्रभुः
।
एवं भवत्विति प्रभुर्लोकांस्तारयतेति च ॥५॥
उत्तस्थुः सिद्धकामास्ता भूतभव्यस्य मातरः
।
प्रातर्नमस्यास्ता गावस्ततः पुष्टिमवाप्नुयात् ॥६॥
तपसोऽन्ते महाराज गावो लोकपरायणाः
।
तस्माद्गावो महाभागाः पवित्रं परमुच्यते ॥७॥
तथैव सर्वभूतानां समतिष्ठन्त मुर्धनि
।
समानवत्सां कपिलां धेनुं दत्वा पयस्विनीम्
।
सुव्रतां वस्त्रसंवीतां ब्रह्मलोके महीयते ॥८॥
लोहितां तुल्यवत्सां तु धेनुं दत्वा पयस्विनीम्
।
सुव्रतां वस्त्रसंवीतां सूर्यलोके महीयते ॥९॥
समानवत्सां शबलां धेनुं दत्वा पयस्विनीम्
।
सुव्रतां वस्त्रसंवीतां सोमलोके महीयते ॥१०॥
समानवत्सां श्वेतां तु धेनुं दत्वा पयस्विनीम्
।
सुव्रतां वस्त्रसंवीतामिन्द्रलोके महीयते ॥११॥
समानवत्सां कृष्णां तु धेनुं दत्वा पयस्विनीम्
।
सुव्रतां वस्त्रसंवीतामग्निलोके महीयते ॥१२॥
समानवत्सां धूम्रां तु धेनुं दत्वा पयस्विनीम्
।
सुव्रतां वस्त्रसंवीतां याम्यलोके महीयते ॥१३॥
अपां फेनसवर्णां तु सवत्सां कांस्यदोहनाम्
।
प्रदाय वस्त्रसंवीतां वारुणं लोकमाप्नुते ॥१४॥
वातरेणुसवर्णां तु सवत्सां कांस्यदोहनाम्
।
प्रदाय वस्त्रसंवीतां वायुलोके महीयते ॥१५॥
हिरण्यवर्णां पिङ्गाक्षीं सवत्सां कांस्यदाहनाम्
।
प्रदाय वस्त्रसंवीतां कौबेरं लोकमश्नुते ॥१६॥
पलालधूम्रवर्णां तु सवत्सां कांस्यदोहनाम्
।
प्रदाय वस्त्रसंवीतां पितृलोके महीयते ॥१७॥
सवत्सां पीवरीं दत्वा दृतिकण्ठामलङ्कृताम्
।
वैश्वदेवमसम्बाधं स्थानं श्रेष्ठं प्रपद्यते ॥१८॥
समानवत्सां गौरीं तु धेनुं दत्वा पयस्विनीम्
।
सुव्रतां वस्त्रसंवीतां वसूनां लोकमाप्नुयात् ॥१९॥
पाण्डुकम्बलवर्णाभां सवत्सां कांस्यदोहनाम्
।
प्रदाय वस्त्रसंवीतां साध्यानां लोकमाप्नुते ॥२०॥
वैराटपृष्ठमुक्षाणं सर्वरत्नैरलङ्कृतम्
।
प्रददन्मरुतां लोकान्स राजन् प्रतिपद्यते ॥२१॥
वयोपपन्नं लीलाङ्गं सर्वरत्नसमन्वितम्
।
गन्धर्वाप्सरसां लोकान्दत्वा प्राप्नोति मानवः ॥२२॥
दृतिकण्ठमनड्वाहं सर्वरत्नैरलङ्कृतम्
।
दत्त्वा प्रजापतेर्लोकान्विशोकः प्रतिपद्यते ॥२३॥
गोप्रदानरतो याति भित्त्वा जलदसञ्चयान्
।
विमानेनार्कवर्णेन दिवि राजन्विराजते ॥२४॥
तं चारुवेषाः सुश्रोण्यः सहस्रं सुरयोषितः
।
रमयन्ति नरश्रेष्ठं गोप्रदानरतं नरम् ॥२५॥
वीणानां वल्लकीनां च नूपुराणां च सिञ्जितैः
।
हासैश्च हरिणाक्षीणां सुप्तः स प्रतिबोध्यते ॥२६॥
यावन्ति रोमाणि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः
।
स्वर्गच्युतश्चापि ततो नृलोके प्रसूयते वै विपुले गृहे सः ॥२७॥
वसिष्ठ उवाच
।
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः
।
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे ॥१॥
घृतं मे हृदये नित्यं घृतं नाभ्यां प्रतिष्ठितम्
।
घृतं सर्वेषु गात्रेषु घृतं मे मनसि स्थितम् ॥२॥
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च
।
गावो मे सर्वतश्चैव गवां मध्ये वसाम्यहम् ॥३॥
इत्याचम्य जपेत्सायं प्रातश्च पुरुषः सदा
।
यदह्ना कुरुते पापं तस्मात्स परिमुच्यते ॥४॥
प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा
।
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः ॥५॥
नवनीतपङ्काः क्षीरोदा दधिशैवलसंकुलाः
।
वहन्ति यत्र वै नद्यस्तत्र यान्ति सहस्रदाः ॥६॥
गवां शतसहस्रं तु यः प्रयच्छेद्यथाविधि
।
परां वृद्धिमवाप्याथ स्वर्गलोके महीयते ॥७॥
दश चोभयतः पुत्रो मातापित्रोः पितामहान्
।
दधाति सुकृतान्लोकान्पुनाति च कुलं नरः ॥८॥
धेन्वाः प्रमाणेन समप्रमाणां धेनुं तिलानामपि च प्रदाय
।
पानीयदाता च यमस्य लोके न यातनां काञ्चिदुपैति तत्र ॥९॥
पवित्रमग्र्यं जगतः प्रतिष्ठा दिवौकसां मातरोऽथाप्रमेयाः
।
अन्वालभेद्दक्षिणतो व्रजेच्च दद्याच्च पात्रे प्रसमीक्ष्य कालम् ॥१०॥
धेनुं सवत्सां कपिलां भूरिशृङ्गीं कांस्योपदोहां वसनोत्तरीयाम्
।
प्रदाय तां गाहति दुर्विगाह्यां याम्यां सभां वीतभयो मनुष्यः ॥११॥
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः
।
गावो मामुपतिष्ठन्तामिति नित्यं प्रकीर्तयेत् ॥१२॥
नातः पुण्यतरं दानं नातः पुण्यतरं फलम्
।
नातो विशिष्टं लोकेषु भूतं भवितुमर्हति ॥१३॥
त्वचा लोम्नाऽथ शृङ्गैर्वा वालैः क्षीरेण मेदसा
।
यज्ञं वहति संभूय किमस्त्यभ्यधिकं ततः ॥१४॥
यया सर्वमिदं व्याप्तं जगत्स्थावरजङ्गमम्
।
तां धेनुं शिरसा वन्दे भूतभव्यस्य मातरम् ॥१५॥
गुणवचनसमुच्चयैकदेशो नृवर मयैष गवां प्रकीर्तितस्ते
।
न च परमिह दानमस्ति गोभ्यो भवति न चापि परायणं तथाऽन्यत् ॥१६॥
भीष्म उवाच। वरमिदमिति भूमिदो विचिन्त्य प्रवरमृषेर्वचनं ततो महात्मा
।
व्यसृजत नियतात्मवान्द्विजेभ्यः सुबहु च गोधनमाप्तवांश्च लोकान् ॥१७॥
युधिष्ठिर उवाच। पवित्राणां पवित्रं यच्छिष्टं लोके च यद्भवेत्
।
पावनं परमं चैव तन्मे ब्रूहि पितामह ॥१॥
भष्मि उवाच
।
गावो महार्थाः पुण्याश्च तारयन्ति च मानवान्
।
धारयन्ति प्रजाश्चेमा हविषा पयसा तथा ॥२॥
न हि पुण्यतमं किञ्चिद्गोभ्यो भरतसत्तम
।
एताः पुण्याः पवित्राश्च त्रिषु लोकेषु सत्तमाः ॥३॥
देवानामुपरिष्टाच्च गावः प्रतिवसन्ति वै
।
दत्वा चैतास्तारयते यान्ति स्वर्गं मनीषिणः ॥४॥
मांधाता यौवनाश्वश्च ययातिर्नहुषस्तथा
।
गा वै ददन्तः सततं सहस्रशतसम्मिताः ॥५॥
गताः परमकं स्थानं देवैरपि सुदुर्लभम्
।
अपि चात्र पुरागीतां कथयिष्यामि तेऽनघ ॥६॥
ऋषीणामुत्तमं धीमान्कृष्णद्वैपायनं शुकः
।
अभिवाद्याह्निककृतः शुचिः प्रयतमानसः॥७॥
पितरं परिपप्रच्छ दृष्टलोकपरावरम्
।
को यज्ञः सर्वयज्ञानां वरिष्ठोऽभ्युपलक्ष्यते ॥८॥
किं च कृत्वा परं स्थानं प्राप्नुवन्ति मनीषिणः
।
केन देवाः पवित्रेण स्वर्गमश्नन्ति वा विभो ॥९॥
किं च यज्ञस्य यज्ञत्वं क्व च यज्ञः प्रतिष्ठितः
।
देवानामुत्तमं किं च किं च सत्रमितः परम् ॥१०॥
पवित्राणां पवित्रं च यत्तद्ब्रूहि पितर्मम
।
एतच्छ्रुत्वा तु वचनं व्यासः परमधर्मवित्
।
पुत्रायाकथयत्सर्वं तत्त्वेन भरतर्षभ ॥११॥
व्यास उवाच
।
गावः प्रतिष्ठा भूतानां तथा गावः परायणम्
।
गावः पुण्याः पवित्राश्च गोधनं पावनं तथा ॥१२॥
पूर्वमासन्नशृङ्गा वै गाव इत्यनुशुश्रुम
।
शृङ्गार्थे समुपासन्त ताः किल प्रभुमव्ययम् ॥१३॥
ततो ब्रह्मा तु गाः प्रायमुपविष्टाः समीक्ष्य ह
।
ईप्सितं प्रददौ ताभ्यो गोभ्यः प्रत्येकशः प्रभुः॥१४॥
तासां शृङ्गाण्यजायन्त यस्या यादृङ्मनोगतम्
।
नानावर्णाः शृङ्गवन्त्यस्ता व्यरोचन्त पुत्रक ॥१५॥
ब्रह्मणा वरदत्तास्ता हव्यकव्यप्रदाः शुभाः
।
पुण्याः पवित्राः सुभगा दिव्यसंस्थानलक्षणाः॥१६॥
गावस्तेजो महद्दिव्यं गवां दानं प्रशस्यते
।
ये चैताः सम्प्रयच्छन्ति साधवो वीतमत्सराः ॥१७॥
ते वै सुकृतिनः प्रोक्ताः सर्वदानप्रदाश्च ते
।
गवां लोकं तथा पुण्यमाप्नुवन्ति च तेऽनघ ॥१८॥
यत्र वृक्षा मधुफला दिव्यपुष्पफलोपगाः
।
पुष्पाणि च सुगन्धीनि दिव्यानि द्विजसत्तम ॥१९॥
सर्वा मणिमयी भूमिः सर्वकाञ्चनवालुकाः
।
सर्वर्तुसुखसंस्पर्शा निप्पङ्का निरजाः शुभाः ॥२०॥
रक्तोत्पलवनैश्चैव मणिखण्डैर्हिरण्मयैः
।
तरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः ॥२१॥
महार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः
।
नीलोत्पलविमिश्रैश्च सरोभिर्बहुपङ्कजैः ॥२२॥
करवीरवनैः फुल्लैः सहस्रावर्तसंवृतैः
।
सन्तानकवनैः फुल्लैवृक्षैश्च समलङ्कृताः ॥२३॥
निर्मलाभिश्च मुक्ताभिर्मणिभिश्च महाप्रभैः
।
उद्भुतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥२४॥
सर्वरत्नमयैश्चित्रैरवगाढा द्रुमोत्तमैः
।
जातरूपमयैश्चान्यैर्हुताशनसमप्रभैः ॥२५॥
सौवर्णा गिरयस्तत्र मणिरत्नशिलोच्चयाः
।
सर्वरत्नमयैर्भान्ति शृंगैश्चारुभिरुच्छ्र्रितैः ॥२६॥
नित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः
।
दिव्यगन्धरसैः पुष्पैः फलैश्च भरतर्षम ॥२७॥
रमन्ते पुण्यकर्माणस्तत्र नित्यं युधिष्ठिर
।
सर्वकामसमृद्धार्था निःशोका गतमन्यवः ॥२८॥
विमानेषु विचित्रेषु रमणीयेषु भारत
।
मोदन्ते पुण्यकर्माणो विहरन्तो यशस्विनः ॥२९॥
उपक्रीडन्ति तान् राजन् शुभाश्चाप्सरसां गणाः
।
एतान्लोकानवाप्नोति गां दत्वा वै युधिष्ठिर ॥३०॥
येषामधिपतिः पूषा मारुतो बलवान्बली
।
ऐश्वर्ये वरुणो राजा नाममात्रं युगन्धरः ॥३१॥
सुरूपा बहुरूपाश्च विश्वरूपाश्च मातरः
।
प्राजापत्यमिति ब्रह्मन् जपेन्नित्यं यतव्रतः ॥३२॥
गाश्च शुश्रूषते यश्च समन्वेति च सर्वशः
।
तस्मै तुष्टाः प्रयच्छन्ति वरानपि सुदुर्लभान् ॥३३॥
द्रुह्येन्न मनसा वापि गोषु नित्यं सुखप्रदः
।
अर्चयेत सदा चैव नमस्कारैश्च पूजयेत् ॥३४॥
दान्तः प्रीतमना नित्यं गवां व्युष्टिं तथाऽश्नुते
।
त्र्यहमुष्णं पिबेन्मूत्रं त्र्यहमुष्णं पिबेत्पयः ॥३५॥
गवामुष्णं पयः पीत्वा त्र्यहमुष्णं घृतं पिबेत्
।
त्र्यहमुष्णं घृतं पीत्वा वायुभक्षो भवेत् त्र्यहम् ॥३६॥
येन देवाः पवित्रेण भुञ्जते लोकमुत्तमम्
।
यत्पवित्रं पवित्राणां तद्घृतं शिरसा वहेत् ॥३७॥
घृतेन जुहुयादग्निं घृतेन स्वस्ति वाचयेत्
।
घृतं प्राशेद्घृतं दद्याद्गवां पुष्टिं तथाऽश्नुते ॥३८॥
निर्हतैश्च यवैर्गोभिर्मासं प्रश्रितयावकः
।
ब्रह्महत्यासमं पापं सर्वमेतेन शुध्यते ॥३९॥
पराभवाच्च दैत्यानां देवैः शौचमिदं कृतम्
।
ते देवत्वमपि प्राप्ताः संसिद्धाश्च महाबलाः ॥४०॥
गावः पवित्राः पुण्याश्च पावनं परमं महत्
।
ताश्च दत्त्वा द्विजातिभ्यो नरः स्वर्गमुपाश्नुते ॥४१॥
गवां मध्ये शुचिर्भूत्वा गोमतीं मनसा जपेत्
।
पूताभिरद्भिराचम्य शुचिर्भवति निर्मलः ॥४२॥
अग्निमध्ये गवां मध्ये ब्राह्मणानां च संसदि
।
विद्यावेदव्रतस्नाता ब्राह्मणाः पुण्यकर्मिणः ॥४३॥
अध्यापयेरन् शिष्यान्वै गोमतीं यज्ञसंमिताम्
।
त्रिरात्रोपोषितो भूत्वा गोमतीं लभते वरम् ॥४४॥
पुत्रकामश्च लभते पुत्रं धनमथापि वा
।
पतिकामा च भर्तारं सर्वकामांश्च मानवः ॥४५॥
गावस्तुष्टाः प्रयच्छन्ति सेविता वै न संशयः
।
एवमेता महाभागा यज्ञियाः सर्वकामदाः ॥४६॥
रोहिण्य इति जानीहि नैताभ्यो विद्यते परम्
।
इत्युक्तः स महातेजाः शुकः पित्रा महात्मना
।
पूजयामास गां नित्यं तस्मात्त्वमपि पूजय ॥४७॥
युधिष्ठिर उवाच। मया गवां पुरीषं वै श्रिया जुष्टमिति श्रुतम्
।
एतदिच्छाम्यहं श्रोतुं संशयोऽत्र पितामह ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
गोभिर्नृपेह संवादं श्रिया भरतसत्तम ॥२॥
श्रीः कृत्वेह वपुः कान्तं गोमध्येषु विवेश ह
।
गावोऽथ विस्मितास्तस्या दृष्ट्वा रूपस्य संपदम् ॥३॥
गाव ऊचुः
।
काऽसि देवि कुतो वा त्वं रूपेणाप्रतिमा भुवि
।
विस्मिताः स्म महाभागे तव रूपस्य सम्पदा ॥४॥
इच्छाम त्वां वयं ज्ञातुं का त्वं क्व च गमिष्यसि
।
तत्त्वेन वरवर्णा मे सर्वमेतद्ब्रवीहि नः ॥५॥
श्रीरुवाच
।
लोककान्तास्मि भद्रं वः श्रीर्नामाऽहं परिश्रुता
।
मया दैत्याः परित्यक्ता विनष्टाः शाश्वतीः समाः ॥६॥
मयाऽभिपन्ना देवाश्च मोदन्ते शाश्वतीः समाः
।
इन्द्रो विवस्वान्सोमश्च विष्णुरापोऽग्निरेव च ॥७॥
मयाभिपन्नाः सिध्यन्ते ऋषयो देवतास्तथा
।
यान्नाविशाम्यहं गावस्ते विनश्यन्ति सर्वशः ॥८॥
धर्मश्चार्थश्च कामश्च मया जुष्टाः सुखान्विताः
।
एवंप्रभावां मां गावो विजानीत सुखप्रदाः ॥९॥
इच्छामि चापि युष्मासु वस्तुं सर्वासु नित्यदा
।
आगत्य प्रार्थये युष्माञ्छ्रीजुष्टा भवताऽथ वै ॥१०॥
गाव ऊचुः
।
अध्रुवा चपला च त्वं सामान्या बहुभिः सह
।
न त्वामिच्छाम भद्रं ते गम्यतां यत्र रंस्यसे ॥११॥
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाद्य वै
।
यथेष्टं गम्यतां तत्र कृतकार्या वयं त्वया ॥१२॥
श्रीरुवाच
।
किमेतद्वः क्षमं गावो यन्मां नेहाभिनन्दथ
।
न मां संप्रति गृह्णीध्वं कस्माद्वै दुर्लभां सतीम् ॥१३॥
सत्यं च लोकवादोऽयं लोके चरति सुव्रताः
।
स्वयं प्राप्ते परिभवो भवतीति विनिश्चयः ॥१४॥
महदुग्रं तपः कृत्वा मां निषेवन्ति मानवाः
।
देवदानवगन्धर्वाः पिशाचोरगराक्षसाः ॥१५॥
प्रभाव एष वो गावः प्रतिगृह्णीत मामिह
।
नावमन्या ह्यहं सौम्यास्त्रैलोक्ये सचराचरे ॥१६॥
गाव ऊचुः
।
नावमन्यामहे देवि न त्वां परिभवामहे
।
अध्रुवा चलचित्ताऽसि ततस्त्वां वर्जयामहे ॥१७॥
बहुना च किमुक्तेन गम्यतां यत्र वांच्छसि
।
वपुष्मन्त्यो वयं सर्वाः किमस्माकं त्वयाऽनघे ॥१८॥
श्रीरुवाच
।
अवज्ञाता भविष्यामि सर्वलोकस्य मानदाः
।
प्रत्याख्यानेन युष्माकं प्रसादः क्रियतां मम ॥१९॥
महाभागा भवत्यो वै शरण्याः शरणागताम्
।
परित्रायन्तु मां नित्यं भजमानामनिन्दिताम् ॥२०॥
माननामहमिच्छामि भवत्यः सततं शिवाः
।
अप्येकाङ्गेष्वधो वस्तुमिच्छामि च सुकुत्सिते ॥२१॥
न वोऽस्ति कुत्सितं किञ्चिदङ्गेष्वालक्ष्यतेनघाः
।
पुण्याः पवित्राः सुभगा ममादेशं प्रयच्छथ ॥२२॥
वसेयं यत्र वो देहे तन्मे व्याख्यातुमर्हथ
।
एवमुक्तास्ततो गावः शुभाः करुणवत्सलाः
।
संमन्त्र्य सहिताः सर्वाः श्रियमूचुर्नराधिप ॥२३॥
अवश्यं मानना कार्या तवास्माभिर्यशस्विनि
।
शकृन्मूत्रे निवस त्वं पुण्यमेतद्धि नः शुभे ॥२४॥
श्रीरुवाच
।
दिष्ट्या प्रसादो युष्माभिः कृतो मेऽनुग्रहात्मकः
।
एवं भवतु भद्रं वः पूजितास्मि सुखप्रदाः ॥२५॥
एवं कृत्वा तु समयं श्रीर्गोभिः सह भारत
।
पश्यन्तीनां ततस्तासां तत्रैवान्तरधीयत ॥२६॥
एवं गोशकृतः पुत्र माहात्म्यं तेऽनुवर्णितम्
।
माहात्म्यं च गवां भूयः श्रूयतां गदतो मम ॥२७॥
भीष्म उवाच। ये च गां संप्रयच्छन्ति हुतशिष्टाशिनश्च ये
।
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ॥१॥
ऋते दधिघृतेनेह न यज्ञः संप्रवर्तते
।
तेन यज्ञस्य यज्ञत्वमतो मूलं च कथ्यते ॥२॥
दानानामपि सर्वेषां गवां दानं प्रशस्यते
।
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ॥३॥
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह
।
पयोदधिघृतं चासां सर्वपापप्रमोचनम् ॥४॥
गावस्तेजः परं प्रोक्तमिह लोके परत्र च
।
न गोभ्यः परमं किञ्चित्पवित्रं भरतर्षभ ॥५॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ॥६॥
पराभूतेषु दैत्येषु शक्रस्त्रिभुवनेश्वरः
।
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥७॥
अथर्षयः सगन्धर्वाः किन्नरोरगराक्षसाः
।
देवासुरसुपर्णाश्च प्रजानां पतयस्तथा ॥८॥
पर्युपासन्त कौन्तेय कदाचिद्वै पितामहम्
।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः॥९॥
दिव्यतानेषु गायन्तः पर्युपासन्त तं प्रभुम्
।
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तदा ॥१०॥
आजर्ह्रुर्ऋतवश्चापि सुगन्धीनि पृथक् पृथक्
।
तस्मिन्देवसमावाये सर्वभूतसमागमे ॥११॥
दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते
।
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ॥१२॥
देवानां भगवन्कस्माल्लोकेशानां पितामह
।
उपरिष्टाद्गवां लोक एतदिच्छामि वेदितुम् ॥१३॥
किं तपो ब्रह्मचर्यं वा गोभिः कृतमहेश्वर
।
देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ॥१४॥
ततः प्रोवाच ब्रह्मा तं शक्रं बलनिषूदनम्
।
अवज्ञातास्त्वया नित्यं गावो बलनिषूदन ॥१५॥
तेन त्वमासां माहात्म्यं न वेत्सि शृणु यत्प्रभो
।
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ॥१६॥
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव
।
एताभिश्च विना यज्ञो न वर्तेत कथञ्चन ॥१७॥
धारयन्ति प्रजाश्चैव पयसा हविषा तथा
।
एतासां तनयाश्चापि कृषियोगमुपासते ॥१८॥
जनयन्ति च धान्यानि बीजानि विविधानि च
।
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥१९॥
पयोदधिघृतं चैव पुण्याश्चैताः सुराधिप
।
वहन्ति विविधान्भारान्क्षुत्तृष्णापरिपीडिताः॥२०॥
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा
।
वासवाकूटवाहिन्यः कर्मणा सुकृतेन च ॥२१॥
उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि
।
एवं ते कारणं शक्र निवासकृतमद्य वै ॥२२॥
गवां देवोपरिष्टाद्धि समाख्यातं शतक्रतो
।
एता हि वरदत्ताश्च वरदाश्चापि वासव ॥२३॥
सुरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः
।
यदर्थं गां गताश्चैव सुरभ्यः सुरसत्तम ॥२४॥
तच्च मे शृणु कार्त्स्न्येन वदतो बलसूदन
।
पुरा देवयुगे तात देवेन्द्रेषु महात्मसु ॥२५॥
त्रीঁঁल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते
।
अदित्यास्तप्यमानायास्तपो घोरं सुदुश्चरम् ॥२६॥
पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा
।
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः ॥२७॥
दक्षस्य दुहिता देवी सुरभी नाम नामतः
।
अतप्यत तपो घोरं हृष्टा धर्मपरायणा ॥२८॥
कैलासशिखरे रम्ये देवगन्धर्वसेविते
।
व्यतिष्ठदेकपादेन परमं योगमास्थिता ॥२९॥
दशवर्षसहस्राणि दशवर्षशतानि च
।
सन्तप्तास्तपसा तस्या देवाः सर्षिमहोरगाः ॥३०॥
तत्र गत्वा मया सार्धं पर्युपासन्त तां शुभाम्
।
अथाहमब्रुवं तत्र देवीं तां तपसान्विताम् ॥३१॥
किमर्थं तप्यसे देवि तपो घोरमनिन्दिते
।
प्रीतस्तेऽहं महाभागे तपसाऽनेन शोभने ॥३२॥
वरयस्व वरं देवि दातास्मीति पुरन्दर ॥३३॥
सुरभ्युवाच
।
वरेण भगवन्मह्यं कृतं लोकपितामह
।
एष एव वरो मेऽद्य यत्प्रीतोऽसि ममानघ ॥३४॥
ब्रह्मोवाच
।
तामेवं ब्रुवतीं देवीं सुरभि त्रिदशेश्वर
।
प्रत्यब्रुवं यद्देवेन्द्र तन्निबोध शचीपते ॥३५॥
अलोभकाम्यया देवि तपसा च शुभानने
।
प्रसन्नोऽहं वरं तस्मादमरत्वं ददामि ते ॥३६॥
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि
।
मत्प्रसादाच्च विख्यातो गोलोकः संभविष्यति ॥३७॥
मानुषेषु च कुर्वाणाः प्रजाः कर्म शुभास्तव
।
निवत्स्यन्ति महाभागे सर्वा दुहितरश्च ते ॥३८॥
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः
।
यच्च सर्वे सुखं देवि तत्ते सम्पत्स्यते शुभे ॥३९॥
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः
।
न तत्र क्रमते मृत्युर्न जरा न च पावकः ॥४०॥
न दैवं नाशुभं किञ्चिद्विद्यते तत्र वासव
।
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च ॥४१॥
विमानानि सुयुक्तानि कामगानि च वासव
।
ब्रह्मचर्येण तपसा यत्नेन च दमेन च ॥४२॥
दानैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात्
।
तपसा महता चैव सुकृतेन च कर्मणा ॥४३॥
शक्यः समासादयितुं गोलोकः पुष्करेक्षण
।
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते ॥४४॥
न ते परिभवः कार्यो गवामसुरसूदन ॥४५॥
भीष्म उवाच। एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा
।
गाश्चक्रे वहुमानं च तासु नित्यं युधिष्ठिर ॥४६॥
एतत्ते सर्वमाख्यातं पावनं च महाद्युते
।
पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् ॥४७॥
कीर्तितं पुरुषव्याघ्र सर्वपापविमोचनम्
।
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः ॥४८॥
हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह
।
सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठते ॥४९॥
गोषु भक्तश्च लभते यद्यदिच्छति मानवः
।
स्त्रियोऽपि भक्ता या गोषु ताश्च काममवाप्नुयुः ॥५०॥
पुत्रार्थी लभते पुत्रं कन्यार्थी तामवाप्नुयात्
।
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥५१॥
विद्यार्थी चाप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम्
।
न किञ्चिद्दुर्लभं चैव गवां भक्तस्य भारत ॥५२॥
युधिष्ठिर उवाच। उक्तं पितामहेनेदं गवां दानमनुत्तमम्
।
विशेषेण नरेन्द्राणामिह धर्ममवेक्षताम् ॥१॥
राज्यं हि सततं दुःखं दुर्धरं चाकृतात्मभिः
।
भूयिष्ठं च नरेन्द्राणां विद्यते न शुभा गतिः ॥२॥
पूयन्ते तत्र नियतं प्रयच्छन्तो वसुन्धराम्
।
सर्वे च कथिता धर्मास्त्वया मे कुरुनन्दन ॥३॥
एवमेव गवामुक्तं प्रदानं ते नृगेण ह
।
ऋषिणा नाचिकेतेन पूर्वमेव निदर्शितम् ॥४॥
वेदोपनिषदश्चैव सर्वकर्मसु दक्षिणाः
।
सर्वक्रतुषु चोद्दिष्टं भूमिर्गावोऽथ काञ्चनम् ॥५॥
तत्र श्रुतिस्तु परमा सुवर्णं दक्षिणेति वै
।
एतदिच्छाम्यहं श्रोतुं पितामह यथातथम् ॥६॥
किं सुवर्णं कथं जातं कस्मिन्काले किमात्मकम्
।
किं दैवं किं फलं चैव कस्माच्च परमुच्यते ॥७॥
कस्माद्दानं सुवर्णस्य पूजयन्ति मनीषिणः
।
कस्माच्च दक्षिणार्थं तद्यज्ञकर्मसु शस्यते ॥८॥
कस्माच्च पावनं श्रेष्ठं भूमेर्गोभ्यश्च काञ्चनम्
।
परमं दक्षिणार्थे च तद्ब्रवीहि पितामह ॥९॥
भीष्म उवाच। शृणु राजन्नवहितो बहुकारणविस्तरम्
।
जातरूपसमुत्पत्तिमनुभूतं च यन्मया ॥१०॥
पिता मम महातेजाः शान्तनुर्निधनं गतः
।
तस्य दित्सुरहं श्राद्धं गङ्गाद्वारमुपागमम् ॥११॥
तत्राऽऽगम्य पितुः पुत्र श्राद्धकर्म समारभम्
।
माता मे जाह्नवी चात्र साहाय्यमकरोत्तदा ॥१२॥
ततोऽग्रतस्ततः सिद्धानुपवेश्य बहूनृषीन्
।
तोयप्रदानात्प्रभृति कार्याण्यहमथारभम् ॥१३॥
तत्समाप्य यथोद्दिष्टं पूर्वकर्म समाहितः
।
दातुं निर्वपणं सम्यग्यथावदहमारभम् ॥१४॥
ततस्तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः
।
प्रलम्बाभरणो बाहुरुदतिष्ठद्विशाम्पते ॥१५॥
तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम्
।
प्रतिग्रहीता साक्षान्मे पितेति भरतर्षभ ॥१६॥
ततो मे पुनरेवासीत्संज्ञा सञ्चिन्त्य शास्त्रतः
।
नायं वेदेषु विहितो विधिर्हस्त इति प्रभो ॥१७॥
पिण्डो देयो नरेणेह ततो मतिरभून्मम
।
साक्षान्नेह मनुष्यस्य पिण्डं हि पितरः क्वचित् ॥१८॥
गृह्णन्ति विहितं चेत्थं पिण्डो देयः कुशेष्विति
।
ततोऽहं तदनादृत्य पितुर्हस्तनिदर्शनम् ॥१९॥
शास्त्रप्रामाण्यसूक्ष्मं तु विधिं पिण्डस्य संस्मरन्
।
ततो दर्भेषु तत्सर्वमददं भरतर्षभ ॥२०॥
शास्त्रमार्गानुसारेण तद्विद्धि मनुजर्षभ
।
ततः सोन्तर्हितो बाहुः पितुर्मम जनाधिप ॥२१॥
ततो मां दर्शयामासुः स्वप्नान्ते पितरस्तथा
।
प्रीयमाणास्तु मामूचुः प्रीताः स्म भरतर्षभ॥२२॥
विज्ञानेन तवानेन यन्न मुह्यसि धर्मतः
।
त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव ॥२३॥
आत्मा धर्मः श्रुतं वेदाः पितरश्चर्षिभिः सह
।
साक्षात्पितामहो ब्रह्मा गुरवोऽथ प्रजापतिः॥२४॥
प्रमाणमुपनीता वै स्थिताश्च न विचालिताः
।
तदिदं सम्यगारब्धं त्वयाऽद्य भरतर्षभ ॥२५॥
किं तु भूमेर्गवां चार्थे सुवर्णं दीयतामिति
।
एवं वयं च धर्मज्ञ सर्वे चास्मत्पितामहाः ॥२६॥
पाविता वै भविष्यन्ति पावनं हि परं हि तत्
।
दशपूर्वान्दशैवान्यांस्तथासन्तारयन्ति ते ॥२७॥
सुवर्णं ये प्रयच्छन्ति एवं मत्पितरोऽब्रुवन्
।
ततोऽहं विस्मितो राजन्प्रतिबुद्धो विशाम्पते ॥२८॥
सुवर्णदानेऽकरवं मतिं च भरतर्षभ
।
इतिहासमिमं चापि शृणु राजन्पुरातनम् ॥२९॥
जामदग्न्यं प्रति विभो धन्यमायुष्यमेव च
।
जामदग्न्येन रामेण तीव्ररोषान्वितेन वै ॥३०॥
त्रिः सप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा
।
ततो जित्वा महीं कृत्स्नां रामो राजीवलोचनः ॥३१॥
आजहार क्रतुं वीरो ब्रह्मक्षत्रेण पूजितम्
।
वाजिमेधं महाराज सर्वकामसमन्वितम् ॥३२॥
पावनं सर्वभूतानां तेजोद्युतिविवर्धनम्
।
विपाप्मा च स तेजस्वी तेन ऋतुफलेन च ॥३३॥
नैवात्मनोऽथ लघुतां जामदग्न्योऽध्यगच्छत
।
स तु क्रतुवरेणेष्ट्वा महात्मा दक्षिणावता ॥३४॥
पप्रच्छागम सम्पन्नानृषीन्देवांश्च भार्गव
।
पावनं यत्परं नॄणामुग्रे कर्मणि वर्तताम् ॥३५॥
तदुच्यतां महाभागा इति जातघृणोऽब्रवीत्
।
इत्युक्ता वेदशास्त्रज्ञास्तमूचुस्ते महर्षयः ॥३६॥
राम विप्राः सत्क्रियन्तां वेदप्रामाण्यदर्शनात्
।
भूयश्च विप्रर्षिगणाः प्रष्टव्याः पावनं प्रति ॥३७॥
ते यद्ब्रूयुर्महाप्राज्ञास्तच्चैव समुदाचर
।
ततो वसिष्ठं देवर्षिमगस्त्यमथ काश्यपम् ॥३८॥
तमेवार्थं महातेजाः पप्रच्छ भृगुनन्दनः
।
जाता मतिर्मे विप्रेन्द्रा कथं पूयेयमित्युत ॥३९॥
केन वा कर्मयोगेन प्रदानेनेह केन वा
।
यदि वोऽनुग्रहकृता बुद्धिर्मां प्रति सत्तमाः
।
प्रबूत पावनं किं मे भवेदिति तपोधनाः ॥४०॥
ऋषय ऊचुः
।
गाश्च भूमिं च वित्तं च दत्वेह भृगुनन्दन
।
पापकृत्पूयते मर्त्य इति भार्गव शुश्रुम ॥४१॥
अन्यद्दानं तु विप्रर्षे श्रूयतां पावनं महत्
।
दिव्यमत्यद्भुताकारमपत्यं जातवेदसः ॥४२॥
दग्ध्वा लोकान्पुरा वीर्यात्सम्भूतमिह शुश्रुम
।
सुवर्णमिति विख्यातं तद्ददत्सिद्धिमेष्यसि ॥४३॥
ततोऽब्रवीद्वसिष्ठस्तं भगवान्संशितव्रतः
।
शृणु राम यथोत्पन्नं सुवर्णमनलप्रभम् ॥४४॥
फलं दास्यति ते यत्तु दाने परमिहोच्यते
।
सुवर्णं यच्च यस्माच्च यथा च गुणवत्तमम् ॥४५॥
तन्निबोध महाबाहो सर्वं निगदतो मम
।
अग्नीषोमात्मकमिदं सुवर्णं विद्धि निश्चये ॥४६॥
अजोऽग्निर्वरुणो मेषः सूर्योऽश्व इति दर्शनम्
।
कुञ्जराश्च मृगा नागा महिषाश्चासुरा इति ॥४७॥
कुक्कुटाश्च वराहाश्च राक्षसा भृगुनन्दन
।
इडा गावः पयः सोमो भूमिरित्येव च स्मृतिः॥४८॥
जगत्सर्वं च निर्मिथ्य तेजोराशिः समुत्थितः
।
सुवर्णमेभ्यो विप्रर्षे रत्नं परममुत्तमम् ॥४९॥
एतस्मात्कारणाद्देवा गन्धर्वोरगराक्षसाः
।
मनुष्याश्च पिशाचाश्च प्रयता धारयन्ति तत् ॥५०॥
मुकुटैरङ्गदयुतैरलङ्कारैः पृथग्विधैः
।
सुवर्णविकृतैस्तत्र विराजन्ते भृगूत्तम ॥५१॥
तस्मात्सर्वपवित्रेभ्यः पवित्रं परमं स्मृतम्
।
भूमेर्गोभ्योऽथ रत्नेभ्यस्तद्विद्धि मनुजर्षभ ॥५२॥
पृथिवीं गाश्च दत्वेह यच्चान्यदपि किञ्चन
।
विशिष्यते सुवर्णस्य दानं परमकं विभो ॥५३॥
अक्षयं पावनं चैव सुवर्णममरद्युते
।
प्रयच्छ द्विजमुख्येभ्यः पावनं ह्येतदुत्तमम् ॥५४॥
सुवर्णमेव सर्वासु दक्षिणासु विधीयते
।
सुवर्णं ये प्रयच्छन्ति सर्वदास्ते भवन्त्युत ॥५५॥
देवतास्ते प्रयच्छन्ति ये सुवर्णं ददत्यथ
।
अग्निर्हि देवताः सर्वाः सुवर्णं च तदात्मकम् ॥५६॥
तस्मात्सुवर्णं ददता दत्ताः सर्वाः स्म देवताः
।
भवन्ति पुरुषव्याघ्र न ह्यतः परमं विदुः ॥५७॥
भूय एव च माहात्म्यं सुवर्णस्य निबोध मे
।
गदतो मम विप्रर्षे सर्वशस्त्रभृतां वर ॥५८॥
मया श्रुतमिदं पूर्वं पुराणे भृगुनन्दन
।
प्रजापतेः कथयतो यथान्यायं तु तस्य वै ॥५९॥
शूलपाणेर्भगवतो रुद्रस्य च महात्मनः
।
गिरौ हिमवति श्रेष्ठे तदा भृगुकुलोद्वह ॥६०॥
देव्या विवाहे निर्वृत्ते रुद्राण्या भृगुनन्दन
।
समागमे भगवतो देव्या सह महात्मनः ॥६१॥
ततः सर्वे समुद्विग्ना देवा रुद्रमुपागमन्
।
ते महादेवमासीनं देवीं च वरदामुमाम् ॥६२॥
प्रसाद्य शिरसा सर्वे रुद्रमूचुर्भृगूद्वह
।
अयं समागमो देवो देव्या सह तवानघ ॥६३॥
तपस्विनस्तपस्विन्या तेजस्विन्याऽतितेजसः
।
अमोघतेजास्त्वं देव देवी चेयमुमा तथा ॥६४॥
अपत्यं युवयोर्देव बलवद्भविता विभो
।
तन्नूनं त्रिषु लोकेषु न किञ्चिच्छेषयिष्यति ॥६५॥
तदेभ्यः प्रणतेभ्यस्त्वं देवेभ्यः पृथुलोचन
।
वरं प्रयच्छ लोकेश त्रैलोक्यहितकाम्यया ॥६६॥
अपत्यार्थं निगृह्णीष्व तेजः परमकं विभो
।
त्रैलोक्यसारौ हि युवां लोकं सन्तापयिष्यथः॥६७॥
तदपत्यं हि युवयोर्देवानभिभवेद्ध्रुवम्
।
न हि ते पृथिवी देवी न च द्यौर्न दिवं विभो ॥६८॥
नेदं धारयितुं शक्ताः समस्ता इति मे मतिः
।
तेजःप्रभावनिर्दग्धं तस्मात्सर्वमिदं जगत् ॥६९॥
तस्मात्प्रसादं भगवन्कर्तुमर्हसि नः प्रभो
।
न देव्यां सम्भवेत्पुत्रो भवतः सुरसत्तम
।
धैर्यादेव निगृह्णीष्व तेजो ज्वलितमुत्तमम् ॥७०॥
इति तेषां कथयतां भगवान्वृषभध्वजः
।
एवमस्त्विति देवांस्तान्विप्रर्षे प्रत्यभाषत ॥७१॥
इत्युक्त्वा चोर्ध्वमनयद्रेतो वृषभवाहनः
।
ऊर्ध्वरेताः समभवत्ततः प्रभृति चापि सः ॥७२॥
रुद्राणीति ततः क्रुद्धा प्रजोच्छेदे तदा कृते
।
देवानथाब्रवीत्तत्र स्त्रीभावात्परुषं वचः ॥७३॥
यस्मादपत्यकामो वै भर्ता मे विनिवर्तितः
।
तस्मात्सर्वे सुरा यूयमनपत्या भविष्यथ ॥७४॥
प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै
।
तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति ॥७५॥
पावकस्तु न तत्रासीच्छापकाले भृगूद्वह
।
देवा देव्यास्तथा शापादनपत्यास्ततोऽभवन् ॥७६॥
रुद्रस्तु तेजोऽप्रतिमं धारयामास वै तदा
।
प्रस्कन्नं तु ततस्तस्मात्किञ्चित्तत्रापतद्भुवि ॥७७॥
उत्पपात तदा वह्नौ ववृधे चाद्भुतोपमम्
।
तेजस्तेजसि संयुक्तमात्मयोनित्वमागतम् ॥७८॥
एतस्मिन्नेव काले तु देवाः शक्रपुरोगमाः
।
असुरस्तारको नाम तेन सन्तापिता भृशम्॥७९॥
आदित्या वसवो रुद्रा मरुतोऽथाश्विनावपि
।
साध्याश्च सर्वे संत्रस्ता दैतेयस्य पराक्रमात् ॥८०॥
स्थानानि देवतानां हि विमानानि पुराणि च
।
ऋषीणां चाश्रमाश्चैव बभूवुरसुरैर्हृताः ॥८१॥
ते दीनमनसः सर्वे देवता ऋषयश्च ये
।
प्रजग्मुः शरणं देवं ब्रह्माणमजरं विभुम् ॥८२॥
देवा ऊचुः
।
असुरस्तारको नाम त्वया दत्तवरः प्रभो
।
सुरानृषींश्च क्लिश्नाति वधस्तस्य विधीयताम् ॥१॥
तस्माद्भयं समुत्पन्नमस्माकं वै पितामह
।
परित्रायस्व नो देव न ह्यन्या गतिरस्ति नः ॥२॥
ब्रह्मोवाच
।
समोऽहं सर्वभूतानामधर्मं नेह रोचये
।
हन्यतां तारकः क्षिप्रं सुरर्षिगणबाधिता ॥३॥
वेदा धर्माश्च नोच्छेदं गच्छेयुः सुरसत्तमाः
।
विहितं पूर्वमेवात्र मया वै व्येतु वो ज्वरः ॥४॥
देवा ऊचुः
।
वरदानाद्भगवतो दैतेयो बलगर्वितः
।
देवैर्न शक्यते हन्तुं स कथं प्रशमं व्रजेत् ॥५॥
स हि नैव स्म देवानां नासुराणां न रक्षसाम्
।
वध्यः स्यामिति जग्राह वरं त्वत्तः पितामह ॥६॥
देवाश्च शप्ता रुद्राण्या प्रजोच्छेदे पुराकृते
।
न भविष्यति वोऽपत्यमिति सर्वे जगत्पते ॥७॥
ब्रह्मोवाच
।
हुताशनो न तत्रासीच्छापकाले सुरोत्तमाः
।
स उत्पादयिताऽपत्यं वधाय त्रिदशद्विषाम् ॥८॥
तद्वै सर्वानतिक्रम्य देवदानवराक्षसान्
।
मानुषानथ गन्धर्वान्नागानथ च पक्षिणः ॥९॥
अस्त्रेणामोघपातेन शक्त्या तं घातयिष्यति
।
यतो वो भयमुत्पन्नं ये चान्ये सुरशत्रवः ॥१०॥
सनातनो हि सङ्कल्पः काम इत्यभिधीयते
।
रुद्रस्य तेजः प्रस्कन्नमग्नौ निपतितं च यत् ॥११॥
तत्तेजोऽग्निर्महद्भूतं द्वितीयमिति पावकम्
।
वधार्थं देवशत्रूणां गङ्गायां जनयिष्यति ॥१२॥
स तु नावाप तं शापं नष्टः स हुतभुक् तदा
।
तस्माद्वो भयहृद्देवाः समुत्पत्स्यति पावकिः ॥१३॥
अन्विष्यतां वै ज्वलनस्तथा चाद्य नियुज्यताम्
।
तारकस्य वधोपायः कथितो वै मयाऽनघाः ॥१४॥
न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै
।
बलान्यतिवलं प्राप्य दुर्बलानि भवन्ति वै ॥१५॥
हन्यादवध्यान्वरदानपि चैव तपस्विनः
।
सङ्कल्पाभिरुचिः कामः सनातनतमोऽभवत् ॥१६॥
जगत्पतिरनिर्देश्यः सर्वगः सर्वभावनः
।
हृच्छयः सर्वभूतानां ज्येष्ठो रुद्रादपि प्रभुः ॥१७॥
अन्विष्यतां स तु क्षिप्रं तेजोराशिहुताशनः
।
स वो मनोगतं कामं देवः सम्पादयिष्यति ॥१८॥
एतद्वाक्यमुपश्रित्य ततो देवा महात्मनः
।
जग्मुः संसिद्धसङ्कल्पाः पर्येषन्तो विभावसुम् ॥१९॥
ततस्त्रैलोक्यमृषयो व्यचिन्वन्त सुरैः सह
।
कांक्षन्तो दर्शनं वह्नेः सर्वे तद्गतमानसाः ॥२०॥
परेण तपसा युक्ताः श्रीमन्तो लोकविश्रुताः
।
लोकानन्वचरन्सिद्धाः सर्व एव भृगूत्तम ॥२१॥
नष्टमात्मनि संलीनं नाभिजग्मुर्हुताशनम्
।
ततः सञ्जातसंत्रासानग्निदर्शनलालसान् ॥२२॥
जलेचरः क्लान्तमनास्तेजसाऽग्नेः प्रदीपितः
।
उवाच देवान्मण्डूको रसातलतलोत्थितः ॥२३॥
रसातलतले देवा वसत्यग्निरिति प्रभो
।
सन्तापादिह सम्प्राप्तः पावकप्रभवादहम् ॥२४॥
स संसुप्तो जले देवा भगवान्हव्यवाहनः
।
अपः संसृज्य तेजोभिस्तेन सन्तापिता वयम् ॥२५॥
तस्य दर्शनमिष्टं वो यदि देवा विभावसोः
।
तत्रैवमधिगच्छध्वं कार्यं वो यदि वह्निना ॥२६॥
गम्यतां साधयिष्यामो वयं ह्यग्निभयात्सुराः
।
एतावदुक्त्वा मण्डूकस्त्वरितो जलमाविशत् ॥२७॥
हुताशनस्तु बुबुधे मण्डूकस्य च पैशुनम्
।
शशाप स तमासाद्य न रसान्वेत्स्यसीति वै ॥२८॥
तं वै संयुज्य शापेन मण्डूक त्वरितो ययौ
।
अन्यत्र वासाय विभुर्न चात्मानमदर्शयत् ॥२९॥
देवास्त्वनुग्रहं चक्रुर्मण्डूकानां भृगूत्तम
।
यत्तच्छृणु महाबाहो गदतो मम सर्वशः ॥३०॥
देवा ऊचुः
।
अग्निशापादजिह्वापि रसज्ञानबहिष्कृताः
।
सरस्वतीं बहुविधां यूयमुच्चारयिष्यथ ॥३१॥
बिलवासं गतांश्चैव निराहारानचेतसः
।
गतासूनपि संशुष्कान् भूमिः संतारयिष्यति ॥३२॥
तमोघनायामपि वै निशायां विचरिष्यथ
।
इत्युक्त्वा तांस्ततो देवाः पुनरेव महीमिमाम् ॥३३॥
परीयुर्ज्वलनस्यार्थे न चाविन्दन् हुताशनम्
।
अथ तान्द्विरदः कश्चित्सुरेन्द्रद्विरदोपमः ॥३४॥
अश्वत्थस्थोऽग्निरित्येवमाह देवान् भृगूद्वह
।
शशाप ज्वलनः सर्वान्द्विरदान्क्रोधमूर्च्छितः॥३५॥
प्रतीपा भवतां जिह्वा भवित्रीति भृगूद्वह
।
इत्युक्त्वा निःसृतोश्वत्थादग्निर्वारणसूचितः
।
प्रविवेश शमीगर्भमथ वह्निः सुषुप्सया ॥३६॥
अनुग्रहं तु नागानां यं चक्रुः शृणु तं प्रभो
।
देवा भृगुकुलश्रेष्ठ प्रीत्या सत्यपराक्रमाः ॥३७॥
देवा ऊचुः
।
प्रतीपया जिह्वयापि सर्वाहारं करिष्यथ
।
वाचं चोच्चारयिष्यध्वमुच्चैरव्यञ्जिताक्षराम् ॥३८॥
इत्युक्त्वा पुनरेवाग्निमनुसस्रुर्दिवौकसः
।
अश्वत्थान्निःसृतश्चाग्निः शमीगर्भमुपाविशत् ॥३९॥
शुकेन ख्यापितो विप्र तं देवाः समुपाद्रवन्
।
शशाप शुकमग्निस्तु वाग्विहीनो भविष्यसि ॥४०॥
जिह्वामावर्तयामास तस्यापि हुतभुक्तथा
।
दृष्ट्वा तु ज्वलनं देवाः शुकमूचुर्दयान्विताः ॥४१॥
भविता न त्वमत्यन्तं शुकत्वे नष्टवागिति
।
आवृत्तजिह्वस्य सतो वाक्यं कान्तं भविष्यति॥४२॥
बालस्येव प्रवृद्धस्य कलमव्यक्तमद्भुतम्
।
इत्युक्त्वा तं शमीगर्भे वह्निमालक्ष्य देवताः ॥४३॥
तदेवायतनं चक्रुः पुण्यं सर्वक्रियास्वपि
।
ततः प्रभृति चाप्यग्निः शमीगर्भेषु दृश्यते ॥४४॥
उत्पादने तथोपायमभिजग्मुश्च मानवाः
।
आपो रसातले यास्तु संस्पृष्टाश्चित्रभानुना ॥४५॥
ताः पर्वतप्रस्रवणैरूष्मां मुञ्चति भार्गव
।
पावकेनाधिशयता संतप्तास्तस्य तेजसा ॥४६॥
अथाग्निर्देवता दृष्ट्वा बभूव व्यथितस्तदा
।
किमागमनमित्येवं तानपृच्छत पावकः ॥४७॥
तमूचुर्विबुधाः सर्वे ते चैव परमर्षयः ॥४८॥
त्वां नियोक्ष्यामहे कार्ये तद्भवान्कर्तुमर्हति
।
कृते च तस्मिन् भविता तवापि सुमहान्गुणः ॥४९॥
अग्निरुवाच
।
ब्रूत यद्भवतां कार्यं कर्तास्मि तदहं सुराः
।
भवतां तु नियोज्योऽस्मि मा वोत्रास्तुविचारणा ॥५०॥
देवा ऊचुः
।
असुरस्तारको नाम ब्रह्मणो वरदर्पितः
।
अस्मान्प्रबाधते वीर्याद्वधस्तस्य विधीयताम् ॥५१॥
इमान्देवगणांस्तात प्रजापतिगणांस्तथा
।
ऋषींश्चापि महाभाग परित्रायस्व पावक ॥५२॥
अपत्यं तेजसा युक्तं प्रवीरं जनय प्रभो
।
यद्भयं नोऽसुरात्तस्मान्नाशयेद्धव्यवाहन ॥५३॥
शप्तानां नो महादेव्या नान्यदस्ति परायणम्
।
अन्यत्र भवतो वीर्यं तस्मात्रायस्व नः प्रभो ॥५४॥
इत्युक्तः स तथेत्युक्त्वा भगवान्हव्यवाहनः
।
जगामाथ दुराधर्षो गङ्गां भागीरथीं प्रति ॥५५॥
तया चाप्यभवन्मिश्रो गर्भं चास्यादधे तदा
।
ववृधे स तदा गर्भः कक्षे कृष्णगतिर्यथा ॥५६॥
तेजसा तस्य देवस्य गङ्गा विह्वलचेतना
।
सन्तापमगमत्तीव्रं सोढुं सा न शशाक ह ॥५७॥
आहिते ज्वलनेनाथ गर्भे तेजःसमन्विते
।
गङ्गायामसुरः कश्चिद्भैरवं नादमानदत् ॥५८॥
अबुद्धिपतितेनाथ नादेन विपुलेन सा
।
वित्रस्तोद्भ्रान्तनयना गङ्गा विस्रुतलोचना ॥५९॥
विसंज्ञा नाशकद्गर्भं वोढुमात्मानमेव च
।
सा तु तेजःपरीताङ्गी कम्पयन्तीव जाह्नवी ॥६०॥
उवाच ज्वलनं विप्र तदा गर्भबलोद्धुता
।
ते न शक्तास्मि भगवंस्तेजसोऽस्य विधारणे॥६१॥
विमूढाऽस्मि कृतानेन न मे स्वास्थ्यं यथा पुरा
।
विह्वला चास्मि भगवंश्चेतो नष्टं च मेऽनघ ॥६२॥
धारणे नास्य शक्ताऽहं गर्भस्य तपतां वर
।
उत्स्रक्ष्येहमिमं दुःखान्न तु कामात्कथञ्चन ॥६३॥
न तेजसोऽस्ति संस्पर्शो मम देव विभावसो
।
आपदर्थे हि सम्बन्धः सुसुक्ष्मोऽपि महाद्युते ॥६४॥
यदत्र गुणसम्पन्नमितरद्वा हुताशन
।
त्वय्येव तदहं मन्ये धर्माधर्मौ च केवलौ ॥६५॥
तामुवाच ततो वह्निर्धार्यतां धार्यतामिति
।
गर्भो मत्तेजसा युक्तो महागुणफलोदयः ॥६६॥
शक्ता ह्यसि महीं कृत्स्नां वाढुं धारयितुं तथा
।
न हि ते किञ्चिदप्राप्यमन्यतो धारणादृते ॥६७॥
सा वह्निना वार्यमाणा देवैरपि सरिद्वरा
।
समुत्ससर्ज तं गर्भं मेरौ गिरिवरे तदा ॥६८॥
समर्था धारणे चापि रुद्रतेजःप्रधर्षिता
।
नाशकत्तं तदा गर्भं संधारयितुमोजसा ॥६९॥
सा समुत्सृज्य तं दुःखाद्दीप्तवैश्वानरप्रभम्
।
दर्शयामास चाग्निस्तं तदा गङ्गां भृभूद्वह ॥७०॥
पप्रच्छ सरितां श्रेष्ठां कञ्चिद्गर्भः सुखोदयः
।
कीदृग्वणर्णोऽपि वा देवि कीदृग्रूपश्च दृदयते
।
तेजसा केन वा युक्तः सर्वमेतद्ब्रवीहि मे ॥७१॥
गङ्गोवाच
।
जातरूपः स गर्भो वै तेजसा त्वमिवानघ
।
सुवर्णो विमलो दीप्तः पर्वतं चावभासयत् ॥७२॥
पद्मोत्पलविमिश्राणां ह्रदानामिव शीतलः
।
गन्धोऽस्य स कदम्बानां तुल्यो वै तपतां वर ॥७३॥
तेजसा तस्य गर्भस्य भास्करस्येव रश्मिभिः
।
यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्वतेषु च ॥७४॥
तत्सर्वं काञ्चनीभूतं समन्तात्प्रत्यदृश्यत
।
पर्यधावत शैलांश्च नदीः प्रस्रवणानि च ॥७५॥
व्यादीपयंस्तेजसा च त्रैलोक्यं सचराचरम्
।
एवंरूपः स भगवान्पुत्रस्ते हव्यवाहन
।
सूर्यवैश्वानरसमः कान्त्या सोम इवापरः ॥७६॥
एवमुक्त्वा तु सा देवी तत्रैवान्तरधीयत
।
पावकश्चापि तेजस्वी कृत्वा कार्यं दिवौकसाम् ॥७७॥
जगामेष्टं ततो देशं तदा भार्गवनन्दन
।
एतैः कर्मगुणैर्लोके नामाग्नेः परिगीयते ॥७८॥
हिरण्यरेता इति वै ऋषिभिर्विबुधैस्तथा
।
पृथिवी च तदा देवी ख्याता वसुमतीति वै ॥७९॥
स तु गर्भो महातेजा गाङ्गेयः पावकोद्भवः
।
दिव्यं शरवणं प्राप्य ववृधेऽद्भुतदर्शनः ॥८०॥
ददृशुः कृत्तिकास्तं तु बालार्कसदृशद्युतिम्
।
पुत्रं वे ताश्च तं बालं पुपुषुः स्तन्यविस्रवैः ॥८१॥
ततः स कार्तिकेयत्वमवाप परमद्युतिः
।
स्कन्नत्वात्स्कन्दतां चापि गुहावासाद्गुहोऽभवत् ॥८२॥
एवं सुवर्णमुत्पन्नमपत्यं जातवेदसः
।
तत्र जाम्बूनदं श्रेष्ठं देवानामपि भूषणम् ॥८३॥
ततः प्रभृति चाप्येतज्जातरूपमुदाहृतम्
।
रत्नानामुत्तमं रत्नं भूषणानां तथैव च ॥८४॥
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम्
।
यत्सुवर्णं स भगवानग्निरीशः प्रजापतिः ॥८५॥
पवित्राणां पवित्रं हि कनकं द्विजसत्तमाः
।
अग्नीषोमात्मकं चैव जातरूपमुदाहृतम् ॥८६॥
वसिष्ठ उवाच
।
अपि चेदं पुरा राम श्रुतं मे ब्रह्मदर्शनम्
।
पितामहस्य यद्वृत्तं ब्रह्मणः परमात्मनः ॥८७॥
देवस्य महतस्तात वारुणीं विभ्रतस्तनुम्
।
ऐश्वर्ये वारुणे राम रुद्रस्येशस्य वै प्रभो ॥८८॥
आजग्मुर्मुनयः सर्वे देवाश्चाग्निपुरोगमाः
।
यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्तिमान् ॥८९॥
मूर्तिमन्ति च सामानि यजूंषि च सहस्रशः
।
ऋग्वेदश्चागमत्तत्र पदक्रमविभूषितः ॥९०॥
लक्षणानि स्वरा स्तोभा निरुक्तं सुरपंक्तयः
।
ओङ्कारश्चावसन्नेत्रे निग्रहप्रग्रहौ तथा ॥९१॥
वेदाश्च सोपनिषदो विद्या सावित्र्यथापि च
।
भूतं भव्यं भविष्यं च दधार भगवान्शिवः॥९२॥
सञ्जुहावात्मनाऽऽत्मानं स्वयमेव तदा प्रभो
।
यशं च शोभयामास बहुरूपं पिनाकधृत् ॥९३॥
द्यौर्नभः पृथिवी खं च तथा चैवैष भूपतिः
।
सर्वविद्येश्वरः श्रीमानेष चापि विभावसुः ॥९४॥
एष ब्रह्मा शिवो रुद्रो वरुणोऽग्निः प्रजापतिः
।
कीर्त्यते भगवान्देवः सर्वभूतपतिः शिवः ॥९५॥
तस्य यज्ञः पशुपतेस्तपः क्रतव एव च
।
दीक्षा दीप्तवता देवी दिशश्च सदिगीश्वराः॥९६॥
देवपत्न्यश्च कन्याश्च देवानां चैव मातरः
।
आजग्मुः सहितास्तत्र तदा भृगुकुलोद्वह ॥९७॥
यज्ञं पशुपतेः प्रीता वरुणस्य महात्मनः
।
स्वयंभुवस्तु ता दृष्ट्वा रेतः समपतद्भुवि ॥९८॥
तस्य शुक्रस्य विस्पन्दान्पांसुन्संगृह्य भूमितः
।
प्रास्यत्पूषा कराभ्यां वै तस्मिन्नेव हुताशने ॥९९॥
ततस्तस्मिन्सम्प्रवृत्ते सत्रे ज्वालतपावके
।
ब्रह्मणो जुह्वतस्तत्र प्रादुर्भावो बभूव ह ॥१००॥
स्कन्नमात्रं च तच्छुक्रं स्रुवेण परिगृह्य सः
।
आज्यवन्मन्त्रतश्चापि सोऽजुहोद्भृगुनन्दन ॥१०१॥
ततः स जनयामास भूतग्रामं च वीर्यवान्
।
तस्य तत्तेजसस्तस्माज्जज्ञे लोकेषु तैजसम् ॥१०२॥
तमसस्तामसा भावा व्यापि सत्त्वं तथोभयम्
।
स गुणस्तेजसो नित्यस्तस्य चाकाशमेव च ॥१०३॥
सर्वभूतेषु च तथा सत्त्वं तेजस्तथोत्तमम्
।
शुक्रे हुतेऽग्नौ तस्मिंस्तु प्रादुरासंस्त्रयः प्रभो ॥१०४॥
पुरुषा वपुषा युक्ताः स्वैः स्वैः प्रसवजैर्गुणैः
।
भृगित्येव भृगुः पूर्वमङ्गारेभ्योऽङ्गिराऽभवत् ॥१०५॥
अङ्गारसंश्रयाच्चैव कविरित्यपरोऽभवत्
।
सह ज्वालाभिरुत्पन्नो भृगुस्तस्माद्भृगुः स्मृतः ॥१०६॥
मरीचिभ्यो मरीचिस्तु मारीचः कश्यपो ह्यभूत्
।
अङ्गारेभ्योऽङ्गिरास्तात वालखिल्याः कुशोच्चयात् ॥१०७॥
अत्रैवात्रेति च विभो जातमत्रिं वदन्त्यपि
।
तथा भस्मव्यपोहेभ्यो ब्रह्मर्षिगणसम्मताः ॥१०८॥
वैखानसाः समुत्पन्नास्तपः श्रुतगुणेप्सवः
।
अश्रुतोऽस्य समुत्पन्नावश्विनौ रूपसम्मतौ ॥१०९॥
शेषाः प्रजानां पतयः स्रोतोभ्यस्तस्य जज्ञिरे
।
ऋषयो रोमकूपेभ्यः स्वेदाच्छन्दो बलान्मनः ॥११०॥
एतस्मात्कारणादाहुरग्निः सर्वास्तु देवताः
।
ऋषयः श्रुतसम्पन्ना वेदप्रामाण्यदर्शनात् ॥१११॥
यानि दारूणि निर्यासास्ते मासाः पक्षसंज्ञिताः
।
अहोरात्रा मुहूर्ताश्च पित्तं ज्योतिश्च दारुणम् ॥११२॥
रौद्रं लोहितमित्याहुर्लोहितात्कनकं स्मृतम्
।
तन्मैत्रामति विज्ञेयं धूमाच्च वसवः स्मृताः ॥११३॥
अर्चिषो याश्च ते रुद्रास्तथाऽऽदित्या महाप्रभाः
।
उद्दिष्टास्ते तथाङ्गारा ये धिष्ण्येषु दिवि स्थिताः ॥११४॥
आदिकर्ता च लोकस्य तत्परं ब्रह्म तद्ध्रुवम्
।
सर्वकामदमित्याहुस्तद्रहस्यमुवाच ह ॥११५॥
ततोऽब्रवीन्महादेवो वरुणः पवनात्मकः
।
मम सत्रमिदं दिव्यमहं गृहपतिस्त्विह ॥११६॥
त्रीणि पूर्वाण्यपत्यानि मम तानि न संशयः
।
इति जानीत खगमा मम यज्ञफलं हि तत् ॥११७॥
अग्निरुवाच
।
मदङ्गेभ्यः प्रसूतानि मदाश्रयकृतानि च
।
ममैव तान्यपत्यानि वरुणो ह्यवशात्मकः ॥११८॥
अथाब्रवील्लोकगुरुर्ब्रह्मा लोकपितामहः
।
ममैव तान्यपत्यानि मम शुक्रं हुतं हि तत् ॥११९॥
अहं कर्ता हि सत्रस्य होता शुक्रस्य चैव ह
।
यस्य बीजं फलं तस्य शुक्रं चेत्कारणं मतम् ॥१२०॥
ततोऽब्रुवन्देवगणाः पितामहमुपेत्य वै
।
कृताञ्जलिपुटाः सर्वे शिरोभिरभिवन्द्य च ॥१२१॥
वयं च भगवन्सर्वे जगच्च सचराचरम्
।
तवैव प्रसवाः सर्वे तस्मादग्निर्विभावसुः ॥१२२॥
वरुणश्चेश्वरो देवो लभतां काममीप्सितम्
।
निसर्गाद्ब्रह्मणश्चापि वरुणो यादसाम्पतिः ॥१२३॥
जग्राह वै भृगुं पूर्वमपत्यं सूर्यवर्चसम्
।
ईश्वरोऽङ्गिरसं चाग्नेरपत्यार्थमकल्पयत् ॥१२४॥
पितामहस्त्वपत्यं वै कविं जग्राह तत्त्ववित्
।
तदा स वारुणः ख्यातो भृगुः प्रस्रवकर्मकृत् ॥१२५॥
आग्नेयस्त्वंगिराः श्रीमान्कविर्ब्राह्मो महायशाः
।
भार्गवाङ्गिरसौ लोके लोकसन्तानलक्षणौ ॥१२६॥
एते हि प्रस्त्रवाः सर्वे प्रजानां पतयस्त्रयः
।
सर्वं सन्तानमेतेषामिदमित्युपधारय ॥१२७॥
भृगोस्तु पुत्राः सप्तासन्सर्वे तुल्या भृगोर्गुणैः
।
च्यवनो वज्रशीर्षश्च शुचिरौर्वस्तथैव च ॥१२८॥
शुक्रो वरेण्यश्च विभुः सवनश्चेति सप्त ते
।
भार्गवा वारुणाः सर्वे येषां वंशे भवानपि ॥१२९॥
अष्टौ चाङ्गिरसः पुत्रा वारुणास्तेप्युदाहृताः
।
बृहस्पतिरुतथ्यश्च पयस्यः शान्तिरेव च ॥१३०॥
घोरो विरूपः संवर्तः सुधन्वा चाष्टमः स्मृतः
।
एतेऽष्टौ वह्निजाः सर्वे ज्ञाननिष्ठा निरामयाः ॥१३१॥
ब्रह्मणस्तु कवेः पुत्रा वारुणास्तेऽप्युदाहृताः
।
अष्टौ प्रसवजैर्युक्ता गुणैर्ब्रह्मविदः शुभाः ॥१३२॥
कविः काव्यश्च धृष्णुश्च बुद्धिमानुशनास्तथा
।
भृगुश्च विरजाश्चैव काशी चोग्रश्च धर्मवित् ॥१३३॥
अष्टौ कविसुता ह्यते सर्वमेभिर्जगत्ततम्
।
प्रजापतय एते हि प्रजाभागौरह प्रजाः ॥१३४॥
एवमङ्गिरसश्चैव कवेश्च प्रसवान्वयैः
।
भृगोश्च भृगुशार्दूल वंशजैः सततं जगत् ॥१३५॥
वरुणश्चादितो विप्र जग्राह प्रभुरीश्वरः
।
कविं तात भृगुं चापि तस्मात्तौ वारुणौ स्मृतौ ॥१३६॥
जग्राहाङ्गिरसं देवः शिखी तस्माद्धुताशनः
।
तस्मादाङ्गिरसा ज्ञेयाः सर्व एव तदन्वयाः ॥१३७॥
ब्रह्मा पितामहः पूर्वं देवताभिः प्रसादितः
।
इमे नः सन्तरिष्यन्ति प्रजाभिर्जगतीश्वराः ॥१३८॥
सर्वे प्रजानां पतयः सर्वे चातितपस्विनः
।
त्वत्प्रसादादिमं लोकं तारयिष्यन्ति साम्प्रतम् ॥१३९॥
तथैव वंशकर्तारस्तव तेजोविवर्धनाः
।
भवेयुर्वेदविदुषः सर्वे च कृतिनस्तथा ॥१४०॥
देवपक्षचराः सौम्याः प्राजापत्या महर्षयः
।
आप्नुवन्ति तपश्चैव ब्रह्मचर्यं परं तथा ॥१४१॥
सर्वे हि वयमेते च तवैव प्रसवः प्रभो
।
देवानां ब्राह्मणानां च त्वं हि कर्ता पितामह॥१४२॥
मारीचमादितः कृत्वा सर्वे चैवाथ भार्गवाः
।
अपत्यानीति सम्प्रेक्ष्य क्षमयाम पितामह ॥१४३॥
ते त्वनेनैव रूपेण प्रजनिष्यन्ति वै प्रजाः
।
स्थापयिष्यन्ति चात्मानं युगादिनिधने तथा ॥१४४॥
इत्युक्तः स तदा तैस्तु ब्रह्मा लोकपितामहः
।
तथेत्येवाब्रवीत्प्रीतस्तेऽपि जग्मुर्यथागतम् ॥१४५॥
एवमेतत्पुरा वृत्तं तस्य यज्ञे महात्मनः
।
देवश्रेष्ठस्य लोकादौ वारुणीं बिभ्रतस्तनुम् ॥१४६॥
अग्निर्ब्रह्मा पशुपतिः शर्वो रुद्रः प्रजापतिः
।
अग्नेरपत्यमेतद्वै सुवर्णमिति धारणा ॥१४७॥
अग्न्यभावे च कुरुते वह्निस्थानेषु काञ्चनम्
।
जामदग्न्यः प्रमाणज्ञो वेदश्रुतिनिदर्शनात् ॥१४८॥
कुशस्तम्बे जुहोत्यग्निं सुवर्णे तत्र च स्थिते
।
वल्मीकस्य वपायां च कर्णे वाऽजस्य दक्षिणे ॥१४९॥
शकटोर्व्यां परस्याप्सु ब्राह्मणस्य करे तथा
।
हुते प्रीतिकरीमृद्धिं भगवांस्तत्र मन्यते ॥१५०॥
तस्मादग्निपराः सर्वे देवता इति शुश्रुम
।
ब्रह्मणो हि प्रभूतोऽग्निरग्नेरपि च काञ्चनम् ॥१५१॥
तस्माद्ये वै प्रयच्छन्ति सुवर्णं धर्मदार्शनः
।
देवतास्ते प्रयच्छन्ति समस्ता इति नः श्रुतम् ॥१५२॥
तस्य चातमसो लोका गच्छतः परमां गतिम्
।
स्वर्लोके राजराज्येन सोऽभिषिच्येत भार्गव ॥१५३॥
आदित्योदयसम्प्राप्ते विधिमन्त्रपुरस्कृतम्
।
ददाति काञ्चनं यो वै दुःस्वप्नं प्रतिहन्ति सः ॥१५४॥
ददात्युदितमात्रे यस्तस्य पाप्मा विधूयते
।
मध्याह्ने ददतो रुक्मं हन्ति पापमनागतम् ॥१५५॥
ददाति पश्चिमां सन्ध्यां यः सुवर्णं यतव्रतः
।
ब्रह्मवाय्वग्निसोमानां सालोक्यमुपयाति सः ॥१५६॥
सेन्द्रेषु चैव लोकेषु प्रतिष्ठां विन्दते शुभाम्
।
इह लोके यशः प्राप्य शान्तपाप्मा च मोदते ॥१५७॥
ततः सम्पद्यतेऽन्येषु लोकेष्वप्रतिमः सदा
।
अनावृतगतिश्चैव कामचारो भवत्युत ॥१५८॥
न च क्षरति तेभ्यश्च यशश्चैवाप्नुते महत्
।
सुवर्णमक्षयं दत्त्वा लोकांश्चाप्नोति पुष्कलान् ॥१५९॥
यस्तु सञ्जनयित्वाग्निमादित्योदयनं प्रति
।
दद्याद्वै व्रतमुद्दिश्य सर्वकामान्समश्नुते ॥१६०॥
अग्निमित्येव तत्प्राहुः प्रदानं च सुखावहम्
।
यथेष्टगुणसंवृत्तं प्रवर्तकमिति स्मृतम् ॥१६१॥
एषा सुवर्णस्योत्पत्तिः कथिता ते मयाऽनघ
।
कार्तिकेयस्य च विभो तद्विद्धि भृगुनन्दन ॥१६२॥
कार्तिकेयस्तु संवृद्धः कालेन महता तदा
।
देवैः सेनापतित्वेन वृतः सेन्द्रैर्भृगूद्वह ॥१६३॥
जघान तारकं चापि दैत्यमन्यांस्तथासुरान्
।
त्रिदशेन्द्राज्ञया ब्रह्मঁঁल्लोकानां हितकाम्यया ॥१६४॥
सुवर्णदाने च मया कथितास्ते गुणा विभो
।
तस्मात्सुवर्णं विप्रेभ्यः प्रयच्छ ददतां वर ॥१६५॥
भीष्म उवाच। इत्युक्तः स वसिष्ठेन जामदग्न्यः प्रतापवान्
।
ददौ सुवर्णं विप्रेभ्यो व्यमुच्यत च किल्बिषात् ॥१६६॥
एतत्ते सर्वमाख्यातं सुवर्णस्य महीपते
।
प्रदानस्य फलं चैव जन्म चास्य युधिष्ठिर ॥१६७॥
तस्मात्त्वमपि विप्रेभ्यः प्रयच्छ कनकं बहु
।
ददत्सुवर्णं नृपते किल्बिषाद्विप्रमोक्ष्यसि ॥१६८॥
युधिष्ठिर उवाच। उक्ताः पितामहेनेह सुवर्णस्य विधानतः
।
विस्तरेण प्रदानस्य ये गुणाः श्रुतिलक्षणाः ॥१॥
यत्तु कारणमुत्पत्तेः सुवर्णस्य प्रकीर्तितम्
।
स कथं तारकः प्राप्तो निधनं तद्ब्रवीहि मे ॥२॥
उक्तं स दैवतानां हि अवध्य इति पार्थिव
।
कथं तस्याभवन्मृत्युर्विस्तरेण प्रकीर्तय ॥३॥
एतदिच्छाम्यहं श्रोतुं त्वत्तः कुरुकुलोद्वह
।
कात्स्न्यैन तारकवधं परं कौतूहलं हि मे ॥४॥
भीष्म उवाच। विपन्नकृत्या राजेन्द्र देवता ऋषयस्तथा
।
कृत्तिकाश्चोदयामासुरपत्यभरणाय वै ॥५॥
न देवतानां काचिद्धि समर्था जातवेदसः
।
एता हि शक्तास्तं गर्भं सन्धारयितुमोजसा ॥६॥
षण्णां तासां ततः प्रीतः पावको गर्भधारणात्
।
स्वेन तेजोविसर्गेण वीर्येण परमेण च ॥७॥
तास्तु षट्कृत्तिका गर्भं पुपुषुर्जातर्वेदसः
।
षट्सु वर्त्मसु तेजोग्नेः सकलं निहितं प्रभो ॥८॥
ततस्ता वर्धमानस्य कुमारस्य महात्मनः
।
तेजसाऽभिपरीताङ्ग्यो न क्वचिच्छर्म लेभिरे ॥९॥
ततस्तेजःपरीताङ्ग्यः सर्वाः काल उपस्थिते
।
समं गर्भं सुषुविरे कृत्तिकास्तं नरर्षभ ॥१०॥
ततस्तं षडधिष्ठानं गर्भमेकत्वमागतम्
।
पृथिवी प्रतिजग्राह कार्तस्वरसमीपतः ॥११॥
स गर्भो दिव्यसंस्थानो दीप्तिमान्पावकप्रभः
।
दिव्यं शरवणं प्राप्य ववृधे प्रियदर्शनः ॥१२॥
ददृशुः कृत्तिकास्तं तु बालमर्कसमद्युतिम्
।
जातस्नेहाच्च सौहार्दात्पुपुषुः स्तन्यविस्रवैः ॥१३॥
अभवत्कार्तिकेयः स त्रैलोक्ये सचराचरे
।
स्कन्नत्वात्स्कन्दतां प्राप्तो गुहावासाद्गुहोभवत् ॥१४॥
ततो देवास्त्रयस्त्रिंशद्दिशश्च सदिगीश्वराः
।
रुद्रो धाता च विष्णुश्च यमः पूषार्यमा भगः॥१५॥
अंशो मित्रश्च साध्याश्च वासवो वसवोऽश्विनौ
।
आपो वायुर्नभश्चन्द्रो नक्षत्राणि ग्रहा रविः ॥१६॥
पृथग्भूतानि चान्यानि यानि देवार्पणानि वै
।
आजग्मुस्तेऽद्भुतं द्रष्टुं कुमारं ज्वलनात्मजम् ॥१७॥
ऋषयस्तुष्टुवुश्चैव गन्धर्वाश्च जगुस्तथा
।
षडाननं कुमारं तु द्विषडक्षं द्विजप्रियम् ॥१८॥
पीनांसं द्वादशभुजं पावकादित्यवर्चसम्
।
शयानं शरगुल्मस्थं दृष्ट्वा देवाः सहर्षिभिः ॥१९॥
लेभिरे परमं हर्षं मेनिरे चासुरं हतम्
।
ततो देवाः प्रियाण्यस्य सर्व एव समाहरन् ॥२०॥
क्रीडतः क्रीडनीयानि ददुः पक्षिगणाश्च ह
।
सुपर्णोऽस्य ददौ पुत्रं मयूरं चित्रबर्हिणम् ॥२१॥
राक्षसाश्च ददुस्तस्मै वराहमहिषावुभौ
।
कुक्कुटं चाग्निसङ्काशं प्रददावरुणः स्वयम् ॥२२॥
चन्द्रमाः प्रददौ मेषमादित्यो रुचिरां प्रभाम्
।
गवां माता च गा देवी ददौ शतसहस्रशः ॥२३॥
छागमग्निर्गुणोपेतंमिला पुष्पफलं बहु
।
सुधन्वा शकटं चैव रथं चामितकूबरम् ॥२४॥
वरुणो वारुणान्दिव्यान्सगजान्प्रददौ शुभान्
।
सिंहान्सुरेन्द्रो व्याघ्रांश्च द्विपानन्यांश्च पक्षिणः ॥२५॥
श्वापदांश्च बहून् घोरांश्छत्राणि विविधानि च
।
राक्षसासुरसंघाश्च अनुजग्मुस्तमीश्वरम् ॥२६॥
वर्धमानं तु तं दृष्ट्वा प्रार्थयामास तारकः
।
उपायैर्बहुभिर्हन्तुं नाशकच्चापि तं विभुम् ॥२७॥
सैनापत्येन तं देवाः पूजयित्वा गुहालयम्
।
शशंसुर्विप्रकारं तं तस्मै तारककारितम् ॥२८॥
स विवृद्धो महावीर्यो देवसेनापतिः प्रभुः
।
जघानामोघया शक्त्या दानवं तारकं गुहः ॥२९॥
तेन तस्मिन्कुमारेण क्रीडता निहतेऽसुरे
।
सुरेन्द्रः स्थापितो राज्ये देवानां पुनरीश्वरः ॥३०॥
स सेनापतिरेवाथ बभौ स्कन्दः प्रतापवान्
।
ईशो गोप्ता च देवानां प्रियकृच्छङ्करस्य च ॥३१॥
हिरण्यमूर्तिर्भगवानेष एव च पावकिः
।
सदा कुमारो देवानां सैनापत्यमवाप्तवान् ॥३२॥
तस्मात्सुवरर्णं मङ्गल्यं रत्नमक्षय्यमुत्तमम्
।
सहजं कार्तिकेयस्य वह्नेस्तेजः परं मतम् ॥३३॥
एवं रामाय कौख्य वसिष्ठोऽकथयत्पुरा
।
तस्मात्सुवर्णदानाय प्रयतस्व नराधिप ॥३४॥
रामः सुवर्णं दत्त्वा हि विमुक्तः सर्वकिल्बिषैः
।
त्रिविष्टपे महत्स्थानमवापासुलभं नरैः ॥३५॥
युधिष्ठिर उवाच। चातुर्वर्ण्यस्य धर्मात्मन्धर्माः प्रोक्ता यथा त्वया
।
तथैव मे श्राद्धविधिं कृत्स्नं प्रब्रूहि पार्थिव ॥१॥
वैशम्पायन उवाच। युधिष्ठिरेणैवमुक्तो भीष्मः शान्तनवस्तदा
।
इमं श्राद्धविधिं कृत्स्नं वक्तुं समुपचक्रमे ॥२॥
भीष्म उवाच। शृणुष्वावहितो राजञ्छ्राद्धकर्मविधिं शुभम्
।
धन्यं यशस्यं पुत्रीयं पितृयज्ञं परन्तप ॥३॥
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम्
।
पिशाचकिन्नराणां च पूज्या वै पितरः सदा ॥४॥
पितॄन्पूज्यादितः पश्चाद्देवतास्तर्पयन्ति वै
।
तस्मात्तान्सर्वयज्ञेन पुरुषः पूजयेत्सदा ॥५॥
अन्वाहार्यं महाराज पितॄणां श्राद्धमुच्यते
।
तस्माद्विशेषविधिना विधिः प्रथमकल्पितः ॥६॥
सर्वेष्वहःसु प्रीयन्ते कृते श्राद्धे पितामहाः
।
प्रवक्ष्यामि तु ते सर्वांस्तिथ्यातिथ्यगुणागुणान् ॥७॥
येष्वहःसु कृतैः श्रद्धैर्यत्फलं प्राप्यतेऽनघ
।
तत्सर्वं कीर्तयिष्यामि यथावत्तनिबोध मे ॥८॥
पितॄनर्च्य प्रतिपदि प्राप्नुयात्सुगृहे स्त्रियः
।
अभिरूपप्रजायिन्यो दर्शनीया बहुप्रजाः ॥९॥
स्त्रियो द्वितीयां जायन्ते तृतीयायां तु वाजिनः
।
चतुर्थ्यां क्षुद्रपशवो भवन्ति बहवो गृहे ॥१०॥
पञ्चम्यां बहवः पुत्रा जायन्ते कुर्वतां नृप
।
कुर्वाणास्तु नराः षष्ठ्यां भवन्ति द्युतिभागिनः ॥११॥
कृषिभागी भवेच्छ्राद्धं कुर्वाणः सप्तमीं नृप
।
अष्टम्यां तु प्रकुर्वाणो वाणिज्ये लाभमाप्नुयात् ॥१२॥
नवम्यां कुर्वतः श्राद्धं भवत्येकशफं बहु
।
विवर्धन्ते तु दशमीं गावः श्राद्धान्विकुर्वतः ॥१३॥
कुप्यभागी भवेन्मर्त्यः कुर्वन्नेकादशीं नृप
।
ब्रह्मवर्चस्विनः पुत्रा जायन्ते तस्य वेश्मनि ॥१४॥
द्वादश्यामीहमानस्य नित्यमेव प्रदृश्यते
।
रजतं बहुवित्तं च सुवर्णं च मनोरमम् ॥१५॥
ज्ञातीनां तु भवेच्छ्रेष्ठः कुर्वञ्छ्राद्धं त्रयोदशीम्
।
अवश्यं तु युवानोऽस्य प्रमीयन्ते नरा गृहे ॥१६॥
युद्धभागी भवेन्मर्त्यः कुर्वञ्छ्राद्धं चतुर्दशीम्
।
अमावास्यां तु निर्वापात् सर्वकामानवाप्नुयात् ॥१७॥
कृष्णपक्षे दशम्यादौ वर्जयित्वा चतुर्दर्शाम्
।
श्राद्धकर्मणि तिथ्यस्तु प्रशस्ता न तथेतराः ॥१८॥
यथा चैवापरः पक्षः पूर्वपक्षाद्विशिष्यते
।
तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते ॥१९॥
युधिष्ठिर उवाच। किंस्विद्दत्तं पितृभ्यो वै भवत्यक्षयमीश्वर
।
किं हविश्चिररात्राय किमानन्त्याय कल्पते ॥१॥
भीष्म उवाच। हवींषि श्राद्धकल्पे तु यानि श्रद्धविदो विदुः
।
तानि मे शृणु काम्यानि फलं चैव युधिष्ठिर ॥२॥
तिलैर्व्रीहियवैर्माषैरद्भिर्मूलफलैस्तथा
।
दत्तेन मासं प्रीयन्ते श्राद्धेन पितरो नृप ॥३॥
वर्धमानतिलं श्राद्धमक्षयं मनुरब्रवीत्
।
सर्वेष्वेव तु भोज्येषु तिलाः प्राधान्यतः स्मृताः॥४॥
द्वौ मासौ तु भवेत्तृप्तिर्मत्स्यैः पितृगणस्य ह
।
त्रीन्मासानाविकेनाहुश्चतुर्मासं शशेन ह ॥५॥
आजेन मासान्प्रीयन्ते पञ्चैव पितरो नृप
।
वाराहेण तु षण्मासान् सप्त वै शाकुलेन तु ॥६॥
मासानष्टौ पार्षतेन रौरवेण नव प्रभो
।
गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥७॥
मांसेनैकादश प्रीतिः पितॄणां माहिषेण तु
।
गव्येन दत्ते श्राद्धे तु संवत्सरमिहोच्यते ॥८॥
यथा गव्यं तथा युक्तं पायसं सर्पिषा सह
।
वाध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥९॥
आनन्त्याय भवेद्दत्तं खड्गमांसं पितृक्षये
।
कालशाकं च लौहं चाप्यानन्त्यं छाग उच्यते ॥१०॥
गाथाश्चाप्यत्र गायन्ति पितृगीता युधिष्ठिर
।
सनत्कुमारो भगवान्पुरा मय्यभ्यभाषत ॥११॥
अपि नः स्वकुले जायाद्यो नो दद्यात्त्रयोदशीम्
।
मघासु सर्पिःसंयुक्तं पायसं दक्षिणायने ॥१२॥
आजेन वाऽपि लौहेन मघास्वेव यतव्रतः
।
हस्तिच्छायासु विधिवत् कर्णव्यजनवीजितम् ॥१३॥
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्
।
यत्रासौ प्रथितो लोकेष्वक्षय्यकरणो वटः ॥१४॥
आपो मूलं फलं मांसमन्नं वापि पितृक्षये
।
यत्किंचिन्मधुसंमिश्रं तदानन्त्याय कल्पते ॥१५॥
भीष्म उवाच। यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे
।
तानि मे शृणु काम्यानि नक्षत्रेषु पृथक् पृथक् ॥१॥
श्राद्धं यः कृत्तिकायोगे कुर्वीत सततं नरः
।
अग्नीनाधाय सापत्यो यजेत विगतज्वरः ॥२॥
अपत्यकामो रोहिण्यां तेजस्कामो मृगोत्तमे
।
क्रूरकर्मा ददच्छ्राद्धमार्द्रायां मानवो भवेत् ॥३॥
धनकामो भवेन्मर्त्यः कुर्वञ्छ्राद्धं पुनर्वसौ
।
पुष्टिकामोऽथ पुष्येण श्राद्धमीहेत मानवः ॥४॥
आश्लेषायां ददच्छ्राद्धं धीरान्पुत्रान्प्रजायते
।
ज्ञातीनां तु भवेच्छ्रेष्ठो मघासु श्राद्धमावपन् ॥५॥
फल्गुनीषु ददच्छ्राद्धं सुभगः श्राद्धदो भवेत्
।
अपत्यभागुत्तरासु हस्तेन फलभाग्भवेत् ॥६॥
चित्रायां तु ददत् श्राद्धं लभेद्रूपवतः सुतान्
।
स्वातियोगे पितॄनर्च्य वाणिज्यमुपजीवति ॥७॥
बहुपुत्रो विशाखासु पुत्रमीहन्भवेन्नरः
।
अनुराधासु कुर्वाणो राजचक्रं प्रवर्तयेत् ॥८॥
आधिपत्यं व्रजेन्मर्त्यो ज्येष्ठायामपवर्जयन्
।
नरः कुरुकुलश्रेष्ठ ऋद्धो दमपुरःसरः ॥९॥
मूले त्वारोग्यमृच्छेत यशोऽऽषाढासु चोत्तमम्
।
उत्तरासु त्वषाढासु वीतशोकश्चरेन्महीम् ॥१०॥
श्राद्धं त्वभिजिता कुर्वन्भिषक्सिद्धिमवाप्नुयात्
।
श्रवणेषु ददच्छ्राद्धं प्रेत्य गच्छेत्स तद्गतिम् ॥११॥
राज्यभागी धनिष्ठायां भवेत नियतं नरः
।
नक्षत्रे वारुणे कुर्वन् भिषक्सिद्धिमवाप्नुयात् ॥१२॥
पूर्वप्रोष्ठपदाः कुर्वन् बहून्विन्दत्यजाविकान्
।
उत्तरासु प्रकुर्वाणो विन्दते गाः सहस्रशः ॥१३॥
बहुकुप्यकृतं वित्तं विन्दते रेवतीं श्रितः
।
अश्विनीष्वश्वान्विन्देत भरणीष्वायुरुत्तमम् ॥१४॥
इमं श्राद्धविधिं श्रुत्वा शशबिन्दुस्तथाकरोत्
।
अक्लेशेनाजयच्चापि महीं सोऽनुशशास ह ॥१५॥
युधिष्ठिर उवाच। कीदृशेभ्यः प्रदातव्यं भवेत् श्राद्धं पितामह
।
द्विजेभ्यः कुरुशार्दूल तन्मे व्याख्यातुमर्हसि ॥१॥
भीष्म उवाच। ब्राह्मणान्न परीक्षेत क्षत्रियो दानधर्मवित्
।
दैवे कर्मणि पित्र्ये तु न्यायमाहुः परीक्षणम् ॥२॥
देवताः पूजयन्तीह दैवेनैवेह तेजसा
।
उपेत्य तस्माद्देवेभ्यः सर्वेभ्यो दापयेन्नरः ॥३॥
श्राद्धे त्वथ महाराज परीक्षेद्ब्राह्मणान्बुधः
।
कुलशीलवयोरूपैर्विद्ययाऽभिजनेन च ॥४॥
तेषामन्ये पङ्क्तिदूषास्तथाऽन्ये पङ्क्तिपावनाः
।
अपाङ्क्तेयास्तु ये राजन्कीर्तयिष्यामि तान् शृणु ॥५॥
कितवो भ्रूणहा यक्ष्मी पशुपालो निराकृतिः
।
ग्रामप्रेष्यो वार्धुषिको गायनः सर्वविक्रयी ॥६॥
अगारदाही गरदः कुण्डाशी सोमविक्रयी
।
सामुद्रिको राजभृत्यस्तैलिकः कूटकारकः ॥७॥
पित्रा विवदमानश्च यस्य चोपपतिर्गृहे
।
अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति ॥८॥
पर्वकारश्च सूची च मित्रध्रुक् पारदारिकः
।
अव्रतानामुपाध्यायः काण्डपृष्ठस्तथैव च ॥९॥
श्वभिश्च यः परिक्रामेद्यः शुना दष्ट एव च
।
परिवित्तिश्च यश्च स्याद्दुश्चर्मा गुरुतल्पगः ॥१०॥
कुशीलवो देवलको नक्षत्रैर्यश्च जीवति
।
ईदृशैर्ब्राह्मणैर्युक्तमपाङ्क्तेयैर्युधिष्ठिर ॥११॥
रक्षांसि गच्छते हव्यमित्याहुर्ब्रह्मवादिनः
।
श्राद्धं भुक्त्वा त्वधीयीत वृषलीतल्पगश्च यः ॥१२॥
पुरीषे तस्य ते मासं पितरस्तस्य शेरते
।
सोमविक्रयिणे विष्ठा भिषजे पूयशोणितम् ॥१३॥
नष्टं देवलके दत्तमप्रतिष्ठं च वार्धुषे
।
यत्तु वाणिजके दत्तं नेह नामुत्र तद्भवेत् ॥१४॥
भस्मनीव हुतं हव्यं तथा पौनर्भवे द्विजे
।
ये तु धर्मव्यपेतेषु चारित्रापगतेषु च
।
हव्यं कव्यं प्रयच्छन्ति तेषां तत्प्रेत्य नश्यति ॥१५॥
ज्ञानपूर्वं तु ये तेभ्यः प्रयच्छन्त्यल्पबुद्धयः
।
पुरीषं भुञ्जते तस्य पितरः प्रेत्य निश्चयः॥१६॥
एतानिमान्विजानीयादपाङ्क्तेयान्द्विजाधमान्
।
शूद्राणामुपदेशं च ये कुर्वन्त्यल्पचेतसः ॥१७॥
षष्टिं काणः शतं षण्ढः श्वित्री यावत्प्रपश्यति
।
पङ्क्त्या समुपविष्टायां तावद्दूषयते नृप ॥१८॥
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः
।
सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ॥१९॥
असूयता च यद्दत्तं यच्च श्रद्धाविवर्जितम्
।
सर्वं तदसुरेन्द्राय ब्रह्मा भागमकल्पयत् ॥२०॥
श्वानश्च पङ्क्तिदूषाश्च नावेक्षेरन्कथञ्चन
।
तस्मात्परिसृते दद्यात्तिलांश्चान्ववकीरयेत्॥२१॥
तिलैर्विरहितं श्राद्धं कृतं क्रोधवशेन च
।
यातुधानाः पिशाचाश्च विप्रलुंपन्ति तद्धविः ॥२२॥
अपाङ्क्तो यावतः पाङ्क्तान्भुञ्जानाननुपश्यति
।
तावत्फलाद्भ्रंशयति दातारं तस्य बालिशम् ॥२३॥
इमे तु भरतश्रेष्ठ विज्ञेयाः पङ्क्तिपावनाः
।
ये त्वतस्तान्प्रवक्ष्यामि परीक्षस्वेह तान्द्विजान् ॥१४॥
विद्यावेदव्रतस्त्राता ब्राह्मणाः सर्व एव हि
।
सदाचारपराश्चैव विज्ञेयाः सर्वपावनाः ॥२५॥
पाङ्क्तेयांस्तु प्रवक्ष्यामि ज्ञेयास्ते पङ्क्तिपावनाः
।
त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥२६॥
ब्रह्मदेयानुसन्तानश्छंदोगो ज्येष्ठसामगः
।
मातापित्रोर्यश्च वश्यः श्रोत्रियो दशपूरुषः ॥२७॥
ऋतुकालाभिगामी च धर्मपत्नीषु यः सदा
।
वेदविद्याघ्रतस्नातो विप्रः पङ्क्तिं पुनात्युत ॥२८॥
अथर्वशिरसोऽध्येता ब्रह्मचारी यतव्रतः
।
सत्यवादी धर्मशीलः स्वकर्मनिरतश्च सः ॥२९॥
ये च पुण्येषु तीर्थेषु अभिषेककृतश्रमाः
।
मखेषु च समन्त्रेषु भवन्त्यवभृथप्लुताः ॥३०॥
अक्रोधना ह्यचपलाः क्षान्ता दान्ता जितेन्द्रियाः
।
सर्वभूतहिता ये च श्राद्धेष्वेतान्निमन्त्रयेत् ॥३१॥
एतेषु दत्तमक्षय्यमेते वै पङ्क्तिपावनाः
।
इमे परे महाभागा विज्ञेयाः पङ्क्तिपावनाः ॥३२॥
यतयो मोक्षधर्मज्ञा योगाः सुचरितव्रताः
।
ये चेतिहासं प्रयताः श्रावयन्ति द्विजोत्तमान् ॥३३॥
ये च भाष्यविदः केचिद्ये च व्याकरणे रताः
।
अर्धायते पुराणं ये धर्मशास्त्राण्यथापि च ॥३४॥
अधीत्य च यथान्यायं विधिवत्तस्य कारिणः
।
उपपन्नो गुरुकुले सत्यवादी सहस्रशः ॥३५॥
अग्र्याः सर्वेषु वेदेषु सर्वप्रवचनेषु च
।
यावदेते प्रपश्यन्ति पङ्क्त्यास्तावत्पुनन्त्युत ॥३६॥
ततो हि पावनात्पङ्क्त्याः पङ्क्तिपावन उच्यते
।
क्रोशादर्धतृतीयाच्च पावयेदेक एव हि ॥३७॥
ब्रह्मदेयानुसन्तान इति ब्रह्मविदो विदुः
।
अनृत्विगनुपाध्यायः स चेदग्रासनं व्रजेत् ॥३८॥
ऋत्विग्भिरभ्यनुज्ञातः पङ्क्त्या हरति दुष्कृतं
।
अथ चेद्वेदवित्सर्वैः पङ्क्तिदोषैर्विवर्जितः ॥३९॥
न च स्यात्पतितो राजन्पङ्क्तिपावन एव सः
।
तस्मात्सर्वप्रयत्नेन परीक्ष्यामन्त्रयेद्द्विजान् ॥४०॥
स्वकर्मनिरतानन्यान्कुले जातान्बहुश्रुतान्
।
यस्य मित्रप्रधानानि श्राद्धानि च हवींषि च
।
न प्रणिन्ति पितॄन्देवान्स्वर्गं च न स गच्छति ॥४१॥
यश्च श्राद्धे कुरुते सङ्गतानि न देवयानेन पथा स याति
।
स वै मुक्तः पिप्पलं बन्धनाद्वा स्वर्गाल्लोकाच्च्यवते श्राद्धमित्रः ॥४२॥
तस्मान्मित्रं श्राद्धकृन्नाद्रियेत दद्यान्मित्रेभ्यः सङ्ग्रहार्थं धनानि
।
यन्मन्यते नैव शत्रुं न मित्रं तं मध्यस्थं भोजयेद्धव्यकव्ये ॥४३॥
यथोषरे बीजमुप्तं न रोहेन्न चावप्ता प्राप्नुयाद्बीजभागम्
।
एवं श्राद्धं भुक्तमनर्हमाणैर्न चेह नामुत्र फलं ददाति ॥४४॥
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति
।
तस्मै श्राद्धं न दातव्यं न हि भस्मनि हूयते ॥४५॥
सम्भोजनी नाम पिशाचदक्षिणा सा नैव देवान्न पितॄनुपैति
।
इहैव ला भ्राम्यति हनिपुण्या शालान्तरे गौरिव नष्टवत्सा ॥४६॥
यथाऽग्नौ शान्ते घृतमाजुहोति तन्नैव देवान्न पितॄनुपैति
।
तथा दत्तं नर्तने गायने च यां चानृते दक्षिणामावृणोति ॥४७॥
उभौ हिनस्ति न भुनक्ति चैषा या चानृते दक्षिणा दीयते वै
।
आघातिनी गार्हितैषा पतन्ती तेषां प्रेतान्पातयेद्देवयानात् ॥४८॥
ऋर्षाणां समये नित्यं ये चरन्ति युधिष्ठिर
।
निश्चिताः सर्वधर्मज्ञास्तान्देवा ब्राह्मणान्विदुः ॥४९॥
स्वाध्यायनिष्ठा ऋषयो ज्ञाननिष्ठास्तथैव च
।
तपोनिष्ठाश्च बोद्धव्याः कर्मनिष्ठाश्च भारत ॥५०॥
कव्यानि ज्ञाननिष्ठेभ्यः प्रतिष्ठाप्यानि भारत
।
तत्र ये ब्राह्मणान्केचिन्न निन्दन्ति हि ते नराः ॥५१॥
ये तु निन्दन्ति जल्पेषु न ताञ्छ्राद्धेषु भोजयेत्
।
ब्राह्मणा निन्दिता राजन्हन्युस्त्रैपुरुषं कुलम् ॥५२॥
वैखानसानां वचनमृषीणां श्रूयते नृप
।
दूरादेव परीक्षेत ब्राह्मणान्वेदपारगान् ॥५३॥
प्रियो वा यदि वा द्वेष्यस्तेषां तु श्राद्धमावपेत्
।
यः सहस्रं सहस्राणां भोजयेदनृतान्नरः
।
एकस्तान्मन्त्रवित्प्रीतः सर्वानर्हति भारत ॥५४॥
युधिष्ठिर उवाच। केन सङ्कल्पितं श्राद्धं कस्मिन्काले किमात्मकम्
।
भृग्वङ्गिरसिके काले मुनिना कतरेण वा ॥१॥
कानि श्राद्धानि वर्ज्यानि कानि मूलफलानि च
।
धान्यजात्यश्च का वर्ज्यास्तन्मे ब्रूहि पितामह ॥२॥
भीष्म उवाच। यथा श्राद्धं संप्रवृत्तं यस्मिन्काले सदात्मकम्
।
येन सङ्कल्पितं चैव तन्मे शृणु जनाधिप ॥३॥
स्वायंभुवोऽत्रिः कौरव्य परमर्षिः प्रतापवान्
।
तस्य वंशे महाराज दत्तात्रेय इति स्मृतः ॥४॥
दत्तात्रेयस्य पुत्रोऽभून्निमिर्नाम तपोधनः
।
निमेश्चाप्यभवत्पुत्रः श्रीमान्नाम श्रिया वृतः ॥५॥
पूर्णे वर्षसहस्रान्ते स कृत्वा दुष्करं तपः
।
कालधर्मपरीतात्मा निधनं समुपागतः ॥६॥
निमिस्तु कृत्वा शौचानि विधिदृष्टेन कर्मणा
।
संतापमगमत्तीव्रं पुत्रशोकपरायणः ॥७॥
अथ कृत्वोपहार्याणि चतुर्दश्यां महामतिः
।
तमेव गणयन्शोकं विरात्रे प्रत्यबुध्यत ॥८॥
तस्यासीत्प्रतिबुद्धस्य शोकेन व्यथितात्मनः
।
मनः संवृत्य विषये बुद्धिर्विस्तारगामिनी ॥९॥
ततः सञ्चिन्तयामास श्राद्धकल्पं समाहितः
।
यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥१०॥
उक्तानि यानि चान्नानि यानि चेष्टानि तस्य ह
।
तानि सर्वाणि मनसा विनिश्चित्य तपोधनः ॥११॥
अमावास्यां महाप्राज्ञो विप्रानानाय्य पूजितान्
।
दक्षिणावर्तिकाः सर्वा वृसीः स्वयमथाकरोत्॥१२॥
सप्तविप्रांस्ततो भोज्ये युगपत्समुपानयत्
।
ऋते च लवणं भोज्यं श्यामाकान्नं ददौ प्रभुः ॥१३॥
दक्षिणाग्रास्ततो दर्भा विष्टरेषु निवेशिताः
।
पादयोश्चैव विप्राणां ये त्वन्नमुपभुञ्जते ॥१४॥
कृत्वा च दक्षिणाग्रान्वै दर्भान् स प्रयतः शुचिः
।
प्रददौ श्रीमतः पिण्डान्नामगोत्रमुदाहरन् ॥१५॥
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्करमात्मनः
।
पश्चात्तापेन महता तप्यमानोभ्यचिन्तयत् ॥१६॥
अकृतं मुनिभिः पूर्वं किं मयेदमनुष्ठितम्
।
कथं नु शापेन न मां दहेयुर्बाह्मणा इति ॥१७॥
ततः सञ्चिन्तयामास वंशकर्तारमात्मनः
।
ध्यातमात्रस्तथा चात्रिराजगाम तपोधनः ॥१८॥
अथात्रिस्तं तथा दृष्ट्वा पुत्रशोकेन कर्षितम्
।
भृशमाश्वासयामास वाग्भिरिष्टाभिरव्ययः ॥१९॥
निमे संकल्पितस्तेऽयं पितृयज्ञस्तपोधन
।
मा तेभूद्भीः पूर्वदृष्टो धर्मोयं ब्रह्मणा स्वयम् ॥२०॥
सोयं स्वयंभुविहितो धर्मः संकल्पितस्त्वया
।
ऋते स्वयंभुवः कोन्यः श्राद्धेयं विधिमाहरेत् ॥२१॥
अथाख्यास्यामि ते पुत्र श्राद्धेयं विधिमुत्तमम्
।
स्वयंभुविहितं पुत्र तत्कुरुष्व निबोध मे ॥२२॥
कृत्वाऽग्नौकरणं पूर्वं मन्त्रपूर्वं तपोधन
।
ततोऽग्नयेऽथ सोमाय वरुणाय च नित्यशः ॥२३॥
विश्वेदेवाश्च ये नित्यं पितृभिः सह गोचराः
।
तेभ्यः संकल्पिता भागाः स्वयमेव स्वयंभुवा ॥२४॥
स्तोतव्या चेह पृथिवी निवापस्येह धारिणी
।
वैष्णवी काश्यपी चेति तथैवेहाक्षयेति च ॥२५॥
उदकानयने चैव स्तोतव्यो वरुणो विभुः
।
ततोऽग्निश्चैव सोमश्च आप्याय्याविह तेऽनघ ॥२६॥
देवास्तु पितरो नाम निर्मिता ये स्वयंभुवा
।
उष्णपा ये महाभागास्तेषां भागः प्रकल्पितः ॥२७॥
ते श्राद्धेनार्च्यमानावै विमुच्यन्ते ह किल्बिषात्
।
सप्तकः पितृवंशस्तु पूर्वदृष्टः स्वयंभुवा ॥२८॥
विश्वे चाग्निमुखा देवाः संख्याताः पूर्वमेव ते
।
तेषां नामानि वक्ष्यामि भागार्हाणां महात्मनाम् ॥२९॥
बलं धृतिर्विपाप्मा च पुण्यकृत्पावनस्तथा
।
पार्ष्णिक्षेमा समूहश्च दिव्यसानुस्तथैव च ॥३०॥
विवस्वान्वीर्यवान् ह्रीमान्कीर्तिमान्कृत एव च
।
जितात्मा मुनिवीर्यश्च दीप्तरोमा भयङ्करः ॥३१॥
अनुकर्मा प्रतीतश्च प्रदाताऽप्यंशुमांस्तथा
।
शैलाभः परमक्रोधी धीरोष्णी भूपतिस्तथा ॥३२॥
स्रजो वज्री वरी चैव विश्वेदेवाः सनातनाः
।
विद्युद्वर्चाः सोमवर्चाः सूर्यश्रीश्चेति नामतः ॥३३॥
सोमपः सूर्यसावित्रो दत्तात्मा पुण्डरीयकः
।
उष्णीनामो नभोदश्च विश्वायुर्दीप्तिरेव च ॥३४॥
चमूहरः सुरेशश्च व्योमारिः शंकरो भवः
।
ईशः कर्ता कृतिर्दक्षो भुवनो दिव्यकर्मकृत्॥३५॥
गणितः पञ्चवीर्यश्च आदित्यो रश्मिवांस्तथा
।
सप्तकृत्सोमवर्चाश्च विश्वकृत्कविरेव च ॥३६॥
अनुगोप्ता सुगोप्ता च नप्ता चेश्वर एव च
।
कीर्तितास्ते महाभागाः कालस्य गतिगोचराः ॥३७॥
अश्राद्धेयानि धान्यानि कोद्रवाः पुलकास्तथा
।
हिंगुद्रव्येषु शाकेषु पलाण्डुं लशुनं तथा ॥३८॥
सौभाञ्जनः कोविदारस्तथा गृञ्जनकादयः
।
कूष्माण्डजात्यलाबुं च कृष्णं लवणमेव च ॥३९॥
ग्राम्यवाराहमांसं च यच्चैवाप्रोक्षितं भवेत्
।
कृष्णाजाजी विडश्चैव शीतपाकी तथैव च
।
अङ्कुराद्यास्तथा वर्ज्या इह श्रृंगाटकानि च ॥४०॥
वर्जयेल्लवणं सर्वं तथा जम्बूफलानि च
।
अवक्षुतावरुदितं तथा श्राद्धे च वर्जयेत् ॥४१॥
निवापे हव्यकव्ये या गर्हितं च सुदर्शनम्
।
पितरश्च हि देवाश्च नाभिनन्दन्ति तद्धविः ॥४२॥
चाण्डालश्वपचौ वर्ज्यौ निवापे समुपस्थिते
।
काषायवासाः कुष्ठी वा पतितो ब्रह्महाऽपि वा ॥४३॥
संकीर्णयोनिर्विप्रश्च सम्बन्धी पतितश्च यः
।
वर्जनीया बुधैरेते निवापे ससुपस्थिते ॥४४॥
इत्येवमुक्त्वा भगवान्स्ववंश्यं तमृषिं पुरा
।
पितामहसभां दिव्यां जगामात्रिस्तपोधनः ॥४५॥
भीष्म उवाच। तथा निमौ प्रवृत्ते तु सर्व एव महर्षयः
।
पितृयज्ञं तु कुर्वन्ति विधिदृष्टेन कर्मणा ॥१॥
ऋषयो धर्मनित्यास्तु कृत्वा निवपनान्युत
।
तर्पणं चाप्यकुर्वन्त तीर्थांभोभिर्यतव्रताः ॥२॥
निवापैर्दीयमानैश्च चातुर्वर्ण्येन भारत
।
तर्पिताः पितरो देवास्तत्रान्नं जरयन्ति वै ॥३॥
अजीर्णैस्त्वभिहन्यन्ते ते देवाः पितृभिः सह
।
सोममेवाभ्यपद्यन्त तदा ह्यन्नाभिपीडिताः ॥४॥
तेऽब्रुवन्सोममासाद्य पितरोऽजीर्णपीडिताः
।
निवापान्नेन पीड्यामः श्रेयो नोऽत्र विधीयताम् ॥५॥
तान्सोमः प्रत्युवाचाथ श्रेयश्चेदीप्सितं सुराः
।
स्वयंभूसदनं यात स वः श्रेयोभिधास्यति ॥६॥
ते सोमवचनाद्देवाः पितृभिः सह भारत
।
मेरुशृंगे समासीनं पितामहमुपागमन् ॥७॥
पितर ऊचुः
।
निवापान्नेन भगवन्भृशं पीड्यामहे वयम्
।
प्रसादं कुरु नो देव श्रेयो नः संविधीयताम् ॥८॥
इति तेषां वचः श्रुत्वा स्वयंभूरिदमब्रवीत्
।
एष मे पार्श्वतो वह्निर्युष्मच्छ्रेयोभिधास्यति ॥९॥
अग्निरुवाच
।
सहितास्तात भोक्ष्यामो निवापे समुपस्थिते
।
जरयिष्यथ चाप्यन्नं मया सार्धं न संशयः ॥१०॥
एतच्छ्रुत्वा तु पितरस्ततस्ते विज्वरा भवन्
।
एतस्मात्कारणाच्चाग्नेः प्राक्तावद्दीयते नृप ॥११॥
निवप्ते चाग्निपूर्वं वै निवापे पुरुषर्षभ
।
न ब्रह्मराक्षसास्तं वै निवापं धर्षयन्त्युत ॥१२॥
रक्षांसि चापवर्तन्ते स्थिते देवे हुताशने
।
पूर्वं पिण्डं पितुर्दद्यात्ततो दद्यात्पितामहे ॥१३॥
प्रपितामहाय च तत एष श्राद्धविधिः स्मृतः
।
बूयात् श्राद्धे च सावित्रीं पिंडे पिंडे समाहितः ॥१४॥
सोमायेति च वक्तव्यं तथा पितृमतेति च
।
रजस्वला च या नारी व्यङ्गिता कर्णयोश्च या
।
निवापे नोपतिष्ठेत संग्राह्या नान्यवंशजा ॥१५॥
जलं प्रतरमाणश्च कीर्तयेत पितामहान्
।
नदीमासाद्य कुर्वीत पितॄणां पिण्डतर्पणम् ॥१६॥
पूर्वं स्ववंशजानां तु कृत्वाऽद्भिस्तर्पणं पुनः
।
सुहृत्सम्बन्धिवर्गाणां ततो दद्याज्जलाञ्जलिम् ॥१७॥
कल्माषगोयुगेनाथ युक्तेन तरतो जलम्
।
पितरोऽभिलषन्ते वै नावं चाप्यधिरोहिताः ॥१८॥
सदा नावि जलं तज्ज्ञाः प्रयच्छन्ति समाहिताः
।
मासार्धे कृष्णपक्षस्य कुर्यान्निर्वपणानि वै ॥१९॥
पुष्टिरायुस्तथा वीर्यं श्रीश्चैव पितृभक्तितः
।
पितामहः पुलस्त्यश्च वसिष्ठः पुलहस्तथा॥२०॥
अङ्गिराश्च क्रतुश्चैव कश्यपश्च महानृषिः
।
एते कुरुकुलश्रेष्ठ महायोगेश्वराः स्मृताः ॥२१॥
एते च पितरो राजन्नेष श्राद्धविधिः परः
।
प्रेतास्तु पिण्डसम्बन्धान्मुच्यन्ते तेन कर्मणा ॥२२॥
इत्येषा पुरुषश्रेष्ठ श्राद्धोत्पत्तिर्यथागमम्
।
व्याख्याता पूर्वनिर्दिष्टा दानं वक्ष्याम्यतः परम् ॥२३॥
युधिष्ठिर उवाच। द्विजातयो व्रतोपेता हविस्ते यदि भुञ्जते
।
अन्नं ब्राह्मणकामाय कथमेतत्पितामह ॥१॥
भीष्म उवाच। अवेदोक्तव्रताश्चैव भुञ्जानाः कामकारणे
।
वेदोक्तेषु तु भुञ्जाना व्रतलुप्ता युधिष्ठिर ॥२॥
युधिष्ठिर उवाच। यदिदं तप इत्याहुरुपवासं पृथग्जनाः
।
तपः स्यादेतदेवेह तपोऽन्यद्वाऽपि किं भवेत् ॥३॥
भीष्म उवाच। मासार्धमासोपवासाद्यत्तपो मन्यते जनः
।
आत्मतन्त्रोपघाती यो न तपस्वी न धर्मवित् ॥४॥
त्यागस्य चापि संपत्तिः शिष्यते तप उत्तमम्
।
सदोपवासी च भवेद्ब्रह्मचारी तथैव च ॥५॥
मुनिश्च स्यात्सदा विप्रो वेदांश्चैव सदा जपेत्
।
कुटुम्बिको धर्मकामः सदास्वप्नश्च मानवः ॥६॥
अमांसाशी सदा च स्यात्पवित्रं च सदा पठेत्
।
ऋतवादी सदा च स्यान्नियतश्च सदा भवेत् ॥७॥
विघसाशी कथं च स्यात्सदा चैवातिथिप्रियः
।
अमृताशी सदा च स्यात्पवित्रीच सदा भवेत् ॥८॥
युधिष्ठिर उवाच। कथं सदोपवासी स्याद्ब्रह्मचारी च पार्थिव
।
विघसाशी कथं च स्यात्कथं चैवातिथिप्रियः ॥९॥
भीष्म उवाच। अन्तरा सायमाशं च प्रातराशं च यो नरः
।
सदोपवासी भवति यो न भुंक्तेन्तरा पुनः ॥१०॥
भार्यां गच्छन् ब्रह्मचारी ऋतौ भवति चैव ह
।
ऋतवादी सदा च स्याद्दानशीलस्तु मानवः ॥११॥
अभक्षयन् वृथा मांसममांसाशी भवत्युत
।
दानं ददत्पवित्री स्यादस्वप्नश्च दिवाऽस्वपन्॥१२॥
भृत्यातिथिषु यो भुङ्क्ते भुक्तवत्सु नरः सदा
।
अमृतं केवलं भुङ्क्ते इति विद्धि युधिष्ठिर ॥१३॥
अभुक्तवत्सु नाश्नाति ब्राह्मणेषु तु यो नरः
।
अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ॥१४॥
देवेभ्यश्च पितृभ्यश्च संश्रितेभ्यस्तथैव च
।
अवशिष्टानि यो भुङ्क्ते तमाहुर्विघसाशिनम् ॥१५॥
तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणः स्मृताः
।
उपस्थिता ह्यप्सरसो गन्धर्वैश्च जनाधिप ॥१६॥
देवतातिथिभिः सार्धं पितृभ्यश्चोपभुञ्जते
।
रमन्ते पुत्रपौत्रेण तेषां गतिरनुत्तमा ॥१७॥
युधिष्ठिर उवाच। ब्राह्मणेभ्यः प्रयच्छन्ति दानानि विविधानि च
।
दातृप्रतिग्रहीत्रोर्वै को विशेषः पितामह ॥१८॥
भीष्म उवाच। साधोर्यः प्रतिगृह्णीयात्तथैवासाधुतो द्विजः
।
गुणवत्यल्पदोषः स्यान्निर्गुणे तु निमज्जति ॥१९॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
वृषादर्भेश्च संवादं सप्तर्षीणां च भारत ॥२०॥
कश्यपोऽत्रिर्वसिष्ठश्च भरद्वाजोऽथ गौतमः
।
विश्वामित्रो जमदग्निः साध्वी चैवाप्यरुन्धती ॥२१॥
सर्वेषामथ तेषां तु गण्डाऽभूत्कर्मकारिका
।
शुद्रः पशुसखश्चैव भर्ता चास्या बभूव ह ॥२२॥
ते च सर्वे तपस्यन्तः पुरा चेरुर्महीमिमाम्
।
समाधिनोपशिक्षन्तो ब्रह्मलोकं सनातनम् ॥२३॥
अथाभवदनावृष्टिर्महती कुरुनन्दन
।
कृच्छ्रप्राणोऽभवद्यत्र लोकोऽयं वै क्षुधान्वितः ॥२४॥
कस्मिंश्चिच्च पुरा यज्ञे शैब्येन शिबिसूनुना
।
दक्षिणार्थेऽथ ऋत्विग्भ्यो दत्तः पुत्रः पुरा फिल ॥२५॥
अस्मिन्कालेऽथ सोल्पायुर्दिष्टान्तमगमत्प्रभुः
।
ते तं क्षुधाभिसन्तप्ताः परिवार्योपतस्थिरे ॥२६॥
याज्यात्मजमथो दृष्ट्वा गतासुमृषिसत्तमाः
।
अपचन्त तदा स्थाल्यां क्षुधार्ताः किल भारत ॥२७॥
निरन्ने मर्त्यलोकेऽस्मिन्नात्मानं ते परीप्सवः
।
कृच्छ्रामापेदिरे वृत्तिमन्नहेतोस्तपस्विनः ॥२८॥
अटमानोऽथ तान्मार्गे पचमानान्महीपतिः
।
राजा शैब्यो वृषादर्भिः क्लिश्यमानान्ददर्श ह ॥२९॥
वृषादर्भिरुवाच
।
प्रतिग्रहस्तारयति पुष्टिर्वै प्रतिगृह्यताम्
।
मयि यद्विद्यते वित्तं तद्वृणुध्वं तपोधनाः ॥३०॥
प्रियो हि मे ब्राह्मणो याच्यमानो दद्यामहं वोऽश्वतरीसहस्रम्
।
एकैकशः सवृषाः संप्रसूताः सर्वेषां वै शीघ्रगाः श्वेतरोमाः ॥३१॥
कुलंभराननडुहः शतं शतान् धुर्यान् श्वेतान् सर्वशोऽहं ददामि
।
पष्ठौहीनां पीवराणां च तावदग्र्या गृष्ट्यो धेनवः सुव्रताश्च ॥३२॥
वरान् ग्रामान् व्रीहिरसं यवांश्च रत्नं चान्यद्दुर्लभं किं ददानि
।
नास्मिन्नभक्ष्ये भावमेवं कुरुध्वं पुष्ट्यर्थं वः किं प्रयच्छाम्यहं वै ॥३३॥
ऋषय ऊचुः
।
राजन्प्रतिग्रहो राज्ञां मध्वास्वादो विषोपमः
।
तज्जानमानः कस्मात्त्वं कुरुषे नः प्रलोभनम् ॥३४॥
क्षेत्रं हि दैवतमिदं ब्राह्मणान् समुपाश्रितम्
।
अमलो ह्येष तपसा प्रीतः प्रीणाति देवताः ॥३५॥
अह्नापीह तपो जातु ब्राह्मणस्योपजायते
।
तद्दाव इव निर्दह्यात्प्राप्तो राजप्रतिग्रहः ॥३६॥
कुशलं सह दानेन राजन्नस्तु सदा तव
।
अर्थिभ्यो दीयतां सर्वमित्युक्त्वाऽन्येन ते ययुः ॥३७॥
अपक्वमेव तन्मांसमभूत्तेषां महात्मनाम्
।
अथ हित्वा ययुः सर्वे वनमाहारकांक्षिणः ॥३८॥
ततः प्रचोदिता राज्ञा वनं गत्वाऽस्य मन्त्रिणः
।
प्रचीयोदुम्बराणि स्म दातुं तेषां प्रचक्रिरे ॥३९॥
उदुम्बराण्यथान्यानि हेमगर्भाण्युपाहरन्
।
भृत्यास्तेषां ततस्तानि प्रग्राहितुमुपाद्रवन् ॥४०॥
गुरूणीति विदित्वाथ न ग्राह्याण्यत्रिरब्रवीत्
।
न स्महे मन्दविज्ञाना न स्महे मन्दबुद्धयः ॥४१॥
हैमानीमानि जानीमः प्रतिबुद्धाः स्म जागृम
।
इह ह्येतदुपादत्तं प्रेत्य स्यात्कटुकोदयम्
।
अप्रतिग्राह्यमेवैतत्प्रेत्येह च सुखेप्सुना ॥४२॥
वसिष्ठ उवाच
।
शतेन निष्कगणितं सहस्त्रेण च संमितम्
।
तथा बहु प्रतीच्छन्वै पापिष्ठां पतते गतिम् ॥४३॥
कश्यप उवाच
।
यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः
।
सर्वं तन्नालमेकस्य तस्माद्विद्वाञ्छमं चरेत् ॥४४॥
भरद्वाज उवाच
।
उत्पन्नस्य रुरोः शृङ्गं वर्धमानस्य वर्धते
।
प्रार्थना पुरुषस्येव तस्य मात्रा न विद्यते ॥४५॥
गौतम उवाच
।
न तल्लोके द्रव्यमस्ति यल्लोकं प्रतिपूरयेत्
।
समुद्रकल्पः पुरुषो न कदाचन पूर्यते ॥४६॥
विश्वामित्र उवाच
।
कामं कामयमानस्य यदा कामः समृध्यते
।
अथैनमपरः कामस्तृष्णा विध्यति बाणवत् ॥४७॥
जमग्निरुवाच
।
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम्
।
तद्धनं ब्राह्मणस्येह लुभ्यमानस्य विस्रवेत् ॥४८॥
अरुन्धत्युवाच
।
धर्मार्थं सञ्चयो यो वै द्रव्याणां पक्षसंमतः
।
तपः सञ्चय एवेह विशिष्टो द्रव्यसञ्चयात् ॥४९॥
गण्डोवाच
।
उग्रादितो भयाद्यस्माद्बिभ्यतीमे ममेश्वराः
।
बलीयांसो दुर्बलवद्बिभेम्यहमतः परम् ॥५०॥
पशुसख उवाच
।
यद्वै धर्मे परं नास्ति ब्राह्मणास्तद्धनं विदुः
।
विनयार्थं सुविद्वांसमुपासेयं यथातथम् ॥५१॥
ऋषय ऊचुः
।
कुशलं सह दानेन तस्मै यस्य प्रजा इमाः
।
फलान्युपधियुक्तानि य एवं नः प्रयच्छति ॥५२॥
भीष्म उवाच। इत्युक्त्वा हेमगर्भाणि हित्वा तानि फलानि वै
।
ऋषयो जग्मुरन्यत्र सर्व एव धृतव्रताः ॥५३॥
मन्त्रिण ऊचुः
।
उपधिं शंकमानास्ते हित्वा तानि फलानि वै
।
ततोऽन्येनैव गच्छन्ति विदितं तेऽस्तु पार्थिव ॥५४॥
इत्युक्तः स तु भृत्यैस्तैर्वृषादर्भिश्चुकोप ह
।
तेषां वै प्रतिकर्तुं च सर्वेषामगमद्गृहम् ॥५५॥
स गत्वा हवनीयेऽग्नौ तीव्रं नियममास्थितः
।
जुहाव संस्कृतैर्मन्त्रैरेकैकामाहुतिं नृपः ॥५६॥
तस्मादग्नेः समुत्तस्थौ कृत्या लोकभयंकरी
।
तस्या नाम वृषादर्भिर्यातुधानीत्यथाकरोत् ॥५७॥
सा कृत्या कालरात्रीव कृताञ्जलिरुपस्थिता
।
वृषादर्भिं नरपतिं किं करोमीति चाब्रवीत् ॥५८॥
वृषादर्भिरुवाच
।
ऋषीणां गच्छ सप्तानामरुन्धत्यास्तथैव च
।
दासीभर्तुश्च दास्याश्च मनसा नाम धारय ॥५९॥
ज्ञात्वा नामानि चैवैषां सर्वानेतान्विनाशय
।
विनष्टेषु तथा स्वैरं गच्छ यत्रेप्सितं तव ॥६०॥
सा तथेति प्रतिश्रुत्य यातुधानी स्वरूपिणी
।
जगाम तद्वनं यत्र विचेरुस्ते महर्षयः ॥६१॥
भीष्म उवाच। अथात्रिप्रमुखा राजन् वने तस्मिन्महर्षयः
।
व्यचरन् भक्षयन्तो वै मूलानि च फलानि च ॥६२॥
अथापश्यन्सुपीनांसपाणिपादमुखोदरम्
।
परिव्रजन्तं स्थूलाङ्गं परिव्राजं शुना सह ॥६३॥
अरुन्धती तु तं दृष्ट्वा सर्वाङ्गोपचितं शुभम्
।
भवितारो भवन्तो वै नैवमित्यब्रवीदृषीन् ॥६४॥
वसिष्ठ उवाच
।
नैतस्येह यथाऽस्माकमग्निहोत्रमनिर्हुतम्
।
सायंप्रातश्च होतव्यं तेन पीवाञ्छुना सह ॥६५॥
अत्रिरुवाच
।
नैतस्येह यथाऽस्माकं क्षुधा वीर्यं समाहतम्
।
कृच्छ्राधीतं प्रनष्टं च तेन पीवाञ्छुना सह ॥६६॥
मिश्वामित्र उवाच
।
नैतस्येह यथाऽस्माकं शश्वच्छास्त्रं जरद्गवः
।
अलसः क्षुत्परो मूर्खस्तेन पीवाञ्छुना सह ॥६७॥
जमदग्निरुवाच
।
नैतस्येह यथाऽस्माकं भक्तमिन्धनमेव च
।
सञ्चिन्त्यं वार्षिकं चित्ते तेन पीवाञ्छुना सह ॥६८॥
कश्यप उवाच
।
नैतस्येह यथाऽस्माकं चत्वारश्च सहोदराः
।
देहि देहीति भिक्षन्ति तेन पीवाञ्छुना सह ॥६९॥
भरद्वाज उवाच
।
नैतस्येह यथाऽस्माकं ब्रह्मबन्धोरचेतसः
।
शोको भार्यापवादेन तेन पीवाञ्छुना सह ॥७०॥
गौतम उवाच
।
नैतस्येह यथाऽस्माकं त्रिकौशेयं च राङ्कवम्
।
एकैकं वै त्रिवर्षीयं तेन पीवाञ्छुना सह ॥७१॥
भीष्म उवाच। अथ दृष्ट्वा परिव्राट् स तान्महर्षीन् शुना सह
।
अभिगम्य यथान्यायं पाणिस्पर्शमथाचरत् ॥७२॥
परिचर्यां वने तां तु क्षुत्प्रतीधातकारिकाम्
।
अन्योन्येन निवेद्याथ प्रातिष्ठन्त सदैव ते ॥७३॥
एकनिश्चयकार्याश्च व्यचरन्त वनानि ते
।
आददानाः समुद्धृत्य मूलानि च फलानि च ॥७४॥
कदाचिद्विचरन्तस्ते वृक्षैरविरलैर्वृताम्
।
शुचिवारिप्रसन्नोदां ददृशुः पद्मिनीं शुभाम् ॥७५॥
बालादित्यवपुःप्रख्यैः पुष्करैरुपशोभिताम्
।
वैदूर्यवर्णसदृशैः पद्मपत्रैरथावृताम् ॥७६॥
नानाविधैश्च विहगैर्जलप्रकरसेविभिः
।
एकद्वारामनादेयां सूपतीर्थामकर्दमाम् ॥७७॥
वृषादर्भिप्रयुक्ता तु कृत्या विकृतदर्शना
।
यातुधानीति विख्याता पद्मिनीं तामरक्षत ॥७८॥
पशुसखसहायास्तु विसार्थं ते महर्षयः
।
पद्मिनीमभिजग्मुस्ते सर्वे कृत्याभिरक्षिताम् ॥७९॥
ततस्ते यातुधानीं तां दृष्ट्वा विकृतदर्शनाम्
।
स्थितां कमलिनीतीरे कृत्यामूचुर्महर्षयः ॥८०॥
एका तिष्ठसि का च त्वं कस्यार्थे किं प्रयोजनम्
।
पद्मिनीतीरमाश्रित्य ब्रूहि त्वं किं चिकीर्षसि ॥८१॥
यातुधान्युवाच
।
याऽस्मि साऽस्म्यनुयोगो मे न कर्तव्यः कथञ्चन
।
आरक्षिणीं मां पद्मिन्या वित्त सर्वे तपोधनाः ॥८२॥
ऋषय ऊचुः
।
सर्व एव क्षुधार्ताः स्म न चान्यत्किंचिदस्ति नः
।
भवत्याः संमते सर्वे गृह्णीयाम बिसान्युत ॥८३॥
यातुधान्युवाच
।
समयेन बिसानीतो गृह्णीध्वं कामकारतः
।
एकै को नाम मे प्रोक्त्वा ततो गृह्णीत माचिरम् ॥८४॥
भीष्म उवाच। विज्ञाय यातुधानीं तां कृत्यामृषिवधैषिणीम्
।
अत्रिः क्षुधापरीतात्मा ततो वचनमब्रवीत् ॥८५॥
अत्रिरुवाच
।
अरात्रिरत्रिः सा रात्रिर्यां नाधीते त्रिरद्य वै
।
अरात्रिरत्रिरित्येव नाम मे विद्धि शोभने ॥८६॥
यातुधान्युवाच
।
यथोदाहृतमेतत्ते मयि नाम महाद्युते
।
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥८७॥
वसिष्ठ उवाच
।
वसिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासगृहेष्वपि
।
वसिष्ठत्वाच्च वासाच्च वसिष्ठ इति विद्धि माम् ॥८८॥
यातुधान्युवाच
।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥८९॥
कश्यप उवाच
।
कुलं कुलं च कुवमः कुवमः कश्यपो द्विजः
।
काश्यः काशनिकाशत्वादेतन्मे नाम धारय ॥९०॥
यातुधान्युवाच
।
यथोदाहृतमेतत्ते मयि नाम महाद्युते
।
दुर्धार्यमेतन्मनसा गच्छावतर पद्मिनीम् ॥९१॥
भरद्वाज उवाच
।
भरेऽसुतान्भरेऽशिष्यान् भरे देवान्भरे द्विजान्
।
भरे भार्यां भरेद्वाजं भरद्वाजोऽस्मि शोभने ॥९२॥
यातुधान्युवाच
।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥९३॥
गौतम उवाच
।
गोदमो दमतोऽधूमोऽदमस्ते समदर्शनात्
।
विद्धि मां गौतमं कृत्ये यातुधानि निबोध माम् ॥९४॥
यातुधान्युवाच
।
यथोदाहृतमेतत्ते मयि नाम महामुने
।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥९५॥
विश्वामित्र उवाच
।
विश्वे देवाश्च मे मित्रं मित्रमस्मि गवां तथा
।
विश्वामित्रमिति ख्यातं यातुधानि निबोध माम् ॥९६॥
यातुधान्युवाच
।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥९७॥
जमदग्निरुवाच
।
जाजमद्यजजानेऽहं जिजाहीह जिजायिषि
।
जमदग्निरिति ख्यातस्ततो मां विद्धि शोभने ॥९८॥
यातुधान्युवाच
।
यथोदाहृतमेतत्ते मयि नाम महामुने
।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥९९॥
अरुन्धत्युवाच
।
धरान् धरित्रीं वसुधां भर्तुस्तिष्ठाम्यनन्तरम्
।
मनोनुरुन्धती भर्तुरिति मां विद्ध्यरुन्धतीम् ॥१००॥
यातुधान्युवाच
।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥१०१॥
गण्डोवाच
।
वक्त्रैकदेशे गण्डेति धातुमेतं प्रचक्षते
।
तेनोन्नतेन गण्डेति विद्धि माऽनलसम्भवे ॥१०२॥
यातुधान्युवाच
।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥१०३॥
पशुसख उवाच
।
पशून् रञ्जामि दृष्ट्वाऽहं पशूनां च सदा सखा
।
गौणं पशुसखेत्येवं विद्धि मामग्निसम्भवे ॥१०४॥
यातुधान्युवाच
।
नामनैरुक्तमेतत्ते दुःखव्याभाषिताक्षरम्
।
नैतद्धारयितुं शक्यं गच्छावतर पद्मिनीम् ॥१०५॥
शुनःसख उवाच
।
एभिरुक्तं यथा नाम नाहं वक्तुमिहोत्सहे
।
शुनःसखसखायं मां यातुधान्युपधारय ॥१०६॥
यातुधान्युवाच
।
नामनैरुक्तमेतत्ते वाक्यं सन्दिग्धया गिरा
।
तस्मात्पुनरिदानीं त्वं ब्रूहि यन्नाम ते द्विज ॥१०७॥
शुनःसख उवाच
।
सकृदुक्तं मया नाम न गृहीतं त्वया यदि
।
तस्मात्त्रिदंडाभिहता गच्छ भस्मेति मा चिरम् ॥१०८॥
सा ब्रह्मदण्डकल्पेन तेन मूर्ध्नि हता तदा
।
कृत्या पपात मेदिन्यां भस्म सा च जगाम ह ॥१०९॥
शुनःसखा च हत्वा तां यातुधानीं महाबलाम्
।
भुवि त्रिदण्डं विष्टभ्य शाद्वले समुपाविशत् ॥११०॥
ततस्ते मुनयः सर्वे पुष्कराणि बिसानि च
।
यथाकाममुपादाय समुत्तस्थुर्मुदान्विताः ॥१११॥
श्रमेण महता कृत्वा ते बिसानि कलापशः
।
तीरे निक्षिप्य पद्मिन्यास्तर्पणं चक्रुरम्भसा ॥११२॥
अथोत्थाय जलात्तस्मात्सर्वे ते समुपागमन्
।
नापश्यंश्चापि ते तानि बिसानि पुरुषर्षभाः ॥११३॥
ऋषय ऊचुः
।
केन क्षुधा परीतानामस्माकं पापकर्मणाम्
।
नृशंसेनापनीतानि बिसान्याहारकांक्षिणाम् ॥११४॥
ते शङ्कमानास्त्वन्योन्यं पप्रच्छुर्द्विजसत्तमाः
।
त ऊचुः समयं सर्वे कुर्म इत्यरिकर्शन ॥११५॥
त उक्त्वा बाढमित्येवं सर्व एव तदा समम्
।
क्षुधार्ताः सुपरिश्रान्ताः शपथायोपचक्रमुः ॥११६॥
अत्रिरुवाच
।
स गां स्पृशतु पादेन सूर्यं च प्रतिमेहतु
।
अनध्यायेष्वधीयीत बिसस्तैन्यं करोति यः ॥११७॥
वसिष्ठ उवाच
।
अनध्याये पठेल्लोके शुनः स परिकर्षतु
।
परिव्राट् कामवृत्तस्तु बिसस्तैन्यं करोति यः ॥११८॥
शरणागतं हन्तु स वै स्वसुतां चोपजीवतु
।
अर्थान्कांक्षतु कीनाशाद्बिसस्तैन्यं करोति यः ॥११९॥
कश्यप उवाच
।
सर्वत्र सर्वं लपतु न्यासलोपं करोतु च
।
कूटसाक्षित्वमभ्येतु बिसस्तैन्यं करोति यः ॥१२०॥
वृथामांसाशनश्चास्तु वृथादानं करोतु च
।
यातु स्त्रियं दिवा चैव बिसस्तैन्यं करोति यः ॥१२१॥
भरद्वाज उवाच
।
नृशंसस्त्यक्तधर्मास्तु स्त्रीषु ज्ञातिषु गोषु च
।
ब्राह्मणं चापि जयतां बिसस्तैन्यं करोति यः ॥१२२॥
उपाध्यायमधः कृत्वा ऋचोऽध्येतु यजूंषि च
।
जुहोतु च स कक्षाग्नौ बिसस्तैन्यं करोति यः ॥१२३॥
जमदग्निरुवाच
।
पुरीषमुत्सृजत्वप्सु हन्तु गां चैव द्रुह्यतु
।
अनृतौ मैथुनं यातु बिसस्तैन्यं करोति यः ॥१२४॥
द्वेष्यो भार्योपजीवी स्याद्दूरबन्धुश्च वैरवान्
।
अन्योन्यस्यातिथिश्चास्तु बिसस्तैन्यं करोति यः ॥१२५॥
गौतम उवाच
।
अधीत्य वेदांस्त्यजतु त्रीनग्नीनपविध्यतु
।
विक्रीणातु तथा सोमं विसस्तैन्यं करोति यः ॥१२६॥
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः
।
तस्य सालोक्यतां यातु बिसस्तैन्यं करोति यः ॥१२७॥
विश्वामित्र उवाच
।
जीवतो वै गुरून्भृत्यान्भरन्त्वस्य परे जनाः
।
अगतिर्बहुपुत्रः स्याद्विसस्तैन्यं करोति यः ॥१२८॥
अशुचिर्ब्रह्मकूटोऽस्तु ऋद्ध्या चैवाप्यहंकृतः
।
कर्षको मत्सरी चास्तु बिसस्तैम्यं करोति यः ॥१२९॥
वर्षाचरोऽस्तु भृतको राज्ञश्चास्तु पुरोहितः
।
अयाज्यस्य भवेदृत्विग् बिसस्तैन्यं करोति यः ॥१३०॥
अरुन्धत्युवाच
।
नित्यं परिभवेच्छ्वश्रूं भर्तुर्भवतु दुर्मनाः
।
एका स्वादु समाश्नातु बिसस्तैन्यं करोति या ॥१३१॥
ज्ञातीनां गृहमध्यस्था सक्तूनत्तु दिनक्षये
।
अभोग्या वीरसूरस्तु बिसस्तैन्यं करोति या॥१३२॥
गण्डोवाच
।
अनृतं भाषतु सदा बन्धुभिश्च विरुध्यतु
।
ददातु कन्यां शुल्केन बिसस्तैन्यं करोति या ॥१३३॥
साधयित्वा स्वयं प्राशेद्दास्ये जीर्यतु चैव ह
।
विकर्मणा प्रमीयेत बिसस्तैन्यं करोति या ॥१३४॥
पशुसख उवाच
।
दास एव प्रजायेतामप्रसूतिरकिञ्चनः
।
दैवतेष्वनमस्कारो बिसस्तैन्यं करोति यः ॥१३५॥
शुनःसख उवाच
।
अध्वर्यवे दुहितरं वा ददातुच्छन्दोगे वा चरितब्रह्मचर्ये
।
आथर्वणं वेदमधीत्य विप्रः स्नायीत वा यो हरते बिसानि ॥१३६॥
ऋषय ऊचुः
।
इष्टमेतद्द्विजातीनां योऽयं ते शपथः कृतः
।
त्वया कृतं बिसस्तैन्यं सर्वेषां नः शुनःसख ॥१३७॥
शुनःसख उवाच
।
न्यस्तमद्यं न पश्यद्भिर्यदुक्तं कृतकर्मभिः
।
सत्यमेतन्न मिथ्यैतद्विसस्तैन्यं कृतं मया ॥१३८॥
मया ह्यन्तर्हितानीह बिसानीमानि पश्यत
।
परीक्षार्थं भगवतां कृतमेवं मयाऽनघाः ॥१३९॥
रक्षणार्थं च सर्वेषां भवतामहमागतः
।
यातुधानी ह्यतिक्रूरा कृत्यैषा वो वधैषिणी ॥१४०॥
वृषादर्भिप्रयुक्तैषा निहता मे तपोधनाः
।
दुष्टा हिंस्यादियं पापा युष्मान्प्रत्यग्निसंभवा ॥१४१॥
तस्मादस्म्यागतो विप्रा वासवं मां निबोधत
।
अलोभादक्षया लोकाः प्राप्ता वै सार्वकामिकाः ॥१४२॥
उत्तिष्ठध्वमितः क्षिप्रं तानवाप्नुत वै द्विजाः ॥१४३॥
भीष्म उवाच। ततो महर्षयः प्रीतास्तथेत्युक्त्वा पुरंदरम्
।
सहैव त्रिदशेन्द्रेण सर्वे जग्मुस्त्रिविष्टपम् ॥१४४॥
एवमेते महात्मानो भोगैर्बहुविधैरपि
।
क्षुधा परमया युक्ताच्छंद्यमाना महात्मभिः ॥१४५॥
नैव लोभं तदा चक्रुस्ततः स्वर्गमवाप्नुवन्
।
तस्मात्सर्वास्ववस्थासु नरो लोभं विवर्जयेत् ॥१४६॥
एष धर्मः परो राजंस्तस्माल्लोभं विवर्जयेत् ॥१४७॥
इदं नरः सुचरितं समवायेषु कीर्तयन्
।
अर्थभागी च भवति न च दुर्गाण्यवाप्नुते ॥१४८॥
प्रीयन्ते पितरश्चास्य ऋषयो देवतास्तथा
।
यशोधर्मार्थभागी च भवति प्रेत्य मानवः ॥१४९॥
भीष्म उवाच। अत्रैवोदाहरन्तीममितिहासं पुरातनम्
।
यद्वृत्तं तीर्थयात्रायां शपथं प्रति तच्छृणु ॥१॥
पुष्करार्थं कृतं स्तैन्यं पुरा भरतसत्तम
।
राजर्षिभिर्महाराज तथैव च द्विजार्षभिः ॥२॥
ऋषयः समेताः पश्चिमे वै प्रभासे समागता मन्त्रममन्त्रयन्त
।
चराम सर्वां पृथिवीं पुण्यतीर्थां तन्नः कामं हंत गच्छाम सर्वे ॥३॥
शुक्रोऽङ्गिराश्चैव कविश्च विद्वांस्तथा ह्यगस्त्यो नारदपर्वतौ च
।
भृगुर्वसिष्ठः कश्यपो गौतमश्च विश्वामित्रो जमदग्निश्च राजन् ॥४॥
ऋषिस्तथा गालवोऽथाष्टकश्च भरद्वाजोऽरुन्धती वालखिल्याः
।
शिबिर्दिलीपो नहुषोऽम्बरीषो राजा ययातिर्धुन्धुमारोऽथ पूरुः ॥५॥
जग्मुः पुरस्कृत्य महानुभावं शतक्रतुं वृत्रहणं नरेन्द्राः
।
तीर्थानि सर्वाणि परिभ्रमन्तो माध्यां ययुः कौशिकीं पुण्यतीर्थाम् ॥६॥
सर्वेषु तीर्थेष्ववधूतपापा जग्मुस्ततो ब्रह्मसरः सुपुण्यम्
।
देवस्य तीर्थे जलमग्निकल्पा विगाह्य ते भुक्तबिसप्रसूनाः ॥७॥
केचिद्बिसान्यखनंस्तत्र राजन्नन्ये मृणालान्यखनंस्तत्र विप्राः
।
अथापश्यन्पुष्करं ते ह्रियन्तं ह्रदादगस्त्येन समुद्धृतं तत् ॥८॥
तानाह सर्वानृषिमुख्यानगस्त्यः केनादत्तं पुष्करं मे सुजातम्
।
युष्मान्शङ्के पुष्करं दीयतां मे न वै भवन्तो हर्तुमर्हन्ति पद्मम् ॥९॥
शृणोमि कालो हिंसते धर्मवीर्यं सोऽयं प्राप्तो वर्तते धर्मपीडा
।
पुराऽधर्मो वर्तते नेह यावत्तावद्गच्छामः सुरलोकं चिराय ॥१०॥
पुरा वेदान्ब्राह्मणा ग्राममध्ये घुष्टस्वरा वृषलान्श्रावयन्ति
।
पुरा राजा व्यवहारेण धर्मान्पश्यत्यहं परलोकं व्रजामि ॥११॥
पुरावरान्प्रत्यवरान् गरीयसो यावन्नरा नावमंस्यन्ति सर्वे
।
तमोत्तरं यावदिदं न वर्तते तावद्व्रजामि परलोकं चिराय ॥१२॥
पुरा प्रपश्यामि परेण मर्त्यान् बलीयसा दुर्बलान्भुज्यमानान्
।
तस्माद्यास्यामि परलोकं चिराय न ह्युत्सहे द्रष्टुमिह जीवलोकम् ॥१३॥
तमाहुरार्ता ऋषयो महर्षिं न ते वयं पुष्करं चोरयामः
।
मिथ्याभिषङ्गो भवता न कार्यः शपाम तीक्ष्णैः शपथैर्महर्षे ॥१४॥
ते निश्चितास्तत्र महर्षयस्तु संपश्यन्तो धर्ममेतं नरेन्द्राः
।
ततोऽशपन्त शपथान्पर्ययेण सहैव ते पार्थिव पुत्रपौत्रैः ॥१५॥
भृगुरुवाच
।
प्रत्याक्रोशेदिहाक्रुष्टस्ताडितः प्रतिताडयेत्
।
खादेच्च पृष्ठमांसानि यस्ते हरति पुष्करम् ॥१६॥
वसिष्ठ उवाच
।
अस्वाध्यायपरो लोके श्वानं च परिकर्षतु
।
पुरे च भिक्षुर्भवतु यस्ते हरति पुष्करम् ॥१७॥
कश्यप उवाच
।
सर्वत्र सर्वं पणतु न्यासे लोभं करोतु च
।
कूटसाक्षित्वमभ्येतु यस्ते हरति पुष्करम् ॥१८॥
गौतम उवाच
।
जीवत्वहंकृतो बुद्ध्या विषमेणासमेन सः
।
कर्षको मत्सरी चास्तु यस्ते हरति पुष्करम् ॥१९॥
अङ्गिरा उवाच
।
अशुचिर्ब्रह्मकूटोऽस्तु श्वानं च परिकर्षतु
।
ब्रह्महाऽनिकृतिश्चास्तु यस्ते हरति पुष्करम् ॥२०॥
धुन्धुमार उवाच
।
अकृतज्ञस्तु मित्राणां शूद्रायां च प्रजायतु
।
एकः सम्पन्नमश्नातु यस्ते हरति पुष्करम् ॥२१॥
पूरुरुवाच
।
चिकित्सायां प्रचरतु भार्यया चैव पुष्यतु
।
श्वशुरात्तस्य वृत्तिः स्याद्यस्ते हरति पुष्करम् ॥२२॥
दिलीप उवाच
।
उदपानप्लवे ग्रामे ब्राह्मणो वृषलीपतिः
।
तस्य लोकान्स व्रजतु यस्ते हरति पुष्करम् ॥२३॥
शुक्र उवाच
।
वृथामांसं समश्नातु दिवा गच्छतु मैथुनम्
।
प्रेष्यो भवतु राज्ञश्च यस्ते हरति पुष्करम् ॥२४॥
जमदग्निरुवाच
।
अनध्यायेष्वधीयीत मित्रं श्राद्धे च भोजयेत्
।
श्राद्धे शूद्रस्य चाश्नीयाद्यस्ते हरति पुष्करम् ॥२५॥
शिबिरुवाच
।
अनाहिताग्निर्म्रियतां यज्ञे विघ्नं करोतु च
।
तपस्विभिर्विरुध्येच्च यस्ते हरति पुष्करम् ॥२६॥
ययातिरुवाच
।
अनृतौ च व्रती चैव भार्यायां स प्रजायतु
।
निराकरोतु वेदांश्च यस्ते हरति पुष्करम् ॥२७॥
नहुष उवाच
।
अतिथिर्गृहसंस्थोऽस्तु कामवृत्तस्तु दीक्षितः
।
विद्यां प्रयच्छतु भुतो यस्ते हरति पुष्करम् ॥२८॥
अम्बरीष उवाच
।
नृशंसस्त्यक्तधर्मोऽस्तु स्त्रीषु ज्ञातिषु गोषु च
।
निहन्तु ब्राह्मणं चापि यस्ते हरति पुष्करम् ॥२९॥
नारद उवाच। गृहज्ञानी बहिःशास्त्रं पठतां विस्वरं पदम्
।
गरीयसोऽवजानातु यस्ते हरति पुष्करम् ॥३०॥
नाभाग उवाच
।
अनृतं भाषतु सदा सद्भिश्चैव विरुध्यतु
।
शुल्केन तु ददत्कन्यां यस्ते हरति पुष्करम् ॥३१॥
कविरुवाच
।
पद्भ्यां स गां ताडयतु सूर्यं च प्रतिमेहतु
।
शरणागतं संत्यजतु यस्ते हरति पुष्करम् ॥३२॥
विश्वामित्र उवाच
।
करोतु भृतकोऽवर्षां राज्ञश्चास्तु पुरोहितः
।
ऋत्विगस्तु ह्ययाज्यस्य यस्ते हरति पुष्करम् ॥३३॥
पर्वत उवाच
।
ग्रामे चाधिकृतः सोऽस्तु खरयानेन गच्छतु
।
शुनः कर्षतु वृत्त्यर्थे यस्ते हरति पुष्करम् ॥३४॥
भरद्वाज उवाच
।
सर्वपापसमादानं नृशंसे चानृते च यत्
।
तत्तस्यास्तु सदा पापं यस्ते हरति पुष्करम् ॥३५॥
अष्टक उवाच
।
स राजास्त्वकृतप्रज्ञः कामवृत्तश्च पापकृत्
।
अधर्मेणाभिशास्तूर्वीं यस्ते हरति पुष्करम् ॥३६॥
गालव उवाच
।
पापिष्ठेभ्यो ह्यनर्घार्हः स नरोस्तु स्वपापकृत्
।
दत्वा दानं कीर्तयतु यस्ते हरति पुष्करम् ॥३७॥
अरुन्धत्युवाच
।
श्वश्वापवादं वदतु भर्तुर्भवतु दुर्मनाः
।
एका स्वादु समश्नातु या ते हरति पुष्करम् ॥३८॥
वालखिल्या ऊचुः
।
एकपादेन वृत्त्यर्थं ग्रामद्वारे स तिष्ठतु
।
धर्मज्ञस्त्यक्तधर्माऽस्तु यस्ते हरति पुष्करम् ॥३९॥
शुनःसख उवाच
।
अग्निहोत्रमनादृत्य स सुखं स्वपतु द्विजः
।
परिव्राट् कामवृत्तोऽस्तु यस्ते हरति पुष्करम् ॥४०॥
सुरभ्युवाच
।
बालजेन निदानेन कांस्यं भवतु दोहनम्
।
दुह्येत परवत्सेन या ते हरति पुष्करम् ॥४१॥
भीष्म उवाच। ततस्तु तैः शपथैः शप्यमानैर्नानाविधैर्बहुभिः कौरवेन्द्र
।
सहस्त्राक्षो देवराट् संप्रहृष्टःसमीक्ष्य तं कोपनं विप्रमुख्यम् ॥४२॥
अथाब्रवीन्मघवा प्रत्ययं स्वं समाभाष्य तमृषिं जातरोषम्
।
ब्रह्मर्षिर्देवर्षिनृपर्षिमध्ये यं तं निबोधेह ममाद्य राजन् ॥४३॥
शक्र उवाच। अध्वर्यवे दुहितरं ददातुछन्दोगे वा चरितब्रह्मचर्ये
।
अथर्वणं वेदमधीत्य विप्रःस्नायीत यः पुष्करमाददाति ॥४४॥
सर्वान्वेदानधीयीत पुण्यशीलोऽस्तु धार्मिकः
।
ब्रह्मणः सदनं यातु यस्ते हरति पुष्करम् ॥४५॥
अगस्त्य उवाच
।
आशीर्वादस्त्वया प्रोक्तः शपथो बलसूदन
।
दीयतां पुष्करं मह्यमेष धर्मः सनातनः ॥४६॥
इन्द्र उवाच। न मया भगवन् लोकाद्धृतं पुष्करमद्य वै
।
धर्मांस्तु श्रोतुकामेन हृतं न क्रोद्धुमर्हसि ॥४७॥
धर्मश्रुतिसमुत्कर्षो धर्मसेतुरनामयः
।
आर्षो वै शाश्वतो नित्यमव्ययोऽयं मया श्रुतः ॥४८॥
तदिदं गृह्यतां विद्वन्पुष्करं द्विजसत्तम
।
अतिक्रमं मे भगवन् क्षन्तुमर्हस्यनिन्दित ॥४९॥
इत्युक्तः स महेन्द्रेण तपस्वी कोपनो भृशम्
।
जग्राह पुष्करं धीमान्प्रसन्नश्चाभवन्मुनिः ॥५०॥
प्रययुस्ते ततो भूयस्तीर्थानि वनगोचराः
।
पुण्येषु तीर्थेषु तथा गात्राण्याप्लावयन्त ते॥५१॥
आख्यानं य इदं युक्तः पठेत्पर्वणि पर्वणि
।
न मूर्खं जनयेत्पुत्रं न भवेच्च निराकृतिः ॥५२॥
न तमापत्स्पृशेत्काचिद्विज्वरो न जरावहः
।
विरजाः श्रेयसा युक्तः प्रेत्य स्वर्गमवाप्नुयात् ॥५३॥
यश्च शास्त्रमधीयीत ऋषिभिः परिपालितम्
।
स गच्छेद्ब्रह्मणो लोकमव्ययं च नरोत्तम ॥५४॥
युधिष्ठिर उवाच। यदिदं श्राद्धकृत्येषु दीयते भरतर्षभ
।
छत्रं चोपानहौ चैव केनैतत्संप्रवर्तितम् ॥१॥
कथं चैतत्समुत्पन्नं किमर्थं चैव दीयते
।
न केवलं श्राद्धकृत्ये पुण्यकेष्वपि दीयते ॥२॥
बहुष्वपि निमित्तेषु पुण्यमाश्रित्य दीयते
।
एतद्विस्तरतो ब्रह्मन् श्रोतुमिच्छामि तत्त्वतः ॥३॥
भीष्म उवाच। शृणु राजन्नवहितश्छत्रोपानहविस्तरम्
।
यथैतत्प्रथितं लोके यथा चैतत्प्रवर्तितम् ॥४॥
यथा चाक्षय्यतां प्राप्तं पुण्यतां च यथा गतम्
।
सर्वमेतदशेषेण प्रवक्ष्यामि नराधिप ॥५॥
जमदग्नेश्च संवादं सूर्यस्य च महात्मनः
।
पुरा स भगवान् साक्षाद्धनुषाऽक्रीडयत्प्रभो ॥६॥
संधाय संधाय शरांश्चिक्षेप किल भार्गवः
।
तान् क्षिप्तान् रेणुका सर्वांस्तस्येषून्दीप्ततेजसः ॥७॥
आनीय सा तदा तस्मै प्रादादसकृदच्युत
।
अथ तेन स शब्देन ज्यायाश्चैव शरस्य च ॥८॥
प्रहृष्टः संप्रचिक्षेप सा च प्रत्याजहार तान्
।
ततो मध्याह्नमारूढे ज्येष्ठामूले दिवाकरे ॥९॥
स सायकान्द्विजो मुक्त्वा रेणुकामिदमब्रवीत्
।
गच्छानय विशालाक्षि शरानेतान्धनुश्च्युतान् ॥१०॥
यावदेतान्पुनः सुभ्रु क्षिपामीति जनाधिप
।
सा गच्छन्त्यन्तरा छायां वृक्षमाश्रित्य भामिनी ॥११॥
तस्थौ तस्या हि सन्तप्तं शिरः पादौ तथैव च
।
स्थिता सा तु मुहूर्तं वै भर्तुः शापभयाच्छुभा ॥१२॥
ययावानयितुं भूयः सायकानसितेक्षणा
।
प्रत्याजगाम च शरांस्तानादाय यशस्विनी ॥१३॥
सा वै खिन्ना सुचार्वङ्गी पद्भ्यां दुःखं नियच्छती
।
उपाऽऽजगाम भर्तारं भयाद्भर्तुः प्रवेपती ॥१४॥
स तामृषिस्तदा क्रुद्धो वाक्यमाह शुभाननाम्
।
रेणुके किं चिरेण त्वमागतेति पुनः पुनः ॥१५॥
रेणुकोवाच
।
शिरस्तावत्प्रदीप्तं मे पादौ चैव तपोधन
।
सुर्यतेजोनिरुद्धाऽहं वृक्षच्छायां समाश्रिता ॥१६॥
एतस्मात्कारणाद्ब्रह्मश्चिरायैतत्कृतं मया
।
एतच्छ्रुत्वा मम विभो मा क्रुधस्त्वं तपोधन ॥१७॥
जमदग्निरुवाच
।
अद्यैनं दीप्तकिरणं रेणुके तव दुःखदम्
।
शरैर्निपातयिष्यामि सुर्यमस्त्राग्नितेजसा ॥१८॥
भीष्म उवाच। स विस्फार्य धनुर्दिव्यं गृहीत्वा च शरान्बहून्
।
अतिष्ठत्सूर्यमभितो यतो याति ततोमुखः ॥१९॥
अथ तं प्रेक्ष्य सन्नद्धं सूर्योऽभ्येत्य तथाऽब्रवीत्
।
द्विजरूपेण कौन्तेय किं ते सूर्योपराध्यते ॥२०॥
आदत्ते रश्मिभिः सूर्यो दिवि तिष्ठंस्ततस्ततः
।
रसं हृतं वै वर्षासु प्रवर्षति दिवाकरः ॥२१॥
ततोऽन्नं जायते विप्र मनुष्याणां सुखावहम्
।
अन्नं प्राणा इति यथा वेदेषु परिपठ्यते ॥२२॥
अथाभ्रेषु निगूढश्च रश्मिभिः परिवारितः
।
सप्तद्वीपानिमान्ब्रह्मन्वर्षेणाभिप्रवर्षति ॥२३॥
ततस्तदौषधीनां च वीरुधां पुष्पपत्रजम्
।
सर्वं वर्षाभिनिर्वृत्तमन्नं संभवति प्रभो ॥२४॥
जातकर्माणि सर्वाणि व्रतोपनयनानि च
।
गोदानानि विवाहाश्च तथा यज्ञसमृद्धयः ॥२५॥
शास्त्राणि दानानि तथा संयोगा वित्तसंचयाः
।
अन्नतः संप्रवर्तन्ते यथा त्वं वेत्थ भार्गव ॥२६॥
रमणीयानि यावन्ति यावदारंभिकाणि च
।
सर्वमन्नात्प्रभवति विदितं कीर्तयामि ते ॥२७॥
सर्वं हि वेत्थ विप्र त्वं यदेतत्कीर्तितं मया
।
प्रसादये त्वां विप्रर्षे किं ते सूर्यं निपात्य वै ॥२८॥
युधिष्ठिर उवाच। एवं प्रयाचति तदा भास्करे मुनिसत्तमः
।
जमदग्निर्महातेजाः किं कार्यं प्रत्यपद्यत ॥१॥
भीष्म उवाच। स तथा याचमानस्य मुनिरग्निसमप्रभः
।
जमदग्निः शमं नैव जगाम कुरुनन्दन ॥२॥
ततः सूर्यो मधुरया वाचा तमिदमब्रवीत्
।
कृताञ्जलिर्विप्ररूपी प्रणम्यैनं विशाम्पते ॥३॥
चलं निमित्तं विप्रर्षे सदा सूर्यस्य गच्छतः
।
कथं चलं भेत्स्यसि त्वं सदा यान्तं दिवाकरम् ॥४॥
जमदग्निरुवाच
।
स्थिरं चापि चलं चापि जाने त्वां ज्ञानचक्षुषा
।
अवश्यं विनयाधानं कार्यमद्य मया तव ॥५॥
मध्याह्ने वै निमेषार्धं तिष्ठसि त्वं दिवाकर
।
तत्र भेत्स्यामि सूर्य त्वां न मेऽत्रास्ति विचारणा ॥६॥
सूर्य उवाच
।
असंशयं मां विप्रर्षे भेत्स्यसे धन्विनां वर
।
अपकारिणं मां विद्धि भगवञ्छरणागतम् ॥७॥
भीष्म उवाच। ततः प्रहस्य भगवान् जमदग्निरुवाच तम्
।
न भीः सूर्य त्वया कार्या प्राणपातगतो ह्यसि ॥८॥
ब्राह्मणेष्वार्जवं यश्च स्थैर्यं च धरणीतले
।
सौम्यतां चैव सोमस्य गांभीर्यं वरुणस्य च ॥९॥
दीप्तिमग्नेः प्रभां मेरोः प्रतापं तपनस्य च
।
एतान्यतिक्रमेद्यो वै स हन्याच्छरणागतम् ॥१०॥
भवेत्स गुरुतल्पी च ब्रह्महा च स वै भवेत्
।
सुरापानं स कुर्याच्च यो हन्याच्छरणागतम् ॥११॥
एतस्य त्वपनीतस्य समाधिं तात चिन्तय
।
यथा सुखगमः पन्था भवेत्त्वद्रश्मिभावितः ॥१२॥
भीष्म उवाच। एतावदुक्त्वा स तदा तूष्णीमासीद्भृगूत्तमः
।
अथ सूर्योऽददत्तस्मै छत्रोपानहमाशु वै ॥१३॥
सूर्य उवाच
।
महर्षे शिरसस्त्राणं छत्रं मद्रश्मिवारणम्
।
प्रतिगृह्णीष्व पद्भ्यां च त्राणार्थं चर्मपादुके ॥१४॥
अद्यप्रभृति चैवेह लोके संप्रचरिष्यति
।
पुण्यकेषु च सर्वेषु परमक्षय्यमेव च ॥१५॥
भीष्म उवाच। छत्रोपानहमेतत्तु सूर्येणैतत्प्रवर्तितम्
।
पुण्यमेतदभिख्यातं त्रिषु लोकेषु भारत ॥१६॥
तस्मात्प्रयच्छ विप्रेषु छत्रोपानहसुत्तमम्
।
धर्मस्तेषु महान्भावी न मेऽत्रास्ति विचारणा ॥१७॥
छत्रं हि भरतश्रेष्ठ यः प्रदद्याद्द्विजातये
।
शुभ्रं शतशलाकं वै स प्रेत्य सुखमेधते ॥१८॥
स शक्रलोके वसति पूज्यमानो द्विजातिभिः
।
अप्सरोभिश्च सततं देवैश्च भरतर्षभ ॥१९॥
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ
।
स्नातकाय महाबाहो संशिताय द्विजातये ॥२०॥
सोऽपि लोकानवाप्नोति दैवतैरभिपूजितान्
।
गोलोके स मुदा युक्तो वसति प्रेत्य भारत ॥२१॥
एतत्ते भरतश्रेष्ठ मया कार्त्स्न्येन कीर्तितम्
।
छत्रोपानहदानस्य फलं भरतसत्तम ॥२२॥
युधिष्ठिर उवाच। गार्हस्थ्यं धर्ममखिलं प्रब्रूहि भरतर्षभ
।
ऋद्धिमाप्नोति किं कृत्वा मनुष्य इह पार्थिव ॥१॥
भीष्म उवाच। अत्र ते वर्तयिष्यामि पुरावृत्तं जनाधिप
।
वासुदेवस्य संवादं पृथिव्याश्चैव भारत ॥२॥
संस्तुत्य पृथिवीं देवीं वासुदेवः प्रतापवान्
।
पप्रच्छ भरतश्रेष्ठ मां त्वं यत्पृच्छसेऽद्य वै ॥३॥
वासुदेव उवाच। गार्हस्थ्यं धर्ममाश्रित्य मया वा मद्विधेन वा
।
किमवश्यं धरे कार्यं किं वा कृत्वा कृतं भवेत् ॥४॥
पृथिव्युवाच
।
ऋषयः पितरो देवा मनुष्याश्चैव माधव
।
इज्याश्चैवार्चनीयाश्च यथा चैव निबोध मे ॥५॥
सदा यज्ञेन देवाश्च सदाऽऽतिथ्येन मानुषाः
।
छंदतश्च यथा नित्यमर्हान् भुञ्जीत नित्यशः ॥६॥
तेन ह्यृषिगणाः प्रीता भवन्ति मधुसूदन
।
नित्यमग्निं परिचरेदभुक्त्वा बलिकर्म च ॥७॥
कुर्यात्तथैव देवा वै प्रीयन्ते मधुसूदन
।
कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन च ॥८॥
पयोमूलफलैर्वापि पितॄणां प्रीतिमाहरन्
।
सिद्धान्नाद्वैश्वदेवं वै कुर्यादग्नौ यथाविधि ॥९॥
अग्नीषोमं वैश्वदेवं धान्वन्तर्यमनन्तरम्
।
प्रजानां पतये चैव पृथघ्घोमो विधीयते ॥१०॥
तथैव चानुपूर्व्येण बलिकर्म प्रयोजयेत्
।
दक्षिणायां यमायेति प्रतीच्यां वरुणाय च ॥११॥
सोमाय चाप्युदीच्यां वै वास्तुमध्ये प्रजापतेः
।
धन्वन्तरेः प्रागुदीच्यां प्राच्यां शक्राय माधव ॥१२॥
मनुष्येभ्य इति प्राहुर्बलिं द्वारि गृहस्य वै
।
मरुद्भ्यो देवतेभ्यश्च बलिमन्तर्गुहे हरेत् ॥१३॥
तथैव विश्वेदेवेभ्यो बलिमाकाशतो हरेत्
।
निशाचरेभ्यो भूतेभ्यो बलिं नक्तं तथा हरेत् ॥१४॥
एवं कृत्वा बलिं सम्यग्दद्याद्भिक्षां द्विजाय वै
।
अलाभे ब्राह्मणस्याग्नावग्रमुद्धृत्य निक्षिपेत् ॥१५॥
यदा श्राद्धं पितृभ्योऽपि दातुमिच्छेत मानवः
।
तदा पश्चात्प्रकुर्वीत निवृत्ते श्राद्धकर्मणि ॥१६॥
पितॄन्सन्तर्पयित्वा तु बलिं कुर्याद्विधानतः
।
वैश्वदेवं ततः कुर्यात्पश्चाद्ब्राह्मणवाचनम् ॥१७॥
ततोऽन्नेन विशेषेण भोजयेदतिथीनपि
।
अर्चापूर्वं महाराज ततः प्रीणाति मानवान् ॥१८॥
अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते
।
आचार्यस्य पितुश्चैव सख्युराप्तस्य चातिथेः ॥१९॥
इदमस्ति गृहे मह्यमिति नित्यं निवेदयेत्
।
ते यद्वदेयुस्तत्कुर्यादिति धर्मो विधीयते ॥२०॥
गृहस्थः पुरुषः कृष्ण शिष्टाशी च सदा भवेत्
।
राजर्त्विजं स्नातकं च गुरुं श्वशुरमेव च ॥२१॥
अर्चयेन्मधुपर्केण परिसंवत्सरोषितान्
।
श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥२२॥
वैश्वदेवं हि नामैतत्सायंप्रातर्विधीयते
।
एतांस्तु धर्मान् गार्हस्थ्यान्यः कुर्यादनसूयकः
।
स इहर्षिवरान्प्राप्य प्रेत्य लोके महीयते ॥२३॥
भीष्म उवाच। इति भूमेर्वचः श्रुत्वा वासुदेवः प्रतापवान्
।
तथा चकार सततं त्वमप्येवं सदाऽऽचर॥२४॥
एतद्गृहस्थधर्मं त्वं चेष्टमानो जनाधिप
।
इहलोके यशः प्राप्य प्रेत्य स्वर्गमवाप्स्यसि ॥२५॥
युधिष्ठिर उवाच। आलोकदानं नामैतत्कीदृशं भरतर्षभ
।
कथमेतत्समुत्पन्नं फलं वा तद्ब्रवीहि मे ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
मनोः प्रजापतेर्वादं सुवर्णस्य च भारत ॥२॥
तपस्वी कश्चिदभवत्सुवर्णो नाम भारत
।
वर्णतो हेमवर्णः स सुवर्ण इति पप्रथे ॥३॥
कुलशीलगुणोपेतः स्वाध्याये च परंगतः
।
बहून्सुवंशप्रभवान्समतीतः स्वकैर्गुणैः ॥४॥
स कदाचिन्मनुं विप्रो ददर्शापससर्प च
।
कुशलप्रश्नमन्योन्यं तौ चोभौ तत्र चक्रतुः ॥५॥
ततस्तौ सत्यसङ्कल्पौ मेरौ काञ्चनपर्वते
।
रमणीये शिलापृष्ठे सहितौ संन्यषीदताम् ॥६॥
तत्र तौ कथयन्तौ स्तां कथा नानाविधाश्रयाः
।
ब्रह्मर्षिदेवदैत्यानां पुराणानां महात्मनाम् ॥७॥
सुवर्णस्त्वब्रवीद्वाक्यं मनुं स्वायंभुवं प्रति
।
हितार्थं सर्वभूतानां प्रश्नं मे वक्तुमर्हसि ॥८॥
सुमनोभिर्यदिज्यन्ते दैवतानि प्रजेश्वर
।
किमेतत्कथमुत्पन्नं फलं योगं च शंस मे ॥९॥
मनुरुवाच
।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
शुक्रस्य च बलेश्चैव संवादं वै महात्मनोः ॥१०॥
बलेर्वैरोचनस्येह त्रैलोक्यमनुशासतः
।
समीपमाजगामाशु शुक्रो भृगुकुलोद्वहः ॥११॥
तमर्घ्यादिभिरभ्यर्च्य भार्गवं सोऽसुराधिपः
।
निषसादासने पश्चाद्विधिवद्भूरिदक्षिणः ॥१२॥
कथेयमभवत्तत्र त्वया या परिकीर्तिता
।
सुमनोधूपदीपानां संप्रदाने फलं प्रति ॥१३॥
ततः पप्रच्छ दैत्येन्द्रः कवीन्द्रं प्रश्नमुत्तमम् ॥१४॥
बलिरुवाच
।
सुमनोधूपदीपानां किं फलं ब्रह्मवित्तम
।
प्रदानस्य द्विजश्रेष्ठ तद्भवान्वक्तुमर्हति ॥१५॥
शुक्र उवाच
।
तपः पूर्वं समुत्पन्नं धर्मस्तस्मादनन्तरम्
।
एतस्मिन्नन्तरे चैव वीरुदोषध्य एव च ॥१६॥
सोमस्यात्मा च बहुधा संभूतः पृथिवीतले
।
अमृतं च विषं चैव ये चान्ये तृणजातयः ॥१७॥
अमृतं मनसः प्रीतिं सद्यस्तृप्तिं ददाति च
।
मनो ग्लपयते तीव्रं विषं गन्धेन सर्वशः ॥१८॥
अमृतं मङ्गलं विद्धि महद्विषममङ्गलम्
।
ओषध्यो ह्यमृतं सर्वा विषं तेजोग्निसम्भवम् ॥१९॥
मनो ह्लादयते यस्माच्छ्रियं चापि दधाति च
।
तस्मात्सुमनसः प्रोक्ता नरैः सुकृतकर्मभिः ॥२०॥
देवताभ्यः सुमनसो यो ददाति नरः शुचिः
।
तस्य तुष्यन्ति वै देवास्तुष्टाः पुष्टिं ददत्यपि ॥२१॥
यं यमुद्दिश्य दीयेरन्देवं सुमनसः प्रभो
।
मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ॥२२॥
ज्ञेयास्तूग्राश्च सौम्याश्च तेजस्विन्यश्च ताः पृथक्
।
ओषध्यो बहुवीर्या हिबहुरूपास्तथैव च ॥२३॥
यज्ञियानां च वृक्षाणामयज्ञीयान्निबोध मे
।
आसुराणि च माल्यानि दैवतेभ्यो हितानि च ॥२४॥
रक्षसामुरगाणां च यक्षाणां च तथा प्रियाः
।
मनुष्याणां पितॄणां च कान्तायास्त्वनुपूर्वशः ॥२५॥
वन्या ग्राम्याश्चेह तथा कृष्टोप्ताः पर्वताश्रयाः
।
अकण्टकाः कण्टकिनो गन्धरूपरसान्विताः ॥२६॥
द्विविधो हि स्मृतो गन्ध इष्टोऽनिष्टश्च पुष्पजः
।
इष्टगन्धानि देवानां पुष्पाणीति विभावय ॥२७॥
अकण्टकानां वृक्षाणां श्वेतप्रायाश्च वर्णतः
।
तेषां पुष्पाणि देवानामिष्टानि सततं प्रभो ॥२८॥
जलजानि च माल्यानि पद्मादीनि च यानि वै
।
गन्धर्वनागयक्षेभ्यस्तानि दद्याद्विचक्षणः ॥२९॥
ओषध्यो रक्तपुष्पाश्च कटुकाः कण्टकान्विताः
।
शत्रूणामभिचारार्थमाथर्वेषु निदर्शिताः ॥३०॥
तीक्ष्णवीर्यास्तु भूतानां दुरालम्भाः सकंटकाः
।
रक्तभूयिष्ठवर्णाश्च कृष्णाश्चैवोपहारयेत् ॥३१॥
मनोहृदयनंदिन्यो विशेषमधुराश्च याः
।
चारुरूपाः सुमनसो मानुषाणां स्मृता विभो ॥३२॥
न तु श्मशानसम्भूता देवतायतनोद्भवाः
।
सन्नयेत्पुष्टियुक्तेषु विवाहेषु रहःसु च ॥३३॥
गिरिसानुरुहाः सौम्या देवानामुपपादयेत्
।
प्रोक्षिताऽभ्युक्षिताः सौम्या यथायोग्यं यथास्मृति ॥३४॥
गन्धेन देवास्तुष्यन्ति दर्शनाद्यक्षराक्षसाः
।
नागाः समुपभोगेन त्रिभिरेतैस्तु मानुषाः ॥३५॥
सद्यः प्रीणाति देवान्वै ते प्रीता भावयन्त्युत
।
सङ्कल्पसिद्धा मर्त्यानामीप्सितैश्च मनोरमैः ॥३६॥
प्रीताः प्रीणन्ति सततं मानिता मानयन्ति च
।
अवज्ञातावधूताश्च निर्दहन्त्यधमान्नरान् ॥३७॥
अत ऊर्ध्वं प्रवक्ष्यामि धूपदानविधेः फलम्
।
धूपांश्च विविधान्साधूनसाधूंश्च निबोध मे ॥३८॥
निर्यासाः सारिणश्चैव कृत्रिमाश्चैव ते त्रयः
।
इष्टोऽनिष्टो भवेद्गन्धस्तन्मे विस्तरशः शृणु ॥३९॥
निर्यासाः सल्लकीवर्ज्या देवानां दयिताऽस्तुते
।
गुग्गुलुप्रवरस्तेषां सर्वेषामिति निश्चयः ॥४०॥
अगुरुः सारिणां श्रेष्ठो यक्षराक्षसभोगिनाम्
।
दैत्यानां सल्लकीयश्च कांक्षितो यश्च तद्विधः ॥४१॥
अथ सर्जरसादीनां गन्धैः पार्थिवदारवैः
।
फाणितासवसंयुक्तैर्मनुष्याणां विधीयते ॥४२॥
देवदानवभूतानां सद्यस्तुष्टिकरः स्मृतः
।
येऽन्ये वैहारिकास्तत्र मानुषाणामिति स्मृताः ॥४३॥
य एवोक्ताः सुमनसां प्रदाने गुणहेतवः
।
धूपेष्वपि परिज्ञेयास्त एव प्रीतिवर्धनाः ॥४४॥
दीपदाने प्रवक्ष्यामि फलयोगमनुत्तमम्
।
यथा येन यदा चैव प्रदेया यादृशाश्च ते ॥४५॥
ज्योतिस्तेजः प्रकाशं वाऽप्यूर्ध्वगं चापि वर्ण्यते
।
प्रदानं तेजसां तस्मात्तेजो वर्धयते नृणाम् ॥४६॥
अन्धन्तमस्तमिस्रं च दक्षिणायनमेव च
।
उत्तरायणमेतस्माज्ज्योतिर्दानं प्रशस्यते ॥४७॥
यस्मादूर्ध्वगमेतत्तु तमसश्चैव भेषजम्
।
तस्मादूर्ध्वगतेर्दाता भवेदत्रेति निश्चयः ॥४८॥
देवास्तेजस्विनो ह्यस्मात्प्रभावन्तः प्रकाशकाः
।
तामसा राक्षसाश्चैव तस्माद्दीपः प्रदीयते ॥४९॥
आलोकदानाच्चक्षुष्मान्प्रभायुक्तो भवेन्नरः
।
तान्दत्वा नोपहिंसेत न हरेन्नोपनाशयेत् ॥५०॥
दीपहर्ता भवेदन्धस्तमोगतिरसुप्रभः
।
दीपप्रदः स्वर्गलोके दीपमालेव राजते ॥५१॥
हविषा प्रथमः कल्पो द्वितीयश्चौषधीरसैः
।
वसामेदोस्थिनिर्यासैर्न कार्यः पुष्टिमिच्छता ॥५२॥
गिरिप्रपाते गहने चैत्यस्थाने चतुष्पथे
।
दीपदानं भवेन्नित्यं य इच्छेद्भूतिमात्मनः ॥५३॥
कुलोद्योतो विशुद्धात्मा प्रकाशत्वं च गच्छति
।
ज्योतिषां चैव सालोक्यं दीपदाता नरः सदा ॥५४॥
बलिकर्मसु वक्ष्यामि गुणान्कर्मफलोदयान्
।
देवयक्षोरगनृणां भूतानामथ रक्षसाम् ॥५५॥
येषां नाग्रभुजो विप्रा देवतातिथिबालकाः
।
राक्षसानेव सान्विद्धि निर्विशंकानमङ्गलान् ॥५६॥
तस्मादग्रं प्रयच्छेत देवेभ्यः प्रतिपूजितम्
।
शिरसा प्रयतश्चापि हरेद्बलिमतन्द्रितः ॥५७॥
गृह्णन्ति देवता नित्यमाशंसन्ति सदा गृहान्
।
बाह्याश्चागन्तवो येऽन्ये यक्षराक्षसपन्नगाः ॥५८॥
इतो दत्तेन जीवन्ति देवताः पितरस्तथा
।
ते प्रीताः प्रीणयन्त्येनमायुषा यशसा धनैः ॥५९॥
बलयः सह पुष्पैस्तु देवानामुपहारयेत्
।
दधिदुग्धमयाः पुण्याः सुगन्धाः प्रियदर्शनाः ॥६०॥
कार्या रुधिरमांसाढ्या बलयो यक्षरक्षसाम्
।
सुरासवपुरस्कारा लाजोल्लापिकभूषिताः ॥६१॥
नागानां दयिता नित्यं पद्मोत्पलविमिश्रिताः
।
तिलान् गुडसुसंपन्नान्भूतानामुपहारयेत् ॥६२॥
अग्रदाताग्रभोगी स्याद्बलवीर्यसमन्वितः
।
तस्मादयं प्रयच्छेत देवेभ्यः प्रतिपूजितम् ॥६३॥
ज्वलन्त्यहरहो वेश्म याश्चास्य गृहदेवताः
।
ताः पूज्या भूतिकामेन प्रसृताग्रप्रदायिना ॥६४॥
इत्येतदसुरेन्द्राय काव्यः प्रोवाच भार्गवः
।
सुवर्णाय मनुः प्राह सुवर्णो नारदाय च ॥६५॥
नारदोऽपि मयि प्राह गुणानेतान्महाद्युते
।
त्वमप्येतद्विदित्वेह सर्वमाचर पुत्रक ॥६६॥
युधिष्ठिर उवाच। श्रुतं मे भरतश्रेष्ठ पुष्पधूपप्रदायिनाम्
।
फलं बलिविधाने च तद्भूयो वक्तुमर्हसि ॥१॥
धूपप्रदानस्य फलं प्रदीपस्य तथैव च
।
बलयश्च किमर्थं वै क्षिप्यन्ते गृहमेधिभिः ॥२॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
नहुषस्य च संवादमगस्त्यस्य भृगोस्तथा ॥३॥
नहुषो हि महाराज राजर्षिः सुमहातपाः
।
देवराज्यमनुप्राप्तः सुकृतेनेह कर्मणा ॥४॥
तत्रापि प्रयतो राजन्नहुषस्त्रिदिवे वसन्
।
मानुषीश्चैव दिव्याश्च कुर्वाणो विविधाः क्रियाः ॥५॥
मानुष्यस्तत्र सर्वाः स्म क्रियास्तस्य महात्मनः
।
प्रवृत्तास्त्रिदिवे राजन्दिव्याश्चैव सनातनाः ॥६॥
अग्निकार्याणि समिधः कुशाः सुमनसस्तथा
।
बलयश्चान्नलाजाभिर्धूपनं दीपकर्म च ॥७॥
सर्वं तस्य गृहे राज्ञः प्रावर्तत महात्मनः
।
जपयज्ञान्मनोयज्ञांस्त्रिदिवेऽपि चकार सः ॥८॥
देवानभ्यर्चयच्चापि विधिवत्स सुरेश्वरः
।
सर्वानेव यथान्यायं यथापूर्वमरिन्दम ॥९॥
अथेन्द्रोऽहमिति ज्ञात्वा अहंकारं समाविशम्
।
सर्वाश्चैव क्रियास्तस्य पर्यहीयन्त भूपतेः ॥१०॥
स ऋषीन्वाहयामास वरदानमदान्वितः
।
परिहीनक्रियश्चैव दुर्बलत्वमुपेयिवान् ॥११॥
तस्य वाहयतः कालो मुनिमुख्यांस्तपोधनान्
।
अहंकाराभिभूतस्य सुमहानभ्यवर्तत ॥१२॥
अथ पर्यायशः सर्वान्वाहनायोपचक्रमे
।
पर्यायश्चाप्यगस्त्यस्य समपद्यत भारत ॥१३॥
अथागत्य महातेजा भृगुर्ब्रह्मविदां वरः
।
अगस्त्यमाश्रमस्थं वै समुपेत्येदमब्रवीत् ॥१४॥
एवं वयमसत्कारं देवेन्द्रस्यास्य दुर्मतेः
।
नहुषस्य किमर्थं वै मर्षयाम महामुने ॥१५॥
अगस्त्य उवाच
।
कथमेष मया शक्यः शप्तुं यस्य महामुने
।
वरदेन वरो दत्तो भवतो विदितश्च सः ॥१६॥
यो मे दृष्टिपथं गच्छेत्स मे वश्यो भवेदिति
।
इत्यनेन वरं देवो याचितो गच्छता दिवम् ॥१७॥
एवं न दग्धः स मया भवता च न संशयः
।
अन्येनाप्यृषिमुख्येन न दग्धो न च पातितः ॥१८॥
अमृतं चैव पानाय दत्तमस्मै पुरा विभो
।
महात्मना तदर्थं च नास्माभिर्विनिपात्यते ॥१९॥
प्रायच्छत वरं देवः प्रजानां दुःखकारणम्
।
द्विजेष्वधर्मयुक्तानि स करोति नराधमः ॥२०॥
तत्र यत्प्राप्तकालं नस्तद्ब्रूहि वदतां वर
।
भवांश्चापि यथा ब्रूयात्तत्कर्ताऽस्मि न संशयः॥२१॥
भृगुरुवाच
।
पितामहनियोगेन भवन्तं सोऽहमागतः
।
प्रतिकर्तुं बलवति नहुषे दैवमोहिते ॥२२॥
अद्य हि त्वां सुदुर्बुद्धी रथे योक्ष्यति देवराट्
।
अद्यैनमहमुद्वृत्तं करिष्येऽनिन्द्रमोजसा ॥२३॥
अद्येन्द्रं स्थापयिष्यामि पश्यतस्ते शतक्रतुम्
।
सञ्चाल्य पापकर्माणमैन्द्रात् स्थानात्सुदुर्मतिम् ॥२४॥
अद्य चासौ कुदेवेन्द्रस्त्वां पदा धर्षयिष्यति
।
दैवोपहतचित्तत्वादात्मनाशाय मन्दधीः ॥२५॥
व्युत्क्रान्तधर्मं तमहं धर्षणामर्षितो भृशम्
।
अहिर्भवस्वेति रुषा शप्स्ये पापं द्विजद्रुहम् ॥२६॥
तत एनं सुदुर्बुद्धिं धिक्शब्दाभिहतत्विषम्
।
धरण्यां पातयिष्यामि पश्यतस्ते महामुने ॥२७॥
नहुषं पापकर्माणमैश्वर्यबलमोहितम्
।
यथा च रोचते तुभ्यं तथा कर्तास्म्यहं मुने ॥२८॥
एवमुक्तस्तु भृगुणा मैत्रावरुणिरव्ययः
।
अगस्त्यः परमप्रीतो बभूव विगतज्वरः ॥२९॥
युधिष्ठिर उवाच। कथं वै स विपन्नश्च कथं वै पातितो भुवि
।
कथं चानिन्द्रतां प्राप्तस्तद्भवान्वक्तुमर्हति ॥१॥
भीष्म उवाच। एवं तयोः संवदतोः क्रियास्तस्य महात्मनः
।
सर्वा एव प्रवर्तन्ते या दिव्या याश्च मानुषीः ॥२॥
तथैव दीपदानानि सर्वोपकरणानि वै
।
बलिकर्म च यच्चान्यद्वत्सकाश्च पृथग्विधाः ॥३॥
सर्वे तस्य समुत्पन्ना देवेन्द्रस्य महात्मनः
।
देवलोके नृलोके च सदाचारा बुधाः स्मृताः ॥४॥
ते चेद्भवन्ति राजेन्द्र ऋद्ध्यन्ते गृहमेधिनः
।
धूपप्रदानैर्दीपैश्च नमस्कारैस्तथैव च ॥५॥
यथा सिद्धस्य चान्नस्य ग्रहायाग्रं प्रदीयते
।
बलयश्च गृहोद्देशे अतः प्रीयन्ति देवताः ॥६॥
यथा च गृहिणस्तोषो भवेद्वै बलिकर्मणि
।
तथा शतगुणा प्रीतिर्देवतानां प्रजायते ॥७॥
एवं धूपप्रदानं च दीपदानं च साधवः
।
प्रयच्छन्ति नमस्कारैर्युक्तमात्मगुणावहम् ॥८॥
स्नानेनाद्भिश्च यत्कर्म क्रियते वै विपश्चिता
।
नमस्कारप्रयुक्तेन तेन प्रीयन्ति देवताः ॥९॥
पितरश्च महाभागा ऋषयश्च तपोधनाः
।
गृह्याश्च देवताः सर्वाः प्रीयन्ते विधिनार्चिताः ॥१०॥
इत्येतां बुद्धिमास्थाय नहुषः स नरेश्वरः
।
सुरेन्द्रत्वं महत्प्राप्य कृतवानेतदद्भुतम् ॥११॥
कस्यचित्त्वथ कालस्य भाग्यक्षय उपस्थिते
।
सर्वमेतदवज्ञाय कृतवानिदमीदृशम् ॥१२॥
ततः स परिहीणोऽभूत्सुरेन्द्रो बलदर्पतः
।
धूपदीपोदकविधिं न यथावच्चकार ह ॥१३॥
ततोऽस्य यज्ञविषयो रक्षोभिः पर्यबध्यत
।
अथागस्त्यमृषिश्रेष्ठं वाहनायाजुहाव ह ॥१४॥
द्रुतं सरस्वतीकूलात् स्मयन्निव महाबलः
।
ततो भृगुर्महातेजा मैत्रावरुणिमब्रवीत् ॥१५॥
निमीलय स्वनयने जटां यावद्विशामि ते
।
स्थाणुभूतस्य तस्याथ जटां प्राविशदच्युतः ॥१६॥
भृगुः स सुमहातेजाः पातनाय नृपस्य च
।
ततः स देवराट् प्राप्तस्तमृषिं वाहनाय वै ॥१७॥
ततोऽगस्त्यः सुरपतिं वाक्यमाह विशांपते
।
योजयस्वेति मां क्षिप्रं कं च देशं वहामि ते ॥१८॥
यत्र वक्ष्यसि तत्र त्वां नयिष्यामि सुराधिप
।
इत्युक्तो नहुषस्तेन योजयामास तं मुनिम् ॥१९॥
भृगुस्तस्य जटान्तस्थो बभूव हृषितो भृशम्
।
न चापि दर्शनं तस्य चकार स भृगुस्तदा ॥२०॥
वरदानप्रभावज्ञो नहुषस्य महात्मनः
।
न चुकोप तदाऽगस्त्यो युक्तोऽपि नहुषेण वै ॥२१॥
तं तु राजा प्रतोदेन चोयामास भारत
।
न चुकोप स धर्मात्मा ततः पादेन देवराट् ॥२२॥
अगस्त्यस्य तदा क्रुद्धो वामेनाभ्यहनच्छिरः
।
तस्मिन् शिरस्यभिहते स जटान्तर्गतो भृगुः ॥२३॥
शशाप बलवत्क्रुद्धो नहुषं पापचेतसम्
।
यस्मात्पदाऽहतः क्रोधाच्छिरसीमं महामुनिम् ॥२४॥
तस्मादाशु महीं गच्छ सर्पो भूत्वा सुदुर्मते
।
इत्युक्तः स तदा तेन सर्पो भूत्वा पपात ह ॥२५॥
अदृष्टेनाथ भृगुणा भूतले भरतर्षभ
।
भृगुं हि यदि सोऽद्रक्ष्यन्नहुषः पृथिवीपते ॥२६॥
न च शक्तोऽभविष्यद्वै पातने तस्य तेजसा
।
स तु तैस्तैः प्रदानैश्च तपोभिर्नियमैस्तथा ॥२७॥
पतितोऽपि महाराज भूतले स्मृतिमानभूत्
।
प्रसादयामास भृगुं शापान्तो मे भवेदिति ॥२८॥
ततोऽगस्त्यः कृपाविष्टः प्रासादयत तं भृगुम्
।
शापान्तार्थं महाराज स च प्रादात्कृपान्वितः ॥२९॥
भृगुरुवाच
।
राजा युधिष्ठिरो नाम भविष्यति कुलोद्वहः
।
स त्वां मोक्षयिता शापादित्युक्त्वाऽन्तरधीयत ॥३०॥
अगस्त्योऽपि महातेजाः कृत्वा कार्यं शतक्रतोः
।
स्वमाश्रमपदं प्रायात्पूज्यमानो द्विजातिभिः ॥३१॥
नहुषोपि त्वया राजंस्तस्माच्छापात्समुद्धृतः
।
जगाम ब्रह्मभवनं पश्यतस्ते जनाधिप ॥३२॥
तदा स पातयित्वा तं नहुषं भूतले भृगुः
।
जगाम ब्रह्मभवनं ब्रह्मणे च न्यवेदयत् ॥३३॥
ततः शक्रं समानाय्य देवानाह पितामहः
।
वरदानान्मम सुरा नहुषो राज्यमाप्तवान् ॥३४॥
स चागस्त्येन क्रुद्धेन भ्रंशितो भूतलं गतः
।
न च शक्यं विना राज्ञा सुरा वर्तयितुं क्वचित् ॥३५॥
तस्मादयं पुनः शक्रो देवराज्येऽभिषिच्यताम्
।
एवं संभाषमाणं तु देवाः पार्थ पितामहम् ॥३६॥
एवमस्त्विति संहृष्टाः प्रत्यूचुस्तं नराधिप
।
सोऽभिषिक्तो भगवता देवराज्ये च वासवः ॥३७॥
ब्रह्मणा राजशार्दूल यथापूर्वं व्यरोचत
।
एवमेतत्पुरावृत्तं नहुषस्य व्यतिक्रमात् ॥३८॥
स च तैरेव संसिद्धो नहुषः कर्मभिः पुनः
।
तस्माद्दीपाः प्रदातव्याः सायं वै गृहमेधिभिः ॥३९॥
दिव्यं चक्षुरवाप्नोति प्रेत्य दीपस्य दायकः
।
पूर्णचन्द्रप्रतीकाशा दीपदाश्च भवन्त्युत ॥४०॥
यावदक्षिनिमेषाणि ज्वलन्ते तावतीः समाः
।
रूपवान्बलवांश्चापि नरो भवति दीपदः ॥४१॥
युधिष्ठिर उवाच। ब्राह्मणस्वानि ये मन्दा हरन्ति भरतर्षभ
।
नृशंसकारिणो मूढाः क्व ते गच्छन्ति मानवाः ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
चाण्डालस्य च संवादं क्षत्रबन्धोश्च भारत ॥२॥
राजन्य उवाच
।
वृद्धरूपोऽसि चाण्डाल बालवच्च विचेष्टसे
।
श्वखराणां रजःसेवी कस्मादुद्विजसे गवाम् ॥३॥
साधुभिर्गर्हितं कर्म चाण्डालस्य विधीयते
।
कस्माद्गोरजसा ध्वस्तमपां कुण्डे निषिञ्चसि ॥४॥
चाण्डाल उवाच
।
ब्राह्मणस्य गवां राजन् ह्रियतीनां रजः पुरा
।
सोममुध्वंसयामास तं सोमं येऽपिबन्द्विजाः ॥५॥
दीक्षितश्च स राजाऽपि क्षिप्रं नरकमाविशत्
।
सह तैर्याजकैः सर्वैर्ब्रह्मस्वमुपजीव्य तत् ॥६॥
येऽपि तत्रापिबन्क्षीरं घृतं दधि च मानवाः
।
ब्राह्मणाः सहराजन्याः सर्वे नरकमाविशन् ॥७॥
जघ्नुस्ताः पयसा पुत्रांस्तथा पौत्रान्विधुन्वतीः
।
पशूनवेक्षमाणाश्च साधुवृत्तेन दम्पती ॥८॥
अहं तत्रावसं राजन्ब्रह्मचारी जितेन्द्रियः
।
तासां मे रजसा ध्वस्तं भैक्षमासीन्नराधिप ॥९॥
चाण्डालोऽहं ततो राजन्भुक्त्वा तदभवं नृप
।
ब्रह्मस्वहारी च नृपः सोऽप्रतिष्ठां गतिं ययौ ॥१०॥
तस्माद्धरेन्न विप्रस्वं कदाचिदपि किञ्चन
।
ब्रह्मस्वं रजसा ध्वस्तं भुक्त्वा मां पश्य यादृशम् ॥११॥
तस्मात्सोमोऽप्यविक्रेयः पुरुषेण विपश्चिता
।
विक्रयं त्विह सोमस्य गर्हयन्ति मनीषिणः ॥१२॥
ये चैनं क्रीणते तात ये च विक्रीणते जनाः
।
ते तु वैवस्वतं प्राप्य रौरवं यान्ति सर्वशः ॥१३॥
सोमं तु रजसा ध्वस्तं विक्रीणान्विधिपूर्वकम्
।
श्रोत्रियो वार्धुषी भूत्वा न चिरं स विनश्यति ॥१४॥
नरकं त्रिंशतं प्राप्य स्वविष्ठामुपजीवति
।
श्वचर्यामभिमानं च सस्विदारे च विप्लवम् ॥१५॥
तुलया धारयन्धर्ममभिमान्यतिरिच्यते
।
श्वानं वै पापिनं पश्य विवर्णं हरिणं कृशम् ॥१६॥
अभिमानेन भूतानामिमां गतिमुपागतम्
।
अहं वै विपुले तात कुले धनसमन्विते ॥१७॥
अन्यस्मिन् जन्मनि विभो ज्ञानविज्ञानपारगः
।
अभवं तत्र जानानो होतान्दोषान्मदात्सदा ॥१८॥
संरब्ध एव भूतानां पृष्ठमांसमभक्षयम्
।
सोऽहं तेन च वृत्तेन भोजनेन च तेन वै ॥१९॥
इमामवस्थां संप्राप्तः पश्य कालस्य पर्ययम्
।
आदीप्तमिव चैलान्तं भ्रमरैरिव चार्दितम् ॥२०॥
धावमानं सुसंरब्धं पश्य मां रजसान्वितम्
।
स्वाध्यायैस्तु महत्पापं हरन्ति गृहमेधिनः ॥२१॥
दानैः पृथग्विधैश्चापि यथा प्राहुर्मनीषिणः
।
तथा पापकृतं विप्रमाश्रमस्थं महीपते ॥२२॥
सर्वसंगविनिर्मुक्तं छन्दांस्युत्तारयन्त्युत
।
अहं हि पापयोन्यां वै प्रसूतः क्षत्रियर्षभ
।
निश्चयं नाधिगच्छामि कथं मुच्येयमित्युत ॥२३॥
जातिस्मरत्वं च मम केनचित्पूर्वकर्मणा
।
शुभेन येन मोक्षं वै प्राप्तुमिच्छाम्यहं नृप ॥२४॥
त्वमिमं संप्रपन्नाय संशयं ब्रूहि पृच्छते
।
चाण्डालत्वात्कथमहं मुच्येयमिति सत्तम ॥२५॥
राजन्य उवाच
।
चाण्डाल प्रतिजानीहि येन मोक्षमवाप्स्यसि
।
ब्राह्मणार्थे त्यजन्प्राणान्गतिमिष्टामवाप्स्यसि ॥२६॥
दत्त्वा शरीरं क्रव्याद्भ्यो रणाग्नौ द्विजहेतुकम्
।
हुत्वा प्राणान्प्रमोक्षस्ते नान्यथा मोक्षमर्हसि ॥२७॥
भीष्म उवाच। इत्युक्तः स तदा तेन ब्रह्मस्वार्थे परन्तप
।
हुत्वा रणमुखे प्राणान्गतिमिष्टामवाप ह ॥२८॥
तस्माद्रक्ष्यं त्वया पुत्र ब्रह्मस्वं भरतर्षभ
।
यदीच्छसि महाबाहो शाश्वतीं गतिमात्मनः ॥२९॥
युधिष्ठिर उवाच। एके लोकाः सुकृतिनः सर्वे त्वाहो पितामह
।
तत्र तत्रापि भिन्नास्ते तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच। कर्मभिः पार्थ नानात्वं लोकानां यान्ति मानवाः
।
पुण्यान्पुण्यकृतो यान्ति पापान्पापकृतो नराः ॥२॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
गौतमस्य मुनेस्तात संवादं वासवस्य च ॥३॥
ब्राह्मणो गौतमः कश्चिन्मृदुर्दान्तो जितेन्द्रियः
।
महावने हस्तिशिशुं परिद्युनममातृकम् ॥४॥
तं दृष्ट्वा जीवयामास सानुक्रोशो धृतव्रतः
।
स तु दीर्घेण कालेन बभूवातिबलो महान् ॥५॥
तं प्रभिन्नं महानागं प्रस्रुतं पर्वतोपमम्
।
धृतराष्ट्रस्य रूपेण शक्रो जग्राह हस्तिनम् ॥६॥
ह्रियमाणं तु तं दृष्ट्वा गौतमः संशितव्रतः
।
अभ्यभाषत राजानं धृतराष्ट्रं महातपाः ॥७॥
मा मेऽहार्षीर्हस्तिनं पुत्रमेनं दुःखात्पुष्टं धृतराष्ट्राकृतज्ञ
।
मैत्रं सतां सप्तपदं वदन्ति मित्रद्रोहो मैव राजन् स्पृशेत्त्वाम् ॥८॥
इध्मोदकप्रदातारं शून्यपालं ममाश्रमे
।
विनीतमाचार्यकुले सुयुक्तं गुरुकर्मणि ॥९॥
शिष्टं दान्तं कृतज्ञं च प्रियं च सततं मम
।
न मे विक्रोशतो राजन् हर्तुमर्हसि कुञ्जरम् ॥१०॥
धृतराष्ट्र उवाच
।
गवां सहस्रं भवते ददानि दासीशतं निष्कशतानि पञ्च
।
अन्यच्च वित्तं विविधं महर्षे किं ब्राह्मणस्येह गजेन कृत्यम् ॥११॥
गौतम उवाच
।
तवैव गावो हि भवन्तु राजन् दास्यः सनिष्का विविधं च रत्नम्
।
अन्यच्च वित्तं विविधं नरेन्द्र किं ब्राह्मणस्येह धनेन कृत्यम् ॥१२॥
धृतराष्ट्र उवाच
।
ब्राह्मणानां हस्तिभिर्नास्ति कृत्यं राजन्यानां नागकुलानि विप्र
।
स्वं वाहनं नयतो नास्त्यधर्मो नागश्रेष्ठं गौतमास्मान्निवर्त ॥१३॥
गौतम उवाच
।
यत्र प्रेतो नन्दति पुण्यकर्मा यत्र प्रेतः शोचते पापकर्मा
।
वैवस्वतस्य सदने महात्मंस्तत्र त्वाहं हस्तिनं यातयिष्ये ॥१४॥
धृतराष्ट्र उवाच
।
ये निष्क्रिया नास्तिकाः श्रद्दधानाः पापात्मान इन्द्रियार्थे निविष्टाः
।
यमस्य ते यातनां प्राप्नुवन्ति परं गन्ता धृतराष्ट्रो न तत्र ॥१५॥
गौतम उवाच
।
वैवस्वती संयमनी जनानां यत्रानृतं नोच्यते यत्र सत्यम्
।
यत्राबला बलिनं यातयन्ति तत्र त्वाहं हस्तिनं यातयिष्ये ॥१६॥
धृतराष्ट्र उवाच
।
ज्येष्ठां स्वसारं पितरं मातरं च यथा शत्रुं मदमत्ताश्चरन्ति
।
तथाविधानामेष लोको महर्षेः परं गन्ता धृतराष्ट्रो न तत्र ॥१७॥
गौतम उवाच
।
मन्दाकिनी वैश्रवणस्य राज्ञो महाभागा भोगिजनप्रवेश्या
।
गन्धर्वयक्षैरप्सरोभिश्च जुष्टा तत्र त्वाहं हस्तिनं यातयिष्ये ॥१८॥
धृतराष्ट्र उवाच
।
अतिथिव्रताः सुव्रता ये जना वै प्रतिश्रयं ददति ब्राह्मणेभ्यः
।
शिष्टाशिनः संविभज्याश्रितांश्च मन्दाकिनीं तेऽपि विभूषयन्ति ॥१९॥
गौतम उवाच
।
मेरोरग्रे यद्वनं भाति रम्यं सुपुष्पितं किन्नरीगीतजुष्टम्
।
सुदर्शना यत्र जम्बूर्विशाला तत्र त्वाहं हस्तिनं यातयिष्ये ॥२०॥
धृतराष्ट्र उवाच
।
ये ब्राह्मणा मृदवः सत्यशीला बहुश्रुताः सर्वभूताभिरामाः
।
येऽधीयते सेतिहासं पुराणं मध्वाहुल्या जुह्वति वै द्विजेभ्यः ॥२१॥
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र
।
यद्विद्यते विदितं स्थानमस्ति तद्ब्रूहि त्वं त्वरितो ह्येष यामि ॥२२॥
गौतम उवाच
।
सुपुष्पितं किं नरराज जुष्टं प्रियं वनं नन्दनं नारदस्य
।
गन्धर्वाणामप्सरसां च शश्वत्तत्र त्वाहं हस्तिनं यातयिष्ये ॥२३॥
धृतराष्ट्र उवाच
।
ये नृत्यगीते कुशला जनाः सदा ह्ययाचमानाः सहिताश्चरन्ति
।
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥२४॥
गौतम उवाच
।
यत्रोत्तराः कुरवो भान्ति रम्या देवैः सार्धं मोदमाना नरेन्द्र
।
यत्राग्नियौनाश्च वसन्ति लोका अब्योनयः पर्वतयोनयश्च ॥२५॥
यत्र शक्रो वर्षति सर्वकामान्यत्र स्त्रियः कामचारा भवन्ति
।
यत्र चेर्ष्या नास्ति नारीनराणां तत्र त्वाहं हस्तिनं यातयिष्ये ॥२६॥
धृतराष्ट्र उवाच
।
ये सर्वभूतेषु निवृत्तकामा अमांसादा न्यस्तदण्डाश्चरन्ति
।
न हिंसन्ति स्थावरं जङ्गमं च भूतानां ये सर्वभूतात्मभूताः ॥२७॥
निराशिषो निर्ममा वीतरागा लाभालाभे तुल्यनिन्दाप्रशंसाः
।
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥२८॥
गौतम उवाच
।
ततोऽपरे भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा वीतशोकाः
।
सोमस्य राज्ञः सदने महात्मनस्तत्र त्वाऽहं हस्तिनं यातयिष्ये ॥२९॥
धृतराष्ट्र उवाच
।
ये दानशीलान् प्रतिगृह्णते सदा न चाप्यर्थांश्चाददते परेभ्यः
।
येषामदेयमर्हते नास्ति किंचित्सर्वातिथ्याः सुप्रसादा जनाश्च ॥३०॥
ये क्षन्तारो नाभिजल्पन्ति चान्यान् सत्रीभूताः सततं पुण्यशीलाः
।
तथाविधानामेष लोको महर्षे परं गन्ता धृतराष्ट्रो न तत्र ॥३१॥
गौतम उवाच
।
ततोऽपरे भान्ति लोकाः सनातना विरजसो वितमस्का विशोकाः
।
आदित्यदेवस्य पदं महात्मनस्तत्र त्वाहं हस्तिनं यातयिष्ये ॥३२॥
धृतराष्ट्र उवाच
।
स्वाध्यायशीला गुरुशुश्रूषणे रतास्तपस्विनः सुव्रताः सत्यसन्धाः
।
आचार्याणामप्रतिकूलभाषिणो नित्योत्थिता गुरुकर्मस्वचोद्याः॥३३॥
तथाविधानामेष लोको महर्षे विशुद्धानां भावितो वाग्यतानाम्
।
सत्ये स्थितानां वेदविदां महात्मनां परं गन्ता धृतराष्ट्रो न तत्र ॥३४॥
गौतम उवाच
।
ततोऽपरे भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा विशोकाः
।
वरुणस्य राज्ञः सदने महात्मनस्तत्र त्वाहं हस्तिनं यातयिष्ये ॥३५॥
धृतराष्ट्र उवाच
।
चातुर्मास्यैर्ये यजन्ते जनाः सदा तथेष्टीनां दशशतं प्राप्नुवन्ति
।
ये चाग्निहोत्रं जुह्वति श्रद्दधाना यथाम्नायं त्रीणि वर्षाणि विप्राः ॥३६॥
सुधारिणां धर्मसुरे महात्मनां यथोदिते वर्त्मनि सुस्थितानाम्
।
धर्मात्मनामुद्वहतां गतिं तां परं गन्ता धृतराष्ट्रो न तत्र ॥३७॥
गौतम उवाच
।
इन्द्रस्य लोका विरजा विशोका दुरन्वयाः कांक्षिता मानवानाम्
।
तस्याहं ते भवने भूरितेजसो राजन्निमं हस्तिनं यातयिष्ये ॥३८॥
धृतराष्ट्र उवाच
।
शतवर्षजीवी यश्च शूरो मनुष्यो वेदाध्यायी यश्च यज्वाऽप्रमत्तः
।
एते सर्वे शक्रलोकं व्रजन्ति परं गन्ता धृतराष्ट्रो न तत्र ॥३९॥
गौतम उवाच
।
प्राजापत्याः सन्ति लोका महान्तो नाकस्य पृष्ठे पुष्कला वीतशोकाः
।
मनीषिताः सर्वलोकोद्भवानां तत्र त्वाहं हस्तिनं यातयिष्ये ॥४०॥
धृतराष्ट्र उवाच
।
ये राजानो राजसूयाभिषिक्ता धर्मात्मानो रक्षितारः प्रजानाम्
।
ये चाश्वमेधावभृथे प्लुताङ्गास्तेषां लोका धृतराष्ट्रो न तत्र ॥४१॥
गौतम उवाच
।
ततः परं भान्ति लोकाः सनातनाः सुपुण्यगन्धा विरजा वीतशोकाः
।
तस्मिन्नहं दुर्लभे चाप्यधृष्ये गवां लोके हस्तिनं यातयिष्ये ॥४२॥
धृतराष्ट्र उवाच
।
यो गोसहस्री शतदः समां समां गवां शती दश दद्याच्च शक्त्या
।
तथा दशभ्यो यश्च दद्यादिहैकां पञ्चभ्यो वा दानशीलस्तथैकाम् ॥४३॥
ये जीर्यन्ते ब्रह्मचर्येण विप्रा ब्राह्मीं वाचं परिरक्षन्ति चैव
।
मनस्विनस्तीर्थयात्रापरायणास्ते तत्र मोदन्ति गवां निवासे ॥४४॥
प्रभासं मानसं तीर्थं पुष्कराणि महत्सरः
।
पुण्यं च नैमिषं तीर्थं बाहुदां करतोयिनीम् ॥४५॥
गयां गयशिरश्चैव विपाशां स्थूलवालुकाम्
।
कृष्णां गङ्गां पञ्चनदं महाह्रदमथापि च ॥४६॥
गोमतीं कौशिकिं पंपां महात्मानो धृतव्रताः
।
सरस्वतीदृषद्वत्यौ यमुनां ये तु यान्ति च ॥४७॥
तत्र ते दिव्यसंस्थाना दिव्यमाल्यधराः शिवाः
।
प्रथान्ति पुण्यगन्धाढ्या धृतराष्ट्रो न तत्र वै ॥४८॥
गौतम उवाच
।
यत्र शीतभयं नास्ति न चोष्णभयमण्वपि
।
न क्षुत्पिपासे न ग्लानिर्न दुःखं न सुखं तथा ॥४९॥
न द्वेष्यो न प्रियः कश्चिन्न बन्धुर्न रिपुस्तथा
।
न जरामरणे तत्र न पुण्यं न च पातकम् ॥५०॥
तस्मिन्विरजसि स्फीते प्रज्ञासत्त्वव्यवस्थिते
।
स्वयंभुभवने पुण्ये हस्तिनं मे प्रदास्यसि ॥५१॥
धृतराष्ट्र उवाच
।
निर्मुक्ताः सर्वसङ्गैर्ये कृतात्मानो यतव्रताः
।
अध्यात्मयोगसंस्थानैर्युक्ताः स्वर्गगतिं गताः ॥५२॥
ते ब्रह्मभवनं पुण्यं प्राप्नुवन्तीह सात्त्विकाः
।
न तत्र धृतराष्ट्रस्ते शक्यो द्रष्टुं महामुने ॥५३॥
गौतम उवाच
।
रथन्तरं यत्र बृहच्च गीयते यत्र वेदी पुण्डरीकैस्तृणोति
।
यत्रोपयाति हरिभिः सोमपीथी तत्र त्वाहं हस्तिनं यातयिष्ये ॥५४॥
बुध्यामि त्वां वृत्रहणं शतक्रतुं व्यतिक्रमन्तं भुवनानि विश्वा
।
कच्चिन्न वाचा वृजिनं कदाचिदकार्षं ते मनसोभिषङ्गात् ॥५५॥
शतक्रतुरुवाच
।
मघवाऽहं लोकपथं प्रजानामन्वागमं परिवादे गजस्य
।
तस्माद्भवान्प्रणतं माऽनुशास्तु ब्रवीषि यत्तत्करवाणि सर्वम् ॥५६॥
गौतम उवाच
।
श्वेतं करेणुं मम पुत्रं हि नागं यं मेऽहार्षीर्दशवर्षाणि बालम्
।
यो मे वने वसतोऽभूद्द्वितीयस्तमेव मे देहि सुरेन्द्र नागम् ॥५७॥
शतक्रतुरुवाच
।
अयं सुतस्ते द्विजमुख्य नाग आगच्छति त्वामभिवीक्षमाणः
।
पादौ च ते नासिकयोपजिघ्रते श्रेयो ममाध्याहि नमश्च तेऽस्तु ॥५८॥
गौतम उवाच
।
शिवं सदैवेह सुरेन्द्र तुभ्यं ध्यायामि पूजां च सदा प्रयुञ्जे
।
ममापि त्वं शक्र शिवं ददस्व त्वया दत्तं प्रतिगृह्णामि नागम् ॥५९॥
शतक्रतुरुवाच
।
येषां वेदा निहिता वै गुहायां मनीषिणां सत्यवतां महात्मनाम्
।
तेषां त्वयैकेन महात्मनाऽस्मि वृद्धस्तस्मात्प्रीतिमांस्तेऽहमद्य ॥६०॥
हन्तैहि ब्राह्मण क्षिप्रं सह पुत्रेण हस्तिना
।
त्वं हि प्राप्तुं शुभान्लोकानह्नाय च चिराय च ॥६१॥
स गौतमं पुरस्कृत्य सह पुत्रेण हस्तिना
।
दिवमाचक्रमे वज्री सद्भिः सह दुरासदम् ॥६२॥
इदं यः शृणुयान्नित्यं यः पठेद्वा जितेन्द्रियः
।
स याति ब्रह्मणो लोकं ब्राह्मणो गौतमो यथा ॥६३॥
युधिष्ठिर उवाच। दानं बहुविधाकारं शान्तिः सत्यमहिंसितम्
।
स्वदारतुष्टिश्चोक्ता ते फलं दानस्य चैव यत् ॥१॥
पितामहस्य विदितं किमन्यत्तपसो बलात्
।
तपसो यत्परं तेऽद्य तन्नो व्याख्यातुमर्हसि ॥२॥
भीष्म उवाच। तपः प्रचक्षते यावत्तावल्लोको युधिष्ठिर
।
मतं ममात्र कौन्तेय तपो नानशनात्परम् ॥३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
भगीरथस्य संवादं ब्रह्मणश्च महात्मनः ॥४॥
अतीत्य सुरलोकं च गवां लोकं च भारत
।
ऋषिलोकं च सोऽगच्छत् भगीरथ इति श्रुतम् ॥५॥
तं तु दृष्ट्वा वचः प्राह ब्रह्मा राजन्भगीरथन्
।
कथं भगीरथागास्त्वमिमं लोकं दुरासदम् ॥६॥
न हि देवा न गन्धर्वा न मनुष्या भगीरथ
।
आयान्त्यतप्ततपसः कथं वै त्वमिहागतः ॥७॥
भगीरथ उवाच
।
निष्काणां वै ह्यददं ब्राह्मणेभ्यः शतं सहस्त्राणि सदैव दानम्
।
ब्राह्मं व्रतं नित्यमास्थाय विद्वन्न त्वेवाहं तस्य फलादिहागाम् ॥८॥
दशैकरात्रान्दशपञ्चरात्रानेकादशैकादशकान् क्रतूंश्च
।
ज्योतिष्टोमानां च शतं यदिष्टं फलेन तेनापि च नागतोऽहम् ॥९॥
यच्चावसं जाह्नवीतीरनित्यः शतं समास्तप्यमानस्तपोऽहम्
।
अदां च तत्राश्वतरीसहस्रं नारीपुरं न च तेनाहमागाम् ॥१०॥
दशायुतानि चाश्वानां गोयुतानि च विंशतिम्
।
पुष्करेषु द्विजातिभ्यः प्रादां शतसहस्रशः ॥११॥
सुवर्णचन्द्रोत्तमधारिणीनां कन्योत्तमानामददं सहस्रम्
।
षष्टिं सहस्राणि विभूषितानां जाम्बूनदैराभरणैर्न तेन॥१२॥
दशार्बुदान्यददं गोसवेज्यास्वेकैकशो दश गां लोकनाथ
।
समानवत्साः पयसा समन्विताः सुवर्णकांस्योपदुहा न तेन ॥१३॥
आप्तोर्यामेषु नियतमेकैकस्मिन्दशाददम्
।
गृष्टीनां क्षीरदात्रीणां रोहिणीनां शतानि च ॥१४॥
दोग्ध्रीणां वै गवां चापि प्रयुतानि दशैव ह
।
प्रादां दशगुणं ब्रह्मन्न तेनाहमिहागतः ॥१५॥
वाजिनां बाह्लिजातानामयुतान्यददं दश
।
कर्काणां हेममालानां न च तेनाहमागतः ॥१६॥
कोटीश्च काञ्चनस्याष्टौ प्रादां ब्रह्मन्दशान्वहम्
।
एकैकस्मिन् क्रतौ तेन फलेनाहं न चागतः ॥१७॥
वाजिनां श्यामकर्णानां हरितानां पितामह
।
प्रादां हेमस्रजां ब्रह्मन्कोटीर्दश च सप्त च ॥१८॥
ईषादन्तान्महाकायान्काञ्चनस्रग्विभूषितान्
।
पद्मिनो वै सहस्राणि प्रादां दश च सप्त च ॥१९॥
अलङ्कृतानां देवेश दिव्यैः कनकभूषणैः
।
रथानां काञ्चनाङ्गानां सहस्त्राण्यददं दश ॥२०॥
सप्त चान्यानि युक्तानि वाजिभिः समलङ्कृतैः
।
दक्षिणावयवाः केचिद्वेदैर्ये संप्रकीर्तिताः ॥२१॥
वाजपेयेषु दशसु प्रादां तेष्वपि चाप्यहम्
।
शक्रतुल्यप्रभावाणामिज्यया विक्रमेण ह ॥२२॥
सहस्रं निष्ककण्ठानामददं दक्षिणामहम्
।
विजित्य भूपतीन्सर्वानर्थैरिष्ट्वा पितामह ॥२३॥
अष्टभ्यो राजसूयेभ्यो न च तेनाहमागतः
।
स्रोतश्च यावद्गङ्गायाश्छन्नमासीज्जगत्पते ॥२४॥
दक्षिणाभिः प्रवृत्ताभिर्मम नागां च तत्कृते
।
वाजिनां च सहस्त्रे द्वे सुवर्णशतभूषिते ॥२५॥
वरं ग्रामशतं चाहमेकैकस्य त्रिधाऽददम्
।
तपस्वी नियताहारः शममास्थाय वाग्यतः ॥२६॥
दीर्घकालं हिमवति गङ्गायाश्च दुरुत्सहाम्
।
मूर्ध्ना धारां महादेवः शिरसा यामधारयत्
।
न तेनाप्यहमागच्छं फलेनेह पितामह ॥२७॥
शम्याक्षेपैरयजं यच्च देवान्साद्यस्क्रानामयुतैश्चापि यत्तत्
।
त्रयोदशद्वादशाहैश्च देव सपौण्डरीकान्न च तेषां फलेन ॥२८॥
अष्टौ सहस्राणि ककुद्मिनामहं शुक्लर्षभाणामददं द्विजेभ्यः
।
एकैकं वै काञ्चनं श्रृङ्गमेभ्यः पत्नीश्चैषामददं निष्ककण्ठीः ॥२९॥
हिरण्यरत्ननिचयानददं रत्नपर्वतान्
।
धनधान्यसमृद्धाश्च ग्रामाश्चान्ये सहस्रशः ॥३०॥
शतं शतानां गृष्टीनामददं चाप्यतन्द्रितः
।
इष्ट्वाऽनेकैर्महायज्ञैर्ब्राह्मणेभ्यो न तेन च ॥३१॥
एकादशाहैरयजं सदक्षिणैर्द्विर्द्वादशाहैरश्वमेधैश्च देव
।
आर्कायणैः षोडशभिश्च ब्रह्मस्तेषां फलेनेह न चागतोऽस्मि ॥३२॥
निष्कैककण्ठमददं योजनायतं तद्विस्तीर्णं काञ्चनपादपानाम्
।
वनं वृतानां रत्नविभूषितानां न चैव तेषामागतोऽहं फलेन ॥३३॥
तुरायणं हि व्रतमप्यधृष्यमक्रोधनोऽकरवं त्रिंशतोऽब्दान्
।
शतं गवामष्टशतानि चैव दिने दिने ह्यददं ब्राह्मणेभ्यः ॥३४॥
पयस्विनीनामथ रोहिणीनां तथैवान्याननडुहो लोकनाथ
।
प्रादां नित्यं ब्राह्मणेभ्यः सुरेश नेहागतस्तेन फलेन चाहम् ॥३५॥
त्रिंशदग्नीनहं ब्रह्मन्नयजं यच्च नित्यदा
।
अष्टाभिः सर्वमेधैश्च नरमेधैश्च सप्तभिः ॥३६॥
दशभिर्विश्वजिद्भिश्च शतैरष्टादशोत्तरैः
।
न चैव तेषां देवेश फलेनाहमिहागमम् ॥३७॥
सरय्वां बाहुदायां च गङ्गायामथ नैमिषे
।
गवां शतानामयुतमददं न च तेन वै ॥३८॥
इन्द्रेण गुह्यं निहितं वै गुहायां यद्भार्गवस्तपसेहाभ्यविन्दत्
।
जाज्वल्यमानमुशनस्तेजसेह तत्साधयामासमहं वरेण्य ॥३९॥
ततो मे ब्राह्मणास्तुष्टास्तस्मिन्कर्मणि साधिते
।
सहस्रमृषयश्चासन्ये वै तत्र समागताः ॥४०॥
उक्तस्तैरस्मि गच्छ त्वं ब्रह्मलोकमिति प्रभो
।
प्रीतेनोक्तसहस्रेण ब्राह्मणानामहं प्रभो
।
इमं लोकमनुप्राप्तो माभूत्तेऽत्र विचारणा ॥४१॥
कामं यथावद्विहितं विधात्रा पृष्टेन वाच्यं तु मया यथावत्
।
तपो हि नान्यच्चानशनान्मतं मे नमोऽस्तु ते देववर प्रसीद ॥४२॥
भीष्म उवाच। इत्युक्तवन्तं ब्रह्मा तु राजानं स भगीरथम्
।
पूजयामास पूजार्हं विधिदृष्टेन कर्मणा ॥४३॥
तस्मादनशनैर्युक्तो विप्रान्पूजय नित्यदा
।
विप्राणां वचनात्सर्वं परत्रेह च सिध्यति ॥४४॥
वासोभिरन्नैर्गोभिश्च शुमैर्नैवेशिकैरपि
।
शुभैः सुरगणैश्चापि स्तोष्या एव द्विजास्तथा ॥४५॥
एतदेव परं गुह्यमलोभेन समाचर ॥४५॥
युधिष्ठिर उवाच। शतायुरुक्तः पुरुषः शतवीर्यश्च जायते
।
कस्मान्म्रियन्ते पुरुषा बाला अपि पितामह ॥१॥
आयुष्मान्केन भवति अल्पायुर्वाऽपि मानवः
।
केन वा लभते कीर्तिं केन वा लभते श्रियम् ॥२॥
तपसा ब्रह्मचर्येण जपहोमैस्तथौषधैः
।
कर्मणा मनसा वाचा तन्मे ब्रूहि पितामह ॥३॥
भीष्म उवाच। अत्र तेऽहं प्रवक्ष्यामि यन्मां त्वमनुपृच्छसि
।
अल्पायुर्येन भवति दीर्घायुर्वाऽपि मानवः ॥४॥
येन वा लभते कीर्तिं येन वा लभते श्रियम्
।
यथा वर्तयन्पुरुषः श्रेयसा संप्रयुज्यते ॥५॥
आचाराल्लभते ह्यायुराचाराल्लभते श्रियम्
।
आचारात्कीर्तिमाप्नोति पुरुषः प्रेत्य चेह च ॥६॥
दुराचारो हि पुरुषो नेहायुर्विन्दते महत्
।
त्रसन्ति यस्माद्भूतानि तथा परिभवन्ति च ॥७॥
तस्मात्कुर्यादिहाचारं यदिच्छेद्भूतिमात्मनः
।
अपि पापशरीरस्य आचारो हन्त्यलक्षणम् ॥८॥
आचारलक्षणो धर्मः सन्तश्चारित्रलक्षणाः
।
साधूनां च यथावृत्तमेतदाचारलक्षणम् ॥९॥
अप्यदृष्टं श्रवादेव पुरुषं धर्मचारिणम्
।
भूतिकर्माणि कुर्वाणं तं जनाः कुर्वते प्रियम् ॥१०॥
ये नास्तिका निष्क्रियाश्च गुरुशास्त्राभिलंधिनः
।
अधर्मज्ञा दुराचारास्ते भवन्ति गतायुषः ॥११॥
विशीला भिन्नमर्यादा नित्यं संकीर्णमैथुनाः
।
अल्पायुषो भवन्तीह नरा निरयगामिनः ॥१२॥
सर्वलक्षणहीनोपि समुदाचारवान्नरः
।
श्रद्दधानोऽनसूयुश्च शतं वर्षाणि जीवति ॥१३॥
अक्रोधनः सत्यवादी भूतानामविहिंसकः
।
अनसूयुरजिह्मश्च शतं वर्षाणि जीवति ॥१४॥
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः
।
नित्योच्छिष्टः संकुसुको नेहायुर्विन्दते महत् ॥१५॥
ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत्
।
उत्थायाचम्य तिष्ठेत पूर्वां सन्ध्यां कृताञ्जलिः ॥१६॥
एवमेवापरां सन्ध्यां समुपासीत वाग्यतः
।
नेक्षेतादित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥१७॥
नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम्
।
ऋषयो नित्यसन्ध्यत्वाद्दीर्घमायुरवाप्नुवन् ॥१८॥
तस्मात्तिष्ठेत्सदा पूर्वां पश्चिमां चैव वाग्यतः
।
ये न पूर्वामुपासन्ते द्विजाः सन्ध्यां न पश्चिमाम् ॥१९॥
सर्वांस्तान् धार्मिको राजा शूद्रकर्माणि कारयेत्
।
परदारा न गन्तव्या सर्ववर्णेषु कर्हिचित् ॥२०॥
न हीदृशमनायुष्यं लोके किञ्चन विद्यते
।
यादृशं पुरुषस्येह परदारोपसेवनम् ॥२१॥
यावन्तो रोमकूपाः स्युःस्त्रीणां गात्रेषु निर्मिताः
।
तावद्वर्षसहस्राणि नरकं पर्युपासते ॥२२॥
प्रसाधनं च केशानामं जनं दन्तधावनम्
।
पूर्वाह्ण एव कार्याणि देवतानां च पूजनम् ॥२३॥
पुरीषमूत्रे नोदीक्षेन्नाधितिष्ठत्कदाचन
।
नातिकल्यं नातिसायं न च मध्यंदिने स्थिते ॥२४॥
नाज्ञातैः सह गच्छेत नैको न वृषलैः सह
।
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च ॥२५॥
वृद्धाय भारतप्ताय गर्भिण्यै दुर्बलाय च
।
प्रदक्षिणं च कुर्वीत परिज्ञातान्वनस्पतीन् ॥२६॥
चतुष्पथान्प्रकुर्वीत सर्वानेव प्रदक्षिणान्
।
मध्यन्दिने निशाकाले अर्धरात्रे च सर्वदा ॥२७॥
चतुष्पथं न सेवेत उभे संध्ये तथैव च
।
उपानहौ च वस्त्रं च धृतमन्यैर्न धारयेत्
।
ब्रह्मचारी च नित्यं स्यात्पादं पादेन नाक्रमेत् ॥२८॥
अमावास्यां पौर्णमास्यां चतुर्दश्यां च सर्वशः
।
अष्टम्यां सर्वपक्षाणां ब्रह्मचारी सदा भवेत् ॥२९॥
वृथामांसं न खादेत पृष्ठमांसं तथैव च
।
आक्रोशं परिवादं च पैशुन्यं च विवर्जयेत् ॥३०॥
नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत
।
ययाऽस्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलोक्याम् ॥३१॥
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति राज्यहानि
।
परस्य वा मर्मसु ये पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥३२॥
रोहते सायकैर्विद्धं वनं परशुना हतम्
।
वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥३३॥
कर्णिनालीकनाराचान्निर्हरन्ति शरीरतः
।
वाक्रशल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥३४॥
हीनाङ्गानतिरिक्ताङ्गान्विद्याहीनान्विगर्हितान्
।
रूपद्रविणहीनांश्च सत्यहीनांश्च नाक्षिपेत् ॥३५॥
नास्तिक्यं वेदनिन्दां च देवतानां च कुत्सनम्
।
द्वेषस्तम्भोभिमानं च तैक्ष्ण्यं च परिवर्जयेत् ॥३६॥
परस्य दण्डं नोद्यच्छेत्क्रुद्धो नैनं निपातयेत्
।
अन्यत्र पुत्राच्छिष्याच्च शिक्षार्थं ताडनं स्मृतम् ॥३७॥
न ब्राह्मणान्परिवदेन्नक्षत्राणि न निर्दिशेत्
।
तिथिं पक्षस्य न ब्रूयात्तथास्यायुर्न रिष्यते ॥३८॥
कृत्वा मूत्रपुरीषे तु रथ्यामाक्रम्य वा पुनः
।
पादप्रक्षालनं कुर्यात्स्वाध्याये भोजने तथा ॥३९॥
त्रीणि देवाः पवित्राणि ब्राह्मणानामकल्पयन्
।
अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ॥४०॥
संयावं कृसरं मांसं शष्कुलीं पायसं तथा
।
आत्मार्थं न प्रकर्तव्यं देवार्थं तु प्रकल्पयेत् ॥४१॥
नित्यमग्निं परिचरेद्भिक्षां दद्याच्च नित्यदा
।
वाग्यतो दन्तकाष्ठं च नित्यमेव समाचरेत् ॥४२॥
नचाभ्युदितशायी स्यात्प्रायश्चित्ती तथा भवेत्
।
मातापितरमुत्थाय पूर्वमेवाभिवादयेत् ॥४३॥
आचार्यमथवाप्यन्यं तथायुर्विन्दते महत्
।
वर्जयेद्दन्तकाष्ठानि वर्जनीयानि नित्यशः ॥४४॥
भक्षयेच्छास्त्रदृष्टानि पर्वस्वपि विवर्जयेत्
।
उदङ्मुखश्च सततं शौचं कुर्यात्समाहितः ॥४५॥
अकृत्वा देवपूजां च नाचरेद्दन्तधावनम्
।
अकृत्वा देवपूजां च नाभिगच्छेत्कदाचन
।
अन्यत्र तु गुरुं वृद्धं धार्मिकं वा विचक्षणम् ॥४६॥
अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः
।
न चाज्ञातां स्त्रियं गच्छेद्गर्भिणीं वा कदाचन ॥४७॥
उदक्शिरा न स्वपेत तथा प्रत्यक्शिरा न च
।
प्राक्शिरास्तु स्वपेद्विद्वानथवा दक्षिणाशिराः ॥४८॥
न भग्ने नावशीर्णे च शयने प्रस्वपीत च
।
नान्तर्धाने न संयुक्ते न च तिर्यक्कदाचन ॥४९॥
न चापि गच्छेत्कार्येण समयाद्वापि नास्तिकैः
।
आसनं तु पदाऽऽकृष्य न प्रसज्जेत्तथा नरः ॥५०॥
न नग्नः कर्हिचित्स्नायान्न निशायां कदाचन
।
स्नात्वा च नावमृज्येत गात्राणि सुविचक्षणः ॥५१॥
न चानुलिंपेदस्नात्वा स्नात्वा वासो न निर्धुनेत्
।
न चैवार्द्राणि वासांसि नित्यं सेवेत मानवः ॥५२॥
स्रजश्च नावकृष्येत न वहिर्धारयीत च
।
उदक्यया च सम्भाषां न कुर्वीत कदाचन ॥५३॥
नोत्सृजेत पुरीषं च क्षेत्रे ग्रामस्य चान्तिके
।
उभे मूत्रपुरीषे तु नाप्सु कुर्यात्कदाचन ॥५४॥
अन्नं बुभुक्षमाणस्तु त्रिर्मुखेन स्पृशेदपः
।
भुक्त्वा चानं तथैव त्रिर्द्वि पुनः परिमार्जयेत् ॥५५॥
प्राङ्मुखो नित्यमश्नीयाद्वाग्यतोन्नमकुत्सयन्
।
प्रस्कन्दयेच्च मनसा भुक्त्वा चाग्निमुपस्पृशेत् ॥५६॥
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः
।
धन्यं पश्चान्मुखो भुङ्क्ते ऋतं भुंक्ते उदङ्मुखः ॥५७॥
अग्निमालभ्य तोयेन सर्वान्प्राणानुपस्पृशेत्
।
गात्राणि चैव सर्वाणि नाभिं पाणितले तथा ॥५८॥
नाधितिष्ठेत्तुषं जातु केशभस्मकपालिकाः
।
अन्यस्य चाप्यवस्नातं दूरतः परिवर्जयेत् ॥५९॥
शान्तिहोमांश्च कुर्वीत सावित्राणि च धारयेत्
।
निषण्णश्चापि खादेत न तु गच्छन्कदाचन ॥६०॥
मूत्रं नोत्तिष्ठता कार्यं न भस्मनि न गोव्रजे
।
आर्द्रपादस्तु भुञ्जीत नार्द्रपादस्तु संविशेत् ॥६१॥
आर्द्रपादस्तु भुञ्जानो वर्षाणां जीवते शतम्
।
त्रीणि तेजांसि नोच्छिष्ट आलभेत कदाचन ॥६२॥
अग्निं गां ब्राह्मणं चैव तथा ह्यायुर्न रिष्यते
।
त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन ॥६३॥
सूर्याचन्द्रमसौ चैव नक्षत्राणि च सर्वशः
।
ऊर्ध्वं प्राणाह्युत्क्रामन्ति यूनः स्थविर आयति ॥६४॥
प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते
।
अभिवादयीत वृद्धांश्च दद्याच्चैवासनं स्वयम् ॥६५॥
कृताञ्जलिरुपासीत गच्छन्तं पृष्ठतोऽन्वियात्
।
न चासीतासने भिन्ने भिन्नकांस्यं च वर्जयेत ॥६६॥
नैकवस्त्रेण भोक्तव्यं न नग्नः स्नातुमर्हति
।
स्वप्तव्यं नैव नग्नेन न चोच्छिष्टोऽपि संविशेत् ॥६७॥
उच्छिष्टो न स्पृशेच्छीर्षं सर्वे प्राणास्तदाश्रयाः
।
केशग्रहं प्रहारांश्च शिरस्येतान्विवर्जयेत् ॥६८॥
न संहताभ्यां पाणिभ्यां कंडूयेदात्त्मनः शिरः
।
न चाभीक्ष्णं शिरः स्नायात्तथास्यायुर्न रिष्यते ॥६९॥
शिरस्नातस्तु तैलैश्च नाङ्गं किञ्चिदपि स्पृशेत्
।
तिलसृष्टं न चाश्नीयात्तथास्यायुर्न रिष्यते ॥७०॥
नाध्यापयेत्तथोच्छिष्टो नाधीयीत कदाचन
।
वाते च पूतिगन्धे च मनसाऽपि न चिन्तयेत् ॥७१॥
अत्र गाथा यमोद्गीताः कीर्तयन्ति पुराविदः
।
आयुरस्य निकृन्तामि प्रजास्तस्याददे तथा ॥७२॥
उच्छिष्टो यः प्राद्रवति स्वाध्यायं चाधिगच्छति
।
यश्चानध्यायकालेऽपि मोहादभ्यस्यति द्विजः ॥७३॥
तस्य वेदः प्रणश्येत आयुश्च परिहीयते
।
तस्माद्युक्तो ह्यनध्याये नाधीयीत कदाचन ॥७४॥
प्रत्यादित्यं प्रत्यनलं प्रति गां च प्रति द्विजान्
।
ये मेहन्ति च पन्थानं ते भवन्ति गतायुषः ॥७५॥
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः
।
दक्षिणाभिमुखो रात्रौ तथा ह्यायुर्न रिष्यते ॥७६॥
त्रीन्कृशान्नावजानीयाद्दीर्घमायुर्जिजीविषुः
।
ब्राह्मणं क्षत्रियं सर्पं सर्वे ह्याशीविषास्त्रयः ॥७७॥
दहत्याशीविषः क्रुद्धो यावत्पश्यति चक्षुषा
।
क्षत्रियोपि दहेत्क्रुद्धो यावत्स्पृशति तेजसा ॥७८॥
ब्राह्मणस्तु कुलं हन्याद्ध्यानेनावेक्षितेन च
।
तस्मादेतत्त्रयं यत्नादुपसेवेत पण्डितः ॥७९॥
गुरुणा चैव निर्बन्धो न कर्तव्यः कदाचन
।
अनुमान्यः प्रसाद्यश्च गुरुः क्रुद्धो युधिष्ठिर ॥८०॥
सम्यङ्मिथ्या प्रवृत्तेऽपि वर्तितव्यं गुराविह
।
गुरुनिन्दा दहत्यायुर्मनुष्याणां न संशयः ॥८१॥
दूरादावसथान्मूत्रं दूरात्पादावसेचनम्
।
उच्छिष्टोत्सर्जनं चैव दूरे कार्यं हितैषिणा ॥८२॥
रक्तमाल्यं न धार्यं स्याच्छुक्लं धार्यं तु पण्डितैः
।
वर्जयित्वा तु कमलं तथा कुवलयं प्रभो ॥८३॥
रक्तं शिरसि धार्यं तु तथा वानेयमित्यपि
।
काञ्चनीयाऽपि माला या न सा दुष्यति कर्हिचित् ॥८४॥
स्नातस्य वर्णकं नित्यमार्द्रं दद्याद्विशांपते
।
विपर्ययं न कुर्वीत वाससो बुद्धिमान्नरः ॥८५॥
तथा नान्यधृतं धार्यं न चापदशमेव च
।
अन्यदेव भवेद्वासः शयनीये नरोत्तम ॥८६॥
अन्यद्रथ्यासु देवानामर्चायामन्यदेव हि
।
प्रियङ्गुचन्दनाभ्यां च बिल्वेन तगरेण च ॥८७॥
पृथगेवानुलिम्पेत केसरेण च बुद्धिमान्
।
उपवासं च कुर्वीत स्नातः शुचिरलंकृतः ॥८८॥
पर्वकालेषु सर्वेषु ब्रह्मचारी सदा भवेत्
।
समानमेकपात्रे तु भुञ्जेन्नान्नं जनेश्वर ॥८९॥
नालीढया परिहतं भक्षयीत कदाचन
।
तथा नोद्धृतसाराणि प्रेक्षते नाप्रदाय च ॥९०॥
न संनिकृष्टे मेधावी नाशुचेर्न च सत्सु च
।
प्रतिषिद्धान्न धर्मेषु भक्ष्यान्भुञ्जीत पृष्ठतः ॥९१॥
पिप्पलं च वटं चैव शणशाकं तथैव च
।
उदुम्बरं न खादेच्च भवार्थी पुरुषोत्तमः ॥९२॥
आजं गव्यं तथा मांसं मायूरं चैव वर्जयेत्
।
वर्जयेच्छुष्कमांसं च तथा पर्युषितं च यत् ॥९३॥
न पाणौ लवणं विद्वान्प्राश्नीयान्न च रात्रिषु
।
दधिसक्तून्न भुञ्जीत वृथामांसं च वर्जयेत् ॥९४॥
सायंप्रातश्च भुञ्जीत नान्तराले समाहितः
।
वालेन तु न भुञ्जीत परश्राद्धं तथैव च ॥९५॥
वाग्यतो नैकवस्त्रश्च नासंविष्टः कदाचन
।
भूमौ सदैव नाश्नीयान्नानासीनो न शब्दद्वत् ॥९६॥
तोयपूर्वं प्रदायान्नमतिथिभ्यो विशांपते
।
पश्चाद्भुञ्जीत मेधावी न चाप्यन्यमना नरः ॥९७॥
समानमेकपङ्क्त्यां तु भोज्यमन्नं नरेश्वर
।
विषं हालाहलं भुङ्क्ते योऽप्रदाय सुहृज्जने ॥९८॥
पानीयं पायसं सक्तून्दधिसर्पिर्मधून्यपि
।
निरस्य शेषमन्येषां न प्रदेयं तु कस्यचित् ॥९९॥
भुञ्जानो मनुजव्याघ्र नैव शङ्कां समाचरेत्
।
दधि चाप्यनुपानं वै न कर्तव्यं भवार्थिना ॥१००॥
आचम्य चैकहस्तेन परिप्लाव्यं तथोदकम्
।
अङ्गुष्ठं चरणस्याथ दक्षिणस्यावसेचयेत् ॥१०१॥
पाणिं मूर्ध्नि समाधाय स्पृष्ट्वा चाग्निं समाहितः
।
ज्ञातिश्रेष्ठ्यमवाप्नोति प्रयोगकुशलो नरः ॥१०२॥
अद्भिः प्राणान्समालभ्य नाभिं पाणितले तथा
।
स्पृशंश्चैव प्रतिष्ठेत न चाप्यार्द्रेण पाणिना ॥१०३॥
अङ्गुष्ठस्यान्तराले च ब्राह्मं तीर्थमुदाहृतम्
।
कनिष्ठिकायाः पश्चात्तु देवतीर्थमिहोच्यते ॥१०४॥
अङ्गुष्ठस्य च यन्मध्यं प्रदेशिन्याश्च भारत
।
तेन पित्र्याणि कुर्वीत स्पृष्ट्वापो न्यायतः सदा ॥१०५॥
परापवादं न ब्रूयान्नाप्रियं च कदाचन
।
न मन्युः कश्चिदुत्पाद्यः पुरुषेण भवार्थिना ॥१०६॥
पतितैस्तु कथां नेच्छेद्दर्शनं च विवर्जयेत्
।
संसर्गं च न गच्छेत तथाऽऽयुर्विन्दते महत् ॥१०७॥
न दिवा मैथुनं गच्छेन्न कन्यां न च बन्धकीम्
।
न चास्नातां स्त्रियं गच्छेत्तथाऽऽयुर्विन्दते महत् ॥१०८॥
स्वे स्वे तीर्थे समाचम्य कार्ये समुपकल्पिते
।
त्रिःपीत्त्वाऽऽपो द्विः प्रमृज्य कृतशौचो भवेन्नरः ॥१०९॥
इन्द्रियाणि सकृत्स्पृश्य त्रिरभ्युक्ष्य च मानवः
।
कुर्वीत पित्र्यं दैवं च वेददृष्टेन कर्मणा ॥११०॥
ब्राह्मणार्थे च यच्छौचं तच्च मे शृणु कौरव
।
पवित्रं च हितं चैव भोजनाद्यं तयोस्तथा ॥१११॥
सर्वशौचेषु ब्राह्मण तीर्थेन समुपस्पृशेत्
।
निष्ठीव्य तु तथा श्रुत्वा स्पृश्यापो हि शुचिर्भवेत् ॥११२॥
वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदपि
।
गृहे वासयितव्यास्ते धन्यमायुष्यमेव च ॥११३॥
गृहे पारावता धन्याः शुकाश्च सहसारिकाः
।
गृहेष्वेते न पापाय तथा वै तैलपायिकाः
।
उद्दीपकाश्च गृध्राश्च कपोता भ्रमरास्तथा ॥११४॥
निविशेयुर्यदा तत्र शान्तिमेव तदाऽऽचरेत्
।
अमङ्गल्यानि चैतानि तथाऽक्रोशो महात्मनाम् ॥११५॥
महात्मनोतिगुह्यानि न वक्तव्यानि कर्हिचित्
।
अगम्याश्च न गच्छेत राज्ञः पत्नीं सखीस्तथा ॥११६॥
वैद्यानां बालवृद्धानां भृत्यानां च युधिष्ठिर
।
बन्धूनां ब्राह्मणानां च तथा शाराणकस्य च ॥११७॥
संबन्धिनां च राजेन्द्र तथाऽऽयुर्विन्दते महत्
।
ब्राह्मणस्थपतिभ्यां च निर्मितं यन्निवेशनम् ॥११८॥
तदावसेत्सदा प्राशो भवार्थी मनुजेश्वर
।
सन्ध्यायां न स्वपेद्राजन्विद्यां न च समाचरेत् ॥११९॥
न भुञ्जीत च मेधावी तथाऽऽयुर्विन्दते महत्
।
नक्तं न कुर्यात्पित्र्याणि भुक्त्वा चैव प्रसाधनम् ॥१२०॥
पानीयस्य क्रिया नक्तं न कार्या भूतिमिच्छता
।
वर्जनीयाश्चैव नित्यं सक्तवो निशि भारत ॥१२१॥
शेषाणि चैव पानानि पानीयं चापि भोजने
।
सौहित्यं न च कर्तव्यं रात्रौ न च समाचरेत् ॥१२२॥
द्विजच्छेदं न कुर्वीत भुक्त्वा न च समाचरेत्
।
महाकुले प्रसूतां च प्रशस्तां लक्षणैस्तथा ॥१२३॥
वयस्थां च महाप्राज्ञः कन्यामावोढुमर्हति
।
अपत्यमुत्पाद्य ततः प्रतिष्ठाप्य कुलं तथा ॥१२४॥
पुत्राः प्रदेया ज्ञानेषु कुलधर्मेषु भारत
।
कन्या चोत्पाद्य दातव्या कुलपुत्राय धीमते ॥१२५॥
पुत्रा निवेश्याश्च कुलाद्भृत्या लभ्याश्च भारत
।
शिरस्नातोऽथ कुर्वीत दैवं पित्र्यमथापि च ॥१२६॥
नक्षत्रे न च कुर्वीत यस्मिन् जातो भवेन्नरः
।
न प्रोष्ठपदयोः कार्यं तथाऽऽग्नेये च भारत ॥१२७॥
दारुणेषु च सर्वेषु प्रत्यरिं च विवर्जयेत्
।
ज्योतिषे यानि चोक्तानि तानि सर्वाणि वर्जयेत् ॥१२८॥
प्राङ्मुखः श्मश्रुकर्माणि कारयेत्सुसमाहितः
।
उदङ्मुखो वा राजेन्द्र तथाऽऽयुर्विन्दते महत् ॥१२९॥
परिवादं न च ब्रूयात्परेषामात्मनस्तथा
।
परिवादो ह्यधर्माय प्रोच्यते भरतर्षभ ॥१३०॥
वर्जयेद्व्यंगिनीं नारीं तथा कन्यां नरोत्तम
।
समार्षां व्यंगितां चैव मातुः स्वकुलजां तथा ॥१३१॥
वृद्धां प्रव्रजितां चैव तथैव च पतिव्रताम्
।
तथा निकृष्टवर्णां च वर्णोत्कृष्टां च वर्जयेत् ॥१३२॥
अयोनिं च वियोनिं च न गच्छेत विचक्षणः
।
पिङ्गलां कुष्ठिनीं नारीं न त्वमुद्वोढुमर्हसि ॥१३३॥
अपस्मारिकुले जातां निहीनां चापि वर्जयेत्
।
श्वित्रिणां च कुले जातां क्षयिणां मनुजेश्वर ॥१३४॥
लक्षणैरन्विता या च प्रशस्ता या च लक्षणैः
।
मनोज्ञां दर्शनीयां च तां भवान्वोढुमर्हति ॥१३५॥
महाकुले निवेष्टव्यं सदृशे वा युधिष्ठिर
।
अवरा पतिता चैव न ग्राह्या भूतिमिच्छता ॥१३६॥
अग्नीनुत्पाद्य यत्नेन क्रियाः सुविहिताश्च याः
।
वेदे च ब्राह्मणैः प्रोक्तास्ताश्च सर्वाः समाचरेत् ॥१३७॥
न चेर्ष्या स्त्रीषु कर्तव्या रक्ष्या दाराश्च सर्वशः
।
अनायुष्या भवेदीर्ष्या तस्मादीर्ष्यां विवर्जयेत् ॥१३८॥
अनायुष्यं दिवा स्वप्नं तथाभ्युदितशायिता
।
प्रगे निशामाशु तथा नैवोच्छिष्टाः स्वपन्ति वै ॥१३९॥
पारदार्यमनायुष्यं नापितोच्छिष्टता तथा
।
यत्नतो वै न कर्तव्यमभ्यासश्चैव भारत ॥१४०॥
सन्ध्यायां च न भुञ्जीत न स्नायेन्न तथा पठेत्
।
प्रयतश्च भवेत्तस्यां न च किञ्चित्समाचरेत् ॥१४१॥
ब्राह्मणान्पूजयेच्चापि तथा स्नात्वा नराधिप
।
देवांश्च प्रणमेत्स्नातो गुरूंश्चाप्यभिवादयेत् ॥१४२॥
अनिमन्त्रितो न गच्छेत यज्ञं गच्छेत दर्शकः
।
अनर्चिते ह्यनायुष्यं गमनं तत्र भारत ॥१४३॥
न चैकेन परिव्रज्यं न गन्तव्यं तथा निशि
।
अनागतायां सन्ध्यायां पश्चिमायां गृहे वसेत् ॥१४४॥
मातुः पितुर्गुरूणां च कार्यमेवानुशासनम्
।
हितं चाप्यहितं चापि न विचार्यं नरर्षभ ॥१४५॥
धनुर्वेदे च वेदे च यत्नः कार्यो नराधिप
।
हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव ह ॥१४६॥
यत्नवान्भव राजेन्द्र यत्नवान्सुखमेधते
।
अप्रधृष्यश्च शत्रूणां भृत्यानां स्वजनस्य च ॥१४७॥
प्रजापालनयुक्तश्च न क्षतिं लभते क्वचित्
।
युक्तिशास्त्रं च ते ज्ञेयं शब्दशास्त्रं च भारत ॥१४८॥
गान्धर्वशास्त्रं च कलाः परिज्ञेया नराधिप
।
पुराणमितिहासाश्च तथाऽऽख्यानानि यानि च ॥१४९॥
महात्मनां च चरितं श्रोतव्यं नित्यमेव ते
।
पत्नी रजस्वला या च नाभिगच्छेन्न चाह्वयेत् ॥१५०॥
स्नातां चतुर्थे दिवसे रात्रौ गच्छेद्विचक्षणः
।
पञ्चमे दिवसे नारी षष्ठेऽहनि पुमान्भवेत् ॥१५१॥
एतेन विधिना पत्नीमुपगच्छेत पण्डितः
।
ज्ञातिसम्बन्धिभित्राणि पूजनीयानि सर्वशः ॥१५२॥
यष्टव्यं च यथाशक्ति यज्ञैर्विविधदक्षिणैः
।
अत ऊर्ध्वमरण्यं च सेवितव्यं नराधिप ॥१५३॥
एष ते लक्षणोद्देश आयुष्याणां प्रकीर्तितः
।
शेषस्त्रैविद्यवृद्धेभ्यः प्रत्याहार्यो युधिष्ठिर॥१५४॥
आचारो भूतिजनन आचारः कीर्तिवर्धनः
।
आचाराद्वर्धते ह्यायुराचारो हन्त्यलक्षणम् ॥१५५॥
आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते
।
आचारप्रभवो धर्मो धर्मादायुर्विवर्धते ॥१५६॥
एतद्यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्
।
अनुकंप्य सर्ववर्णान् ब्रह्मणा समुदाहृतम् ॥१५७॥
युधिष्ठिर उवाच। यथा ज्येष्ठः कनिष्ठेषु वर्तेत भरतर्षभ
।
कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे ॥१॥
भीष्म उवाच। ज्येष्ठवत्तात वर्तस्व ज्येष्ठोऽसि सततं भवान्
।
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत ॥२॥
न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम्
।
गुरोर्हि दीर्घदर्शित्वं यत्तच्छिष्यस्य भारत ॥३॥
अन्धः स्यादन्धवेलायां जडःस्यादपि वा बुधः
।
परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः ॥४॥
प्रत्यक्षं भिन्नहृदया भेदयेयुः कृतं नराः
।
श्रियाऽभितप्ताः कौन्तेय भेदकामास्तथारयः ॥५॥
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः
।
हन्ति सर्वमपि ज्येष्ठः कुलं यत्रावजायते ॥६॥
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः
।
अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः ॥७॥
निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम्
।
विदुलस्येव तत्पुष्पं मोघं जनयितुः स्मृतम् ॥८॥
सर्वानर्थः कुले यत्र जायते पापपूरुषः
।
अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च ॥९॥
सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः
।
नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत यौतकम् ॥१०॥
अनुपघ्नन्पितुर्दायं जंघाश्रमफलोऽध्वगः
।
स्वयमीहितलब्धं तु नाकामो दातुमर्हति ॥११॥
भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह
।
न पुत्रभागं विषमं पिता दद्यात्कदाचन ॥१२॥
न ज्येष्ठो वाऽवमन्येत दुष्कृतः सुकृतोपि वा
।
यदि स्त्री यद्यवरजः श्रेयश्चेत्तत्तदाचरेत् ॥१३॥
धर्मं हि श्रेय इत्याहुरिति धर्मविदो जनाः
।
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश ॥१४॥
दश चैव पितॄन्माता सर्वां वा पृथिवीमपि
।
गौरवेणाभिभवति नास्ति मातृसमो गुरुः ॥१५॥
माता गरीयसी यच्च तेनैतां मन्यते जनः
।
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत ॥१६॥
स ह्येषां वृत्तिदाता स्यात्स चैतान्प्रतिपालयेत्
।
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः ॥१७॥
तमेव चोपजीवेरन् यथैव पितरं तथा
।
शरीरमेतौ सृजतः पिता माता च भारत ॥१८॥
आचार्यशास्ता या जातिः सा सत्या साऽजराऽमरा
।
ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ ॥१९॥
भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत् ॥२०॥
युधिष्ठिर उवाच। सर्वेषामेव वर्णानां म्लेच्छानां च पितामह
।
उपवासे मतिरियं कारणं च न विद्महे ॥१॥
ब्रह्मक्षत्रेण नियमाश्चर्तव्या इति नः श्रुतम्
।
उपवासे कथं तेषां कृत्यमस्ति पितामह ॥२॥
नियमांश्चोपवासांश्च सर्वेषां ब्रूहि पार्थिव
।
आप्नोति कां गतिं तात उपवासपरायणः ॥३॥
उपवासः परं पुण्यमुपवासः परायणम्
।
उपोष्येह नरश्रेष्ठ किं फलं प्रतिपद्यते ॥४॥
अधर्मान्मुच्यते केन धर्ममाप्नोति वा कथम्
।
स्वर्गं पुण्यं च लभते कथं भरतसत्तम ॥५॥
उपोष्य चापि किं तेन प्रदेयं स्यान्नराधिप
।
धर्मेण च सुखानঁर्थाल्लभेद्येन ब्रवीहि तम् ॥६॥
वैशम्पायन उवाच। एवं ब्रुवाणं कौन्तेयं धर्मज्ञं धर्मत्तत्त्ववित्
।
धर्मपुत्रमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् ॥७॥
भीष्म उवाच। इदं खलु मया राजन् श्रुतमासीत्पुरातनम्
।
उपवासविधौ श्रेष्ठा गुणा ये भरतर्षभ ॥८॥
ऋषिमङ्गिरसं पूर्वं पृष्टवानस्मि भारत
।
यथा मां त्वं तथैवाहं पृष्टवांस्तं तपोधनम् ॥९॥
प्रश्नमेतं मया पृष्टो भगवानग्निसंभवः
।
उपवासविधिं पुण्यमाचष्ट भरतर्षभ ॥१०॥
अङ्गिरा उवाच
।
ब्रह्मक्षत्रे त्रिरात्रं तु विहितं कुरुनन्दन
।
द्विस्त्रिरात्रमथैकाहं निर्दिष्टं पुरुषर्षभ ॥११॥
वैश्याः शूद्राश्च यन्मोहादुपवासं प्रचक्रिरे
।
त्रिरात्रं वा द्विरात्रं वा तयोर्व्युष्टिर्न विद्यते ॥१२॥
चतुर्थभक्तक्षपणं वैश्ये शूद्रे विधीयते
।
त्रिरात्रं न तु धर्मज्ञैर्विहितं धर्मदर्शिभिः ॥१३॥
पञ्चम्यां वाऽपि षष्ठ्यां च पौर्णमास्यां च भारत
।
उपोष्य एकभक्तेन नियताऽऽत्मा जितेन्द्रियः ॥१४॥
क्षमावान् रूपसम्पन्नः श्रुतवांश्चैव जायते
।
नानपत्यो भवेत्प्राज्ञो दरिद्रो वा कदाचन ॥१५॥
यजिष्णुः पञ्चमीं षष्ठीं कुले भोजयते द्विजान्
।
अष्टमीमथ कौरव्य कृष्णपक्षे चतुर्दशीम् ॥१६॥
उपोष्य व्याधिरहितो वीर्यवानभिजायते
।
मार्गशीर्षं तु यो मासमेकभक्तेन संक्षिपेत् ॥१७॥
भोजयेच्च द्विजान् शक्त्या स मुच्येद्व्याधिकिल्विषैः
।
सर्वकल्याणसंपूर्णः सर्वौषधिसमन्वितः ॥१८॥
उपोष्य व्याधिरहितो वीर्यवानभिजायते
।
कृषिभागी बहुधनो बहुधान्यश्च जायते ॥१९॥
पौषमासं तु कौन्तेय भक्तेनैकेन यः क्षिपेत्
।
सुभगो दर्शनीयश्च यशोभागी च जायते ॥२०॥
माघं तु नियतो मासमेकभक्तेन यः क्षिपेत्
।
श्रीमत्कुले ज्ञातिमध्ये स महत्त्वं प्रपद्यते ॥२१॥
भगदेवतमासं तु एकभक्तेन यः क्षिपेत्
।
स्त्रीषु वल्लभतां याति वश्याश्चास्य भवन्ति ताः ॥२२॥
चैत्रं तु नियतो मासमेकभक्तेन यः क्षिपेत्
।
सुवर्णमणिमुक्ताढ्ये कुले महति जायते ॥२३॥
निस्तरेदेकभक्तेन वैशाखं यो जितेन्द्रियः
।
नरो वा यदि वा नारी ज्ञातीनां श्रेष्ठतां व्रजेत् ॥२४॥
ज्येष्ठामूलं तु यो मासमेकभक्तेन संक्षिपेत्
।
ऐश्वर्यमतुलं श्रेष्ठं पुमान्स्त्री वा प्रपद्यते ॥२५॥
आषाढमेकभक्तेन स्थित्वा मासमतन्द्रितः
।
बहुधान्यो बहुधनो बहुपुत्रश्च जायते ॥२६॥
श्रावणं नियतो मासमेकभक्तेन यः क्षिपेत्
।
यत्र तत्राभिषेकेण युज्यते ज्ञातिवर्धनः ॥२७॥
प्रौष्ठपदं तु यो मासमेकाहारो भवेन्नरः
।
गवाढ्यं स्फीतमचलमैश्वर्यं प्रतिपद्यते ॥२८॥
तथैवाश्वयुजं मासमेकभक्तेन यः क्षिपेत्
।
मृजावान् वाहनाढ्यश्च बहुपुत्रश्च जायते ॥२९॥
कार्तिकं तु नरो मासं यः कुर्यादेकभोजनम्
।
शूरश्च बहुभार्यश्च कीर्तिमांश्चैव जायते ॥३०॥
इति मासा नख्याघ्र क्षिपतां परिकीर्तिताः
।
तिथीनां नियमा ये तु शृणु तानपि पार्थिव ॥३१॥
पक्षे पक्षे गते यस्तु भक्तमश्नाति भारत
।
गवाढ्यो बहुपुत्रश्च बहुभार्यः स जायते ॥३२॥
मासि मासि त्रिरात्राणि कृत्वा वर्षाणि द्वादश
।
गणाधिपत्यं प्राप्नोति निःसपत्नमनाविलम् ॥३३॥
एते तु नियमाः सर्वे कर्तव्याः शरदो दश
।
द्वे चान्ये भरतश्रेष्ठ प्रवृत्तिमनुवर्तता ॥३४॥
यस्तु प्रातस्तथा सायं भुञ्जानो नान्तरा पिबेत्
।
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् ॥३५॥
षड्भिः स वर्षैर्नृपते सिध्यते नात्र संशयः
।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥३६॥
अधिवासे सोऽप्सरसां नृत्यगीतविनादिते
।
रमते स्त्रीसहस्राढ्ये सुकृती विरजो नरः ॥३७॥
तप्तकाञ्चनवर्णाभं विमानमधिरोहति
।
पूर्णं वर्षसहस्रं च ब्रह्मलोके महीयते ॥३८॥
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते
।
यस्तु संवत्सरं पूर्णमेकाहारो भवेन्नरः ॥३९॥
अतिरात्रस्य यज्ञस्य स फलं समुपाश्नुते
।
दशवर्षसहस्राणि स्वर्गे च स महीयते ॥४०॥
तत्क्षयादिह चागम्य माहात्म्यं प्रतिपद्यते
।
यस्तु संवत्सरं पूर्णं चतुर्थं भक्तमश्नुते ॥४१॥
अहिंसानिरतो नित्यं सत्यवाग्विजितेन्द्रियः
।
वाजपेयस्य यज्ञस्य स फलं समुपाश्नुते ॥४२॥
दशवर्षसहस्राणि स्वर्गलोके महीयते
।
षष्ठे काले तु कौन्तेय नरः संवत्सरं क्षिपन् ॥४३॥
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः
।
चक्रवाकप्रयुक्तेन विमानेन स गच्छति ॥४४॥
चत्वारिंशत्सहस्त्राणि वर्षाणां दिवि मोदते
।
अष्टमेन तु भक्तेन जोवन्तंवत्सरं नृप ॥४५॥
गवामयस्य यज्ञस्य फलं प्राप्नोति मानवः
।
हंससारसयुक्तेन विमानेन स गच्छति ॥४६॥
पञ्चाशतं सहस्राणि वर्षाणां दिवि मोदते
।
पक्षे पक्षे गते राजन्योऽश्नीयाद्वर्षमेव तु ॥४७॥
षण्मासानशनं तस्य भगवानङ्गिराऽब्रवीत्
।
षष्टिर्वर्षसहस्राणि दिवमावसते च सः ॥४८॥
वीणानां वल्लकीनां च वेणूनां च विशांपते
।
सुघोषैर्मधुरैः शब्दैः सुप्तः स प्रतिबोध्यते ॥४९॥
संवत्सरमिहैकं तु मासि मासि पिबेदपः
।
फलं विश्वजितस्तात प्राप्नोति स नरो नृप ॥५०॥
सिंहव्याघ्रप्रयुक्तेन विमानेन स गच्छति
।
सप्ततिं च सहस्राणि वर्षाणां दिवि मोदते ॥५१॥
मासादूर्ध्वं नरव्याघ्र नोपवासो विधीयते
।
विधिं त्वनशनस्याहुः पार्थ धर्मविदो जनाः ॥५२॥
अनार्तो व्याधिरहितो गच्छेदनशनं तु यः
।
पदे पदे यज्ञफलं स प्राप्नोति न संशयः ॥५३॥
दिवं हंसप्रयुक्तेन विमानेन स गच्छति
।
शतं वर्षसहस्राणां मोदते स दिवि प्रभो ॥५४॥
शतं चाप्सरसः कन्या रमयन्त्यपि तं नरम्
।
आर्तो वा व्याधितो वापि गच्छेदनशनं तु यः ॥५५॥
शतं वर्षसहस्राणां मोदते स दिवि प्रभो
।
काञ्चीनूपुरशब्देन सुप्तश्चैव प्रबोध्यते ॥५६॥
सहस्त्रहंसयुक्तेन विमानेन तु गच्छति
।
स गत्वा स्त्रीशताकीर्णे रमते भरतर्षभ ॥५७॥
क्षीणस्याप्यायनं दृष्टं क्षतस्य क्षतरोहणम्
।
व्याधितस्यौषधग्रामः क्रुद्धस्य च प्रसादनम् ॥५८॥
दुःखितस्यार्थमानाभ्यां दुःखानां प्रतिषेधनम्
।
न चैते स्वर्गकामस्य रोचन्ते सुखमेधसः ॥५९॥
अतः स कामसंयुक्ते विमाने हेमसन्निभे
।
रमते स्त्रीशताकीर्णे पुरुषोऽलङ्कृतः शुचिः ॥६०॥
स्वस्थः सफलसङ्कल्पः सुखी विगतकल्मषः
।
अनश्नन्देहमुत्सृज्य फलं प्राप्नोति मानवः ॥६१॥
बालसूर्यप्रतीकाशे विमाने हेमवर्चसि
।
वैदूर्यमुक्ताखचिते वीणासुरजनादिते ॥६२॥
पताकादीपिकाकीर्णे दिव्यघण्टानिनादिते
।
स्त्रीसहस्रानुचरिते स नरः सुखमेधते ॥६३॥
यावन्ति रोमकूपाणि तस्य गात्रेषु पाण्डव
।
तावन्त्येव सहस्राणि वर्षाणां दिवि मोदते ॥६४॥
नास्ति वेदात्परं शास्त्रं नास्ति मातृसमो गुरुः
।
न धर्मात्परमो लाभस्तपो नानशनात्परम् ॥६५॥
ब्राह्मणेभ्यः परं नास्ति पावनं दिवि चेह च
।
उपवासैस्तथा तुल्यं तपः कर्म न विद्यते ॥६६॥
उपोष्य विधिवद्देवास्त्रिदिवं प्रतिपेदिरे
।
ऋषयश्च परां सिद्धिमुपवासैरवाप्नुवन् ॥६७॥
दिव्यवर्षसहस्राणि विश्वामित्रेण धीमता
।
क्षान्तमेकेन भक्तेन तेन विप्रत्वमागतः ॥६८॥
च्यवनो जमदग्निश्च वसिष्ठो गौतमो भृगुः
।
सर्व एव दिवं प्राप्ताः क्षमावन्तो महर्षयः ॥६९॥
इदमङ्गिरसा पूर्वं महर्षिभ्यः प्रदर्शितम्
।
यः प्रदर्शयते नित्यं न स दुःखमवाप्नुते ॥७०॥
इमं तु कौन्तेय यथाक्रमं विधिं प्रवर्तितं ह्यङ्गिरसा महर्षिणा
।
पठेच्च यो वै शृणुयाच्च नित्यदा न विद्यते तस्य नरस्य किल्बिषम् ॥७१॥
विमुच्यते चापि स सर्वसङ्करैर्न चास्य दोषैरभिभूयते मनः
।
वियोनिजानां च विजानते रुतं ध्रुवां च कीर्तिं लभते नरोत्तमः ॥७२॥
युधिष्ठिर उवाच। पितामहेन विधिवद्यज्ञाः प्रोक्ता महात्मना
।
गुणाश्चैषां यथातथ्यं प्रेत्य चेह च सर्वशः ॥१॥
न ते शक्या दरिद्रेण यज्ञाः प्राप्तुं पितामह
।
बहूपकरणा यज्ञा नानासंभारविस्तराः ॥२॥
पार्थिवै राजपुत्रैर्वा शक्याः प्राप्तुं पितामह
।
नार्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥३॥
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं सदा भवेत्
।
अर्थन्यूनैरवगुणैरेकात्मभिरसंहतैः ॥४॥
तुल्यो यज्ञफलैरेतैस्तन्मे ब्रूहि पितामह
।
भीष्म उवाच। इदमङ्गिरसा प्रोक्तमुपवासफलात्मकम् ॥५॥
विधिं यज्ञफलैस्तुल्यं तन्निबोध युधिष्ठिर
।
यस्तु कल्यं तथा सायं भुञ्जानो नान्तरा पिबेत् ॥६॥
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम्
।
षड्भिरेव स वर्षैस्तु सिध्यते नात्र संशयः ॥७॥
तप्तकाञ्चनवर्णं च विमानं लभते नरः
।
देवस्त्रीणामधीवासे नृत्यगीतनिनादिते ॥८॥
प्राजापत्ये वसेत्पद्मं वर्षाणामग्निसंनिभे
।
त्रीणि वर्षाणि यः प्राशेत्सततं त्वेकभोजनम् ॥९॥
धर्मपत्नीरतो नित्यमग्निष्टोमफलं लभेत्
।
यज्ञं बहुसुवर्णं वा वासवप्रियमाचरेत् ॥१०॥
सत्यवान्दानशीलश्च ब्रह्मण्यश्चानसूयकः
।
क्षान्तो दान्तो जितक्रोधः स गच्छति परां गतिम् ॥११॥
पाण्डुराभ्रप्रतीकाशे विमाने हंसलक्षणे
।
द्वे समाप्ते ततः पद्मे सोप्सरोभिर्वसेत्सह ॥१२॥
द्वितीये दिवसे यस्तु प्राश्नीयादेकभोजनम्
।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥१३॥
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः
।
अग्निष्टोमस्य यज्ञस्य फलं प्राप्नोति मानवः ॥१४॥
हंससारसयुक्तं च विमानं लभते नरः
।
इन्द्रलोके च वसते वरस्त्रीभिः समावृतः ॥१५॥
तृतीये दिवसे यस्तु प्राश्नीयादेकभोजनम्
।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥१६॥
अग्निकार्यपरो नित्यं नित्यं कल्यप्रबोधनः
।
अतिरात्रस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥१७॥
मयूरहंसयुक्तं च विमानं लभते नरः
।
सप्तर्षीणां सदा लोके सोप्सरोभिर्वसेत्सह ॥१८॥
निवर्तनं च तत्रास्य त्रीणि पद्मानि वै विभुः
।
दिवसे यश्चतुर्थे तु प्राश्नीयादेकभोजनम् ॥१९॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
।
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥२०॥
इन्द्रकन्याभिरूढं च विमानं लभते नरः
।
सागरस्य च पर्यन्ते वासवं लोकमावसेत् ॥२१॥
देवराजस्य च क्रीडां नित्यकालमवेक्षते
।
दिवसे पञ्चमे यस्तु प्राश्नीयादेकभोजनम् ॥२२॥
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्
।
अलुब्धः सत्यवादी च ब्रह्मण्यश्चाविहिंसकः ॥२३॥
अनसूयुरपापस्थो द्वादशाह फलं लभेत्
।
जाम्बूनदमयं दिव्यं विमानं हंसलक्षणम् ॥२४॥
सूर्यमालासमाभासमारोहेत्पाण्डुरं गृहम्
।
आवर्तनानि चत्वारि तथा पद्मानि द्वादश ॥२५॥
शराग्निपरिमाणं च तत्रासौ वसते सुखम्
।
दिवसे यस्तु षष्ठे वै मुनिः प्राशेत भोजनम् ॥२६॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
।
सदा त्रिषवणस्नायी ब्रह्मचार्यनसूयकः ॥२७॥
गवां मेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम्
।
अग्निज्वालासमाभासं हंसबर्हिणसेवितम् ॥२८॥
शातकुंभसमायुक्तं साधयेद्यानमुत्तमम्
।
तथैवाप्सरसामङ्के प्रतिसुप्तः प्रबोध्यते ॥२९॥
नूपुराणां निनादेन मेखलानां च निःस्वनैः
।
कोटीसहस्रं वर्षाणां त्रीणि कोटिशतानि च ॥३०॥
पद्मान्यष्टादश तथा पताके द्वे तथैव च
।
अयुतानि च पञ्चाशदृक्षचर्मशतस्य च ॥३१॥
लोम्नां प्रमाणेन समं ब्रह्मलोके महीयते
।
दिवसे सप्तमे यस्तु प्राश्नीयादेकभोजनम् ॥३२॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
।
सरस्वतीं गोपयानो ब्रह्मचर्यं समाचरन् ॥३३॥
सुमनोवर्णकं चैव मधुमांसं च वर्जयन्
।
पुरुषो मरुतां लोकमिन्द्रलोकं च गच्छति ॥३४॥
तत्र तत्र हि सिद्धार्थो देवकन्याभिरर्च्यते
।
फलं बहुसुवर्णस्य यज्ञस्य लभते नरः ॥३५॥
संख्यामतिगुणां चापि तेषु लोकेषु मोदते
।
यस्तु संवत्सरं क्षान्तो भुङ्क्तेऽहन्यष्टमे नरः ॥३६॥
देवकार्यपरो नित्यं जुह्वानो जातवेदसम्
।
पौण्डरीकस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ॥३७॥
पद्मवर्णनिभं चैव विमानमधिरोहति
।
कृष्णाः कनकगौर्यश्च नार्यः श्यामास्तथापराः ॥३८॥
वयोरूपविलासिन्यो लभते नात्र संशयः
।
यस्तु संवत्सरं भुंक्ते नवमे नवमेऽहनि ॥३९॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥४०॥
पुण्डरीकप्रकाशं च विमानं लभते नरः
।
दीप्तसूर्याग्नितेजोभिर्दिव्यमालाभिरेव च ॥४१॥
नीयते रुद्रकन्याभिः सोन्तरिक्षं सनातनम्
।
अष्टादश सहस्त्राणि वर्षाणां कल्पमेव च ॥४२॥
कोटीशतसहस्रं च तेषु लोकेषु मोदते
।
यस्तु संवत्सरं भुंक्ते दशाहे वै गते गते ॥४३॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
।
ब्रह्मकन्यानिवासे च सर्वभूतमनोहरे ॥४४॥
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम्
।
रूपवत्यश्च तं कन्या रमयन्ति सनातनम् ॥४५॥
नीलोत्पलनिभैर्वर्णै रक्तोत्पलनिभस्तथा
।
विमानं मण्डलावर्तमावर्तगहनाकुलम् ॥४६॥
सागरोर्मिप्रतीकाशं स लभेद्यानमनुत्तमम्
।
विचित्रमणिमालाभिर्नादितं शङ्खनिःस्वनैः ॥४७॥
स्फाटिकैर्वज्रसारैश्च स्तम्भैः सुकृतवेदिकम्
।
आरोहति महद्यानं हंससारसनादितम् ॥४८॥
एकादशे तु दिवसे यः प्राप्ते प्राशते हविः
।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥४९॥
परस्त्रियं नाभिलषेद्वाचाथ मनसापि वा
।
अनृतं च न भाषेत मातापित्रोः कृतेपि वा ॥५०॥
अभिगच्छेन्महादेवं विमानस्थं महाबलम्
।
अश्वमेधसहस्रस्य फलं प्राप्नोत्यनुत्तमम् ॥५१॥
स्वायंभुवं च पश्येत विमानं समुपस्थितम्
।
कुमार्यः काञ्चनाभासा रूपवत्यो नयन्ति तम् ॥५२॥
रुद्राणां तमधीवासं दिवि दिव्यं मनोहरम्
।
वर्षाण्यपरिमेयानि युगान्ताग्निसमप्रभः ॥५३॥
कोटीशतसहस्रं च दशकोटिशतानि च
।
रुद्रं नित्यं प्रणमते देवदानवसंमतम् ॥५४॥
स तस्मै दर्शनं प्राप्तो दिवसे दिवसे भवेत्
।
दिवसे द्वादशे यस्तु प्राप्ते वै प्राशते हविः ॥५५॥
सदा द्वादशमासान्वै सर्वमेधफलं लभेत्
।
आदित्यं द्वादशे तस्य विमानं संविधीयते ॥५६॥
मणिमुक्ताप्रवालैश्च महार्हैरुपशोभितम्
।
हंसभासापरिक्षिप्तं नागवीथीसमाकुलम् ॥५७॥
मयूरैश्चक्रवाकैश्च कूजद्भिरुपशोभितम्
।
अट्टैर्महद्भिः संयुक्तं ब्रह्मलोके प्रतिष्ठितम् ॥५८॥
नित्यमावसथं राजन्नरनारीसमावृतम्
।
ऋषिरेवं महाभागस्त्वङ्गिरा प्राह धर्मवित् ॥५९॥
त्रयोदशे तु दिवसे प्राप्ते यः प्राशते हविः
।
सदा द्वादशमासान्वै देवसत्रफलं लभेत् ॥६०॥
रक्तपद्मोदयं नाम विमानं साधयेन्नरः
।
जातरूपप्रयुक्तं च रत्नसञ्चयभूषितम् ॥६१॥
देवकन्याभिराकीर्णं दिव्याभरणभूषितम्
।
पुण्यगंधोदयं दिव्यं वायव्यैरुपशोभितम् ॥६२॥
तत्र शंकुपताके द्वे युगान्तं कल्पमेव च
।
अयुतायुतं तथा पद्मं समुद्रं च तथा वसेत् ॥६३॥
गीतगंधर्वघोषैश्च भेरीपणवनिःस्वनैः
।
सदा प्रह्लादितस्ताभिर्देवकन्याभिरिज्यते ॥६४॥
चतुर्दशे तु दिवसे यः पूर्णे प्राशते हविः
।
सदा द्वादशमासांस्तु महामेधफलं लभेत् ॥६५॥
अनिर्देश्यवयोरूपा देवकन्याः स्वलंकृताः
।
मृष्टतप्ताङ्गदधरा विमानैरुपयान्ति तम् ॥६६॥
कलहंसविनिर्घोषैर्नूपुराणां च निःस्वनैः
।
काञ्चीनां च समुत्कर्षैस्तत्र तत्र निबोध्यते ॥६७॥
देवकन्यानिवासे च तस्मिन्वसति मानवः
।
जाह्नवीवालुकाकीर्णं पूर्णं संवत्सरं नरः ॥६८॥
यस्तु पक्षे गते भुंक्ते एकभक्तं जितेन्द्रियः
।
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम् ॥६९॥
राजसूयसहस्रस्य फलं प्राप्नोत्यनुत्तमम्
।
यानमारोहते दिव्यं हंसबर्हिणसेवितम् ॥७०॥
मणिमण्डलकैश्चित्रं जातरूपसमावृतम्
।
दिव्याभरणशोभाभिर्वरस्त्रीभिरलंकृतम् ॥७१॥
एकस्तम्भं चतुर्द्वारं सप्तभौमं सुमङ्गलम्
।
वैजयन्तीसहस्त्रैश्च शोभितं गीतनिःस्वनैः ॥७२॥
दिव्यं दिव्यगुणोपेतं विमानमधिरोहति
।
मणिमुक्ताप्रवालैश्च भूषितं वैद्युतप्रभम् ॥७३॥
वसेद्युगसहस्रं च खड्गकुञ्जरवाहनः
।
षोडशे दिवसे प्राप्ते यः कुर्यादेकभोजनम् ॥७४॥
सदा द्वादशमासान्वै सोमयज्ञफलं लभेत्
।
सोमकन्यानिवासेषु सोऽध्यावसति नित्यशः ॥७५॥
सौम्यगंधानुलिप्तश्च कामकारगतिर्भवेत्
।
सुदर्शनाभिर्नारीभिर्मधुराभिस्तथैव च ॥७६॥
अर्च्यते वै विमानस्थः कामभोगैश्च सेव्यते
।
फलं पद्मशतप्रख्यं महाकल्पं दशाधिकम् ॥७७॥
आवर्तनानि चत्वारि साधयेच्चाप्यसौ नरः
।
दिवसे सप्तदशमे यः प्राप्ते प्राशते हविः ॥७८॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
।
स्थानं वारुणमैन्द्रं च रौद्रं वाप्यधिगच्छति ॥७९॥
मारुतौशनसे चैव ब्रह्मलोकं स गच्छति
।
तत्र दैवतकन्याभिरासनेनोपचर्यते ॥८०॥
भूर्भुवं चापि देवर्षिं विश्वरूपमवेक्षते
।
तत्र देवाधिदेवस्य कुमार्यो रमयन्ति तम् ॥८१॥
द्वात्रिंशद्रूपधारिण्यो मधुराः समलंकृताः
।
चंद्रादित्यावुभौ यावद्गगने चरतः प्रभो ॥८२॥
तावच्चरत्यसौ धीरः सुधामृतरसाशनः
।
अष्टादशे यो दिवसे प्राश्नीयादेकभोजनम् ॥८३॥
सदा द्वादशमासान्वै सप्तलोकान्स पश्यति
।
रथैः सनन्दिघोषैश्च पृष्ठतः सोऽनुगम्यते ॥८४॥
देवकन्याधिरूढैस्तु भ्राजमानैः स्वलंकृतैः
।
व्याघ्रसिंहप्रयुक्तं च मेघस्वननिनादितम् ॥८५॥
विमानमुत्तमं दिव्यं सुसुखी ह्यधिरोहति
।
तत्र कल्पसहस्रं स कन्याभिः सह मोदते ॥८६॥
सुधारसं च भुञ्जीत अमृतोपममुत्तमम्
।
एकोनविंशतिदिने यो भुङ्क्ते एकभोजनम् ॥८७॥
सदा द्वादशमासान्वै सप्तलोकान्स पश्यति
।
उत्तमं लभते स्थानमप्सरोगणसेवितम् ॥८८॥
गन्धर्वैरुपगीतं च विमानं सूर्यवर्चसम्
।
तत्रामरवरस्त्रीभिर्मोदते विगतज्वरः ॥८९॥
दिव्याम्बरधरः श्रीमानयुतानां शतं शतम्
।
पूर्णेऽथ विंशे दिवसे यो भुङ्क्ते ह्येकभोजनम् ॥९०॥
सदा द्वादशमासांस्तु सत्यवादी धृतव्रतः
।
अमांसाशी ब्रह्मचारी सर्वभूतहिते रतः ॥९१॥
स लोकान्विपुलान् रम्यानादित्यानामुपाश्नुते
।
गन्धर्वैरप्सरोभिश्च दिव्यमाल्यानुलेपनैः ॥९२॥
विमानैः काञ्चनैर्हृद्यैः पृष्ठतश्चानुगम्यते
।
एकविंशे तु दिवसे यो भुङ्क्ते ह्येकभोजनम् ॥९३॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
।
लोकमौशनसं दिव्यं शक्रलोकं च गच्छति ॥९४॥
अश्विनोर्मरुतां चैव सुखेष्वभिरतः सदा
।
अनभिज्ञश्च दुःखानां विमानवरमास्थितः ॥९५॥
सेव्यमानो वरस्त्रीभिः क्रीडत्यमरवत्प्रभुः
।
द्वाविंशे दिवसे प्राप्ते यो भुङ्क्ते ह्येकभोजनम् ॥९६॥
सदा द्वादशमासान्वै जुह्वानो जातवेदसम्
।
अहिंसानिरतो धीमान् सत्यवागनसूयकः ॥९७॥
लोकान्वसूनामाप्नोति दिवाकरसमप्रभः
।
कामचारी सुधाहारो विमानवरमास्थितः ॥९८॥
रमते देवकन्याभिर्दिव्याभरणभूषितः
।
त्रयोविंशे तु दिवसे प्राशेद्यस्त्वेकभोजनम् ॥९९॥
सदा द्वादशमासांस्तु मिताहारो जितोन्द्रयः
।
वायोरुशनसश्चैव रुद्रलोकं च गच्छति ॥१००॥
कामचारी कामगमः पूज्यमानोप्सरोगणैः
।
अनेकगुणपर्यन्तं विमानवरमास्थितः ॥१०१॥
रमते देवकन्याभिर्दिव्याभरणभूषितः
।
चतुर्विंशे तु दिवसे यः प्राप्ते प्राशते हविः ॥१०२॥
सदा द्वादशमासांश्च जुह्वानो जातवेदसम्
।
आदित्यानामधीवासे मोदमानो वसेच्चिरम् ॥१०३॥
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः
।
विमाने काञ्चने दिव्ये हंसयुक्ते मनोरमे ॥१०४॥
रमते देवकन्यानां सहस्रैरयुतैस्तथा
।
पञ्चविंशे तु दिवसे यः प्राशेदेकभोजनम् ॥१०५॥
सदा द्वादशमासांस्तु पुष्कलं यानमारुहेत्
।
सिंहव्याघ्रप्रयुक्तैस्तु मेघनिःस्वननादितैः ॥१०६॥
स रथैर्नन्दिघोषैश्च पृष्ठतो ह्यनुगम्यते
।
देवकन्यासमारूढैः काञ्चनैर्विमलैः शुभैः ॥१०७॥
विमानमुत्तमं दिव्यमास्थाय सुमनोहरम्
।
तत्र कल्पसहस्रं वै वसते स्त्रीशतावृते ॥१०८॥
सुधारसं चोपजीवन्नमृतोपममुत्तमम्
।
षड्विंशे दिवसे यस्तु प्रकुर्यादेकभोजनम् ॥१०९॥
सदा द्वादशमासांस्तु नियतो नियताशनः
।
जितेन्द्रियो वीतरागो जुह्वानो जातवेदसम् ॥११०॥
स प्राप्नोति महाभागः पूज्यमानोऽप्सरोगणैः
।
सप्तानां मरुतां लोकान्वसूनां चापि सोश्नुते ॥१११॥
विमानैः स्फाटिकैर्दिव्यैः सर्वरत्नैरलङ्कृतैः
।
गन्धर्वैरप्सरोभिश्च पूज्यमानः प्रमोदते ॥११२॥
द्वे युगानां सहस्त्रे तु दिव्ये दिव्येन तेजसा
।
सप्तविंशेऽथ दिवसे यः कुर्यादेकभोजनम् ॥११३॥
सदा द्वादशमासांस्तु जुह्वानो जातवेदसम्
।
फलं प्राप्नोति विपुलं देवलोके च पूज्यते ॥११४॥
अमृताशी वसंस्तत्र स वितृष्णः प्रमोदते
।
देवर्षिचरितं राजन् राजर्षिभिरनुष्ठितम् ॥११५॥
अध्यावसति दिव्यात्मा विमानवरमास्थितः
।
स्त्रीभिर्मनोभिरामाभी रममाणो मदोत्कटः ॥११६॥
युगकल्पसहस्राणि त्रीण्यावसति वै सुखम्
।
योऽष्टाविंशे तु दिवसे प्राश्नीयादेकभोजनम् ॥११७॥
सदा द्वादशमासांस्तु जितात्मा विर्जितेन्द्रियः
।
फलं देवर्षिचरितं विपुलं समुपाश्नुते ॥११८॥
भोगवांस्तेजसा भाति सहस्रांशुरिवामलः
।
सुकुमार्यश्च नार्यस्तं रममाणाः सुवर्चसः ॥११९॥
पीनस्तनोरुजघना दिव्याभरणभूषिताः
।
रमयन्ति मनःकान्ते विमाने सूर्यसन्निभे ॥१२०॥
सर्वकामगमे दिव्ये कल्पायुतशतं समाः
।
एकोनत्रिंशे दिवसे यः प्राशेदेकभोजनम् ॥१२१॥
सदा द्वादशमासान्वै सत्यव्रतपरायणः
।
तस्य लोकाः शुभा दिव्या देवराजर्षिपूजिताः ॥१२२॥
विमानं सूर्यचन्द्राभं दिव्यं समधिगच्छति
।
जातरूपमयं युक्तं सर्वरत्नसमन्वितम् ॥१२३॥
अप्सरोगणसंपूर्णं गन्धर्वैरभिनादितम्
।
तत्र चैनं शुभा नार्यो दिव्याभरणभूषिताः ॥१२४॥
मनोभिरामा मधुरा रमयन्ति मदोत्कटाः
।
भोगवांस्तेजसा युक्तो वैश्वानरसमप्रभः ॥१२५॥
दिव्यो दिव्येन वपुषा भ्राजमान इवामरः
।
वसूनां मरुतां चैव साध्यानामश्विनोस्तथा ॥१२६॥
रुद्राणां च तथा लोकं ब्रह्मलोकं च गच्छति
।
यस्तु मासे गते भुङ्क्ते एकभक्तं शमात्मकः ॥१२७॥
सदा द्वादशमासान्वै ब्रह्मलोकमवाप्नुयात्
।
सुधारसकृताहारः श्रीमान्सर्वमनोहरः ॥१२८॥
तेजसा वपुषा लक्ष्म्या भ्राजते रश्मिवानिव
।
दिव्यमाल्याम्बरधरो दिव्यगन्धानुलेपनः ॥१२९॥
सुखेष्वभिरतो भोगी दुःखानामविजानकः
।
स्वयंप्रभाभिर्नारीभिर्विमानस्थो महीयते ॥१३०॥
रुद्रदेवर्षिकन्याभिः सततं चाभिपूज्यते
।
नानारमणरूपाभिर्नानारागाभिरेव च ॥१३१॥
नानामधुरभाषाभिर्नानारतिभिरेव च
।
विमाने गगनाकारे सूर्यवैदूर्यसन्निभे ॥१३२॥
पृष्ठतः सोमसंकाशे उदर्के चाभ्रसान्निभे
।
दक्षिणायां तु रक्ताभे अधस्तान्नीलमण्डले ॥१३३॥
ऊर्ध्वं विचित्रसंकाशे नैको वसति पूजितः
।
यावद्वर्षसहस्रं वै जम्बुद्वीपे प्रवर्षति ॥१३४॥
तावत्संवत्सराः प्रोक्ता ब्रह्मलोकेऽस्य धीमतः
।
विप्रुषश्चैव यावन्त्यो निपतन्ति नभस्तलात् ॥१३५॥
वर्षासु वर्षतस्तावन्निवसत्यमरप्रभः
।
मासोपवासी वर्षैस्तु दशभिः स्वर्गमुत्तमम् ॥१३६॥
महर्षित्वमथासाद्य स शरीरगतिर्भवेद
।
मुनिर्दान्तो जितक्रोधो जितशिश्नोदरः सदा ॥१३७॥
जुह्वन्नग्निंश्च नियतः सन्ध्योपासनसेविता
।
बहुभिर्नियमैरेवं शुचिरश्नाति यो नरः ॥१३८॥
अभ्रावकाशशीलश्च तस्य भानोरिव त्विषः
।
दिवं गत्वा शरीरेण स्वेन राजन् यथामरः ॥१३९॥
स्वर्गं पुण्यं यथाकाममुपभुङ्क्ते तथाविधः
।
एष ते भरतश्रेष्ठ यज्ञानां विधिरुत्तमः ॥१४०॥
व्याख्यातो ह्यानुपूर्व्येण उपवासफलात्मकः
।
दरिद्रैर्मनुजैः पार्थ प्राप्तं यज्ञफलं यथा ॥१४१॥
उपवासानिमान् कृत्वा गच्छेच्च परमां गतिम्
।
देवद्विजातिपूजायां रतो भरतसत्तम ॥१४२॥
उपवासविधिस्त्वेष विस्तरेण प्रकीर्तितः
।
नियतेष्वप्रमत्तेषु शौचवत्सु महात्मसु ॥१४३॥
दंभद्रोहनिवृत्तेषु कृतबुद्धिषु भारत
।
अचलेष्वप्रकंपेषु मा ते भूदत्र संशयः ॥१४४॥
युधिष्ठिर उवाच। यद्वरं सर्वतीर्थानां तन्मे ब्रूहि पितामह
।
यत्र चैव परं शौचं तन्मे व्याख्यातुमर्हसि ॥१॥
भीष्म उवाच। सर्वाणि खलु तीर्थानि गुणवन्ति मनीषिणः
।
यत्तु तीर्थं च शौचं च तन्मे शृणु समाहितः ॥२॥
अगाधे विमले शुद्धे सत्यतोये धृतिह्रदे
।
स्नातव्यं मानसे तीर्थे सत्त्वमालंव्य शाश्वतम् ॥३॥
तीर्थशौचमनर्थित्वमार्जवं सत्यमार्दवम्
।
अहिंसा सर्वभूतानामानृशंस्यं दमः शमः ॥४॥
निर्ममा निरहंकारा निर्द्वन्द्वा निष्परिग्रहाः
।
शुचयस्तीर्थभूतास्ते ये भैक्ष्यमुपभुञ्जते ॥५॥
तत्त्ववित्त्वनहंबुद्धिस्तीर्थप्रवरमुच्यते
।
शौचलक्षणमेतत्ते सर्वत्रैवान्ववेक्षतः ॥६॥
रजस्तमः सत्वमथो येषां निर्धोतमात्मनः
।
शौचाशौचसमायुक्ताः स्वकार्यपरिमार्गिणः ॥७॥
सर्वत्यागेष्वभिरताः सर्वज्ञाः समदर्शिनः
।
शौचेन वृत्तशौचार्थास्ते तीर्थाः शुचयश्च ये ॥८॥
नोदकक्लिन्नगात्रस्तु स्नात इत्यभिधीयते
।
स स्नातो यो दमस्नातः स नाह्याभ्यन्तरः शुचिः ॥९॥
अतीतेष्वनपेक्षा ये प्राप्तेष्वर्थेषु निर्ममाः
।
शौचमेव परं तेषां येषां नोत्पद्यते स्पृहा ॥१०॥
प्रज्ञानं शौचमेवेह शरीरस्य विशेषतः
।
तथा निष्किञ्चनत्वं च मनसश्च प्रसन्नता ॥११॥
वृत्तशौचं मनःशौचं तीर्थशौचमतः परम्
।
ज्ञानोत्पन्नं च यच्छौचं तच्छौचं परमं स्मृतम् ॥१२॥
मनसा च प्रदीप्तेन ब्रह्मज्ञानजलेन च
।
स्नाति यो मानसे तीर्थे तत्स्नानं तत्त्वदर्शिनः ॥१३॥
समारोपितशौचस्तु नित्यं भावसमाहितः
।
केवलं गुणसंपन्नः शुचिरेव नरः सदा ॥१४॥
शरीरस्थानि तीर्थानि प्रोक्तान्येतानि भारत
।
पृथिव्यां यानि तीर्थानि पुण्यानि शृणु तान्यपि ॥१५॥
शरीरस्य यथोद्देशाः शुचयः परिकीर्तिताः
।
तथा पृथिव्या भागाश्च पुण्यानि सलिलानि च ॥१६॥
कीर्तनाच्चैव तीर्थस्य स्नानाच्च पितृतर्पणात्
।
धुनन्ति पापं तीर्थेषु ते प्रयान्ति सुखं दिवम् ॥१७॥
परिग्रहाच्च साधूनां पृथिव्याश्चैव तेजसा
।
अतीव पुण्यभागास्ते सलिलस्य च तेजसा ॥१८॥
मनसश्च पृथिव्याश्च पुण्यास्तीर्थास्तथापरे
।
उभयोरेव यः स्नायात्स सिद्धिं शीघ्रमाप्नुयात् ॥१९॥
यथा बलं क्रियाहीनं क्रिया वा बलवर्जिता
।
नेह साधयते कार्यं समायुक्ता तु सिध्यति ॥२०॥
एवं शरीरशौचेन तीर्थशौचेन चान्वितः
।
शुचिः सिद्धिमवाप्नोति द्विविधं शौचमुत्तमम् ॥२१॥
युधिष्ठिर उवाच। सर्वेषामुपवासानां यच्छ्रेयः सुमहत्फलम्
।
यच्चाप्यसंशयं लोके तन्मे त्वं वक्तुमर्हसि ॥१॥
भीष्म उवाच। शृणु राजन्यथा गीतं स्वयमेव स्वयंभुवा
।
यत्कृत्वा निर्वृतो भूयात्पुरुषो नात्र संशयः ॥२॥
द्वादश्यां मार्गशीर्षे तु अहोरात्रेण केशवम्
।
अर्च्याश्वमेधं प्राप्नोति दुष्कृतं चास्य नश्यति ॥३॥
तथैव पौषमासे तु पूज्यो नारायणेति च
।
वाजपेयमवाप्नोति सिद्धिं च परमां व्रजेत् ॥४॥
अहोरात्रेण द्वादश्यां माघमासे तु माधवम्
।
राजसूयमवाप्नोति कुलं चैव समुद्धरेत् ॥५॥
तथैव फाल्गुने मासि गोविन्देति च पूजयन्
।
अतिरात्रमवाप्नोति सोमलोकं च गच्छति ॥६॥
अहोरात्रेण द्वादश्यां चैत्रे विष्णुरिति स्मरन्
।
पौण्डरीकमवाप्नोति देवलोकं च गच्छति ॥७॥
वैशाखमासे द्वादश्यां पूजयन्मधुसूदनम्
।
अग्निष्टोममवाप्नोति सोमलोकं च गच्छति ॥८॥
अहोरात्रेण द्वादश्यां ज्येष्ठे मासि त्रिविक्रमम्
।
गवां मेधमवाप्नोति अप्सरोभिश्च मोदते ॥९॥
आषाढे मासि द्वादश्यां वामनेति च पूजयन्
।
नरमेधमवाप्नोति पुण्यं च लभते महत् ॥१०॥
अहोरात्रेण द्वादश्यां श्रावणे मासि श्रीधरम्
।
पञ्चयज्ञानवाप्नोति विमानस्थश्च मोदते ॥११॥
तथा भाद्रपद्रे मासि हृषीकेशेति पूजयन्
।
सौत्रामणिमवाप्नोति पूतात्मा भवते च हि ॥१२॥
द्वादश्यामाश्विने मासि पद्मनाभेति चार्चयन्
।
गोसहस्रफलं पुण्यं प्राप्नुयान्नात्र संशयः ॥१३॥
द्वादश्यां कार्तिके मासि पूज्य दामोदरेति च
।
गवां यज्ञमवाप्नोति पुमान् स्त्री वा न संशयः ॥१४॥
अर्चयेत्पुण्डरीकाक्षमेवं संवत्सरं तु यः
।
जातिस्मरत्वं प्राप्नोति विन्द्यद्बहु सुवर्णकम् ॥१५॥
अहन्यहनि तद्भावमुपेन्द्रं योऽधिगच्छति
।
समाप्ते भोजयेद्विप्रानथवा दापयेद्धृतम् ॥१६॥
अतः परं नोपवासो भवतीति विनिश्चयः
।
उवाच भगवान्विष्णुः स्वयमेव पुरातनम् ॥१७॥
वैशम्पायन उवाच। शरतल्पगतं भीष्मं वृद्धं कुरुपितामहम्
।
उपगम्य महाप्राज्ञः पर्यपृच्छद्युधिष्ठिरः ॥१॥
युधिष्ठिर उवाच। अङ्गानां रूपसौभाग्यं प्रियं चैव कथं भवेत्
।
धर्मार्थकामसंयुक्तः सुखभागी कथं भवेत् ॥२॥
भीष्म उवाच। मार्गशीर्षस्य मासस्य चन्द्रे मूलेन संयुते
।
पादौ मूलेन राजेन्द्र जंघायामथ रोहिणीम् ॥३॥
अश्विन्यां सक्थिनी चैव ऊरू चाषाढयोस्तथा
।
गुह्यं तु फाल्गुनी विद्यात्कृत्तिका कटिकास्तथा ॥४॥
नाभिं भाद्रपदे विद्याद्रेवत्यामक्षिमण्डलम्
।
पृष्ठमेव धनिष्ठासु अनुराधोत्तरास्तथा ॥५॥
बाहुभ्यां तु विशाखासु हस्तौ हस्तेन निर्दिशेत्
।
पुनर्वस्वङ्गुली राजन्नाश्लेषासु नखास्तथा ॥६॥
ग्रीवां ज्येष्ठा च राजेन्द्र श्रवणेन तु कर्णयोः
।
मुखं पुष्येण दानेन दन्तोष्ठौ स्वातिरुच्यते ॥७॥
हासं शतभिषां चैव मघां चैवाथ नासिकाम्
।
नेत्रे मृगशिरो विद्याल्ललाटे मित्रमेव तु ॥८॥
भरण्यांतु शिरो विद्यात् केशानार्द्रां नराधिप
।
समाप्ते तु घृतं दद्याद्ब्राह्मणे वेदपारगे ॥९॥
सुभगो दर्शनीयश्च ज्ञानभाग्यथ जायते
।
जायते परिपूर्णाङ्गः पौर्णमास्येव चन्द्रमाः ॥१०॥
युधिष्ठिर उवाच। पितामह महाप्राज्ञ सर्वशास्त्रविशारद
।
श्रोतुमिच्छामि मर्त्यानां संसारविधिमुत्तमम् ॥१॥
केन वृत्तेन राजेन्द्र वर्तमाना नरा भुवि
।
प्राप्नुवन्त्युत्तमं स्वर्गं कथं च नरकं नृप ॥२॥
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः
।
प्रयान्त्यमुं लोकमितः को वै ताननुगच्छति ॥३॥
भीष्म उवाच। अयमायाति भगवान् बृहस्पतिरुदारधीः
।
पृच्छैनं सुमहाभागमेतद्गुह्यं सनातनम् ॥४॥
नैतदन्येन शक्यं हि वक्तुं केनचिदद्य वै
।
वक्ता बृहस्पतिसमो न ह्यन्यो विद्यते क्वचित् ॥५॥
वैशम्पायन उवाच। तयोः संवदतोरेवं पार्थगाङ्गेययोस्तदा
।
आजगाम विशुद्धात्मा नाकपृष्ठाद्बृहस्पतिः ॥६॥
ततो राजा समुत्थाय धृतराष्ट्रपुरोगमः
।
पूजामनुपमां चक्रे सर्वे ते च सभासदः ॥७॥
ततो धर्मसुतो राजा भगवन्तं बृहस्पतिम्
।
उपगम्य यथान्यायं प्रश्नं पप्रच्छ तत्त्वतः ॥८॥
युधिष्ठिर उवाच। भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद
।
मर्त्यस्य कः सहायो वै पिता माता सुतो गुरुः ॥९॥
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च
।
मृतं शरीरसुत्सृज्य काष्ठलोष्टसमं जनाः ॥१०॥
गच्छन्त्यमुत्र लोकं वै क एनमनुगच्छति
।
बृहस्पतिरुवाच
।
एकः प्रसूयते राजन्नेक एव विनश्यति ॥११॥
एकस्तरति दुर्गाणि गच्छत्येकस्तु दुर्गतिम्
।
असहायः पिता माता तथा भ्राता सुतो गुरुः ॥१२॥
ज्ञातिसम्बन्धिवर्गश्च मित्रवर्गस्तथैव च
।
मृतं शरीरमुत्सृज्य काष्ठलोष्टसमं जनाः ॥१३॥
मुहूर्तमिव रोदित्वा ततो यान्ति पराङ्मुखाः
।
तैस्तच्छरीरमुत्सृष्टं धर्म एकोऽनुगच्छति ॥१४॥
तस्माद्धर्मः सहायश्च सेवितव्यः सदा नृभिः
।
प्राणी धर्मसमायुक्तो गच्छेत्स्वर्गगतिं पराम् ॥१५॥
तथैवाधर्मसंयुक्तो नरकं चोपपद्यते
।
तस्मान्न्यायागतैरर्थैर्धर्मं सेवेत पण्डितः ॥१६॥
धर्म एको मनुष्याणां सहायः पारलौकिकः
।
लोभान्मोहादनुक्रोशाद्भयाद्वाप्यबहुश्रुतः ॥१७॥
नरः करोत्यकार्याणि परार्थे लोभमोहितः
।
धर्मश्चार्थश्च कामश्च त्रितयं जीविते फलम् ॥१८॥
एतत्त्रयमवाप्तव्यमधर्मपरिवर्जितम्
।
युधिष्ठिर उवाच। श्रुतं भगवतो वाक्यं धर्मयुक्तं परं हितम् ॥१९॥
शरीरनिचयं ज्ञातुं बुद्धिस्तु मम जायते
।
मृतं शरीरं हि नृणां सूक्ष्ममव्यक्ततां गतम् ॥२०॥
अचक्षुर्विषयं प्राप्तं कथं धर्मोऽनुगच्छति
।
बृहस्पतिरुवाच
।
पृथिवी वायुराकाशमापो ज्योतिर्मनोन्तगः ॥२१॥
बुद्धिरात्मा च सहिता धर्मं पश्यन्ति नित्यदा
।
प्राणिनामिह सर्वेषां साक्षिभूता निशानिशम् ॥२२॥
एतैश्च सह धर्मोऽपि तं जीवमनुगच्छति
।
त्वगस्थिमांसं शुक्रं च शोणितं च महामते ॥२३॥
शरीरं वर्जयन्त्येते जीवितेन विवर्जितम्
।
ततो धर्मसमायुक्तः प्राप्नुते जीव एव हि ॥२४॥
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाऽशुभम्
।
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि॥२५॥
ततो धर्मसमायुक्तः स जीवः सुखमेधते
।
इहलोके परे चैव किं भूयः कथयामि ते ॥२६॥
युधिष्ठिर उवाच। तद्दर्शितं भगवता यथा धर्मोऽनुगच्छति
।
एतत्तु ज्ञातुमिच्छामि कथं रेतः प्रवर्तते ॥२७॥
बृहस्पतिरुवाच
।
अन्नमश्नन्ति यद्देवाः शरीरस्था नरेश्वर
।
पृथिवी वायुराकाशमापो ज्योतिर्मनस्तथा ॥२८॥
ततस्तृप्तेषु राजेन्द्र तेषु भूतेषु पञ्चसु
।
मनःषष्ठेषु शुद्धात्मन् रेतः सम्पद्यते महत् ॥२९॥
ततो गर्भः सम्भवति श्लेषात्स्त्रीपुंसयोर्नृप
।
एतत्ते सर्वमाख्यातं भूयः किं श्रोतुमिच्छसि ॥३०॥
युधिष्ठिर उवाच। आख्यातं मे भगवता गर्भः सञ्जायते तथा
।
यथा जातस्तु पुरुषः प्रपद्यति तदुच्यताम् ॥३१॥
बृहस्पतिरुवाच
।
आसन्नमात्रः पुरुषस्तैर्भूतैरभिभूयते
।
विप्रयुक्तश्च तैर्भूतैः पुनर्यात्यपरां गतिम् ॥३२॥
सर्वभूतसमायुक्तः प्राप्नुते जीव एव हि
।
ततोऽस्य कर्म पश्यन्ति शुभं वा यदि वाऽशुभम्
।
देवताः पञ्चभूतस्थाः किं भूयः श्रोतुमिच्छसि ॥३३॥
युधिष्ठिर उवाच। त्वगस्थिमांसमुत्सृज्य तैश्च भूतैर्विवर्जितः
।
जीवः स भगवन्क्वस्थः सुखदुःखे समश्नुते ॥३४॥
बृहस्पतिरुवाच
।
जीवः कर्मसमायुक्तः शीघ्रं रेतस्त्वमागतः
।
स्त्रीणां पुष्पं समासाद्य सूते कालेन भारत ॥३५॥
यमस्य पुरुषैः क्लेशं यमस्य पुरुषैर्वधम्
।
दुःखं संसारचक्रं च नरः क्लेशं स विन्दति ॥३६॥
इह लोके स च प्राणी जन्मप्रभृति पार्थिव
।
सुकृतं कर्म वै भुङ्क्ते धर्मस्य फलमाश्रितः ॥३७॥
यदि धर्मं यथाशक्ति जन्मप्रभृति सेवते
।
ततः स पुरुषो भूत्वा सेवते नित्यदा सुखम् ॥३८॥
अथान्तरा तु धर्मस्याप्यधर्ममुपसेवते
।
सुखस्यानन्तरं दुःखं स जीवोप्यधिगच्छति ॥३९॥
अधर्मेण समायुक्तो यमस्य विषयं गतः
।
महद्दुःखं समासाद्य तिर्यग्योनौ प्रजायते ॥४०॥
कर्मणा येन येनेह यस्यां योनौ प्रजायते
।
जीवो मोहसमायुक्तस्तन्मे निगदतः शृणु ॥४१॥
यदेतदुच्यते शास्त्रे सेतिहासे च च्छन्दसि
।
यमस्य विषयं घोरं मर्त्यो लोकः प्रपद्यते ॥४२॥
इह स्थानानि पुण्यानि देवतुल्यानि भूपते
।
तिर्यग्योन्यतिरिक्तानि गतिमन्ति च सर्वशः ॥४३॥
यमस्य भवने दिव्ये ब्रह्मलोकसमे गुणैः
।
कर्मभिर्नियतैर्बद्धो जन्तुर्दुःखान्युपाश्नुते ॥४४॥
येन येन तु भावेन कर्मणा पुरुषो गतिम्
।
प्रयाति परुषां घोरां तत्ते वक्षाम्यतः परम् ॥४५॥
अधीत्य चतुरो वेदान् द्विजो मोहसमन्वितः
।
पतितात्प्रतिगृह्याथ खरयोनौ प्रजायते ॥४६॥
खरो जीवति वर्षाणि दश पञ्च च भारत
।
खरो मृतो बलीवर्दः सप्त वर्षाणि जीवति ॥४७॥
बलीवर्दो मृतश्चापि जायते ब्रह्मराक्षसः
।
ब्रह्मरक्षश्च मासांस्त्रींस्ततो जायति ब्राह्मणः ॥४८॥
पतितं याजयित्वा तु कृमियोनौ प्रजायते
।
तत्र जीवति वर्षाणि दश पञ्च च भारत ॥४९॥
कृमिभावाद्विमुक्तस्तु ततो जायति गर्दभः
।
गर्दर्भः पञ्चवर्षाणि पञ्चवर्षाणि सूकरः ॥५०॥
कुक्कुटः पञ्च वर्षाणि पञ्च वर्षाणि जम्बुकः
।
श्वा वर्षमेकं भवति ततो जायति मानवः ॥५१॥
उपाध्यायस्य यः पापं शिष्यः कुर्यादबुद्धिमान्
।
स जीव इह संसारांस्त्रीनाप्नोति न संशयः ॥५२॥
प्राक् श्वा भवति राजेन्द्र ततः क्रव्यात्ततः खरः
।
ततः प्रेतः परिक्लिष्टः पश्चाज्जायति ब्राह्मणः ॥५३॥
मनसापि गुरोर्भार्यां यः शिष्यो याति पापकृत्
।
स उग्रान्प्रैति संसारानधर्मेणेह चेतसा ॥५४॥
श्वयोनौ तु स सम्भूतस्त्रीणि वर्षाणि जीवति
।
तत्रापि निधनं प्राप्तः कृमियोनौ प्रजायते ॥५५॥
कृमिभावमनुप्राप्तो वर्षमेकं तु जीवति
।
ततस्तु निधनं प्राप्तो ब्रह्मयोनौ प्रजायते ॥५६॥
यदि पुत्रसमं शिष्यं गुरुर्हन्यादकारणे
।
आत्मनः कामकारेण सोऽपि हिंस्रः प्रजायते ॥५७॥
पितरं मातरं चैव यस्तु पुत्रोऽवमन्यते
।
सोऽपि राजन्मृतो जन्तुः पूर्वं जायेत गर्दभः ॥५८॥
गर्दभत्वं तु सम्प्राप्य दशवर्षाणि जीवति
।
संवत्सरं तु कुम्भीरस्ततो जायेत मानवः ॥५९॥
पुत्रस्य मातापितरौ यस्य रुष्टावुभावपि
।
गुर्वपध्यानतः सोऽपि मृतो जायति गर्दभः ॥६०॥
खरो जीवति मासांस्तु दश श्वा च चतुर्दश
।
बिडालः सप्तमासांस्तु ततो जायति मानवः ॥६१॥
मातापितरावाक्रुश्य सारिकः सम्प्रजायते
।
ताडयित्वा तु तावेव जायते कच्छपो नृप ॥६२॥
कच्छपो दशवर्षाणि त्रीणि वर्षाणि शल्यकः
।
व्यालो भूत्वा च षण्मासांस्ततो जायति मानुषः ॥६३॥
भर्तृपिण्डमुपाश्नन्यो राजद्विष्टानि सेवते
।
सोऽपि मोहसमापन्नो मृतो जायति वानरः ॥६४॥
वानरो दशवर्षाणि पञ्चवर्षाणि मूषिकः
।
श्वाऽथ भूत्वा तु षण्मासांस्ततो जायति मानुषः ॥६५॥
न्यासापहर्ता तु नरो यमस्य विषयं गतः
।
संसाराणां शतं गत्वा कृमियोनौ प्रजायते ॥६६॥
तत्र जीवति वर्षाणि दश पञ्च च भारत
।
दुष्कृतस्य क्षयं कृत्वा ततो जायति मानुषः ॥६७॥
असूयको नरश्चापि मृतो जायति शार्ङ्गकः
।
विश्वासहर्ता तु नरो मीनो जायति दुर्मतिः ॥६८॥
भूत्वा मीनोऽष्टवर्षाणि मृतो जायति भारत
।
मृगस्तु चतुरो मासांस्ततश्छागः प्रजायते ॥६९॥
छागस्तु निधनं प्राप्य पूर्णे संवत्सरे ततः
।
कीटः सञ्जायते जन्तुस्ततो जायति मानुषः ॥७०॥
धान्यान् यवांस्तिलान् माषान् कुलत्थान् सर्षपांश्चणान्
।
कलापानथ मुद्गांश्च गोधूमानतसीस्तथा ॥७१॥
सस्यस्यान्यस्य हर्ता च मोहाज्जन्तुरचेतनः
।
स जायते महाराज मूषिको निरपत्रपः ॥७२॥
ततः प्रेत्य महाराज मृतो जायति सूकरः
।
सुकरो जातमात्रस्तु रोगेण म्रियते नृप ॥७३॥
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव
।
भूत्वा श्वा पञ्च वर्षाणि ततो जायति मानवः ॥७४॥
परदाराभिमर्शं तु कृत्वा जायति वै वृकः
।
श्वा शृगालस्ततो गृध्रो व्यालः कङ्को बकस्तथा ॥७५॥
भ्रातुर्भार्यां तु पापात्मा यो धर्षयति मोहितः
।
पुंस्कोकिलत्वमाप्नोति सोऽपि संवत्सरं नृप ॥७६॥
सखिभार्यां गुरोर्भार्यां राजभार्यां तथैव च
।
प्रधर्षयित्वा कामाय मृतो जायति सूकरः ॥७७॥
सूकरः पञ्चवर्षाणि दशवर्षाणि श्वाविधः
।
बिडालः पञ्चवर्षाणि दशवर्षाणि कुक्कुटः ॥७८॥
पिपीलिकस्तु मासांस्त्रीन् कीटः स्यान्मासमेव तु
।
एतानासाद्य संसारान् कृमियोनौ प्रजायते ॥७९॥
तत्र जीवति मासांस्तु कृमियोनौ चतुर्दश
।
ततोऽधर्मक्षयं कृत्वा पुनर्जायति मानवः ॥८०॥
उपस्थिते विवाहे तु यज्ञे दानेऽपि वा विभो
।
मोहात्करोति यो विघ्नं स मृतो जायते कृमिः ॥८१॥
कृमिर्जीवति वर्षाणि दश पञ्च च भारत
।
अधर्मस्य क्षयं कृत्वा ततो जायति मानवः ॥८२॥
पूर्वं दत्वा तु यः कन्यां द्वितीये दातुमिच्छति
।
सोपि राजन्मृतो जन्तुः कृमियोनौ प्रजायते ॥८३॥
तत्र जीवति वर्षाणि त्रयोदश युधिष्ठिर
।
अधर्मसङ्क्षये युक्तस्ततो जायति मानवः ॥८४॥
देवकार्यमकृत्वा तु पितृकार्यमथापि वा
।
अनिर्वाप्य समश्नन्वै मृतो जायति वायसः ॥८५॥
वायसः शतवर्षाणि ततो जायति कुक्कुटः
।
जायते व्यालकश्चापि मासं तस्मात्तु मानुषः ॥८६॥
ज्येष्ठं पितृसमं चापि भ्रातरं योऽवमन्यते
।
सोऽपि मृत्युमुपागम्य क्रौञ्चयोनौ प्रजायते ॥८७॥
क्रौञ्चो जीवति वर्षं तु ततो जायति चीरकः
।
ततो निधनमापन्नो मानुषत्वमुपाश्नुते ॥८८॥
वृषलो ब्राह्मणीं गत्वा कृमियोनौ प्रजायते
।
ततः सम्प्राप्य निधनं जायते सूकरः पुनः ॥८९॥
सूकरो जातमात्रस्तु रोगेण म्रियते नृप
।
श्वा ततो जायते मूढः कर्मणा तेन पार्थिव ॥९०॥
श्वा भूत्वा कृतकर्माऽसौ जायते मानुषस्ततः
।
तत्रापत्यं समुत्पाद्य मृतो जायति मूषिकः ॥९१॥
कृतघ्नस्तु मृतो राजन् यमस्य विषयं गतः
।
यमस्य पुरुषैः क्रुद्धैर्वधं प्राप्नोति दारुणम् ॥९२॥
दण्डं समुद्गरं शूलमग्निकुम्भं च दारुणम्
।
असिपत्रवनं घोरवालुकं कूटशाल्मलीम् ॥९३॥
एताश्चान्याश्च बह्वीश्व यमस्य विषयं गतः
।
यातनाः प्राप्य तत्रोग्रास्ततो वध्यति भारत ॥९४॥
ततो हतः कृतघ्नः स तत्रोग्रैर्भरतर्षभ
।
संसारचक्रमासाद्य कृमियोनौ प्रजायते ॥९५॥
कृमिर्भवति वर्षाणि दश पञ्च च भारत
।
ततो गर्भं समासाद्य तत्रैव म्रियते शिशुः ॥९६॥
ततो गर्भशतैर्जन्तुर्बहुभिः सम्प्रपद्यते
।
संसारांश्च बहून्गत्वा ततस्तिर्यक्षु जायते ॥९७॥
ततो दुःखमनुप्राप्य बहु वर्षगणानिह
।
अपुनर्भवसंयुक्तस्ततः कूर्मः प्रजायते ॥९८॥
दधि हृत्वा बकश्चापि प्लवो मत्स्यानसंस्कृतान्
।
चोरयित्वा तु दुर्बुद्धिर्मधुदंशः प्रजायते ॥९९॥
फलं वा मूलकं हृत्वा अपूपं वा पिपीलिकाः
।
चोरयित्वा च निष्पावं जायते हलगोलकः ॥१००॥
पायसं चोरयित्वा तु तित्तिरित्वमवाप्नुते
।
हृत्वा पिष्टमयं पूपं कुम्भोलूकः प्रजायते ॥१०१॥
अयो हृत्त्वा तु दुर्बुद्धिर्वायसो जायते नरः
।
कांस्यं हृत्वा तु दुर्बुद्धिर्हारितो जायते नरः ॥१०२॥
राजतं भाजनं हृत्वा कपोतः सम्प्रजायते
।
हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥१०३॥
पत्रोर्णं चोरयित्वा तु कृकलत्वं निगच्छति
।
कौशिकं तु ततो हृत्वा नरो जायति वर्तकः ॥१०४॥
अंशुकं चोरयित्वा तु शुको जायति मानवः
।
चोरयित्वा दुकूलं तु मृतो हंसः प्रजायते ॥१०५॥
क्रौञ्चः कार्पासिकं हृत्वा मृतो जायति मानवः
।
चोरयित्वा नरः पट्टं त्वाविकं चैव भारत ॥१०६॥
क्षौमं च वस्त्रमादाय शशो जन्तुः प्रजायते
।
वर्णान् हृत्वा तु पुरुषो मृतो जायति बर्हिणः ॥१०७॥
हृत्वा रक्तानि वस्त्राणि जायते जीवजीवकः
।
वर्णकादींस्तथा गन्धांश्चोरयित्वेह मानवः ॥१०८॥
छुच्छुन्दरित्वमाप्नोति राजन् लोभपरायणः
।
तत्र जीवति वर्षाणि ततो दश च पञ्च च ॥१०९॥
अधर्मस्य क्षयं गत्वा ततो जायति मानुषः
।
चोरयित्वा पयश्चापि बलाका सम्प्रजायते ॥११०॥
यस्तु चोरयते तैलं नरो मोहसमन्वितः
।
सोऽपि राजन्मृतो जन्तुस्तैलपायी प्रजायते ॥१११॥
अशस्त्रं पुरुषं हत्वा सशस्त्रः पुरुषाधमः
।
अर्थार्थी यदि वा वैरी स मृतो जायते खरः ॥११२॥
खरो जीवति वर्षे द्वे ततः शस्त्रेण वध्यते
।
स मृतो मृगयोनौ तु नित्योद्विग्नोऽभिजायते ॥११३॥
मृगो वध्यति शस्त्रेण गते संवत्सरे तु सः
।
हतो मृगस्ततो मीनः सोपि जालेन बध्यते ॥११४॥
मासे चतुर्थे सम्प्राप्ते श्वापदः सम्प्रजायते
।
श्वापदो दशवर्षाणि द्वीपी वर्षाणि पञ्च च ॥११५॥
ततस्तु निधनं प्राप्तः कालपर्यायचोदितः
।
अधर्मस्य क्षयं कृत्वा ततो जायति मानुषः ॥११६॥
स्त्रियं हत्वा तु दुर्बुद्धिर्यमस्य विषयं गतः
।
बहून्क्लेशान्समासाद्य संसारांश्चैव विंशतिम् ॥११७॥
ततः पश्चान्महाराज कृमियोनौ प्रजायते
।
कृमिर्विंशतिवर्षाणि भूत्वा जायति मानुषः ॥११८॥
भोजनं चोरयित्वा तु मक्षिका जायते नरः
।
मक्षिकासङ्घवशगो बहून्मासान्भवत्युत ॥११९॥
ततः पापक्षयं कृत्वा मानुषत्वमवाप्नुते
।
धान्यं हृत्वा तु पुरुषो लोमशः सम्प्रजायते॥१२०॥
तथा पिण्याकसम्मिश्रमशनं चोरयेन्नरः
।
स जायते बभ्रुसमो दारुणो मूषिको नरः ॥२१॥
दशन् वै मानुषान्नित्यं पापात्मा स विशाम्पते
।
घृतं हृत्वा तु दुर्बुद्धिः काकमद्गुः प्रजायते ॥१२२॥
मत्स्यमांसमथो हृत्वा काको जायति दुर्मतिः
।
लवणं चोरयित्वा तु चिरिकाकः प्रजायते ॥१२३॥
विश्वासेन तु निक्षिप्तं यो विनिह्नोति मानवः
।
स गतायुर्नरस्तात मत्स्ययोनौ प्रजायते ॥१२४॥
मत्स्ययोनिमनुप्राप्य मृतो जायति मानुषः
।
मानुषत्वमनुप्राप्य क्षीणायुरुपपद्यते ॥१२५॥
पापानि तु नराः कृत्वा तिर्यग्जायन्ति भारत
।
न चात्मनः प्रमाणं ते धर्मं जानन्ति किञ्चन ॥१२६॥
ये पापानि नराः कृत्वा निरस्यन्ति व्रतैः सदा
।
सुखदुःखसमायुक्ता व्यथितास्ते भवन्त्युत ॥१२७॥
असंवासाः प्रजायन्ते म्लेच्छाश्चापि न संशयः
।
नराः पापसमाचारा लोभमोहसमन्विताः ॥१२८॥
वर्जयन्ति च पापानि जन्मप्रभृति ये नराः
।
अरोगा रूपवन्तस्ते धनिनश्च भवन्त्युत ॥१२९॥
स्त्रियोऽप्येतेन कल्पेन कृत्वा पापमवाप्नुयुः
।
एतेषामेव जन्तूनां भार्यात्वमुपयान्ति ताः ॥१३०॥
परस्वहरणे दोषाः सर्व एव प्रकीर्तिताः
।
एतद्धि लेशमात्रेण कथितं ते मयाऽनघ ॥१३१॥
अपरस्मिन् कथायोगे भूयः श्रोष्यसि भारत
।
एतन्मया महाराज ब्रह्मणो वदतः पुरा ॥१३२॥
सुरर्षीणां श्रुतं मध्ये पृष्टश्चाऽपि यथातथम्
।
मयापि तच्च कार्त्स्न्येन यथावदनुवर्णितम्
।
एतच्छ्रुत्वा महाराज धर्मे कुरु मनः सदा ॥१३३॥
युधिष्ठिर उवाच। अधर्मस्य गतिर्ब्रह्मन्कथिता मे त्वयाऽनघ
।
धर्मस्य तु गतिं श्रोतुमिच्छामि वदतां वर ॥१॥
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम्
।
कर्मणा च कृतेनेह केन यान्ति शुभां गतिम् ॥२॥
बृहस्पतिरुवाच
।
कृत्वा पापानि कर्माणि अधर्मवशमागतः
।
मनसा विपरीतेन निरयं प्रतिपद्यते ॥३॥
मोहादधर्मं यः कृत्वा पुनः समनुतप्यते
।
मनःसमाधिसंयुक्तो न स सेवेत दुष्कृतम् ॥४॥
यथा यथा मनस्तस्य दुष्कृतं कर्म गर्हते
।
तथा तथा शरीरं तु तेनाधर्मेण मुच्यते ॥५॥
यदि व्याहरते राजन्विप्राणां धर्मवादिनाम्
।
ततोऽधर्मकृतात् क्षिप्रमपवादात् प्रमुच्यते ॥६॥
यथा यथा नरः सम्यगधर्ममनुभाषते
।
समाहितेन मनसा विमुच्येत तथा तथा ॥७॥
भुजङ्ग इव निर्मोकात्पूर्वभुक्ताज्जरान्वितात्
।
दत्त्वा विप्रस्य दानानि विविधानि समाहितः ॥८॥
मनःसमाधिसंयुक्तः सुगतिं प्रतिपद्यते
।
प्रदानानि तु वक्ष्यामि यानि दत्वा युधिष्ठिर ॥९॥
नरः कृत्वाप्यकार्याणि ततो धर्मेण युज्यते
।
सर्वेषामेव दानानामन्नं श्रेष्ठमुदाहृतम्
।
पूर्वमन्नं प्रदातव्यमृजुना धर्ममिच्छता ॥१०॥
प्राणा ह्यन्नं मनुष्याणां तस्माज्जन्तुश्च जायते
।
अन्ने प्रतिष्ठितो लोकस्तस्मादन्नं प्रशस्यते ॥११॥
अन्नमेव प्रशंसन्ति देवर्षिपितृमानवाः
।
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥१२॥
न्यायलब्धं प्रदातव्यं द्विजातिभ्योऽन्नमुत्तमम्
।
स्वाध्यायं समुपेतेभ्यः प्रहृष्टेनान्तरात्मना ॥१३॥
यस्य ह्यन्नमुपाश्नन्ति ब्राह्मणानां शतं दश
।
हृष्टेन मनसा दत्तं न स तिर्यग्गतिर्भवेत् ॥१४॥
ब्राह्मणानां सहस्राणि दश भोज्य नरर्षभ
।
नरोऽधर्मात्प्रमुच्येत योगेष्वभिरतः सदा ॥१५॥
भैक्ष्येणान्नं समाहृत्य विप्रो वेदपुरस्कृतः
।
स्वाध्यायनिरते विप्रे दत्वेह सुखमेधते ॥१६॥
अहिंसन्ब्राह्मणस्वानि न्यायेन परिपाल्य च
।
क्षत्रियस्तरसा प्राप्तमन्नं यो वै प्रयच्छति ॥१७॥
द्विजेभ्यो वेदवृद्धेभ्यः प्रयतः सुसमाहितः
।
तेनापोहति धर्मात्मन् दुष्कृतं कर्म पाण्डव ॥१८॥
षड्भागपरिशुद्धं च कृषेर्भागमुपार्जितम्
।
वैश्यो ददद्द्विजातिभ्यः पापेभ्यः परिमुच्यते ॥१९॥
अवाप्य प्राणसन्देहं कार्कश्येन समार्जितम्
।
अन्नं दत्वा द्विजातिभ्यः शूद्रः पापात्प्रमुच्यते ॥२०॥
औरसेन बलेनान्नमर्जयित्वाऽविहिंसकः
।
यः प्रयच्छति विप्रेभ्यो न स दुर्गाणि पश्यति ॥२१॥
न्यायेनैवाप्तमन्नं तु नरो हर्षसमन्वितः
।
द्विजेभ्यो वेदवृद्धेभ्यो दत्वा पापात्प्रमुच्यते ॥२२॥
अन्नमूर्जस्करं लोके दत्वोर्जस्वी भवेन्नरः
।
सतां पन्थानमावृत्य सर्वपापैः प्रमुच्यते ॥२३॥
दानवद्भिः कृतः पन्था येन यान्ति मनीषिणः
।
ते हि प्राणस्य दातारस्तेभ्यो धर्मः सनातनः ॥२४॥
सर्वावस्थं मनुष्येण न्यायेनान्नमुपार्जितम्
।
कार्यं पात्रागतं नित्यमन्नं हि परमा गतिः ॥२५॥
अन्नस्य हि प्रदानेन नरो रौद्रं न सेवते
।
तस्मादन्नं प्रदातव्यमन्यायपरिवर्जितम् ॥२६॥
यतेद्ब्राह्मणपूर्वं हि भोक्तुमन्नं गृही सदा
।
अवन्ध्यं दिवसं कुर्यादन्नदानेन मानवः ॥२७॥
भोजयित्वा दशशतं नरो वेदविदां नृप
।
न्यायविद्धर्मविदुषामितिहासविदां तथा ॥२८॥
न याति नरकं घोरं संसारांश्च न सेवते
।
सर्वकामसमायुक्तः प्रेत्य चाप्यश्नुते सुखम् ॥२९॥
एवं खलु समायुक्तो रमते विगतज्वरः
।
रूपवान् कीर्तिमांश्चैव धनवांश्चोपपद्यते ॥३०॥
एतत्ते सर्वमाख्यातमन्नदानफलं महत्
।
मूलमेतत्तु धर्माणां प्रदानानां च भारत ॥३१॥
युधिष्ठिर उवाच। अहिंसा वैदिकं कर्म ध्यानमिन्द्रियसंयमः
।
तपोऽथ गुरुशुश्रूषा किं श्रेयः पुरुषं प्रति ॥१॥
बृहस्पतिरुवाच
।
सर्वाण्येतानि धर्म्याणि पृथग्द्वाराणि सर्वशः
।
शृणु सङ्कीर्त्यमानानि षडेव भरतर्षभ ॥२॥
हन्त निःश्रेयसं जन्तोरहं वक्ष्याम्यनुत्तमम्
।
अहिंसापाश्रयं धर्मं यः साधयति वै नरः ॥३॥
त्रीन् दोषान् सर्वभूतेषु निधाय पुरुषः सदा
।
कामक्रोधौ च संयम्य ततः सिद्धिमवाप्नुते ॥४॥
अहिंसकानि भूतानि दण्डेन विनिहन्ति यः
।
आत्मनः सुखमन्विच्छन् स प्रेत्य न सुखी भवेत् ॥५॥
आत्मोपमस्तु भूतेषु यो वै भवति पूरुषः
।
न्यस्तदण्डो जितक्रोधः स प्रेत्य सुखमेधते ॥६॥
सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः
।
देवाऽपि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥७॥
न तत्परस्य सन्दध्यात्प्रतिकूलं यदात्मनः
।
एष सङ्क्षेपतो धर्मः कामादन्यः प्रवर्तते ॥८॥
प्रत्याख्याने च दाने च सुखदुःखे प्रियाप्रिये
।
आत्मौपम्येन पुरुषः प्रमाणमधिगच्छति ॥९॥
यथा परः प्रक्रमते परेषु तथाऽपरे प्रक्रमन्ते परस्मिन्
।
तथैव तेऽस्तूपमा जीवलोके यथा धर्मो नैपुणेनोपदिष्टः ॥१०॥
वैशम्पायन उवाच। इत्युक्त्वा तं सुरगुरुर्धर्मराजं युधिष्ठिरम्
।
दिवमाचक्रमे धीमान् पश्यतामेव नस्तदा ॥११॥
वैशम्पायन उवाच। ततो युधिष्ठिरो राजा शरतल्पे पितामहम्
।
पुनरेव महातेजाः पप्रच्छ वदतां वरः ॥१॥
युधिष्ठिर उवाच। ऋषयो ब्राह्मणा देवाः प्रशंसन्ति महामते
।
अहिंसालक्षणं धर्मं वेदप्रामाण्यदर्शनात् ॥२॥
कर्मणा मनुजः कुर्वन् हिंसां पार्थिवसत्तम
।
वाचा च मनसा चैव कथं दुःखात् प्रमुच्यते ॥३॥
भीष्म उवाच। चतुर्विधेयं निर्दिष्टा ह्यहिंसा ब्रह्मवादिभिः
।
एकैकतोऽपि विभ्रष्टा न भवत्यरिसूदन ॥४॥
यथा सर्वश्चतुष्पाद्वै त्रिभिः पादैर्न तिष्ठति
।
तथैवेयं महीपाल कारणैः प्रोच्यते त्रिभिः ॥५॥
यथा नागपदेऽन्यानि पदानि पदगामिनाम्
।
सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे ॥६॥
एवं लोकेष्वहिंसा तु निर्दिष्टा धर्मतः पुरा
।
कर्मणा लिप्यते जन्तुर्वाचा च मनसापि च ॥७॥
पूर्वं तु मनसा त्यक्त्वा तथा वाचाऽथ कर्मणा
।
न भक्षयति यो मांसं त्रिविधं स विमुच्यते ॥८॥
त्रिकारणं तु निर्दिष्टं श्रूयते ब्रह्मवादिभिः
।
मनो वाचि तथाऽऽस्वादे दोषा ह्येषु प्रतिष्ठिताः ॥९॥
न भक्षयन्त्यतो मांसं तपोयुक्ता मनीषिणः
।
दोषांस्तु भक्षणे राजन्मांसस्येह निबोध मे ॥१०॥
पुत्रमांसोपमं जानन् खादते यो विचक्षणः
।
मांसं मोहसमायुक्तः पुरुषः सोऽधमः स्मृतः ॥११॥
पितृमातृसमायोगे पुत्रत्वं जायते यथा
।
हिंसां कृत्वावशः पापो भूयिष्ठं जायते तथा ॥१२॥
रसं च प्रतिजिह्वाया ज्ञानं प्रज्ञायते यथा
।
तथा शास्त्रेषु नियतं रागो ह्यास्वादिताद्भवेत् ॥१३॥
संस्कृतासंस्कृताः पक्वा लवणालवणास्तथा
।
प्रजायन्ते यथा भावास्तथा चित्तं निरुध्यते ॥१४॥
भेरीमृदङ्गशब्दांश्च तन्त्रीशब्दांश्च पुष्कलान्
।
निषेविष्यन्ति वै मन्दा मांसभक्षाः कथं नराः ॥१५॥
अचिन्तितमनिर्दिष्टमसङ्कल्पितमेव च
।
रसगृद्ध्याऽभिभूता ये प्रशंसन्ति फलार्थिनः ॥१६॥
प्रशंसा ह्येव मांसस्य दोषकर्मफलान्विता
।
जीवितं हि परित्यज्य बहवः साधवो जनाः
।
स्वमांसैः परमांसानि परिपाल्य दिवं गताः ॥१७॥
एवमेषा महाराज चतुर्भिः कारणैर्वृता
।
अहिंसा तव निर्दिष्टा सर्वधर्मानुसंहिता ॥१८॥
युधिष्ठिर उवाच। अहिंसा परमो धर्म इत्युक्तं बहुशस्त्वया
।
श्राद्धेषु च भवानाह पितॄनामिषकाङ्क्षिणः ॥१॥
मांसैर्बहुविधैः प्रोक्तस्त्वया श्राद्धविधिः पुरा
।
अहत्वा च कुतो मांसमेवमेतद्विरुध्यते ॥२॥
जातो नः संशयो धर्मे मांसस्य परिवर्जने
।
दोषो भक्षयतः कः स्यात्कश्चाभक्षयतो गुणः ॥३॥
हत्वा भक्षयतो वापि परेणोपहृतस्य वा
।
हन्याद्वा यः परस्यार्थे क्रीत्वा वा भक्षयेन्नरः ॥४॥
एतदिच्छामि तत्त्वेन कथ्यमानं त्वयाऽनघ
।
निश्चयेन चिकीर्षामि धर्ममेतं सनातनम् ॥५॥
कथमायुरवाप्नोति कथं भवति सत्त्ववान्
।
कथमव्यङ्गतामेति लक्षण्यो जायते कथम् ॥६॥
भीष्म उवाच। मांसस्याभक्षणाद्राजन्यो धर्मः कुरुनन्दन
।
तन्मे शृणु यथातत्त्वं यथाऽस्य विधिरुत्तमः ॥७॥
रूपमव्यङ्गतामायुर्बुद्धिं सत्त्वं बलं स्मृतिम्
।
प्राप्तुकामैर्नरैर्हिंसा वर्जिता वै महात्मभिः ॥८॥
ऋषीणामत्र संवादो बहुशः कुरुनन्दन
।
बभूव तेषां तु मतं यत्तच्छृणु युधिष्ठिर ॥९॥
यो यजेताश्वमेधेन मासि मासि यतव्रतः
।
वर्जयेन्मधुमांसं च सममेतद्युधिष्ठिर ॥१०॥
सप्तर्षयो वालखिल्यास्तथैव च मरीचिपाः
।
अमांसभक्षणं राजन्प्रशंसन्ति मनीषिणः ॥११॥
न भक्षयति यो मांसं न च हन्यान्न घातयेत्
।
तन्मित्रं सर्वभूतानां मनुः स्वायम्भुवोऽब्रवीत् ॥१२॥
अधृष्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु
।
साधूनां सम्मतो नित्यं भवेन्मांसं विवर्जयन् ॥१३॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति
।
नारदः प्राह धर्मात्मा नियतं सोऽवसीदति ॥१४॥
ददाति यजते चापि तपस्वी च भवत्यपि
।
मधुमांसनिवृत्त्येति प्राह चैवं बृहस्पतिः ॥१५॥
मासि मास्यश्वमेधेन यो यजेत शतं समाः
।
न खादति च यो मांसं सममेतन्मतं मम ॥१६॥
सदा यजति सत्रेण सदा दानं प्रयच्छति
।
सदा तपस्वी भवति मधुमांसविवर्जनात् ॥१७॥
सर्वे वेदा न तत्कुर्युः सर्वे यज्ञाश्च भारत
।
यो भक्षयित्वा मांसानि पश्चादपि निवर्तते ॥१८॥
दुष्करं च रसज्ञाने मांसस्य परिवर्जनम्
।
चर्तुं व्रतमिदं श्रेष्ठं सर्वप्राण्यभयप्रदम् ॥१९॥
सर्वभूतेषु यो विद्वान् ददात्यभयदक्षिणाम्
।
दाता भवति लोके स प्राणानां नात्र संशयः ॥२०॥
एवं वै परमं धर्मं प्रशंसन्ति मनीषिणः
।
प्राणा यथाऽऽत्मनोऽभीष्टा भूतानामपि वै तथा ॥२१॥
आत्मौपम्येन मन्तव्यं बुद्धिमद्भिः कृतात्मभिः
।
मृत्युतो भयमस्तीति विदुषां भूतिमिच्छताम् ॥२२॥
किं पुनर्हन्यमानानां तरसा जीवितार्थिनाम्
।
अरोगाणामपापानां पापैर्मांसोपजीविभिः ॥२३॥
तस्माद्विद्धि महाराज मांसस्य परिवर्जनम्
।
धर्मस्यायतनं श्रेष्ठं स्वर्गस्य च सुखस्य च ॥२४॥
अहिंसा परमो धर्मस्तथाऽहिंसा परं तपः
।
अहिंसा परमं सत्यं यतो धर्मः प्रवर्तते ॥२५॥
न हि मांसं तृणात् काष्ठादुपलाद्वापि जायते
।
हत्वा जन्तुं ततो मांसं तस्माद्दोषस्तु भक्षणे॥२६॥
स्वाहास्वधामृतभुजो देवाः सत्यार्जवप्रियाः
।
क्रव्यादान् राक्षसान्विद्धि जिह्मानृतपरायणान् ॥२७॥
कान्तारेष्वथ घोरेषु दुर्गेषु गहनेषु च
।
रात्रावहनि सन्ध्यासु चत्वरेषु सभासु च ॥२८॥
उद्यतेषु च शस्त्रेषु मृगव्यालहतेषु च
।
अमांसभक्षणे राजन्भयमन्यैर्न गच्छति ॥२९॥
शरण्यः सर्वभूतानां विश्वास्यः सर्वजन्तुषु
।
अनुद्वेगकरो लोके न चाप्युद्विजते सदा ॥३०॥
यदि चेत्खादको न स्यान्न तदा घातको भवेत्
।
घातकः खादकार्थाय तद्घातयति वै नरः ॥३१॥
अभक्ष्यमेतदिति वै इति हिंसा निवर्तते
।
खादकार्थमतो हिंसा मृगादीनां प्रवर्तते ॥३२॥
यस्माद्ग्रसति चैवायुर्हिंसकानां महाद्युते
।
तस्माद्विवर्जयेन्मांसं य इच्छेद्भूतिमात्मनः ॥३३॥
त्रातारं नाधिगच्छन्ति रौद्राः प्राणिविहिंसकाः
।
उद्वेजनीया भूतानां यथा व्यालमृगास्तथा ॥३४॥
लोभाद्वा बुद्धिमोहाद्वा बलवीर्यार्थमेव च
।
संसर्गादथ पापानामधर्मरुचिता नृणाम् ॥३५॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति
।
उद्विग्नवासो वसति यत्र यत्राभिजायते ॥३६॥
धन्यं यशस्यमायुष्यं स्वर्ग्यं स्वस्त्ययनं महत्
।
मांसस्याभक्षणं प्राहुर्नियताः परमर्षयः ॥३७॥
इदं तु खलु कौन्तेय श्रुतमासीत्पुरा मया
।
मार्कण्डेयस्य वदतो ये दोषा मांसभक्षणे ॥३८॥
यो हि खादति मांसानि प्राणिनां जीवितैषिणाम्
।
हतानां वा मृतानां वा यथा हन्ता तथैव सः ॥३९॥
धनेन क्रयिको हन्ति खादकश्चोपभोगतः
।
घातको वधबन्धाभ्यामित्येष त्रिविधो वधः ॥४०॥
अखादन्ननुमोदंश्च भावदोषेण मानवः
।
योऽनुमोदति हन्यन्तं सोऽपि दोषेण लिप्यते ॥४१॥
अधृष्यः सर्वभूतानामायुष्मान्निरुजः सदा
।
भवत्यभक्षयन् मांसं दयावान् प्राणिनामिह ॥४२॥
हिरण्यदानैर्गोदानैर्भूमिदानैश्च सर्वशः
।
मांसस्याभक्षणे धर्मो विशिष्ट इति नः श्रुतिः ॥४३॥
अप्रोक्षितं वृथामांसं विधिहीनं न भक्षयेत्
।
भक्षयन्निरयं याति नरो नास्त्यत्र संशयः ॥४४॥
प्रोक्षिताभ्युक्षितं मांसं तथा ब्राह्मणकाम्यया
।
अल्पदोषमिह ज्ञेयं विपरीते तु लिप्यते ॥४५॥
खादकस्य कृते जन्तून् यो हन्यात् पुरुषाधमः
।
महादोषतरस्तत्र घातको न तु खादकः ॥४६॥
इज्यायज्ञश्रुतिकृतैर्यो मार्गैरबुधोऽधमः
।
हन्याज्जन्तून् मांसगृध्नुः स वै नरकभाङ्नरः ॥४७॥
भक्षयित्वापि यो मांसं पश्चादपि निवर्तते
।
तस्यापि सुमहान् धर्मो यः पापाद्विनिवर्तते ॥४८॥
आहर्ता चानुमन्ता च विशस्ता क्रयविक्रयी
।
संस्कर्ता चोपभोक्ता च खादकाः सर्वएव ते ॥४९॥
इदमन्यत्तु वक्ष्यामि प्रमाणं विधिनिर्मितम्
।
पुराणसृषिभिर्जुष्टं वेदेषु परिनिष्ठितम् ॥५०॥
प्रवृत्तिलक्षणो धर्मः प्रजार्थिभिरुदाहृतः
।
यथोक्तं राजशार्दूल न तु तन्मोक्षकाङ्क्षिणाम् ॥५१॥
हविर्यत्संस्कृतं मन्त्रैः प्रोक्षिताभ्युक्षितं शुचि
।
वेदोक्तेन प्रमाणेन पितॄणां प्रक्रियासु च ॥५२॥
अतोऽन्यथा वृथामांसमभक्ष्यं मनुरब्रवीत्
।
अस्वर्ग्यमयशस्यं च रक्षोवद्भरतर्षभ ॥५३॥
विधिहीनं नरः पूर्वं मांसं राजन्न भक्षयेत्
।
अप्रोक्षितं वृथा मांसं विधिहीनं न भक्षयेत् ॥५४॥
य इच्छेत्पुरुषोत्यन्तमात्मानं निरुपद्रवम्
।
स वर्जयेत मांसानि प्राणिनामिह सर्वशः ॥५५॥
श्रूयते हि पुरा कल्पे नृणां व्रीहिमयः पशुः
।
येनायजन्त यज्वानः पुण्यलोकपरायणाः ॥५६॥
ऋषिभिः संशयं पृष्टो वसुश्चेदिपतिः पुरा
।
अभक्ष्यमपि मांसं यः प्राह भक्ष्यमिति प्रभो ॥५७॥
आकाशादनिं प्राप्तस्ततः स पृथिवीपतिः
।
एतदेव पुनश्चोक्त्वा विवेश धरणीतलम् ॥५८॥
प्रजानां हितकामेन त्वगस्त्येन महात्मना
।
आरण्याः सर्वदैवत्याः प्रोक्षितास्तपसा मृगाः ॥५९॥
क्रिया ह्येवं न हीयन्ते पितृदैवतसंश्रिताः
।
प्रीयन्ते पितरश्चैव न्यायतो मांसतर्पिताः ॥६०॥
इदं तु शृणु राजेन्द्र कीर्त्यमानं मयाऽनघ
।
अभक्षणे सर्वसुखं मांसस्य मनुजाधिप ॥६१॥
यस्तु वर्षशतं पूर्णं तपस्तप्येत्सुदारुणम्
।
यश्चैव वर्जयेन्मांसं सममेतन्मतं मम ॥६२॥
कौमुदे तु विशेषेण शुक्लपक्षे नराधिप
।
वर्जयेन्मधुमांसानि धर्मो यत्र विधीयते ॥६३॥
चतुरो वार्षिकान्मासान्यो मांसं परिवर्जयेत्
।
चत्वारि भद्राण्याप्नोति कीर्तिमायुर्यशो बलम् ॥६४॥
अथवा मासमेकं वै सर्वमांसान्यभक्षयन्
।
अतीत्य सर्वदुःखानि सुखं जीवन्निरामयः ॥६५॥
वर्जयन्ति हि मांसानि मासशः पक्षशोऽपि वा
।
तेषां हिंसानिवृत्तानां ब्रह्मलोको विधीयते ॥६६॥
मांसं तु कौमुदं पक्षं वर्जितं पार्थ राजभिः
।
सर्वभूतात्मभूतस्थैर्विदितार्थपरावरैः ॥६७॥
नाभागेनाम्बरीषेण गयेन च महात्मना
।
आयुनाथानरण्येन दिलीपरघुपूरुभिः ॥६८॥
कार्तवीर्यानिरुद्धाभ्यां नहुषेण ययातिना
।
नृगेण विष्वगश्वेन तथैव शशबिन्दुना ॥६९॥
युवनाश्वेन च तथा शिबिनौशीनरेण च
।
मुचुकुन्देन मान्धात्रा हरिश्चन्द्रेण वा विभो ॥७०॥
सत्यं वदत माऽसत्यं सत्यं धर्मः सनातनः
।
हरिश्चन्द्रश्चरति वै दिवि सत्येन चन्द्रवत् ॥७१॥
श्येनचित्रेण राजेन्द्र सोमकेन वृकेण च
।
रैवते रन्तिदेवेन वसुना सृञ्जयेन च ॥७२॥
एतैश्चान्यैश्च राजेन्द्र कृपेण भरतेन च
।
दुष्यन्तेन करूषेण रामालर्कनरैस्तथा
।
विरूपाश्वेन निमिना जनकेन च धीमता ॥७३॥
ऐलेन पृथुना चैव वीरसेनेन चैव ह
।
इक्ष्वाकुणा शम्भुना च श्वेतेन सगरेण च ॥७४॥
अजेन धुन्धुना चैव तथैव च सुबाहुना
।
हर्यश्वेन च राजेन्द्र क्षुपेण भरतेन च ॥७५॥
एतैश्चान्यैश्च राजेन्द्र पुरा मांसं न भक्षितम्
।
शारदं कौमुदं मासं ततस्ते स्वर्गमाप्नुवन् ॥७६॥
ब्रह्मलोके च तिष्ठन्ति ज्वलमानाःश्रियान्विताः
।
उपास्यमाना गन्धर्वैः स्त्रीसहस्रसमन्विताः ॥७७॥
तदेतदुत्तमं धर्ममहिंसाधर्मलक्षणम्
।
ये चरन्ति महात्मानो नाकपृष्ठे वसन्ति ते ॥७८॥
मधुमांसं च ये नित्यं वर्जयन्तीह धार्मिकाः
।
जन्मप्रभृति मद्यं च सर्वे ते मुनयः स्मृताः ॥७९॥
इमं धर्मममांसादं यश्चरेच्छ्रावयीत वा
।
अपि चेत्सुदुराचारो न जातु निरयं व्रजेत् ॥८०॥
पठेद्वा य इदं राजञ्छृणुयाद्वाप्यभीक्ष्णशः
।
अमांसभक्षणविधिं पवित्रमृषिपूजितम् ॥७१॥
विमुक्तः सर्वपापेभ्यः सर्वकामैर्महीयते
।
विशिष्टतां ज्ञातिषु च लभते नात्र संशयः ॥८२॥
आपन्नश्चापदो मुच्येद्बद्धो मुच्येत बन्धनात्
।
मुच्येत्तथाऽऽतुरो रोगाद्दुःखान्मुच्येत दुःखितः ॥८३॥
तिर्यग्योनिं न गच्छेत रूपवांश्च भवेन्नरः
।
ऋद्धिमान्वै कुरुश्रेष्ठ प्राप्नुयाच्च महद्यशः ॥८४॥
एतत्ते कथितं राजन्मांसस्य परिवर्जने
।
प्रवृत्तौ च निवृत्तौ च विधानमृषिनिर्मितम् ॥८५॥
युधिष्ठिर उवाच। इमे वै मानवा लोके नृशंसा मांसगृद्धिनः
।
विसृज्य विविधान्भक्ष्यान्महारक्षोगणा इव ॥१॥
अपूपान्विविधाकारान्शाकानि विविधानि च
।
खाण्डवान्रसयोगान्न तथेच्छन्ति यथाऽऽमिषम् ॥२॥
तत्र मे बुद्धिरत्रैव विषये परिमुह्यते
।
न मन्ये रसतः किञ्चिन्मांसतोऽस्तीति किञ्चन ॥३॥
तदिच्छामि गुणान् श्रोतुं मांसस्याभक्षणे प्रभो
।
भक्षणे चैव ये दोषास्तांश्चैव पुरुषर्षभ ॥४॥
सर्वं तत्त्वेन धर्मज्ञ यथावदिह धर्मतः
।
किं चाभक्ष्यमभक्ष्यं वा सर्वमेतद्वदस्व मे ॥५॥
यथैतद्यादृशं चैव गुणा ये चास्य वर्जने
।
दोषा भक्षयतो येऽपि तन्मे ब्रूहि पितामह ॥६॥
भीष्म उवाच। एवमेतन्महाबाहो यथा वदसि भारत
।
न मांसात्परमं किञ्चिद्रसतो विद्यते भुवि ॥७॥
क्षतक्षीणाभितप्तानां ग्राम्यधर्मरतात्मनाम्
।
अध्वना कर्शितानां च न मांसाद्विद्यते परम् ॥८॥
सद्यो वर्धयति प्राणान्पुष्टिमग्र्यां दधाति च
।
न भक्ष्योऽभ्यधिकः कश्चिन्मांसादस्ति परन्तप ॥९॥
विवर्जिते तु बहवो गुणाः कौरवनन्दन
।
ये भवन्ति मनुष्याणां तान्मे निगदतः शृणु ॥१०॥
स्वमांसं परमांसेन यो वर्धयितुमिच्छति
।
नास्ति क्षुद्रतरस्तस्मात्स नृशंसतरो नरः ॥११॥
न हि प्राणात् प्रियतरं लोके किञ्चन विद्यते
।
तस्माद्दयां नरः कुर्याद्यथाऽऽत्मनि तथा परे ॥१२॥
शुक्राच्च तात सम्भूतिर्मांसस्येह न संशयः
।
भक्षणे तु महान् दोषो निवृत्त्या पुण्यमुच्यते ॥१३॥
विधिना वेददृष्टेन तद्भुक्त्वेह न दुष्यति
।
यज्ञार्थे पशवः सृष्टा इत्यपि श्रूयते श्रुतिः ॥१४॥
अतोऽन्यथा प्रवृत्तानां राक्षसो विधिरुच्यते
।
क्षत्रियाणां तु यो दृष्टो विधिस्तमपि मे शृणु ॥१५॥
वीर्येणोपार्जितं मांसं यथा भुञ्जन्न दुष्यति
।
आरण्याः सर्वदैवत्याः सर्वशः प्रोक्षिता मृगाः ॥१६॥
अगस्त्येन पुरा राजन् मृगया येन पूज्यते
।
नात्मानमपरित्यज्य मृगया नाम विद्यते ॥१७॥
समतामुपसङ्गम्य भूतं हन्यति हन्ति वा
।
अतो राजर्षयः सर्वे मृगयां यान्ति भारत ॥१८॥
न हि लिप्यन्ति पापेन न चैतत्पातकं विदुः
।
न ह्यतः सदृशं किञ्चिदिह लोके परत्र च ॥१९॥
यत्सर्वेष्विह भूतेषु दया कौरवनन्दन
।
न भयं विद्यते जातु नरस्येह दयावतः ॥२०॥
दयावतामिमे लोकाः परे चापि तपस्विनाम्
।
अहिंसालक्षणो धर्म इति धर्मविदो विदुः ॥२१॥
यदहिंसात्मकं कर्म तत्कुर्यादात्मवान्नरः
।
पितृदैवतयज्ञेषु प्रोक्षितं हविरुच्यते ॥२२॥
अभयं सर्वभूतेभ्यो यो ददाति दयापरः
।
अभयं तस्य भूतानि ददतीत्यनुशुश्रुम ॥२३॥
क्षतं च स्खलितं चैव पतितं कृष्टमाहतम्
।
सर्वभूतानि रक्षन्ति समेषु विषमेषु च ॥२४॥
नैनं व्यालमृगा घ्नन्ति न पिशाचा न राक्षसाः
।
मुच्यते भयकालेषु मोक्षयेद्यो भये परान् ॥२५॥
प्राणदानात् परं दानं न भूतं न भविष्यति
।
न ह्यात्मनः प्रियतरं किञ्चिदस्तीह निश्चितम् ॥२६॥
अनिष्टं सर्वभूतानां मरणं नाम भारत
।
मृत्युकाले हि भूतानां सद्यो जायति वेपथुः ॥२७॥
जातिजन्मजरादुःखैर्नित्यं संसारसागरे
।
जन्तवः परिवर्तन्ते मरणादुद्विजन्ति च ॥२८॥
गर्भवासेषु पच्यन्ते क्षाराम्लकटुकै रसैः
।
मूत्रस्वेदपुरीषाणां परुषैर्भृशदारुणैः ॥२९॥
जाताश्चाप्यवशास्तत्र च्छिद्यमानाः पुनः पुनः
।
याच्यमानाश्च दृश्यन्ते विवशा मांसगृद्धिनः ॥३०॥
कुम्भीपाके च पच्यन्ते तां तां योनिमुपागताः
।
आक्रम्य मार्यमाणाश्च भ्राम्यन्ते वै पुनः पुनः ॥३१॥
नात्मनोऽस्ति प्रियतरः पृथिवीमनुसृत्य ह
।
तस्मात् प्राणिषु सर्वेषु दयावानात्मवान्भवेत् ॥३२॥
सर्वमांसानि यो राजन् यावज्जीवं न भक्षयेत्
।
स्वर्गे स विपुलं स्थानं प्राप्नुयान्नात्र संशयः ॥३३॥
ये भक्षयन्ति मांसानि भूतानां जीवितैषिणाम्
।
भक्ष्यन्ते तेऽपि भूतैस्तैरिति मे नास्ति संशयः ॥३४॥
मांसं भक्षयते यस्माद्भक्षयिष्ये तमप्यहम्
।
एतन्मांसस्य मांसत्वमनुबुद्ध्यस्व भारतः॥३५॥
घातका वध्यते नित्यं तथा वध्यति भक्षिता
।
आक्रोष्टा क्रुध्यते राजंस्तथा द्वेष्यत्वमाप्नुते ॥३६॥
येन येन शरीरेण यद्यत्कर्म करोति यः
।
तेन तेन शरीरेण तत्तत्फलमुपाश्नुते ॥३७॥
अहिंसा परमो धर्मस्तथाऽहिंसा परो दमः
।
अहिंसा परमं दानमहिंसा परमं तपः ॥३८॥
अहिंसा परमो यज्ञस्तथाऽहिंसा परं फलम्
।
अहिंसा परमं मित्रमहिंसा परमं सुखम् ॥३९॥
सर्वयज्ञेषु वा दानं सर्वतीर्थेषु वाऽऽप्लुतम्
।
सर्वदानफलं वापि नैतत्तुल्यमहिंसया ॥४०॥
अहिंसस्य तपोऽक्षय्यमहिंस्रो यजते सदा
।
अहिंस्रः सर्वभूतानां यथा माता यथा पिता ॥४१॥
एतत् फलमहिंसाया भूयश्च कुरुपुङ्गव
।
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥४२॥
युधिष्ठिर उवाच। अकामाश्च सकामाश्च ये हताः स्म महामृधे
।
कां गतिं प्रतिपन्नास्ते तन्मे ब्रूहि पितामह ॥१॥
दुःखं प्राणपरित्यागः पुरुषाणां महामृधे
।
जानासि त्वं महाप्राज्ञ प्राणत्यागं सुदुष्करम् ॥२॥
समृद्धौ वाऽसमृद्धौ वा शुभे वा यदि वाऽशुभे
।
कारणं तत्र मे ब्रूहि सर्वज्ञो ह्यसि मे मतः ॥३॥
भीष्म उवाच। समृद्धौ वाऽसमृद्धौ वा शुभे वा यदि वाऽशुभे
।
संसारेऽस्मिन्समायाताः प्राणिनः पृथिवीपते ॥४॥
निरता येन भावेन तत्र मे शृणु कारणम्
।
सम्यक्चायमनुप्रश्नस्त्वयोक्तस्तु युधिष्ठिर ॥५॥
अत्र ते वर्तयिष्यामि पुरावृत्तमिदं नृप
।
द्वैपायनस्य संवादं कीटस्य च युधिष्ठिर ॥६॥
ब्रह्मभूतश्चरन्विप्रः कृष्णद्वैपायनः पुरा
।
ददर्श कीटं धावन्तं शीघ्रं शकटवर्त्मनि ॥७॥
गतिज्ञः सर्वभूतानां भाषाज्ञश्च शरीरिणाम्
।
सर्वज्ञः स तदा दृष्ट्वा कीटं वचनमब्रवीत् ॥८॥
व्यास उवाच
।
कीट संत्रस्तरूपोऽसि त्वरितश्चैव लक्ष्यसे
।
क्व धावसि तदाचक्ष्व कुतस्ते भयमागतम् ॥९॥
कीट उवाच
।
शकटस्यास्य महतो घोषं श्रुत्वा भयं मम
।
आगतं वै महाबुद्धे स्वन एष हि दारुणः ॥१०॥
श्रूयते न च मां हन्यादिति ह्यस्मादपक्रमे
।
श्वसतां च शृणोम्येनं गोपुत्राणां प्रतोद्यताम् ॥११॥
वहतां सुमहाभारं सन्निकर्षे स्वनं प्रभो
।
नृणां च संवाहयतां श्रूयते विविधः स्वनः ॥१२॥
श्रोतुमस्मद्विधेनैष न शक्यः कीटयोनिना
।
तस्मादतिक्रमाम्येष भयादस्मात्सुदारुणात् ॥१३॥
दुःखं हि मृत्युर्भूतानां जीवितं च सुदुर्लभम्
।
अतो भीतः पलायामि गच्छेयं नासुखं सुखात् ॥१४॥
भीष्म उवाच। इत्युक्तः स तु तं प्राह कुतः कीट सुखं तव
।
मरणं ते सुखं मन्ये तिर्यग्योनौ तु वर्तसे ॥१५॥
शब्दं स्पर्शं रसं गन्धं भोगांश्चोच्चावचान्बहुन्
।
नाभिजानासि कीट त्वं श्रेयो मरणमेव ते ॥१६॥
कीट उवाच
।
सर्वत्र निरतो जीव इतश्चापि सुखं मम
।
चिन्तयामि महाप्राज्ञ तस्मादिच्छामि जीवितुम् ॥१७॥
इहापि विषयः सर्वो यथादेहं प्रवर्तितः
।
मानुषाः स्थैर्यजाश्चैव पृथग्भोगा विशेषतः ॥१८॥
अहमासं मनुष्यो वै शूद्रो बहुधनः प्रभो
।
अब्रह्मण्यो नृशंसश्च कदर्यो वृद्धिजीवनः ॥१९॥
वाक्तीक्ष्णो निकृतिप्रज्ञो द्वेष्टा विश्वस्य सर्वशः
।
मिथ्याकृतोऽपि विधिना परस्वहरणे रतः ॥२०॥
भृत्यातिथिजनश्चापि गृहे पर्यशितो मया
।
मात्सर्यात्स्वादुकामेन नृशंसेन बुभुक्षता ॥२१॥
देवार्थं पितृयज्ञार्थमन्नं श्रद्धाहृतं मया
।
न दत्तमर्थकामेन देयमन्नं पुरा किल ॥२२॥
गुप्तं शरणमाश्रित्य भयेषु शरणागताः
।
अकस्मात्ते मया त्यक्ता न त्राता अभयैषिणः॥२३॥
धनं धान्यं प्रियान्दारान्यानं वासस्तथाद्भुतम्
।
श्रियं दृष्ट्वा मनुष्याणामसूयामि निरर्थकम् ॥२४॥
ईर्ष्युः परसुखं दृष्ट्वा अन्यस्य न बुभूषकः
।
त्रिवर्गहन्ता चान्येषामात्मकामानुवर्तकः ॥२५॥
नृशंसगुणभूयिष्ठं पुरा कर्म कृतं मया
।
स्मृत्वा तदनुतप्येऽहं हित्वा प्रियमिवात्मजम् ॥२६॥
शुभानां नाभिजानामि कृतानां कर्मणां फलम्
।
माता च पूजिता वृद्धा ब्राह्मणश्चार्चितो मया॥२७॥
सकृज्जातिगुणोपेतः सङ्गत्या गृहमागतः
।
अतिथिः पूजितो ब्रह्मस्तेन मां नाजहात्स्मृतिः॥२८॥
कर्मणा पुनरेवाहं सुखमागामि लक्षये
।
तच्छ्रोतुमहमिच्छामि त्वत्तः श्रेयस्तपोधन ॥२९॥
व्यास उवाच
।
शुभेन कर्मणा यद्वै तिर्यग्योनौ न मुह्यसे
।
ममैव कीट तत्कर्म येन त्वं न प्रमुह्यसे ॥१॥
अहं त्वां दर्शनादेव तारयामि तपोबलात्
।
तपोबलाद्धि बलवद्बलमन्यन्न विद्यते ॥२॥
जानामि पापैः स्वकृतैर्गतं त्वां कीट कीटताम्
।
अवाप्स्यसि पुनर्धर्मं धर्मं तु यदि मन्यसे ॥३॥
कर्म भूमिकृतं देवा भुञ्जते तिर्यगाश्च ये
।
धर्मोऽपि हि मनुष्येषु कामार्थश्च तथा गुणाः॥४॥
वाग्बुद्धिपाणिपादैश्च व्यपेतस्य विपश्चितः
।
किं हास्यति मनुष्यस्य मन्दस्यापि हि जीवतः॥५॥
जीवन् हि कुरुते पूजां विप्राग्र्यः शशिसूर्ययोः
।
ब्रुवन्नपि कथां पुण्यां तत्र कीट त्वमेष्यसि ॥६॥
गुणभूतानि भूतानि तत्र त्वमुपभोक्ष्यसे
।
तत्र तेऽहं विनेष्यामि ब्रह्म त्वं यत्र वैष्यसि ॥७॥
स तथेति प्रतिश्रुत्य कीटो वर्त्मन्यतिष्ठत
।
शकटो व्रजंश्च सुमहानागतश्च यदृच्छया ॥८॥
चक्राक्रमेण भिन्नश्च कीटः प्राणान्मुमोच ह
।
सम्भूतः क्षत्रियकुले प्रसादादमितौजसः ॥९॥
तमृर्षिं द्रष्टुमगमत्सर्वास्वन्यासु योनिषु
।
श्वाविद्गोधावराहाणां तथैव मृगपक्षिणाम् ॥१०॥
श्वपाकशूद्रवैश्यानां क्षत्रियाणां च योनिषु
।
स कीट एवमाभाष्य ऋषिणा सत्यवादिना
।
प्रतिस्मृत्याथ जग्राह पादौ मूर्ध्नि कृताञ्जलिः॥११॥
कीट उवाच
।
इदं तदतुलं स्थानमीप्सितं दशभिर्गुणैः
।
यदहं प्राप्य कीटत्वमागतो राजपुत्रताम् ॥१२॥
वहन्ति मामतिबलाः कुञ्जरा हेममालिनः
।
स्यन्दनेषु च कांबोजा युक्ताः परमवाजिनः ॥१३॥
उष्ट्राश्वतरयुक्तानि यानानि च वहन्ति माम्
।
सबान्धवः सहामात्यश्चाश्नामि पिशितौदनम् ॥१४॥
गृहेषु स्वनिवासेषु सुखेषु शयनेषु च
।
वराहेषु महाभाग स्वपामि च सुपूजितः ॥१५॥
सर्वेष्वपररात्रेषु सूतमागधबन्दिनः
।
स्तुवन्ति मां यथा देवा महेन्द्रं प्रियवादिनः ॥१६॥
प्रसादात्सत्यसन्धस्य भवतोऽमिततेजसः
।
यदहं कीटतां प्राप्य संप्राप्तो राजपुत्रताम् ॥१७॥
नमस्तेऽस्तु महाप्राज्ञ किं करोमि प्रशाधि माम्
।
त्वत्तपोबलनिर्दिष्टमिदं ह्यधिगतं मया ॥१८॥
व्यास उवाच
।
अर्चितोऽहं त्वया राजन् वाग्भिरद्य यदृच्छया
।
अद्य ते कीटतां प्राप्य स्मृतिर्जाता जुगुप्सिता॥१९॥
न तु नाशोऽस्ति पापस्य यस्त्वयोपचितः पुरा
।
शुद्रेणार्थप्रधानेन नृशंसेनाततायिना ॥२०॥
मम ते दर्शनं प्राप्तं तच्च वै सुकृतं त्वया
।
तिर्यग्योनौ स्म जातेन मम चाभ्यर्चनात्तथा॥२१॥
इतस्त्वं राजपुत्रत्वाद्ब्राह्मण्यं समवाप्स्यसि
।
गोब्राह्मणकृते प्राणान् हुत्वाऽऽत्मानं रणाजिरे॥२२॥
राजपुत्र सुखं प्राप्य क्रतूंश्चैवाप्तदक्षिणान्
।
अथ मोदिष्यसे स्वर्गे ब्रह्मभूतोऽव्ययः सुखी ॥२३॥
तिर्यग्योन्याः शूद्रतामभ्युपैति शूद्रो वैश्यं क्षत्रियत्वं च वैश्यः
।
वृत्तश्लाघी क्षत्रियो ब्राह्मणत्वं स्वर्गं पुण्यं ब्राह्मणः साधुवृत्तः ॥२४॥
भीष्म उवाच। क्षत्रधर्ममनुप्राप्तः स्मरन्नेव च वीर्यवान्
।
त्यक्त्वा स कीटतां राजंश्चचार विपुलं तपः ॥१॥
तस्य धर्मार्थविदुषो दृष्ट्वा तद्विपुलं तपः
।
आजगाम द्विजश्रेष्ठः कृष्णद्वैपायनस्तदा ॥२॥
व्यास उवाच
।
क्षात्रं देवव्रतं कीट भूतानां परिपालनम्
।
क्षात्रं देवव्रतं ध्यायंस्ततो विप्रत्वमेष्यासि ॥३॥
पाहि सर्वाः प्रजाः सम्यक् शुभाशुभविदात्मवान्
।
शुभैः संविभजन् कामैरशुभानां च पावनैः ॥४॥
आत्मवान् भव सुप्रीतः स्वधर्माचरणे रतः
।
क्षात्रीं तनुं समुत्सृज्य ततो विप्रत्वमेष्यसि ॥५॥
भीष्म उवाच। सोऽप्यरण्यमनुप्राप्य पुनरेव युधिष्ठिर
।
महर्षेर्वचनं श्रुत्वा प्रजा धर्मेण पाल्य च ॥६॥
अचिरेणैव कालेन कीटः पार्थिवसत्तम
।
प्रजापालनधर्मेण प्रेत्य विप्रत्वमागतः ॥७॥
ततस्तं ब्राह्मणं दृष्ट्वा पुनरेव महायशाः
।
आजगाम महाप्राज्ञः कृष्णद्वैपायनस्तदा ॥८॥
व्यास उवाच
।
भोभो ब्रह्मर्षभ श्रीमन् मा व्यथिष्ठाः कथञ्चन
।
शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥९॥
उपपद्यति धर्मज्ञ यथापापफलोपगम्
।
तस्मान्मृत्युभयात्कीट मा व्यथिष्ठाः कथञ्चन ॥१०॥
धर्मलोपभयं ते स्यात्तस्माद्धर्मं चरोत्तमम्
।
कीट उवाच
।
सुखात्सुखतरं प्राप्तो भगवंस्त्वत्कृते ह्यहम् ॥११॥
धर्ममूलां श्रियं प्राप्य पाप्मा नष्ट इहाद्य मे
।
भीष्म उवाच। भगवद्वचनात्कीटो ब्राह्मण्यं प्राप्य दुर्लभम् ॥१२॥
अकरोत्पृथिवीं राजन्यज्ञयूपशताङ्किताम्
।
ततः सालोक्यमगमद्ब्रह्मणो ब्रह्मवित्तमः॥१३॥
अवाप च पदं कीटः पार्थ ब्रह्म सनातनम्
।
स्वकर्मफलनिर्वृत्तं व्यासस्य वचनात्तदा ॥१४॥
तेऽपि यस्मात्प्रभावेण हताः क्षत्रियपुङ्गवाः
।
संप्राप्तास्ते गतिं पुण्यां तस्मान्मा शोच पुत्रक ॥१५॥
युधिष्ठिर उवाच। विद्यातपोभ्यां दानाच्च किमेतेषां विशिष्यते
।
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
मैत्रेयस्य च संवादं कृष्णद्वैपायनस्य च ॥२॥
कृष्णद्वैपायनो राजन्नज्ञातचरितं चरन्
।
वाराणस्यामुपातिष्ठन्मैत्रेयं स्वैरिणीकुले ॥३॥
तमुपस्थितमासीनं ज्ञात्वा स मुनिसत्तमम्
।
अर्चित्वा भोजयामास मैत्रेयोऽशनमुत्तमम् ॥४॥
तदन्नमुत्तमं भुक्त्वा गुणवत्सार्वकामिकम्
।
प्रतिष्ठमानोऽस्मयत प्रीतः कृष्णो महामनाः ॥५॥
तमुत्स्मयन्तं संप्रेक्ष्य मैत्रेयः कृष्णमब्रवीत्
।
कारणं ब्रूहि धर्मात्मन्व्यस्मयिष्ठाः कुतश्च ते ॥६॥
तपस्विनो धृतिमतः प्रमोदः समुपागतः
।
एतत्पृच्छामि ते विद्वन्नभिवाद्य प्रणम्य च
।
आत्मनश्च तपोभाग्यं महाभाग्यं तवेह च ॥७॥
पृथगाचरतस्तात पृथगात्मसुखात्मनोः
।
अल्पान्तरमहं मन्ये विशिष्टमपि चान्वयात् ॥८॥
व्यास उवाच
।
अतिच्छेदातिवादाभ्यां स्मयोऽयं समुपागतः
।
असत्यं वेदवचनं कस्माद्वेदोऽनृतं वदेत् ॥९॥
त्रीण्येव तु पदान्याहुः पुरुषस्योत्तमं व्रतम्
।
न द्रुह्येच्चैव दद्याच्च सत्यं चैव परं वदेत् ॥१०॥
इति वेदोक्तमृषिभिः पुरस्तात्परिकल्पितम्
।
इदानीं चैव नः कृत्यं पुरस्ताच्च परिश्रुतम् ॥११॥
अल्पोऽपि तादृशो दायो भवत्युत महाफलः
।
तृषिताय च ते दत्तं हृदयेनानसूयता ॥१२॥
तृषितस्तृषिताय त्वं दत्वैतद्दर्शनं मम
।
अजैषीर्महतो लोकान्महायज्ञैरिव प्रभो ॥१३॥
ततो दानपवित्रेण प्रीतोऽस्मि तपसैव च
।
पुण्यस्यैव हि ते सत्त्वं पुण्यस्यैव च दर्शनम् ॥१४॥
पुण्यस्यैवाभिगन्धस्ते मन्ये कर्मविधानजम्
।
अधिकं मार्जनात्तात तथा चैवानुलेपनात् ॥१५॥
शुभं सर्वपवित्रेभ्यो दानमेव परं द्विज
।
नो चेत्सर्वपवित्रेभ्यो दानमेव परं भवेत् ॥१६॥
यानीमान्युत्तमानीह वेदोक्तानि प्रशंससि
।
तेषां श्रेष्ठतरं दानमिति मे नात्र संशयः ॥१७॥
दानकृद्भिः कृतः पन्था येन यान्ति मनीषिणः
।
ते हि प्राणस्य दातारस्तेषु धर्मः प्रतिष्ठितः ॥१८॥
यथा वेदाः स्वधीताश्च यथा चेन्द्रियसंयमः
।
सर्वत्यागो यथा चेह तथा दानमनुत्तमम् ॥१९॥
त्वं हि तात महाबुद्धे सुखमेष्यसि शोभनम्
।
सुखात्सुखतरप्राप्तिमाप्नुते मतिमान्नरः ॥२०॥
तन्नः प्रत्यक्षमेवेदमुपलभ्यमसंशयम्
।
श्रीमन्तः प्राप्नुवन्त्यर्थान्दानं यज्ञं तथा सुखम् ॥२१॥
सुखादेव परं दुःखं दुःखादप्यपरं सुखम्
।
दृश्यते हि महाप्राज्ञ नियतं वै स्वभावतः ॥२२॥
त्रिविधानीह वृत्तानि नरस्याहुर्मनीषिणः
।
पुण्यमन्यत्पापमयन्न पुण्यं न च पापकम् ॥२३॥
न वृत्तं मन्यते तस्य मन्यते न च पातकम्
।
तथा स्वकर्मनिर्वृत्तं न पुण्यं न च पापकम् ॥२४॥
यज्ञदानतपःशीला नरा वे पुण्यकर्मिणः
।
येऽभिद्रुह्यन्ति भूतानि ते वै पापकृतो जनाः ॥२५॥
द्रव्याण्याददते चैव दुःखं यान्ति पतन्ति च
।
ततोऽन्यत्कर्म यत्किञ्चिन्न पुण्यं न च पातकम् ॥२६॥
रमस्वैधस्व मोदस्व देहि चैव यजस्व च
।
न त्वामभिभविष्यन्ति वैद्या न च तपस्विनः ॥२७॥
भीष्म उवाच। एवमुक्तः प्रत्युवाच मैत्रेयः कर्मपूजकः
।
अत्यन्तश्रीमति कुले जातः प्राज्ञो बहुश्रुतः॥१॥
मैत्रेय उवाच
।
असंशयं महाप्राज्ञ यथैवात्थ तथैव तत्
।
अनुज्ञातश्च भवता किंचिद्ब्रूयामहं विभो ॥२॥
व्यास उवाच
।
यद्यदिच्छसि मैत्रेय यावद्यावद्यथा यथा
।
ब्रूहि तत्त्वं महाप्राज्ञ शुश्रूषे वचनं तव ॥३॥
मैत्रेय उवाच
।
निर्दोषं निर्मलं चैवं वचनं दानसंहितम्
।
विद्यातपोभ्यां हि भवान् भावितात्मा न संशयः॥४॥
भवतो भावितात्मत्वाल्लाभोऽयं सुमहान्मम
।
भूयो बुद्ध्याऽनुपश्यामि सुसमृद्धतपा इव॥५॥
अपि नो दर्शनादेव भवतोऽभ्युदयो भवेत्
।
मन्ये भवत्प्रसादोऽयं तद्धि कर्म स्वभावतः॥६॥
तपः श्रुतं च योनिश्चाप्येतद्ब्राह्मण्यकारणम्
।
त्रिभिर्गुणैः समुदितस्ततो भवति वै द्विजः॥७॥
अस्मिंस्तृप्ते च तृप्यन्ते पितरो दैवतानि च
।
न हि श्रुतवतां किञ्चिदधिकं ब्राह्मणादृते ॥१८॥
अन्धं स्यात्तम एवेदं न प्रज्ञायेत किञ्चन
।
चातुर्वर्ण्यं न वर्तेत धर्माधर्मावृतानृते ॥९॥
यथा हि सुलभे क्षेत्रे फलं विन्दति मानवः
।
एवं दत्वा श्रुतवति फलं दाता समश्नुते ॥१०॥
ब्राह्मणश्चेन्न विन्देत श्रुतवृत्तोपसंहितः
।
प्रतिग्रहीता दानस्य मोघं स्याद्धनिनां धनम् ॥११॥
अदन्नविद्वान्हन्त्यन्नमद्यमानं च हन्ति तम्
।
तं चान्नं पाति यश्चान्नं स हन्ता हन्यतेऽबुधः॥१२॥
प्रभुर्ह्यन्नमदन्विद्वान् पुनर्जनयतीश्वरः
।
स चान्नाज्जायते तस्मात्सूक्ष्म एष व्यतिक्रमः॥१३॥
यदेव ददतः पुण्यं तदेव प्रतिगृह्णतः
।
न ह्येकचक्रं वर्तेत इत्येवमृषयो विदुः ॥१४॥
यत्र वै ब्राह्मणाः सन्ति श्रुतवृत्तोपसंहिताः
।
तत्र दानफलं पुण्यमिह चामुत्र चाश्रुते ॥१५॥
ये योनिशुद्धाः सततं तपस्यभिरता भृशम्
।
दानाध्ययनसंपन्नास्ते वै पूज्यतमाः सदा॥१६॥
तैर्हि सद्भिः कृतः पन्थास्तेन यातो न मुह्यते
।
ते हि स्वर्गस्य नेतारो यज्ञवाहाः सनातनाः ॥१७॥
भीष्म उवाच। एवमुक्तः स भगवान् मैत्रेयं प्रत्यभाषत
।
दिष्ट्यैवं त्वं विजानासि दिष्ट्या ते बुद्धिरीदृशी॥१॥
लोको ह्यार्यगुणानेव भूयिष्ठं तु प्रशंसति
।
रूपमानवयोमानश्रीमानाश्चाप्यसंशयम् ॥२॥
दिष्ट्या नाभिभवन्ति त्वां दैवस्तेऽयमनुग्रहः
।
यत्ते भृशतरं दानाद्वर्तयिष्यामि तच्छृणु ॥३॥
यानीहागमशास्त्राणि याश्च काश्चित्प्रवृत्तयः
।
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ॥४॥
अहं दानं प्रशंसामि भवानपि तपःश्रुते
।
तपः पवित्रं वेदस्य तपः स्वर्गस्य साधनम् ॥५॥
तपसा महदाप्नोति विद्यया चेति नः श्रुतम्
।
तपसैव चापनुदेद्यच्चान्यदपि दुष्कृतम् ॥६॥
यद्यद्धि किंचित्संधाय पुरुषस्तप्यते तपः
।
सर्वमेतदवाप्नोति विद्यया चेति नः श्रुतम् ॥७॥
दुरन्वयं दुष्प्रधर्षं दुरापं दुरतिक्रमम्
।
सर्वं वै तपसाऽभ्येति तपो हि बलवत्तरम् ॥८॥
सुरापोऽसंमतादायी भ्रूणहा गुरुतल्पगः
।
तपसा तरते सर्वमेनसश्च प्रमुच्यते ॥९॥
सर्वविद्यस्तु चक्षुष्मानपि यादृशतादृशम्
।
तपस्विनं तथैवाहुस्ताभ्यां कार्यं सदा नमः॥१०॥
सर्वे पूज्याः श्रुतधनास्तथैव च तपस्विनः
।
दानप्रदाः सुखं प्रेत्य प्राप्नुवन्तीह च श्रियम् ॥११॥
इमं च ब्रह्मलोकं च लोकं च बलवत्तरम्
।
अन्नदानैः सुकृतिनः प्रतिपद्यन्ति लौकिकाः॥१२॥
पूजिताः पूजयन्त्येते मानिता मानयन्ति च
।
स दाता यत्र यत्रैति सर्वतः संप्रणूयते ॥१३॥
अकर्ता चैव कर्ता च लभते यस्य यादृशम्
।
यदि चोर्ध्वं यद्यधो वा स्वान् लोकानभियास्यति॥१४॥
प्राप्स्यसि त्वन्नपानानि यानि वांच्छसि कानिचित्
।
मेधाव्यसि कुले जातः श्रुतवाननृशंसवान्॥१५॥
कौमारचारी व्रतवान्मैत्रेय निरतो भव
।
एतद्गृहाण प्रथमं प्रशस्तं गृहमेधिनाम् ॥१६॥
यो भर्ता वासिता तुष्टो भर्तुस्तुष्टा च वासिता
।
यस्मिन्नेवं कुले सर्वं कल्याणं तत्र वर्तते ॥१७॥
अद्भिर्गात्रान्मलमिव तमोऽग्निप्रभया यथा
।
दानेन तपसा चैव सर्वपापमपोहति ॥१८॥
स्वस्ति प्राप्नुहि मैत्रेय गृहान् साधु व्रजाम्यहम्
।
एतन्मनसि कर्तव्यं श्रेय एवं प्रविष्यति ॥१९॥
तं प्रणम्याथ मैत्रेयः कृत्वा चापि प्रदक्षिणम्
।
स्वस्ति प्राप्नोतु भगवानित्युवाच कृताञ्जलिः॥२०॥
युधिष्ठिर उवाच। सत्स्त्रीणां समुदाचारं सर्वधर्मविदां वर
।
श्रोतुमिच्छाम्यहं त्वत्तस्तन्मे ब्रूहि पितामह॥१॥
भीष्म उवाच। सर्वज्ञां सर्वतत्त्वज्ञां देवलोके मनस्विनीम्
।
कैकेयी सुमना नाम शांडिलीं पर्यपृच्छत ॥२॥
केन वृत्तेन कल्याणि समाचारेण केन वा
।
विधूय सर्वपापानि देवलोकं त्वमागता ॥३॥
हुताशनशिखेव त्वं ज्वलमाना स्वतेजसा
।
सुता ताराधिपस्येव प्रभया दिवमागता ॥४॥
अरजांसि च वस्त्राणि धारयन्ती गतक्लमा
।
विमानस्था शुभा भासि सहस्रगुणमोजसा ॥५॥
न त्वमल्पेन तपसा दानेन नियमेन वा
।
इमं लोकमनुप्राप्ता त्वं हि तत्त्वं वदस्व मे॥६॥
इति पृष्टा सुमनया मधुरं चारुहासिनी
।
शांडिली निभृतं वाक्यं सुमनामिदमब्रवीत्॥७॥
नाहं काषायवसना नापि वल्कलधारिणी
।
न च मुंडा च जटिला भूत्वा देवत्वमागता॥८॥
अहितानि च वाक्यानि सर्वाणि परुषाणि च
।
अप्रमत्ता च भर्तारं कदाचिन्नाहमब्रुवम् ॥९॥
देवतानां पितॄणां च ब्राह्मणानां च पूजने
।
अप्रमत्ता सदा युक्ता श्वश्रूश्वशुरवर्तिनी ॥१०॥
पैशुन्ये न प्रवर्तामि न ममैतन्मनोगतम्
।
अद्वारि न च तिष्ठामि चिरं न कथयामि च॥११॥
असद्वा हसितं किञ्चिदहितं वापि कर्मणा
।
रहस्यमरहस्यं वा न प्रवर्तामि सर्वथा ॥१२॥
कार्यार्थे निर्गतं चापि भर्तारं गृहमागतम्
।
आसनेनोपसंयोज्य पूजयामि समाहिता ॥१३॥
यदन्नं नाभिजानाति यद्भोज्यं नाभिनन्दति
।
भक्ष्यं वा यदि वा लेह्यं तत्सर्वं वर्जयाम्यहम्॥१४॥
कुटुंबार्थे समानीतं यत्किञ्चित्कार्यमेव तु
।
प्रातरुत्थाय तत्सर्वं कारयामि करोमि च॥१५॥
प्रवासं यदि मे याति भर्ता कार्येण केनचित्
।
मङ्गलैर्बहुभिर्युक्ता भवामि नियता तदा ॥१६॥
अञ्जनं रोचनां चैव स्नानं माल्यानुलेपनम्
।
प्रसाधनं च निष्क्रान्ते नाभिनन्दामि भर्तरि॥१७॥
नोत्थापयामि भर्तारं सुखसुप्तमहं सदा
।
आन्तरेष्वपि कार्येषु तेन तुष्यति मे मनः ॥१८॥
नायासयामि भर्तारं कुटुम्बार्थेऽपि सर्वदा
।
गुप्तगुह्या सदा चास्मि सुसंमृष्टनिवेशना ॥१९॥
इमं धर्मपथं नारी पालयन्ती समाहिता
।
अरुन्धतीव नारीणां स्वर्गलोके महीयते ॥२०॥
भीष्म उवाच। एतदाख्याय सा देवी सुमनायै तपस्विनी
।
पतिधर्मं महाभागा जगामादर्शनं तदा ॥२१॥
यश्चेदं पांडवाख्यानं पठेत्पर्वणि पर्वणि
।
स देवलोकं संप्राप्य नन्दने स सुखी वसेत् ॥२२॥
युधिष्ठिर उवाच। साम्नि चापि प्रदाने च ज्यायः किं भवतो मतम्
।
प्रबूहि भरतश्रेष्ठ यदत्र व्यतिरिच्यते॥१॥
भीष्म उवाच। साम्ना प्रसाद्यते कश्चिद्दानेन च तथा परः
।
पुरुषप्रकृतिं ज्ञात्वा तयोरेकतरं भजेत् ॥२॥
गुणांस्तु श्रुणु मे राजन् सान्त्वस्य भरतर्षभ
।
दारुणान्यपि भूतानि सान्त्वेनाराधयेद्यथा ॥३॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
गृहीत्वा रक्षसा मुक्तो द्विजातिः कानने यथा॥४॥
कश्चिद्वाग्बुद्धिसंपन्नो ब्राह्मणो विजने वने
।
गृहीतः कृच्छ्रमापन्नो रक्षसा भक्षयिष्यता ॥५॥
स बुद्धिश्रुतिसंपन्नस्तं दृष्ट्वाऽतीव भीषणम्
।
सामैवास्मिन्प्रयुयुजे न मुमोह न विव्यथे ॥६॥
रक्षस्तु वाचं संपूज्य प्रश्नं पप्रच्छ तं द्विजम्
।
मोक्ष्यसे बूहि मे प्रश्नं केनास्मि हरिणः कृशः॥७॥
मुहूर्तमथ सञ्चिन्त्य ब्राह्मणस्तस्य रक्षसः
।
आभिर्गाथाभिरव्यग्रः प्रश्नं प्रतिजगाद ह ॥८॥
ब्राह्मण उवाच
।
विदेशस्थो विलोकस्थो विना नूनं सुहृज्जनैः
।
विषयानतुलान् भुङ्क्षे तेनासि हरिणः कृशः॥९॥
नूनं मित्राणि ते रक्षः साधूपचरितान्यपि
।
स्वदोषादपरज्यन्ते तेनासि हरिणः कृशः ॥१०॥
धनैश्वर्याधिकाः स्तब्धास्त्वद्गुणैः परमावराः
।
अवजानन्ति नूनं त्वां तेनासि हरिणः कृशः॥११॥
गुणवान्विगुणानन्यान्नूनं पश्यसि सत्कृतान्
।
प्राज्ञोऽप्राज्ञान्विनीतात्मा तेनासि हरिणः कृशः॥१२॥
अवृत्त्या क्लिश्यमानोऽपि वृत्त्युपायान्विगर्हयन्
।
माहात्म्याद्व्यथसे नूनं तेनासि हरिणः कृशः ॥१३॥
संपीड्यात्मानमार्यत्वात्त्वया कश्चिदुपस्कृतः
।
जितं त्वां मन्यते साधो तेनासि हरिणः कृशः॥१४॥
क्लिश्यमानान्विमार्गेषु कामक्रोधावृतात्मनः
।
मन्ये त्वं ध्यायसि जनांस्तेनासि हरिणः कृशः॥१५॥
प्रज्ञासम्भावितो नूनमप्रज्ञैरुपसंहितः
।
हीयमानोऽसि दुर्वृत्तैस्तेनासि हरिणः कृशः ॥१६॥
नूनं मित्रमुखः शत्रुः कश्चिदार्यवदाचरन्
।
वञ्चयित्वा गतस्त्वां वै तेनासि हरिणः कृशः॥१७॥
प्रकाशार्थगतिर्नूनं रहस्यकुशलः कृती
।
तज्ज्ञैर्न पूज्यसे नूनं तेनासि हरिणः कृशः ॥१८॥
असत्स्वपि निविष्टेषु ध्रुवतो मुक्तसंशयम्
।
गुणास्ते न विराजन्ते तेनासि हरिणः कृशः
।
धनबुद्धिश्रुतैर्हीनः केवलं तेजसान्वितः
।
महत्प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥२०॥
तपःप्राणिहितात्मानं मन्ये त्वारण्यकांक्षिणम्
।
बान्धवा नाभिनन्दन्ति तेनासि हरिणः कृशः॥२१॥
इष्टभार्यस्य ते नूनं प्रातिवेश्यो महाधनः
।
युवा सुललितः कामी तेनासि हरिणः कृशः॥२२॥
नूनमर्थवतां मध्ये तव वाक्यमनुत्तमम्
।
न भाति कालेऽभिहितं तेनासि हरिणः कृशः॥२३॥
दृढपूर्वं श्रुतं मूर्खं कुपितं हृदयप्रियम्
।
अनुनेतुं न शक्नोषि तेनासि हरिणः कृशः॥२४॥
नूनमासञ्जयित्वा त्वां कृत्ये कस्मिंश्चिदीप्सिते
।
कश्चिदर्थयते नित्यं तेनासि हरिणः कृशः ॥२५॥
नूनं त्वां सगुणैर्युक्तं पूजयानं सुहृद्धृवम्
।
ममार्थ इति जानीते तेनासि हरिणः कृशः॥२६॥
अन्तर्गतमभिप्रायं नूनं नेच्छसि लज्जया
।
विवेक्तुं प्राप्तिशैथिल्यात्तेनासि हरिणः कृशः ॥२७॥
नानाबुद्धिरुचो लोके मनुष्यान्नूनमिच्छसि
।
ग्रहीतुं स्वगुणैः सर्वांस्तेनासि हरिणः कृशः ॥२८॥
अविद्वान्भीरुरल्पार्थे विद्याविक्रमदानजम्
।
यशः प्रार्थयसे नूनं तेनासि हरिणः कृशः ॥२९॥
चिराभिलषितं किञ्चित्फलमप्राप्तमेव ते
।
कृतमन्यैरपहृतं तेनासि हरिणः कृशः ॥३०॥
नूनमात्मकृतं दोषमपश्यन्किञ्चिदात्मनः
।
अकारणेऽभिशप्तोऽसि तेनाति हरिणः कृशः ॥३१॥
साधून् गृहस्थान् दृष्ट्वा च तथा साधून्वनेचरान्
।
मुक्तांश्चावसथे सक्तांस्तेनासि हरिणः कृशः ॥३२॥
सुहृदां दुःखमार्तानां न प्रमोक्ष्यसि हानिजम्
।
अलमर्थगुणैर्हीनं तेनासि हारणः कृशः ॥३३॥
धर्म्यमर्थ्यं च काम्यं च काले चाभिहितं वचः
।
न प्रतीयन्ति ते नूनं तेनासि हरिणः कृशः॥३४॥
दत्तानकुशलैरर्थान्मनीषी सञ्जिजीविषुः
।
प्राप्य वर्तयसे नूनं तेनासि हरिणः कृशः ॥३५॥
पापान् प्रवर्धतो दृष्ट्वा कल्याणानावसीदतः
।
ध्रुवं गर्हयसे नित्यं तेनासि हरिणः कृशः ॥३६॥
परस्परविरुद्धानां प्रियं नूनं चिकीर्षसि
।
सुहृदामुपरोधेन तेनासि हरिणः कृशः ॥३७॥
श्रोत्रियांश्च विकर्मस्थान् प्राज्ञांश्चाप्यजितेन्द्रियान्
।
मन्येऽनुध्यायसि जनांस्तेनासि हरिणः कृशः ॥३८॥
एवं संपूजितं रक्षो विप्रं तं प्रत्यपूजयत्
।
सखायमकरोच्चैनं संयोज्यार्थैर्मुमोच ह ॥३९॥
युधिष्ठिर उवाच। जन्म मानुष्यकं प्राप्य कर्मक्षेत्रं सुदुर्लभम्
।
श्रेयोर्थिना दरिद्रेण किं कर्तव्यं पितामह ॥१॥
दानानामुत्तमं यच्च देयं यच्च यथा यथा
।
मान्यान्पूज्यांश्च गाङ्गेय रहस्यं वक्तुमर्हसि ॥२॥
वैशम्पायन उवाच। एवं पृष्टो नरेन्द्रेण पाण्डवेन यशस्विना
।
धर्माणां परमं गुह्यं भीष्मः प्रोवाच पार्थिवम् ॥३॥
भीष्म उवाच। शृणुष्वावहितो राजन्धर्मगुह्यानि भारत
।
यथा हि भगवान्व्यासः पुरा कथितवान्मयि॥४॥
देवगुह्यमिदं राजन्यमेनाक्लिष्टकर्मणा
।
नियमस्थेन युक्तेन तपसो महतः फलम् ॥५॥
येन यः प्रीयते देवः प्रीयन्ते पितरस्तथा
।
ऋषयः प्रमथाः श्रीश्च चित्रगुप्तो दिशां गजाः॥६॥
ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः
।
महादानफलं चैव सर्वयज्ञफलं तथा ॥७॥
यश्चैतदेवं जानीयाज्ज्ञात्वा वा कुरुतेऽनघ
।
स दोषो दोषवांश्चेह तैर्गुणैः सह युज्यते ॥८॥
दशसूनासमं चक्रं दशचक्रसमो ध्वजः
।
दशध्वजसमा वेश्या दशवेश्यासमो नृपः॥९॥
अर्धेनैतानि सर्वाणि नृपतिः कथ्यतेऽधिकः
।
त्रिवर्गसहितं शास्रं पवित्रं पुण्यलक्षणम् ॥१०॥
धर्मव्याकरणं पुण्यं रहस्यश्रवणं महत्
।
श्रोतव्यं धर्मसंयुक्तं विहितं त्रिदशैः स्वयम् ॥११॥
पितॄणां यत्र गुह्यानि प्रोच्यन्ते श्राद्धकर्मणि
।
देवतानां च सर्वेषां रहस्यं कथ्यतेऽखिलम्॥१२॥
ऋषिधर्मः स्मृतो यत्र सरहस्यो महाफलः
।
महायज्ञफलं चैव सर्वदानफलं तथा ॥१३॥
ये पठन्ति सदा मर्त्या येषां चैवोपतिष्ठति
।
श्रुत्वा च फलमाचष्टे स्वयं नारायणः प्रभुः ॥१४॥
गवां फलं तीर्थफलं यज्ञानां चैव यत्फलम्
।
एतत्फलमवाप्नोति यो नरोऽतिथिपूजकः ॥१५॥
श्रोतारः श्रद्दधानाश्च येषां शुद्धं च मानसम्
।
तेषां व्यक्तं जिता लोकाः श्रद्दधानेन साधुना ॥१६॥
मुच्यते किल्विषाश्चैव न स पापेन लिप्यते
।
धर्मं च लभते नित्यं प्रेत्य लोकगतो नरः ॥१७॥
कस्यचित्त्वथ कालस्य देवदूतो यदृच्छया
।
स्थितो ह्यन्तर्हितो भूत्वा पर्यभाषत वासवम्॥१८॥
यौ तौ कामगुणोपेतावश्विनौ भिषजां वरौ
।
आज्ञयाऽहं तयोः प्राप्तः सनरान् पितृदैवतान्॥१९॥
कस्माद्धि मैथुनं श्राद्धे दातुर्भोक्तुश्च वर्जितम्
।
किमर्थं च त्रयः पिंडाः प्रविभक्ताः पृथक् पृथक्॥२०॥
प्रथमः कस्य दातव्यो मध्यमः क्व च गच्छति
।
उत्तरश्च स्मृतः कस्य एतदिच्छामि वेदितुम्॥२१॥
श्रद्दधानेन दूतेन भाषितं धर्मसंहितम्
।
पूर्वस्थास्त्रिदशाः सर्वे पितरः पूज्य खेचरम्॥२२॥
पितर ऊचुः
।
स्वागतं तेऽस्तु भद्रं ते श्रूयतां खेचरोत्तम
।
गूढार्थः परमः प्रश्नो भवता समुदीरितः ॥२३॥
श्राद्धं दत्त्वा च भुक्त्वा च पुरुषो यः स्त्रियं व्रजेत्
।
पितरस्तस्य तं मासं तस्मिन् रेतसि शेरते॥२४॥
प्रविभागं तु पिंडानां प्रवक्ष्याम्यनुपूर्वशः
।
पिंडो ह्यधस्ताद्गच्छंस्तु अप आविश्य भावयेत्॥२५॥
पिण्डं तु मध्यमं तत्र पत्नी त्वेका समश्नुते
।
पिण्डस्तृतीयो यस्तेषां तं दद्याज्जातवेदसि ॥२६॥
एष श्राद्धविधिः प्रोक्तो यथा धर्मो न लुप्यते
।
पितरस्तस्य तुष्यन्ति प्रहृष्टमनसः सदा ॥२७॥
प्रजा विवर्धते चास्य अक्षयं चोपतिष्ठति
।
देवदूत उवाच
।
आनुपूर्व्येण पिंडानां प्रविभागः पृथक् पृथक्॥२८॥
पितॄणां त्रिषु सर्वेषां निरुक्तं कथितं त्वया
।
एकः समुद्धृतः पिंडो ह्यधस्तात्कस्य गच्छति ॥२९॥
कं वा प्रीणयते देवं कथं तारयते पितॄन्
।
मध्यमं तु तदा पत्नी भुंक्तेऽनुज्ञातमेव हि ॥३०॥
किमर्थं पितरस्तस्य कव्यमेव च भुञ्जते
।
अत्र यस्त्वन्तिमः पिण्डो गच्छते जातवेदसम्॥३१॥
भवते का गतिस्तस्य कं वा समनुगच्छति
।
एतदिच्छाम्यहं श्रोतुं पिण्डेषु त्रिषु या गतिः॥३२॥
फलं वृत्तिं च मार्गं च यश्चैनं प्रतिपद्यते
।
पितर ऊचुः
।
सुमहानेष प्रश्नो वै यस्त्वया समुदीरितः ॥३३॥
रहस्यमद्भुतं चापि पृष्टाः स्म गगनेचर
।
एतदेव प्रशंसन्ति देवाश्च मुनयस्तथा ॥३४॥
तेऽप्येवं नाभिजानन्ति पितृकार्यविनिश्चयम्
।
वर्जयित्वा महात्मानं चिरजीविनमुत्तमम् ॥३५॥
पितृभक्तस्तु यो विप्रो वरलब्धो महायशाः
।
त्रयाणामपि पिण्डानां श्रुत्वा भगवतो गतिम् ॥३६॥
देवदूतेन यः पृष्टः श्राद्धस्य विधिनिश्चयः
।
गतिं त्रयाणां पिण्डानां शृणुष्वावहितो मम॥३७॥
अपो गच्छति यो ह्यत्र शशिनं ह्येष प्रीणयेत्
।
शशी प्रीणयते देवान् पितॄंश्चैव महामते ॥३८॥
भुंक्ते तु पत्नी यं चैषामनुज्ञाता तु मध्यमम्
।
पुत्रकामाय पुत्रं तु प्रयच्छन्ति पितामहाः ॥३९॥
हव्यवाहे तु यः पिण्डो दीयते तन्निबोध मे
।
पितरस्तेन तृप्यन्ति प्रीताः कामान् दिशंति च॥४०॥
एतत्ते कथितं सर्वं त्रिषु पिण्डेषु या गतिः
।
ऋत्विग्भ्यो यजमानस्य पितृत्वमनुगच्छति ॥४१॥
तस्मिन्नहनि मन्यन्ते परिहार्यं हि मैथुनम्
।
शुचिना तु सदा श्राद्धं भोक्तव्यं खेचरोत्तम॥४२॥
ये मया कथिता दोषास्ते तथा स्युर्न चान्यथा
।
तस्मात्स्नातः शुचिः क्षान्तः श्राद्धं भुञ्जीत वै द्विजः ॥४३॥
प्रजा विवर्धते चास्य यश्चैवं संप्रयच्छति
।
ततो विद्युत्प्रभो नाम ऋषिराह महातपाः ॥४४॥
आदित्यतेजसा तस्य तुल्यं रूपं प्रकाशते
।
स च धर्मरहस्यानि श्रुत्वा शक्रमथाब्रवीत् ॥४५॥
तिर्यग्योनिगतान् सत्त्वान् मर्त्या हिंसन्ति मोहिताः
।
कीटान् पिपीलिकान् सर्पान् मेषान् समृगपक्षिणः ॥४६॥
किल्विषं सुबहु प्राप्ताः किंस्विदेषां प्रतिक्रिया
।
ततो देवगणाः सर्वे ऋषयश्च तपोधनाः ॥४७॥
पितरश्च महाभागाः पूजयन्ति स्म तं मुनिम्
।
शक्र उवाच। कुरुक्षेत्रं गयां गङ्गां प्रभासं पुष्कराणि च॥४८॥
एतानि मनसा ध्यात्वा अवगाहेत्ततो जलम्
।
तथा मुच्यति पापेन राहुणा चन्द्रमा यथा ॥४९॥
त्र्यहं स्नातः स भवति निराहारश्च वर्तते
।
स्पृशते यो गवां पृष्ठं वालधिं च नमस्यति ॥५०॥
ततो विद्युत्प्रभो वाक्यमभ्यभाषत वासवम्
।
अयं सूक्ष्मतरो धर्मस्तं निबोध शतक्रतो ॥५१॥
घृष्टो वटकषायेण अनुलिप्तः प्रियंगुणा
।
क्षीरेण षष्टिकान् भुक्त्वा सर्वपापैः प्रमुच्यते॥५२॥
श्रूयतां चापरं गुह्यं रहस्यमृषिचिन्तितम्
।
श्रुतं मे भाषमाणस्य स्थाणोः स्थाने बृहस्पतेः ॥५३॥
रुद्रेण सह देवेश तन्निबोध शचीपते
।
पर्वतारोहणं कृत्वा एकपादो विभावसुम्॥५४॥
निरीक्षेत निराहार ऊर्ध्वबाहुः कृताञ्जलिः
।
तपसा महता युक्त उपवासफलं लभेत् ॥५५॥
रश्मिभिस्तापितोऽर्कस्य सर्वपापमपोहति
।
ग्रीष्मकालेऽथ वा शीते एवं पापमपोहति ॥५६॥
ततः पापात्प्रमुक्तस्य द्युतिर्भवति शाश्वती
।
तेजसा सूर्यवद्दीप्तो भ्राजते सोमवत्पुनः ॥५७॥
मध्ये त्रिदशवर्गस्य देवराजः शतक्रतुः
।
उवाच मधुरं वाक्यं बृहस्पतिमनुत्तमम् ॥५८॥
धर्मगुह्यं तु भगवन्मानुषाणां सुखावहम्
।
सरहस्याश्च ये दोषास्तान् यथावदुदीरय ॥५९॥
बृहस्पतिरुवाच
।
प्रतिमेहन्ति ये सूर्यमनिलं द्विषते च ये
।
हव्यवाहे प्रदीप्ते च समिधं ये न जुह्वति ॥६०॥
बालवत्सां च ये धेनुं दुहन्ति क्षीरकारणात्
।
तेषां दोषान्प्रवक्ष्यामि तान्निबोध शचीपते ॥६१॥
भानुमाननिलश्चैव हव्यवाहश्च वासव
।
लोकानां मातरश्चैव गावः सृष्टाः स्वयंभुवा ॥६२॥
लोकांस्तारयितुं शक्ता मर्त्येष्वेतेषु देवताः
।
सर्वे भवन्तः शृण्वन्तु एकैकं धर्मनिश्चयम्॥६३॥
वर्षाणि षडशीतिं तु दुर्वृत्ताः कुलपांसनाः
।
स्त्रियः सर्वाश्च दुर्वृत्ताः प्रतिमेहन्ति या रविम् ॥६४॥
अनिलद्वेषिणः शक्र गर्भस्था च्यवते प्रजा
।
हव्यवाहस्य दीप्तस्य समिधं ये न जुह्वति॥६५॥
अग्निकार्येषु वै तेषां हव्यं नाश्नाति पावकः
।
क्षीरं तु बालवत्सानां ये पिबन्तीह मानवाः ॥६६॥
न तेषां क्षीरपाः केचिज्जायन्ते कुलवर्धनाः
।
प्रजाक्षयेण युज्यन्ते कुलवंशक्षयेण च ॥६७॥
एवमेतत्पुरा दृष्टं कुलवृद्धैर्द्विजातिभिः
।
तस्माद्वर्ज्यानि वर्ज्यानि कार्यं कार्यं च नित्यशः॥६८॥
भूतिकामेन मर्त्येन सत्यमेतद्ब्रवीमि ते
।
ततः सर्वा महाभाग देवताः समरुद्गणाः ॥६९॥
ऋषयश्च महाभागाः पृच्छन्ति स्म पितॄंस्ततः
।
पितरः केन तुष्यन्ति मर्त्यानामल्पचेतसाम् ॥७०॥
अक्षयं च कथं दानं भवेच्चैवोर्ध्वदेहिकम्
।
आनृण्यं वा कथं मर्त्या गच्छेयुः केन कर्मणा ॥७१॥
एतदिच्छामहे श्रोतुं परं कौतूहलं हि नः
।
पितर ऊचुः
।
न्यायतो वै महाभागाः संशयः समुदाहृतः॥७२॥
श्रूयतां येन तुष्यामो मर्त्यानां साधुकर्मणाम्
।
नीलषण्डप्रमोक्षेण अमावास्यां तिलोदकैः॥७३॥
वर्षासु दीपकैश्चैव पितॄणामनृणो भवेत्
।
अक्षयं निर्व्यलीकं च दानमेतन्महाफलम् ॥७४॥
अस्माकं परितोषश्च अक्षयः परिकीर्त्यते
।
श्रद्दधानाश्च ये मर्त्या आहरिष्यन्ति सन्ततिम्
।
दुर्गात्ते तारयिष्यन्ति नरकात्प्रपितामहान्
।
पितॄणां भाषितं श्रुत्वा हृष्टरोमा तपोधनः ॥७६॥
वृद्धगार्ग्यो महातेजास्तानेवं वाक्यमब्रवीत्
।
के गुणा नीलषण्डस्य प्रमुक्तस्य तपोधनाः ॥७७॥
वर्षासु दीपदानेन तथैव च तिलोदकैः
।
पितर ऊचुः
।
नीलषण्डस्य लाङ्गूलं तोयमभ्युद्धरेद्यदि॥७८॥
षष्टिं वर्षसहस्त्राणि पितरस्तेन तर्पिताः
।
यस्तु शृङ्गगतं पङ्कं कूलादुद्धृत्य तिष्ठति ॥७९॥
पितरस्तेन गच्छन्ति सोमलोकमसंशयम्
।
वर्षासु दीपदानेन शशीवच्छोभते नरः ॥८०॥
तमोरूपं न तस्यास्ति दीपकं यः प्रयच्छति
।
अमावास्यां तु ये मर्त्याः प्रयच्छन्ति तिलोदकम्॥८१॥
पात्रमौदुम्बरं गृह्य मधुमिश्रं तपोधन
।
कृतं भवति तैः श्राद्धं सरहस्यं यथार्थवत् ॥८२॥
हृष्टपुष्टमनास्तेषां प्रजा भवति नित्यदा
।
कुलवंशस्य वृद्धिस्तु पिण्डदस्य फलं भवेत्॥८३॥
श्रद्दधानस्तु यः कुर्यात्पितॄणामनृणो भवेत्
।
एवमेष समुद्दिष्टः श्राद्धकालक्रमस्तथा
।
विधिः पात्रं फलं चैव यथावदनुकीर्तितम्॥८४॥
भीष्म उवाच। केन ते च भवेत्प्रीतिः कथं तुष्टिं तु गच्छसि
।
इति पृष्टः सुरेन्द्रेण प्रोवाच हरिरीश्वरः॥१॥
विष्णुरुवाच
।
ब्राह्मणानां परीवादो मम विद्वेषणं महत्
।
ब्राह्मणैः पूजितैर्नित्यं पूजितोऽहं न संशयः ॥२॥
नित्याभिवाद्या विप्रेन्द्रा भुक्त्वा पादौ तथात्मनः
।
तेषां तुष्यामि मर्त्यानां यश्चक्रे च बलिं हरेत्
।
वामनं ब्राह्मणं दृष्ट्वा वराहं च जलोत्थितम्
।
उद्धृतां धरणीं चैव मूर्ध्ना धारयते तु यः॥४॥
न तेषामशुभं किञ्चित्कल्मषं चोपपद्यते
।
अश्वत्थं रोचनां गां च पूजयेद्यो नरः सदा ॥५॥
पूजितं च जगत्तेन सदेवासुरमानुषम्
।
तेन रूपेण तेषां च पूजां गृह्णामि तत्त्वतः ॥६॥
पूजा ममैषा नास्त्यन्या यावल्लोकाः प्रतिष्ठिताः
।
अन्यथा हि वृथा मर्त्याः पूजयन्त्यल्पबुद्धयः
।
नाहं तत्प्रतिगृह्णामि न सा तुष्टिकरी मम ॥८॥
इन्द्र उवाच। चक्रं पादौ वराहं च ब्राह्मणं चापि वामनम्
।
उद्धृतां धरणीं चैव किमर्थं त्वं प्रशंससि ॥९॥
भवान्सृजति भूतानि भवान्संहरति प्रजाः
।
प्रकृतिः सर्वभूतानां समर्त्यानां सनातनी ॥१०॥
भीष्म उवाच। संप्रहस्य ततो विष्णुरिदं वचनमब्रवीत्
।
चक्रेण निहता दैत्याः पद्भ्यां क्रान्ता वसुंधरा॥११॥
वाराहं रूपमास्थाय हिरण्याक्षो निपातितः
।
वामनं रूपमास्थाय जितो राजा मया बलिः॥१२॥
परितुष्टो भवाम्येवं मानुषाणां महात्मनाम्
।
तन्मां ये पूजयिष्यन्ति नास्ति तेषां पराभवः॥१३॥
अपि वा ब्राह्मणं दृष्ट्वा ब्रह्मचारिणमागतम्
।
ब्राह्मणाग्र्याहुतिं दत्वा अमृतं तस्य भोजनम्॥१४॥
ऐन्द्रीं सन्ध्यामुपासित्वा आदित्याभिमुखः स्थितः
।
सर्वतीर्थेषु स स्नातो मुच्यते सर्वकिल्बिषैः ॥१५॥
एतद्वः कथितं गुह्यमखिलेन तपोधनाः
।
संशयं पृच्छमानानां किं भूयः कथयाम्यहम्॥१६॥
बलदेव उवाच
।
श्रूयतां परमं गुह्यं मानुषाणां सुखावहम्
।
अजानन्तो यदबुधाः क्लिश्यन्ते भूतपीडिताः॥१७॥
कल्य उत्थाय यो मर्त्यः स्पृशेद्गां वै घृतं दधि
।
सर्षपं च प्रियंगुं च कल्मषात् प्रतिमुच्यते ॥१८॥
भूतानि चैव सर्वाणि अग्रतः पृष्ठतोऽपि वा
।
उच्छिष्टं वाऽपि च्छिद्रेषु वर्जयन्ति तपोधनाः ॥१९॥
देवा ऊचुः
।
प्रगृह्यौदुंबरं पात्रं तोयपूर्ण उदङ्मुखः
।
उपवासं तु गृह्णीयाद्यद्वा संकल्पयेद्व्रतम् ॥२०॥
देवतास्तस्य तुष्यन्ति कामिकं चापि सिध्यति
।
अन्यथा हि वृथा मर्त्याः कुर्वते स्वल्पबुद्धयः॥२१॥
उपवासे बलौ चापि ताम्रपात्रं विशिष्यते
।
बलिर्भिक्षा तथाऽर्घ्यं च पितॄणां च तिलोदकम्॥२२॥
ताम्रपात्रेण दातव्यमन्यथाऽल्पफलं भवेत्
।
गुह्यमेतत्समुद्दिष्टं यथा तुष्यन्ति देवताः ॥२३॥
धर्म उवाच
।
राजपौरुषिके विप्रे घाण्टिके परिचारिके
।
गोरक्षके वाणिजके तथा कारुकुशीलवे॥२४॥
मित्रद्रुह्यनधीयाने यश्च स्याद्वृषलीपतिः
।
एतेषु दैवं पित्र्यं वा न देयं स्यात्कथञ्चन ॥२५॥
पिण्डदास्तस्य हीयन्ते न च प्रीणाति वै पितॄन्
।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥२६॥
पितरस्तस्य देवाश्च अग्नयश्च तथैव हि
।
निराशाः प्रतिगच्छन्ति अतिथेरप्रतिग्रहात् ॥२७॥
स्त्रीघ्नौर्गोघ्नैः कृतघ्नैश्च ब्रह्मघ्नैर्गुरुतल्पगैः
।
तुल्यदोषो भवत्येभिर्यस्यातिथिरनर्चितः॥२८॥
अग्निरुवाच
।
पादमुद्यम्य यो मर्त्यः स्पृशेद्गाश्च सुदुर्मतिः
।
ब्राह्मणं वा महाभागं दीप्यमानं तथाऽनलम्॥२९॥
तस्य दोषान्प्रवक्ष्यामि तच्छृणुध्वं समाहिताः
।
दिवं स्पृशत्यशब्दोऽस्य त्रस्यन्ति पितरश्च वै॥३०॥
वैमनस्यं च देवानां कृतं भवति पुष्कलम्
।
पावकश्च महातेजा हव्यं न प्रतिगृह्णति ॥३२॥
आजन्मनां शतं चैव नरके पच्यते तु सः
।
निष्कृतिं च न तस्यापि अनुमन्यन्ति कर्हिचित्॥३२॥
तस्माद्गावो न पादेन स्प्रष्टव्या वै कदाचन
।
ब्राह्मणश्च महातेजा दीप्यमानस्तथाऽनलः ॥३३॥
श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छता
।
एते दोषा मया प्रोक्तास्त्रिषु यः पादमुत्सृजेत्॥३४॥
विश्वामित्र उवाच
।
श्रूयतां परमं गुह्यं रहस्यं धर्मसंहितम्
।
परमान्नेन यो दद्यात्पितृणामौपहारिकम् ॥३५॥
गजच्छायायां पूर्वस्यां कुतपे दक्षिणामुखः
।
यदा भाद्रपदे मासि भवते बहुले मघा ॥३६॥
श्रूयतां तस्य दानस्य यादृशो गुणविस्तरः
।
कृतं तेन महच्छ्राद्धं वर्षाणीह त्रयोदश॥३७॥
गाव ऊचुः
।
बहुले समंगे ह्यकुतोभये च क्षेमे च संख्येव हि भूयसी च
।
यथा पुरा ब्रह्मपुरे सवत्सा शतक्रतोर्वज्रधरस्य यज्ञे॥३८॥
भूयश्च या विष्णुपदे स्थिता या विभावसोश्चापि पथे स्थिता या
।
देवाश्च सर्वे सह नारदेन प्रकुर्वते सर्वसहेति नाम ॥३९॥
मंत्रेणैतेनाभिवन्देत यो वै विमुच्यते पापकृतेन कर्मणा
।
लोकानवाप्नोति पुरंदरस्य गवां फलं चन्द्रमसो द्युतिं च ॥४०॥
एतं हि मन्त्रं त्रिदशाभिजुष्टं पठेत यः पर्वसु गोष्ठमध्ये
।
न तस्य पापं न भयं न शोकः सहस्रनेत्रस्य च याति लोकम् ॥४१॥
भीष्म उवाच। अथ सप्त महाभागा ऋषयो लोकविश्रुताः
।
वसिष्ठप्रमुखाः सर्वे ब्रह्माणं पद्मसंभवम् ॥४२॥
प्रदक्षिणमभिक्रम्य सर्वे प्राञ्जलयः स्थिताः
।
उवाच वचनं तेषां वसिष्ठो ब्रह्मवित्तमः ॥४३॥
सर्वप्राणिहितं प्रश्नं ब्रह्मक्षत्रे विशेषतः
।
द्रव्यहीनाः कथं मर्त्या दरिद्राः साधुवर्तिनः॥४४॥
प्राप्नुवन्तीह यज्ञस्य फलं केन च कर्मणा
।
एतच्छ्रुत्वा वचस्तेषां ब्रह्मा वचनमब्रवीत्॥४५॥
ब्रह्मोवाच
।
अहो प्रश्नो महाभागा गूढार्थः परमः शुभः
।
सूक्ष्मः श्रेयांश्च मर्त्यानां भवद्भिः समुदाहृतः ॥४६॥
श्रूयतां सर्वमाख्यास्ये निखिलेन तपोधनाः
।
यथा यज्ञफलं मर्त्यो लभते नात्र संशयः ॥४७॥
पौषमासस्य शुक्ले वै यदा युज्येत रोहिणी
।
तेन नक्षत्रयोगेन आकाशशयनो भवेत् ॥४८॥
एकवस्त्रः शुचिः स्नातः श्रद्दधानः समाहितः
।
सोमस्य रश्मयः पीत्वा महायज्ञफलं लभेत्॥४९॥
एतद्वः परमं गुह्यं कथितं द्विजसत्तमाः
।
यन्मां भवन्तः पृच्छन्ति सूक्ष्मतत्त्वार्थदर्शिनः॥५०॥
विभावसुरुवाच
।
सलिलस्याञ्जलिं पूर्णमक्षताश्च घृतोत्तराः
।
सोमस्योत्तिष्ठमानस्य तज्जलं चाक्षतांश्च तान्॥१॥
स्थितो ह्यभिमुखो मर्त्यः पौर्णमास्यां बलिं हरेत्
।
अग्निकार्यं कृतं तेन हुताश्चास्याग्नयस्त्रयः॥२॥
वनस्पतिं च यो हन्यादमावास्यामबुद्धिमान्
।
अपि ह्येकेन पत्रेण लिप्यते ब्रह्महत्यया ॥३॥
दन्तकाष्ठं तु यः खादेदमावास्यामबुद्धिमान्
।
हिंसितश्चन्द्रमास्तेन पितरश्चोद्विजन्ति च ॥४॥
हव्यं न तस्य देवाश्च प्रतिगृह्णन्ति पर्वसु
।
कुप्यन्ते पितरश्चास्य कुले वंशोऽस्य हीयते॥५॥
श्रीरुवाच
।
प्रकीर्णं भाजनं यत्र भिन्नभाण्डमथासनम्
।
योषितश्चैव हन्यन्ते कश्मलोपहते गृहे ॥६॥
देवताः पितरश्चैव उत्सवे पर्वणीषु वा
।
निराशाः प्रतिगच्छन्ति कश्मलोपहताद्गृहात् ॥७॥
अङ्गिरा उवाच
।
यस्तु संवत्सरं पूर्णं दद्याद्दीपं करञ्जके
।
सुवर्चलामूलहस्तः प्रजा तस्य विवर्धते ॥८॥
गार्ग्य उवाच
।
आतिथ्यं सततं कुर्याद्दीपं दद्यात्प्रतिश्रये
।
वर्जयानो दिवा स्वापं न च मांसानि भक्षयेत्॥९॥
गोब्राह्मणं न हिंस्याच्च पुष्कराणि च कीर्तयेत्
।
एष श्रेष्ठतमो धर्मः सरहस्यो महाफलः ॥१०॥
अपि क्रतुशतैरिष्ट्वा क्षयं गच्छति तद्धविः
।
न तु क्षीयन्ति ते धर्माः श्रद्दधानैः प्रयोजिताः
।
११॥
इदं च परमं गुह्यं सरहस्यं निबोधत
।
श्राद्धकल्पे च दैवे च तैर्थिके पर्वणीषु च ॥१२॥
रजस्वला च या नारी श्वित्रिकाऽपुत्रिका च या
।
एताभिश्चक्षुषा दृष्टं हविर्नाश्नन्ति देवताः ॥१३॥
पितरश्च न तुष्यन्ति वर्षाण्यपि त्रयोदश
।
शुक्लवासाः शुचिर्भूत्वा ब्राह्मणान् स्वस्ति वाचयेत्
।
कीर्तयेद्भारतं चैव तथा स्यादक्षयं हविः ॥१४॥
धौम्य उवाच
।
भिन्नभाण्डं च खट्वां च कुकुटं शुनकं तथा
।
अप्रशस्तानि सर्वाणि यश्च वृक्षो गृहेरुहः ॥१५॥
भिन्नभाण्डे कलिं प्राहुः खट्वायां तु धनक्षयः
।
कुक्कुटे शुनके चैव हविर्नाश्नन्ति देवताः
।
वृक्षमूले ध्रुवं सत्त्वं तस्माद्वृक्षं न रोपयेत् ॥१६॥
जमदग्निरुवाच
।
यो यजेदश्वमेधेन वाजपेयशतेन ह
।
अवाक्शिरा वा लम्बेत सत्रं वा स्फीतमाहरेत्॥१७॥
न यस्य हृदयं शुद्धं नरकं स ध्रुवं व्रजेत्
।
तुल्यं यज्ञश्च सत्यं च हृदयस्य च शुद्धता ॥१८॥
शुद्धेन मनसा दत्त्वा सक्तुप्रस्थं द्विजातये
।
ब्रह्मलोकमनुप्राप्तः पर्याप्तं तन्निदर्शनम् ॥१९॥
वायुरुवाच
।
किञ्चिद्धर्मं प्रवक्ष्यामि मानुषाणां सुखावहम्
।
सरहस्याश्च ये दोषास्तान् शृणुध्वं समाहिताः॥१॥
अग्निकार्यं च कर्तव्यं परमान्नेन भोजनम्
।
दीपकश्चापि कर्तव्यः पितॄणां सतिलोदकः॥२॥
एतेन विधिना मर्त्यः श्रद्दधानः समाहितः
।
चतुरो वार्षिकान् मासान् यो ददाति तिलोदकम् ॥३॥
भोजनं च यथाशक्त्या ब्राह्मणे वेदपारगे
।
पशुबन्धशतस्येह फलं प्राप्नोति पुष्कलम्॥४॥
इदं चैवापरं गुह्यमप्रशस्तं निबोधत
।
अग्नेस्तु वृषलो नेता हविर्मूढाश्च योषितः ॥५॥
मन्यते धर्म एवेति स चाधर्मेण लिप्यते
।
अग्नयस्तस्य कुप्यन्ति शूद्रयोनिं स गच्छति॥६॥
पितरश्च न तुष्यन्ति सह देवैर्विशेषतः
।
प्रायश्चित्तं तु यत्तत्र ब्रुवतस्तन्निबोध मे ॥७॥
यत्कृत्वा तु नरः सम्यक् सुखी भवति विज्वरः
।
गवां मूत्रपुरीषेण पयसा च घृतेन च ॥८॥
अग्निकार्यं त्र्यहं कुर्यान्निराहारः समाहितः
।
ततः संवत्सरे पूर्णे प्रतिगृह्णन्ति देवताः ॥९॥
हृष्यन्ति पितरश्चास्य श्राद्धकाल उपस्थिते
।
एष ह्यधर्मो धर्मश्च सरहस्यः प्रकीर्ततः ॥१०॥
मर्त्यानां स्वर्गकामानां प्रेत्य स्वर्गसुखावहः ॥११॥
लोमश उवाच
।
परदारेषु ये सक्ता अकृत्वा दारसंग्रहम्
।
निराशाः पितरस्तेषां श्राद्धकाले भवन्ति वै ॥१॥
परदाररतिर्यश्च यश्च वन्ध्यामुपासते
।
ब्रह्मस्वं हरते यश्च समदोषा भवन्ति ते ॥२॥
असंभाष्या भवन्त्येते पितॄणां नात्र संशयः
।
देवताः पितरश्चैषां नाभिनन्दन्ति तद्धविः॥३॥
तस्मात्परस्य वै दारांस्त्यजेद्वन्ध्यां च योषितम्
।
ब्रह्मस्वं हि न हर्तव्यमात्मनो हितमिच्छता॥४॥
श्रूयतां चापरं गुह्यं रहस्यं धर्मसंहितम्
।
श्रद्दधानेन कर्तव्यं गुरूणां वचनं सदा ॥५॥
द्वादश्यां पौर्णमास्यां च मासि मासि घृताक्षतम्
।
ब्राह्मणेभ्यः प्रयच्छेत तस्य पुण्यं निबोधत ॥६॥
सोमश्च वर्धते तेन समुद्रश्च महोदधिः
।
अश्वमेधचतुर्भागं फलं सृजति वासवः ॥७॥
दानेनैतेन तेजस्वी वीर्यवांश्च भवेन्नरः
।
प्रीतश्च भगवान् सोम इष्टान् कामान् प्रयच्छति॥८॥
श्रूयतां चापरो धर्मः सरहस्यो महाफलः
।
इदं कलियुगं प्राप्य मनुष्याणां सुखावहः ॥९॥
कल्यमुत्थाय यो मर्त्यः स्नातः शुक्लेन वाससा
।
तिलपात्रं प्रयच्छेत ब्राह्मणेभ्यः समाहितः ॥१०॥
तिलोदकं च यो दद्यात्पितॄणां मधुना सह
।
दीपकं कृसरं चैव श्रूयतां तस्य यत्फलम् ॥११॥
तिलपात्रे फलं प्राह भगवान् पाकशासनः
।
गोप्रदानं च यः कुर्याद्भूमिदानं च शाश्वतम्॥१२॥
अग्निष्टोमं च यो यज्ञं यजेत बहुदक्षिणम्
।
तिलपात्रं सहैतेन समं मन्यन्ति देवताः ॥१३॥
तिलोदकं सदा श्राद्धे मन्यन्ते पितरोऽक्षयम्
।
दीपे च कृसरे चैव तुष्यन्तेऽस्य पितामहाः ॥१४॥
स्वर्गे च पितृलोके च पितृदेवाभिपूजितम्
।
एवमेतन्मयोद्दिष्टमृषिदृष्टं पुरातनम् ॥१५॥
भीष्म उवाच। ततस्त्वृषिगणाः सर्वे पितरश्च सदेवताः
।
अरुन्धतीं तपोवृद्धामपृच्छन्त समाहिताः ॥१॥
समानशीलां वीर्येण वसिष्ठस्य महात्मनः
।
त्वत्तो धर्मरहस्यानि श्रोतुमिच्छामहे वयम्
।
यत्ते गुह्यतमं भद्रे तत्प्रभाषितुमर्हसि ॥२॥
अरुन्धत्युवाच
।
तपोवृद्धिर्मया प्राप्ता भवतां स्मरणेन वै
।
भवतां च प्रसादेन धर्मान्वक्ष्यामि शाश्वतान्॥३॥
सगुह्यान्सरहस्यांश्च तान् शृणुध्वमशेषतः
।
श्रद्दधाने प्रयोक्तव्या यस्य शुद्धं तथा मनः ॥४॥
अश्रद्दधानो मानी च ब्रह्महा गुरुतल्पगः
।
असंभाष्या हि चत्वारो नैषां धर्मं प्रकाशयेत्॥५॥
अहन्यहनि यो दद्यात्कपिलां द्वादशीः समाः
।
मासि मासि च सत्रेण यो यजेत सदा नरः॥६॥
गवां शतसहस्रं च यो दद्याज्ज्येष्ठपुष्करे
।
न तद्धर्मफलं तुल्यमतिथिर्यस्य तुष्यति ॥७॥
श्रूयतां चापरो धर्मो मनुष्याणां सुखावहः
।
श्रद्दधानेन कर्तव्यः सहरस्यो महाफलः ॥८॥
कल्यमुत्थाय गोमध्ये गृह्य दर्भान्सहोदकान्
।
निषिञ्चेत गवां शृङ्गे मस्तकेन च तज्जलम्॥९॥
प्रतीच्छेत निराहारस्तस्य धर्मफलं शृणु
।
श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु कानिचित्॥१०॥
सिद्धचारणजुष्टानि सेवितानि महर्षिभिः
।
अभिषेकः समस्तेषां गवां शृङ्गोदकस्य च ॥११॥
साधु साध्विति चोद्दिष्टं दैवतैः पितृभिस्तथा
।
भूतैश्चैव सुसंहृष्टैः पूजिता साऽप्यरुन्धती ॥१२॥
पितामह उवाच
।
अहो धर्मो महाभागे सरहस्य उदाहृतः
।
वरं ददामि ते धन्ये तपस्ते वर्धतां सदा ॥१३॥
यम उवाच
।
रमणीया कथा दिव्या युष्मत्तो या मया श्रुता
।
श्रूयतां चित्रगुप्तस्य भाषितं मम च प्रियम् ॥१४॥
रहस्यं धर्मसंयुक्तं शक्यं श्रोतुं महर्षिभिः
।
श्रद्दधानेन मर्त्येन आत्मनो हितमिच्छता ॥१५॥
न हि पुण्यं तथा पापं कृतं किञ्चिद्विनश्यति
।
पर्वकाले च यत्किञ्चिदादित्यं चाधितिष्ठति ॥१६॥
प्रेतलोकं गते मर्त्ये तत्तत्सर्वं विभावसुः
।
प्रतिजानाति पुण्यात्मा तच्च तत्रोपयुज्यते ॥१७॥
किञ्चिद्धर्मं प्रवक्ष्यामि चित्रगुप्तमतं शुभम्
।
पानीयं चैव दीपं च दातव्यं सततं तथा ॥१८॥
उपानहौ च च्छत्रं च कपिला च यथातथम्
।
अग्निहोत्रं च यत्नेन सर्वशः प्रतिपालयेत्
।
अयं चैवापरो धर्मश्चित्रगुप्तेन भाषितः ॥२०॥
फलमस्य पृथक्त्वेन श्रोतुमर्हन्ति सत्तमाः
।
प्रलयं सर्वभूतैस्तु गन्तव्यं कालपर्ययात् ॥२१॥
तत्र दुर्गमनुप्राप्ताः श्रुत्तृष्णापरिपीडिताः
।
दह्यमाना विपच्यन्ते न तत्रास्ति पलायनम् ॥२२॥
अन्धकारं तमो घोरं प्रविशन्त्यल्पबुद्धयः
।
तत्र धर्मं प्रवक्ष्यामि येन दुर्गाणि सन्तरेत्॥२३॥
अल्पव्ययं महार्थं च प्रेत्य चैव सुखोदयम्
।
पानीयस्य गुणा दिव्याः प्रेतलोके विशेषतः ॥२४॥
तत्र पुण्योदका नाम नदी तेषां विधीयते
।
अक्षयं सलिलं तत्र शीतलं ह्यमृतोपमम् ॥२५॥
स तत्र तोयं पिबति पानीयं यः प्रयच्छति
।
प्रदीपस्य प्रदानेन श्रूयतां गुणविस्तरः ॥२६॥
तमोन्धकारं नियतं दीपदो न प्रपश्यति
।
प्रभां चास्य प्रयच्छन्ति सोमभास्करपावकाः॥२७॥
देवताश्चानुमन्यन्ते विमलाः सर्वतो दिशः
।
द्योतते च यथाऽऽदित्यः प्रेतलोकगतो नरः ॥२८॥
तस्माद्दीपः प्रदातव्यः पानीयं च विशेषतः
।
कपिलां ये प्रयच्छन्ति ब्राह्मणे वेदपारगे॥२९॥
पुष्करे च विशेषेण श्रूयतां तस्य यत्फलम्
।
गोशतं सवृषं तेन दत्तं भवति शाश्वतम् ॥३०॥
पापं कर्म च यत्किञ्चिद्ब्रह्महत्यासमं भवेत्
।
शोधयेत्कपिला ह्येका प्रदत्तं गोशतं यथा ॥३१॥
तस्मात्तु कपिला देया कौमुद्यां ज्येष्ठपुष्करे
।
न तेषां विषमं किञ्चिन्न दुःखं न च कण्टकाः॥३२॥
उपानहौ च यो दद्यात्पात्रभूते द्विजोत्तमे
।
छत्रदाने सुखां छायां लभते परलोकगः ॥३३॥
न हि दत्तस्य दानस्य नाशोऽस्तीह कदाचन
।
चित्रगुप्तमतं श्रुत्वा हृष्टरोमा विभावसुः ॥३४
।
।
उवाच देवताः सर्वाः पितॄंश्चैव महाद्युतिः
।
श्रुतं हि चित्रगुप्तस्य धर्मगुह्यं महात्मनः ॥३५॥
श्रद्दधानाश्च ये मर्त्या ब्राह्मणेषु महात्मसु
।
दानमेतत्प्रयच्छन्ति न तेषां विद्यते भयम् ॥३६॥
धर्मदोषास्त्विमे पञ्च येषां नास्तीह निष्कृतिः
।
असंभाष्या अनाचारा वर्जनीया नराधमाः ॥३७॥
ब्रह्महा चैव गोघ्नश्च परदाररतश्च यः
।
अश्रद्दधानश्च नरः स्त्रियं यश्चोपजीवति ॥३८॥
प्रेतलोकगता ह्येते नरके पापकर्मिणः
।
पच्यन्ते वै यथा मीनाः पूयशोणितभोजनाः॥३९॥
असंभाष्याः पितॄणां च देवानां चैव पञ्च ते
।
स्नातकानां च विप्राणां ये चान्ये च तपोधनाः॥४०॥
भीष्म उवाच। ततः सर्वे महाभागा देवाश्च पितरश्च ह
।
ऋषयश्च महाभागाः प्रमथान्वाक्यमब्रुवन् ॥१॥
भवन्तो वै महाभागा अपरोक्षनिशाचराः
।
उच्छिष्टानशुचीन्क्षुद्रान्कथं हिंसथ मानवान् ॥२॥
के च स्मृताः प्रतीघाता येन मर्त्यान्न हिंसथ
।
रक्षोघ्नानि च कानि स्युर्यैर्गृहेषु प्रणश्यथ
।
श्रोतुमिच्छाम युष्माकं सर्वमेतन्निशाचराः ॥३॥
प्रमथा ऊचुः
।
मैथुनेन सदोच्छिष्टाः कृते चैवाधरोत्तरे
।
मोहान्मांसानि खादेत वृक्षमूले च यः स्वपेत् ॥४॥
आमिषं शीर्षतो यस्य पादतो यश्च संविशेत्
।
तत उच्छिष्टकाः सर्वे बहुच्छिद्राश्च मानवाः ॥५॥
उदके चाप्यमेध्यानि श्लेष्माणं च प्रमुञ्चति
।
एते भक्ष्याश्च वध्याश्च मानुषा नात्र संशयः ॥६॥
एवं शीलसमाचारान्धर्षयामो हि मानवान्
।
श्रूयतां च प्रतीघातान्यैर्न शक्नुम हिंसितुम् ॥७॥
गोरोचनासमालम्भो वचाहस्तश्च यो भवेत्
।
घृताघृतं च यो दद्यान्मस्तके तत्परायणः ॥८॥
ये च मांसं न खादन्ति तान्न शक्नुम हिंसितुम्
।
यस्य चाग्निगृहे नित्यं दिवारात्रौ च दीप्यते ॥९॥
तरक्षोश्चर्म दंष्ट्राश्च तथैव गिरिकच्छपः
।
आज्यधूमो बिडालश्च च्छागः कृष्णोऽथ पिङ्गलः ॥१०॥
येषामेतानि तिष्ठन्ति गृहेषु गृहमेधिनाम्
।
तान्यधृष्याण्यगाराणि पिशिताशैः सुदारुणैः ॥११॥
लोकानस्मद्विधा ये च विचरन्ति यथासुखम्
।
तस्मादेतानि गेहेषु रक्षोघ्नानि विशाम्पते
।
एतद्वः कथितं सर्वं यत्र वः संशयो महान् ॥१२॥
भीष्म उवाच। ततः पद्मप्रतीकाशः पद्मोद्भूतः पितामहः
।
उवाच वचनं देवान्वासवं च शचीपतिम् ॥१॥
अयं महाबलो नागो रसातलचरो बली
।
तेजस्वी रेणुको नाम महासत्त्वपराक्रमः ॥२॥
अतितेजस्विनः सर्वे महावीर्या महागजाः
।
धारयन्ति महीं कृत्स्नां सशैलवनकाननाम् ॥३॥
भवद्भिः समनुज्ञातो रेणुकस्तान्महागजान्
।
धर्मगुह्यानि सर्वाणि गत्वा पृच्छतु तत्र वै ॥४॥
पितामहवचः श्रुत्वा ते देवा रेणुकं तदा
।
प्रेषयामासुरव्यग्रा यत्र ते धरणीधराः ॥५॥
रेणुक उवाच
।
अनुज्ञातोऽस्मि देवैश्च पितृभिश्च महावलाः
।
धर्मगुह्यानि युष्माकं श्रोतुमिच्छामि तत्त्वतः ॥६॥
कथयध्वं महाभागा यद्वस्तत्त्वं मनीषितम् ॥६॥
दिग्गजा ऊचुः
।
कार्तिके मासि चाश्लेषा बहुलस्याष्टमी शिवा
।
तेन नक्षत्रयोगेन यो ददाति गुडौदनम् ॥७॥
इमं मन्त्रं जपञ्छ्राद्धे यताहारो ह्यकोपनः
।
बलदेवप्रभृतयो ये नागा बलवत्तराः ॥८॥
अनन्ता ह्यक्षया नित्यं भोगिनः सुमहाबलाः
।
तेषां कुलोद्भवा ये च महाभूता भुजङ्गमाः ॥९॥
ते मे बलिं प्रयच्छन्तु चलतेजोभिवृद्धये
।
यदा नारायणः श्रीमानुज्जहार वसुंधराम् ॥१०॥
तद्बलं तस्य देवस्य धरामुद्धरतस्तथा
।
एवमुक्त्वा बलिं तत्र वल्मीके तु निवेदयेत् ॥११॥
गजेन्द्रकुसुमाकीर्णं नीलवस्त्रानुलेपनम्
।
निर्वपेत्तं तु वल्मीके अस्तं याते दिवाकरे ॥१२॥
एवं तुष्टास्ततः सर्वे अधस्ताद्भारपीडिताः
।
श्रमं तं नावबुध्यामो धारयन्तो वसुंधराम् ॥१३॥
एवं मन्यामहे सर्वे भारार्ता निरपेक्षिणः
।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा यद्युपोषितः ॥१४॥
एवं संवत्सरं कृत्वा दानं बहुफलं लभेत्
।
वल्मीके बलिमादाय तन्नो बहुफलं मतम् ॥१५॥
ये च नागा महावीर्यास्त्रिषु लोकेषु कृत्स्नशः
।
कृतातिथ्या भवेयुस्ते शतं वर्षाणि तत्त्वतः ॥१६॥
दिग्गजानां च तच्छ्रुत्वा देवताः पितरस्तथा
।
ऋषयश्च महाभागाः पूजयन्ति स्म रेणुकम् ॥१७॥
महेश्वर उवाच। सारमुद्धृत्य युष्माभिः साधुधर्म उदाहृतः
।
धर्मगुह्यमिदं मत्तः शृणुध्वं सर्व एव ह ॥१॥
येषां धर्माश्रिता बुद्धिः श्रद्दधानाश्च ये नराः
।
तेषां स्यादुपदेष्टव्यः सरहस्यो महाफलः ॥२॥
निरुद्विग्नस्तु यो दद्यान्मासमेकं गवाह्निकम्
।
एकभक्तं तथाऽश्नीयाच्छ्रूयतां तस्य यत्फलम् ॥३॥
इमा गावो महाभागाः पवित्रं परमं स्मृताः
।
त्रीन्लोकान्धारयन्ति स्म सदेवासुरमानुषान् ॥४॥
तासु चैव महापुण्यं शुश्रूषा च महाफलम्
।
अहन्यहनि धर्मेण युज्यते वै गवाह्निकः ॥५॥
मया ह्येता ह्यनुज्ञाताः पूर्वमासन्कृते युगे
।
ततोऽहमनुनीतो वै ब्रह्मणा पद्मयोनिना ॥६॥
तस्माद्व्रजस्थानगतस्तिष्ठत्युपरि मे वृषः
।
रमेऽहं सह गोभिश्च तस्मात्पूज्याः सदैव ताः ॥७॥
महाप्रभावा वरदा वरं दद्युरुपासिताः
।
ता गावोऽस्यानुमन्यन्ते सर्वकर्मसु यत्फलम् ॥८॥
तस्य तत्र चतुर्भागो यो ददाति गवाह्निकम् ॥९॥
स्कन्द उवाच
।
ममाप्यनुमतो धर्मस्तं शृणुध्वं समाहिताः
।
नीलषण्डस्य शृंगाभ्यां गृहीत्वा मृत्तिकां तु यः ॥१॥
अभिषेकं त्र्यहं कुर्यात्तस्य धर्मं निबोधत
।
शोधयेदशुभं सर्वमाधिपत्यं परत्र च ॥२॥
यावच्च जायते मर्त्यस्तावच्छूरो भविष्यति
।
इदं चाप्यपरं गुह्यं सरहस्यं निबोधत ॥३॥
प्रगृह्यौदुम्बरं पात्रं पक्वान्नं मधुना सह
।
सोमस्योत्तिष्ठमानस्य पौर्णमास्यां बलि हरेत् ॥४॥
तस्य धर्मफलं नित्यं श्रद्दधाना निबोधत
।
साध्या रुद्रास्तथाऽऽदित्या विश्वेदेवास्तथाश्विनौ ॥५॥
मरुतो वसवश्चैव प्रतिगृह्णन्ति तं बलिम्
।
सोमश्च वर्धते तेन समुद्रश्च महोदधिः ॥६॥
एष धर्मो मयोद्दिष्टः सरहस्यः सुखावहः ॥७॥
विष्णुरुवाच
।
धर्मगुह्यानि सर्वाणि देवतानां महात्मनाम्
।
ऋषीणां चैव गुह्यानि यः पठेदाह्निकं सदा ॥८॥
शृणुयाद्वाऽनसूयुर्यः श्रद्दधानः समाहितः
।
नास्य विघ्नः प्रभवति भयं चास्य न विद्यते ॥९॥
ये च धर्माः शुभाः पुण्याः सरहस्या उदाहृताः
।
तेषां धर्मफलं तस्य यः पठेत जितेन्द्रियः ॥१०॥
नास्य पापं प्रभवति न च पापेन लिप्यते
।
पठेद्वा श्रावयेद्वापि श्रुत्वा वा लभते फलम् ॥११॥
भुञ्जते पितरो देवा हव्यं कव्यमथाक्षयम्
।
श्रावयंश्चापि विप्रेन्द्रान् पर्वसु प्रयतो नरः ॥१२॥
ऋषीणां देवतानां च पितॄणां चैव नित्यदा
।
भवत्यभिमतः श्रीमान् धर्मेषु प्रयतः सदा ॥१३॥
कृत्वापि पापकं कर्म महापातकवर्जितम्
।
रहस्यधर्मं श्रुत्वेमं सर्वपापैः प्रमुच्यते ॥१४॥
भीष्म उवाच। एतद्धर्मरहस्यं वै देवतानां नराधिप
।
व्यासोद्दिष्टं मया प्रोक्तं सर्वदेवनमस्कृतम् ॥१५॥
पृथिवी रत्नसंपूर्णा ज्ञानं चेदमनुत्तमम्
।
इदमेव ततः श्राव्यमिति मन्येत धर्मवित् ॥१६॥
नाश्रद्दधानाय न नास्तिकाय न नष्टधर्माय न निर्घृणाय
।
न हेतुदुष्टाय गुरुद्विषे वा नानात्मभूताय निवेद्यमेतत् ॥१७॥
युधिष्ठिर उवाच। के भोज्या ब्राह्मणस्येह के भोज्याः क्षत्रियस्य ह
।
तथा वैश्यस्य के भोज्याः के शूद्रस्य च भारत ॥१॥
भीष्म उवाच। ब्राह्मणा ब्राह्मणस्येह भोज्या ये चैव क्षत्रियाः
।
वैश्याश्चापि तथा भोज्याः शूद्राश्च परिवर्जिताः ॥२॥
ब्राह्मणाः क्षत्रिया वैश्या भोज्या वै क्षत्रियस्य ह
।
वर्जनीयास्तु वै शूद्राः सर्वभक्षा विकर्मिणः ॥३॥
वैश्यास्तु भोज्या विप्राणां क्षत्रियाणां तथैव च
।
नित्याग्नयो विविक्ताश्च चातुर्मास्यरताश्च ये ॥४॥
शूद्राणामथ यो भुंक्ते स भुंक्ते पृथिवीमलम्
।
मलं नृणां स पिबति मलं भुंक्ते जनस्य च ॥५॥
शूद्राणां यस्तथा भुंक्ते स भुंक्ते पृथिवीमलम्
।
पृथिवीमलमश्नन्ति ये द्विजाः शूद्रभोजिनः ॥६॥
शूद्रस्य कर्मनिष्ठायां विकर्मस्थोऽपि पच्यते
।
ब्राह्मणः क्षत्रियो वैश्यो विकर्मस्थश्च पच्यते ॥७॥
स्वाध्यायनिरता विप्रास्तथा स्वस्त्ययने नृणाम्
।
रक्षणे क्षत्रियं प्राहुर्वैश्यं पुष्ट्यर्थमेव च ॥८॥
करोति कर्म यद्वैश्यस्तद्गत्वा ह्यपजीवति
।
कृषिगोरक्ष्यवाणिज्यमकुत्सा वैश्यकर्मणि ॥९॥
शूद्रकर्म तु यः कुर्यादवहाय स्वकर्म च
।
स विशेयो यथा शूद्रो न च भोज्यः कदाचन ॥१०॥
चिकित्सकः काण्डपृष्ठः पुराध्यक्षः पुरोहितः
।
सांवत्सरो वृथाध्यायी सर्वे ते शूद्रसंमिताः ॥११॥
शूद्रकर्मस्वथैतेषु यो भुंक्ते निरपत्रपः
।
अभोज्यभोजनं भुक्त्वा भयं प्राप्नोति दारुणम् ॥१२॥
कुलं वीर्यं च तेजश्च तिर्यग्योनित्वमेव च
।
स प्रयाति यथा श्वा वै निष्क्रियो धर्मवर्जितः ॥१३॥
भुंक्ते चिकित्सकस्यान्नं तदन्नं च पुरीषवत्
।
पुंश्चल्यन्नं च मूत्रं स्यात्कारुकान्नं च शोणितम् ॥१४॥
विद्योपजीविनोऽन्नं च यो भुंक्ते साधुसंमतः
।
तदप्यन्नं यथा शौद्रं तत्साधुः परिवर्जयेत् ॥१५॥
वचनीयस्य यो भुंक्ते तमाहुः शोणितं ह्रदम्
।
पिशुनं भोजनं भुंक्ते ब्रह्महत्यासमं विदुः ॥१६॥
असत्कृतमवज्ञातं न भोक्तव्यं कदाचन ॥१७॥
व्याधिं कुलक्षयं चैव क्षिप्रं प्राप्नोति ब्राह्मणः
।
नगरीरक्षिणो भुंक्ते श्वपचप्रवणो भवेत् ॥१८॥
गोघ्ने च ब्राह्मणघ्ने च सुरापे गुरुतल्पगे
।
भुक्त्वान्नं जायते विप्रो रक्षसां कुलवर्धनः ॥१९॥
न्यासापहारिणो भुक्त्वा कृतघ्ने क्लीबवर्तिनि
।
जायते शबरावासे मध्यदेशबहिष्कृते ॥२०॥
अभोज्याश्चैव भोज्याश्च मया प्रोक्ता यथाविधि
।
किमन्यदद्य कौन्तेय मत्तस्त्वं श्रोतुमिच्छसि ॥२१॥
युधिष्ठिर उवाच। उक्तास्तु भवता भोज्यास्तथाभोज्याश्च सर्वशः
।
अत्र मे प्रश्नसन्देहस्तन्मे वद पितामह ॥१॥
ब्राह्मणानां विशेषेण हव्यकव्यप्रतिग्रहे
।
नानाविधेषु भोज्येषु प्रायश्चित्तानि शंस मे ॥२॥
भीष्म उवाच। हन्त वक्ष्यामि ते राजन् ब्राह्मणानां महात्मनाम्
।
प्रतिग्रहेषु भोज्ये च मुच्यते येन पाप्मनः ॥३॥
घृतप्रतिग्रहे चैव सावित्री समिदाहुतिः
।
तिलप्रतिग्रहे चैव सममेतयुधिष्ठिर ॥४॥
मांसप्रतिग्रहे चैव मधुनो लवणस्य च
।
आदित्योदयनं स्थित्वा पूतो भवति ब्राह्मणः ॥५॥
काञ्चनं प्रतिगृह्याथ जपमानो गुरुश्रुतिम्
।
कृष्णायसं च विवृतं धारयन् मुच्यते द्विजः ॥६॥
एवं प्रतिगृहीतेऽथ धने वस्त्रे तथा स्त्रियाम्
।
एवमेव नरश्रेष्ठ सुवर्णस्य प्रतिग्रहे ॥७॥
अन्नप्रतिग्रहे चैव पायसेक्षुरसे तथा
।
इक्षुतैलपवित्राणां त्रिसन्ध्येऽप्सु निमज्जनम् ॥८॥
व्रीहौ पुष्पे फले चैव जले पिष्टमये तथा
।
यावके दधिदुग्धे च सावित्रीं शतशोन्विताम् ॥९॥
उपानहौ च च्छत्रं च प्रतिगृह्यौर्ध्वदेहिके
।
जपेच्छतं समायुक्तस्तेन मुच्येत पाप्मना ॥१०॥
क्षेत्रप्रतिग्रहे चैव ग्रहसूतकयोस्तथा
।
त्रीणि रात्राण्युपोषित्वा तेन पापाद्विमुच्यते ॥११॥
कृष्णपक्षे तु यः श्राद्धं पितॄणामश्नुते द्विजः
।
अन्नमेतदहोरात्रात्पूतो भवति ब्राह्मणः ॥१२॥
न च सन्ध्यामुपासीत न च जाप्यं प्रवर्तयेत्
।
न सङ्किरेत्तदन्नं च ततः पूयेत ब्राह्मणः ॥१३॥
इत्यर्थमपराह्णे तु पितॄणां श्राद्धमुच्यते
।
यथोक्तानां यदश्नीयुर्ब्राह्मणाः पूर्वकेतिताः ॥१४॥
मृतकस्य तृतीयाहे ब्राह्मणो योऽन्नमश्नुते
।
स त्रिवेलं समुन्मज्य द्वादशाहेन शुध्यति ॥१५॥
द्वादशाहे व्यतीते तु कृतशौचो विशेषतः
।
ब्राह्मणेभ्यो हविर्दत्वा मुच्यते तेन पाप्मना ॥१६॥
मृतस्य दशरात्रेण प्रायश्चित्तानि दापयेत्
।
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम् ॥१७॥
मृतकस्य त्रिरात्रे यः समुद्दिष्टे समश्नुते
।
सप्त त्रिषवणं स्नात्वा पूतो भवति ब्राह्मणः ॥१८॥
सिद्धिमाप्नोति विपुलामापदं चैव नाप्नुयात् ॥१९॥
यस्तु शूद्रैः समश्नीयाद्ब्राह्मणोप्येकभोजने
।
अशौचं विधिवत्तस्य शौचमत्र विधीयते ॥२०॥
यस्तु वैश्यैः सहाश्नीयाद्ब्राह्मणोऽप्येकभोजने
।
स वै त्रिरात्रं दीक्षित्वा मुच्यते तेन कर्मणा ॥२१॥
क्षत्रियैः सह योऽश्नीयाद्ब्राह्मणोऽप्येकभोजने
।
आप्लुतः सह वासोभिस्तेन मुच्येत पाप्मना ॥२२॥
शूद्रस्य तु कुलं हन्ति वैश्यस्य पशुबान्धवान्
।
क्षत्रियस्थ श्रियं हन्ति ब्राह्मणस्य सुवर्चसम् ॥२३॥
प्रायश्चित्तं च शान्तिं च जुहुयात्तेन मुच्यते
।
सावित्रीं रैवतीमिष्टिं कूश्माण्डमघमर्षणम् ॥२४॥
तथोच्छिष्टमथान्योन्यं संप्राशेन्नात्र संशयः
।
रोचना विरजा रात्रिर्मङ्गलालंभनानि च ॥२५॥
युधिष्ठिर उवाच। दानेन वर्ततेत्याह तपसा चैव भारत
।
तदेतन्मे मनो दुःखं व्यपोह त्वं पितामह
।
किंस्वित्पृथिव्यां ह्येतन्मे भवाञ्छंसितुमर्हति ॥१॥
भीष्म उवाच। शृणु यैर्धर्मनिरतैस्तपसा भावितात्मभिः
।
लोका ह्यसंशयं प्राप्ता दानपुण्यरतैर्नृपैः ॥२॥
सत्कृतश्च तथाऽऽत्रेयः शिष्येभ्यो ब्रह्म निर्गुणम्
।
उपदिश्य तदा राजन् गतो लोकाननुत्तमान् ॥३॥
शिबिरौशीनरः प्राणान् प्रियस्य तनयस्य च
।
ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः ॥४॥
प्रतर्दनः काशिपतिः प्रदाय तनयं स्वकम्
।
ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते ॥५॥
रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने
।
अर्घ्यं प्रदाय विधिवल्लेभे लोकाननुत्तमान् ॥६॥
दिव्यं शतशलाकं च यक्षार्थं काञ्चनं शुभम्
।
छत्रं देवावृधो दत्वा ब्राह्मणायास्थितो दिवम् ॥७॥
भगवानम्बरीषश्च ब्राह्मणायामितौजसे
।
प्रदाय सकलं राष्ट्रं सुरलोकमवाप्तवान् ॥८॥
सावित्रः कुण्डलं दिव्यं यानं च जनमेजयः
।
ब्राह्मणाय च गां दत्त्वा गतो लोकाननुत्तमान् ॥९॥
वृषादर्भिश्च राजर्षी रत्नानि विविधानि च
।
रम्यांश्चावसथान्दत्त्वा द्विजेभ्यो दिवमागतः ॥१०॥
निमीराष्ट्रं च वैदर्भिः कन्यां दत्त्वा महात्मने
।
अगस्त्याय गतः स्वर्गं सपुत्रपशुबान्धवः ॥११॥
जामदग्न्यश्च विप्राय भूमिं दत्वा महायशाः
।
रामोऽक्षयांस्तथा लोकान् जगाम मनसोऽधिकान् ॥१२॥
अवर्षति च पर्जन्ये सर्वभूतानि देवराट्
।
वसिष्ठो जीवयामास येन यातोऽक्षयां गतिम् ॥१३॥
रामो दाशरथिश्चैव हुत्वा यज्ञेषु वै वसु
।
स गतो ह्यक्षयान् लोकान्यस्य लोके महद्यशः ॥१४॥
कक्षसेनश्च राजर्षिर्वसिष्ठाय महात्मने
।
न्यासं यथावत्संन्यस्य जगाम सुमहायशाः ॥१५॥
करंधमस्य पौत्रस्तु मरुत्तोऽविक्षितः सुतः
।
कन्यामाङ्गिरसे दत्वा दिवमाशु जगाम सः ॥१६॥
ब्रह्मदत्तश्च पाञ्चाल्यो राजा धर्मभृतां वरः
।
निधिं शङ्खमनुज्ञाप्य जगाम परमां गतिम् ॥१७॥
राजा मित्रसहश्चैव वसिष्ठाय महात्मने
।
मद्यन्तीं प्रियां भार्यां दत्त्वा च त्रिदिवं गतः ॥१८॥
मनोः पुत्रश्च सुद्युम्नो लिखिताय महात्मने
।
दण्डमुधृत्य धर्मेण गतो लोकाननुत्तमान् ॥१९॥
सहस्रचित्यो राजर्षिः प्राणानिष्टान्महायशाः
।
ब्राह्मणार्थे परित्यज्य गतो लोकाननुत्तमान् ॥२०॥
सर्वकामैश्च संपूर्णं दत्त्वा वेश्म हिरण्मयम्
।
मौद्गल्याय गतः स्वर्गं शतद्युम्नो महीपतिः ॥२१॥
भक्ष्यभोज्यस्य च कृतान् राशयः पर्वतोपमान्
।
शाण्डिल्याय पुरा दत्वा सुमन्युर्दिवमास्थितः ॥२२॥
नाम्ना च द्युतिमान्नाम शाल्वराजो महाद्युतिः
।
दत्त्वा राज्यमृचीकाय गतो लोकाननुत्तमान् ॥२३॥
मदिराश्वश्च राजर्षिर्दत्वा कन्यां सुमध्यमाम्
।
हिरण्यहस्ताय गतो लोकान्देवैरधिष्ठितान् ॥२४॥
लोमपादश्च राजर्षिः शान्तां दत्वा सुतां प्रभुः
।
ऋष्यशृङ्गाय विपुलैः सर्वैः कामैरयुज्यत ॥२५॥
कौत्साय दत्वा कन्यां तु हंसीं नाम यशस्विनीम्
।
गतोऽक्षयानतो लोकान् राजर्षिश्च भगीरथः ॥२६॥
दत्वा शतसहस्रं तु गवां राजा भगीरथः
।
सवत्सानां कोहलाय गतो लोकाननुत्तमान् ॥२७॥
एते चान्ये च बहवो दानेन तपसा च ह
।
युधिष्ठिर गताः स्वर्गं निवर्तन्ते पुनः पुनः ॥२८॥
तेषां प्रतिष्ठिता कीर्तिर्यावत्स्थास्यति मेदिनी
।
गृहस्थैर्दानतपसा यैर्लोका वै विनिर्जिताः ॥२९॥
शिष्टानां चरितं ह्येतत्कीर्तितं मे युधिष्ठिर
।
दानयज्ञप्रजासर्गैरेते हि दिवमास्थिताः ॥३०॥
दत्वा तु सततं तेऽस्तु कौरवाणां धुरन्धर
।
दानयज्ञक्रियायुक्ता बुद्धिर्धर्मोपचायिनी ॥३१॥
यत्र ते नृपशार्दूल सन्देहो चै भविष्यति
।
श्वः प्रभाते हि वक्ष्यामि संध्या हि समुपस्थिता ॥३२॥
युधिष्ठिर उवाच। श्रुतं मे भवतस्तात सत्यव्रतपराक्रम
।
दानधर्मेण महता ये प्राप्तास्त्रिदिवं नृपाः ॥१॥
इमांस्तु श्रोतुमिच्छामि धर्मान्धर्मभृतां वर
।
दानं कतिविधं देयं किं तस्य च फलं लभेत ॥२॥
कथं केभ्यश्च धर्म्यं च दानं दातव्यमिष्यते
।
कैः कारणैः कतिविधं श्रोतुमिच्छामि तत्त्वतः
।
भीष्म उवाच। शृणु तत्त्वेन कौन्तेय दानं प्रति ममानघ
।
यथा दानं प्रदातव्यं सर्ववर्णेषु भारत ॥४॥
धर्मादर्थाद्भयात्कामात्कारुण्यादिति भारत
।
दानं पञ्चविधं ज्ञेयं कारणैर्यैर्निबोध तत् ॥५॥
इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम्
।
इति दानं प्रदातव्यं ब्राह्मणेभ्योऽनसूयता ॥६॥
ददाति वा दास्यति वा मह्यं दत्तमनेन वा
।
इत्यर्थिभ्यो निशम्यैव सर्वं दातव्यमर्थिने ॥७॥
नास्याहं न मदीयोऽयं पापं कुर्याद्विमानितः
।
इति दद्याद्भयादेव दृढं मूढाय पण्डितः ॥८॥
प्रियो मेऽयं प्रियोस्याहमिति संप्रेक्ष्य बुद्धिमान्
।
वयस्यायैवमक्लिष्टं दानं दद्यादतन्द्रितः ॥९॥
दीनश्च याचते चायमल्पेनापि हि तुष्यति
।
इति दद्याद्दरिद्राय कारुण्यादिति सर्वथा ॥१०॥
इति पञ्चविधं दानं पुण्यकीर्तिविवर्धनम्
।
यथाशक्त्या प्रदातव्यमेवमाह प्रजापतिः ॥११॥
युधिष्ठिर उवाच। पितामह महाप्राज्ञ सर्वशास्त्रविशारद
।
आगमैर्बहुभिः स्फीतो भवान्नः प्रवरे कुले ॥१॥
त्वत्तो धर्मार्थसंयुक्तमायत्यां च सुखोदयम्
।
आश्चर्यभूतं लोकस्य श्रोतुमिच्छाम्यरिन्दम ॥२॥
अयं च कालः संप्राप्तो दुर्लभो ज्ञातिबान्धवैः
।
शास्ता च न हि नः कश्चित्त्वामृते पुरुषर्षभ ॥३॥
यदि तेऽहमनुग्राह्यो भ्रातृभिः सहितोऽनघ
।
वक्तुमर्हसि नः प्रश्नं यत्त्वां पृच्छामि पार्थिव ॥४॥
अयं नारायणः श्रीमान् सर्वपार्थिवसंमतः
।
भवन्तं बहुमानेन प्रश्रयेण च सेवते ॥५॥
अस्य चैव समक्षं त्वं पार्थिवानां च सर्वशः
।
भ्रातॄणां च प्रियार्थं मे स्नेहाद्भाषितुमर्हसि ॥६॥
वैशम्पायन उवाच। तस्य तद्वचनं श्रुत्वा स्नेहादागतसंभ्रमः
।
भीष्मो भागीरथीपुत्र इदं वचनमब्रवीत् ॥७॥
भीष्म उवाच। अहं ते कथयिष्यामि कथामतिमनोहराम्
।
अस्य विष्णोः पुरा राजन्प्रभावो यो मया श्रुतः ॥८॥
यश्च गोवृषभाङ्कस्य प्रभावस्तं च मे शृणु
।
रुद्राण्याः संशयो यश्च दम्पत्योस्तं च मे शृणु ॥९॥
व्रतं चचार धर्मात्मा कृष्णो द्वादशवार्षिकम्
।
दीक्षितं चागतौ द्रष्टुमुभौ नारदपर्वतौ ॥१०॥
कृष्णद्वैपायनश्चैव धौम्यश्च जपतां वरः
।
देवलः काश्यपश्चैव हस्तिकाश्यप एव च ॥११॥
अपरे चर्षयः सन्तो दीक्षादमसमन्विताः
।
शिष्यैरनुगताः सिद्धैर्देवकल्पैस्तपोधनैः ॥१२॥
तेषामतिथिसत्कारमर्चनीयं कुलोचितम्
।
देवकीतनयः प्रतिो देवकल्पमकल्पयत् ॥१३॥
हरितेषु सुवर्णेषु बर्हिष्केषु नवेषु च
।
उपोपविविशुः प्रीता विष्टरेषु महर्षयः ॥१४॥
कथाश्चक्रुस्ततस्ते तु मधुरा धर्मसंहिताः
।
राजर्षीणां सुराणां च ये वसन्ति तपोधनाः ॥१५॥
ततो नारायणं तेजो व्रतचर्येन्धनोत्थितम्
।
वक्त्रानिःसृत्य कृष्णस्य वह्निरद्भुतकर्मणः ॥१६॥
सोऽग्निर्ददाह तं शैलं सद्रुमं सलताक्षुपम्
।
सपक्षिमृगसंघातं सश्वापदसरीसृपम् ॥१७॥
मृगैश्च विविधाकारैर्हाहाभूतमचेतनम्
।
शिखरं तस्य शैलस्य मथितं दीनदर्शनम् ॥१८॥
स तु वह्निर्महाज्यालो दग्ध्वा सर्वमशेषतः
।
विष्णोः समीप आगम्य पादौ शिष्यवदस्पृशत् ॥१९॥
ततो विष्णुगिरिं दृष्ट्वा निर्दग्धमरिकर्शनः
।
सौम्यैर्दृष्टिनिपातैस्तं पुनः प्रकृतिमानयत् ॥२०॥
तथैव स गिरिर्भूयः प्रपुष्पितलताद्रुमः
।
सपक्षिगणसंघुष्टः सश्वापदसरीसृपः ॥२१॥
तमद्भुतमचिन्त्यं च दृष्ट्वा सुनिगणस्तदा
।
विस्मितो हृष्टरोमा च बभूवास्राविलेक्षणः ॥२२॥
ततो नारायणो दृष्ट्वा तानृषीन्विस्मयान्वितान्
।
प्रश्रितं मधुरं स्निग्धं पप्रच्छ वदतां वरः ॥२३॥
किमर्थमृषिपूगस्य त्यक्तसङ्गस्य नित्यशः
।
निर्ममस्यागमवतो विस्मयः समुपागतः ॥२४॥
एतन्मे संशयं सर्वे याथातथ्यमनिन्दिताः
।
ऋषयो वक्तुमर्हन्ति निश्चितार्थं तपोधनाः ॥२५॥
ऋषय ऊचुः
।
भवान्विसृजते लोकान् भवान्संहरते पुनः
।
भवान् शीतं भवानुष्णं भवानेव च वर्षति ॥२६॥
पृथिव्यां यानि भूतानि स्थावराणि चराणि च
।
तेषां पिता त्वं माता त्वं प्रभुः प्रभव एव च ॥२७॥
एवं नो विस्मयकरं संशयं मधुसूदन
।
त्वमेवार्हसि कल्याण वक्तुं वह्नेर्विनिर्गमम् ॥२८॥
ततो विगतसंत्रासा वयमप्यरिकर्शन
।
यच्छ्रुतं यच्च दृष्टं नस्तत्प्रवक्ष्यामहे हरे ॥२९॥
वासुदेव उवाच। एतद्वै वैष्णवं तेजो मम वक्त्राद्विनिःसृतम्
।
कृष्णवर्त्मा युगान्ताभो येनायं मथितो गिरिः ॥३०॥
ऋषयश्चार्तिमापन्ना जितक्रोधा जितेन्द्रियाः
।
भवन्तो व्यथिताश्चासन् देवकल्पास्तपोधनाः ॥३१॥
व्रतचर्यापरीतस्य तपस्विव्रतसेवया
।
मम वह्निः समुद्भूतो न वै व्यथितुमर्हथ ॥३२॥
व्रतं चर्तुमिहायातस्त्वहं गिरिमिमं शुभम्
।
पुत्रं चात्मसमं वीर्ये तपसा लब्धुमागतः ॥३३॥
ततो ममात्मा यो देहे सोग्निर्भूत्वा विनिःसृतः
।
गतश्च वरदं द्रष्टुं सर्वलोकपितामहम् ॥३४॥
तेन चात्मानुशिष्टो मे पुत्रत्वे मुनिसत्तमाः
।
तेजसोऽर्धेन पुत्रस्ते भवितेति वृषध्वजः ॥३५॥
सोऽयं वह्निरुपागम्य पादमूले ममान्तिकम्
।
शिष्यवत्परिचर्यार्थं शान्तः प्रकृतिमागतः ॥३६॥
एतदेव रहस्यं वः पद्मनाभस्य धीमतः
।
मया प्रोक्तं समासेन न भीः कार्या तपोधनाः ॥३७॥
सर्वत्र गतिरव्यग्रा भवतां दीर्घदर्शनात्
।
तपस्विव्रतसंदीप्ता ज्ञानविज्ञानशोभिताः ॥३८॥
यच्छ्रुतं यच्च वो दृष्टं दिवि वा यदि वा भुवि
।
आश्चर्यं परमं किञ्चित्तद्भवन्तो ब्रुवन्तु मे ॥३९॥
तस्यामृतनिकाशस्य वाङ्मधोरस्ति मे स्पृहा
।
भवद्भिः कथितस्येह तपोवननिवासिभिः ॥४०॥
यद्यप्यहमदृष्टं वो दिव्यमद्भुतदर्शनम्
।
दिवि वा भुवि वा किञ्चित्पश्याम्यमरदर्शनाः ॥४१॥
प्रकृतिः सा मम परा न क्वचित्प्रतिहन्यते
।
न चात्मगतमैश्वर्यमाश्चर्यं प्रतिभाति मे ॥४२॥
श्रद्धेयः कथितो ह्यर्थः सज्जनश्रवणं गतः
।
चिरं तिष्ठति मेदिन्यां शैले लेख्यमिवार्पितम् ॥४३॥
तदहं सज्जनमुखान्निसृतं तत्समागमे
।
कथयिष्याम्यहमहो बुद्धिदीपकरं नृणाम् ॥४४॥
ततो मुनिगणाः सर्वे विस्मिताः कृष्णसन्निधौ
।
नेत्रैः पद्मदलप्रख्यैरपश्यंस्तं जनार्दनम् ॥४५॥
वर्धयन्तस्तथैवान्ये पूजयन्तस्तथाऽपरे
।
वाग्भिरृग्भूषितार्थाभिः स्तुवन्तो मधुसूदनम् ॥४६॥
ततो सुनिगणाः सर्वे नारदं देवदर्शनम्
।
तदा नियोजयामासुर्वचने वाक्यकोविदम् ॥४७॥
मुनय ऊचुः
।
यदाश्चर्यमचिन्त्यं च गिरौ हिमवति प्रभो
।
अनुभूतं मुनिगणैस्तीर्थयात्रापरैर्मुने ॥४८॥
तद्भवानृषिसंघस्य हितार्थं सर्वमादितः
।
यथा दृष्टं हृषीकेशे सर्वमाख्यातुमर्हसि ॥४९॥
एवमुक्तः स मुनिभिर्नारदो भगवान् मुनिः
।
कथयामास देवर्षिः पूर्ववृत्तामिमां कथाम् ॥५०॥
भीष्म उवाच। ततो नारायणसुहृन्नारदो भगवानृषिः
।
शङ्करस्योमया सार्धं संवादं प्रत्यभाषत ॥१॥
नारद उवाच। तपश्चचार धर्मात्मा वृषभाङ्कः सुरेश्वरः
।
पुण्ये गिरौ हिमवति सिद्धचारणसेविते ॥२॥
नानौषधियुते रम्ये नानापुष्पसमाकुले
।
अप्सरोगणसंकीर्णे भूतसंघनिषेविते ॥३॥
तत्र देवो मुदा युक्तो भूतसंघशतैर्वृतः
।
नानारूपैर्विरूपैश्च दिव्यैरद्भुतदर्शनैः ॥४॥
सिंहव्याघ्रगजप्रख्यैः सर्वजातिसमन्वितैः
।
क्रोष्टुकद्वीपिवदनैरृक्षर्षभमुखैस्तथा ॥५॥
उलूकवदनैर्भीमैर्वृकश्येनमुखैस्तथा
।
नानावर्णैर्मृगमुखैः सर्वजातिसमन्वितैः ॥६॥
किंनरैर्यक्षगन्धर्वै रक्षोभूतगणैस्तथा
।
दिव्यपुष्पसमाकीर्णं दिव्यज्वालासमाकुलम् ॥७॥
दिव्यचन्दनसंयुक्तं दिव्यधूपेन धूपितम्
।
तत्सदो वृषभांकस्य दिव्यवादित्रनादितम् ॥८॥
मृदंगपणवोद्धुष्टं शङ्खभेरीनिनादितम्
।
नृत्यद्भिर्भूतसंधैश्च बर्हिणैश्च समंततः ॥९॥
प्रनृत्ताप्सरसं दिव्यं देवर्षिगणसेवितम्
।
दृष्टिकान्तमनिर्देश्यं दिव्यमद्भुतदर्शनम् ॥१०॥
स गिरिस्तपसा तस्य गिरिशस्य व्यरोचत
।
स्वाध्यायपरमैर्विप्रैर्ब्रह्मघोषो निनादितः ॥११॥
षट्पदैरुपगीतैश्च माधवाप्रतिमो गिरिः
।
तन्महोत्सवसंकाशं भीमरूपधरं ततः ॥१२॥
दृष्ट्वा मुनिगणस्यासीत्परा प्रीतिर्जनार्दन
।
मुनयश्च महाभागाः सिद्धाश्चैवोर्ध्वरेतसः ॥१३॥
मरुतो वसवः साध्या विश्वेदेवाः सवासवाः
।
यक्षा नागाः पिशाचाश्च लोकपाला हुताशनाः ॥१४॥
वाताः सर्वे महाभूतास्तत्रैवासन् समागताः
।
ऋतवः सर्वपुष्पैश्च व्यकिरन्त महाद्भुतैः ॥१५॥
ओषध्यो ज्वलमानाश्च द्योतयन्ति स्म तद्वनम्
।
विहंगाश्च मुदा युक्ताः प्रानृत्यन्व्यनदंश्च ह ॥१६॥
गिरिपृष्ठेषु रम्येषु व्याहरन्तो जनप्रियाः
।
तत्रदेवो गिरितटे दिव्यधातुविभूषिते ॥१७॥
पर्यङ्क इव विभ्राजन्नुपविष्टो महामनाः
।
व्याघ्रचर्माम्बरधरः सिंहचर्मोत्तरच्छदः ॥१८॥
व्यालयज्ञोपवीती च लोहिताङ्गदभूषणः
।
हरिश्मश्रुर्जटी भीमो भयकर्ता सुरद्विषाम् ॥१९॥
अभयः सर्वभूतानां भक्तानां वृषभध्वजः
।
दृष्ट्वा महर्षयः सर्वे शिरोभिरवनिं गताः ॥२०॥
विमुक्ताः सर्वपापेभ्यः क्षान्ता विगतकल्मषाः
।
तस्य भूतपतेः स्थानं भीमरूपधरं बभौ ॥२१॥
अप्रधृष्यतरं चैव महोरगसमाकुलम्
।
क्षणेनैवाभवत्सर्वमद्भुतं मधुसूदन ॥२२॥
तत्सदो वृषभांकस्य भीमरूपधरं बभौ
।
तमभ्ययाच्छैलसुता भूतस्त्रीगणसंवृता ॥२३॥
हरतुल्वाम्बरधरा समानव्रतधारिणी
।
बिभ्रती कलशं रौक्मं सर्वतीर्थजलोद्भवम् ॥२४॥
गिरिस्रवाभिः सर्वाभिः पृष्ठतोऽनुगता शुभा
।
पुष्पवृष्ट्याभिवर्षन्ती गन्धैर्बहुविधैस्तथा
।
सेवन्ती हिमवत्पार्श्वं हरपार्श्वमुपागमत् ॥२५॥
ततः स्मयन्तीं पाणिभ्यां नर्मार्थं चारुहासिनी
।
हरनेत्रे शुभे देवी सहसा सा समावृणोत् ॥२६॥
संवृताभ्यां तु नेत्राभ्यां तमोभूतमचेतनम्
।
निर्होमं निर्वषट्कारं जगद्वै सहसाऽभवत् ॥२७॥
जनश्च विमनाः सर्वोऽभवत्त्राससमन्वितः
।
निमीलिते भूतपतौ नष्टसूर्य इवाभवत् ॥२८॥
ततो वितिमिरो लोकः क्षणेन समपद्यत
।
ज्वाला च महती दीप्ता ललाटात्तस्य निःसृता ॥२९॥
तृतीयं चास्य संभूतं नेत्रमादित्यसन्निभम्
।
युगान्तसदृशं दीप्तं येनासौ मथितो गिरिः ॥३०॥
ततो गिरिसुता दृष्ट्वा दीप्ताग्निसदृशेक्षणम्
।
हरं प्रणम्य शिरसा ददर्शायतलोचना ॥३१॥
दह्यमाने वने तस्मिन् ससालसरलद्रुमे
।
सचन्दनवरे रम्ये दिव्यौषधिविदीपिते ॥३२॥
मृगयूथैर्द्रुतैर्भीतैर्हरपार्श्वमुपागतैः
।
शरणं चाप्यविन्दद्भिस्तत्सदः संकुलं बभौ ॥३३॥
ततो नभस्पृशज्वालो विद्युल्लोलाग्निरुल्बणः
।
द्वादशादित्यसदृशो युगान्ताग्निरिवापरः ॥३४॥
क्षणेन तेन निर्दग्धो हिमवानभवन्नगः
।
स धातुशिखराभोगो दीप्तदग्धलतौषधिः ॥३५॥
तं दृष्ट्वा मथितं शैलं शैलराजसुता ततः
।
भगवन्तं प्रपन्ना वै साञ्जलिप्रग्रहा स्थिता ॥३६॥
उमां शर्वस्तदा दृष्ट्वा स्त्रीभावगतमार्दवाम्
।
पितुर्दैन्यमनिच्छन्ती प्रीत्याऽपश्यत्तदा गिरिम् ॥३७॥
क्षणेन हिमवान्सर्वः प्रकृतिस्थः सुदर्शनः
।
प्रहृष्टविहगश्चैव सुपुष्पितवनद्रुमः ॥३८॥
प्रकृतिस्थं गिरिं दृष्ट्वा प्रीता देवं महेश्वरम्
।
उवाच सर्वलोकानां पतिं शिवमनिन्दिता ॥३९॥
उमोवाच
।
भगवन् सर्वभूतेश शूलपाणे महाव्रत
।
संशयो मे महान् जातस्तन्मे व्याख्यातुमर्हसि ॥४०॥
किमर्थं ते ललाटे वै तृतीयं नेत्रमुत्थितम्
।
किमर्थं च गिरिर्दग्धः सपक्षिगणकाननः ॥४१॥
किमर्थं च पुनर्देव प्रकृतिस्थस्त्वया कृतः
।
तथैव द्रुमसंच्छन्नः कृतोऽयं ते पिता मम ॥४२॥
महेश्वर उवाच। नेत्रे मे संवृते देवि त्वया बाल्यादनिन्दिते
।
नष्टालोकस्तदा लोकः क्षणेन समपद्यत ॥४३॥
नष्टादित्ये तथा लोके तमोभूते नगात्मजे
।
तृतीयं लोचनं दप्तिं सृष्टं मे रक्षता प्रजाः ॥४४॥
तस्य चाक्ष्णो महत्तेजो येनायं मथितो गिरिः
।
त्वत्प्रियार्थं च मे देवि प्रकृतिस्थः पुनः कृतः ॥४५॥
उमोवाच
।
भगवन्केन ते वक्त्रं चन्द्रवत्प्रियदर्शनम्
।
पूर्वं तथैव श्रीकान्तमुत्तरं पश्चिमं तथा ॥४६॥
दक्षिणं च मुखं रौद्रं केनोर्ध्वं कपिला जटाः
।
केन कण्ठश्च ते नीलो बर्हिबर्हनिभः कृतः॥४७॥
हस्ते देव पिनाकं ते सततं केन तिष्ठति
।
जटिलो ब्रह्मचारी च किमर्थमसि नित्यदा ॥४८॥
एतन्मे संशयं सर्वं वक्तुमर्हसि वै प्रभो
।
सधर्मचारिणी चाहं भक्ता चेति वृषध्वज ॥४९॥
भीष्म उवाच। एवमुक्तः स भगवान्शैलपुत्र्या पिनाकधृत्
।
तस्या धृत्या च बुद्ध्या च प्रीतिमानभवत्प्रभुः ॥५०॥
ततस्तामब्रवीद्देवः सुभगे श्रूयतामिति
।
हेतुभिर्यैर्ममैतानि रूपाणि रुचिरानने ॥५१॥
श्रीभगवानुवाच
।
तिलोत्तमा नाम पुरा ब्रह्मणा योषिदुत्तमा
।
तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा ॥१॥
साऽभ्यगच्छत मां देवि रूपेणाप्रतिमा भुवि
।
प्रदक्षिणं लोभयन्ती मां शुभे रुचिरानना ॥२॥
यता यतः सा सुदती मामुपाधावदन्तिके
।
ततस्ततां मुखं चारु मम देवि विनिर्गतम् ॥३॥
तां दिदृक्षुरहं योगाच्चतुर्मूर्तित्वमागतः
।
चतुर्मुखश्च संवृत्तो दर्शयन्योगमुत्तमम् ॥४॥
पूर्वेण वदनेनाहमिन्द्रत्वमनुशास्मि ह
।
उत्तरेण त्वया सार्धं रमाम्यहमनिन्दिते ॥५॥
पश्चिमं मे मुखं सौम्यं सर्वप्राणिसुखावहम्
।
दक्षिणं भीमसंकाशं रौद्रं संहरति प्रजाः ॥६॥
जटिलो ब्रह्मचारी च लोकानां हितकाम्यया
।
देवकार्यार्थसिद्ध्यर्थं पिनाकं मे करे स्थितम् ॥७॥
इन्द्रेण च पुरा वज्रं क्षिप्तं श्रीकांक्षिणा मम
।
दग्ध्वा कण्ठं तु तद्यातं तेन श्रीकण्ठता मम ॥८॥
उमोवाच
।
वाहनेष्वत्र सर्वेषु श्रीमत्स्वन्येषु सत्तम
।
कथं च वृषभो देव वाहनत्वमुपागतः ॥९॥
महेश्वर उवाच। सुरभीमसृजद्ब्रह्मा देवधेनुं पयोमुचम्
।
सा सृष्टा बहुधा जाता क्षरमाणा पयोऽमृतम् ॥१०॥
तस्या वत्समुखोत्सृष्टः फेनो मद्गात्रमागतः
।
ततो दग्धा मया गावो नानावर्णत्वमागताः ॥११॥
।
ततोऽहं लोकगुरुणा शमं नीतोऽर्थवेदिना
।
वृषं चैनं ध्वजार्थं मे ददौ वाहनमेव च ॥१२॥
उमोवाच
।
निवासा बहुरूपास्ते दिवि सर्वगुणान्विताः
।
तांश्च संत्यज्य भगवन् श्मशाने रमसे कथम् ॥१३॥
केशास्थिकलिले भीमे कपालघटसंकुले
।
गृध्रगोमायुबहुले चिताग्निशतसंकुले ॥१४॥
अशुचौ मांसकलिले वसाशोणितकर्दमे
।
विकीर्णान्त्रास्थिनिचये शिवानादविनादिते ॥१५॥
महेश्वर उवाच। मेध्यान्वेषी महीं कृत्स्नां विचराम्यनिशं सदा
।
न च मेध्यतरं किञ्चित् श्मशानादिह लक्ष्यते ॥१६॥
तेन मे सर्ववासानां श्मशाने रमते मनः
।
न्यग्रोधशाखासंछन्ने निर्भुग्नस्रग्विभूषिते ॥१७॥
तत्र चैव रमन्तीमे भूतसंघाः शुचिस्मिते
।
न च भूतगणैर्देवि विनाऽहं वस्तुमुत्सहे ॥१८॥
एष वासो हि मे मेध्यः स्वर्गीयश्च मतः शुभे
।
पुण्यः परमकश्चैव मेध्यकामैरुपास्यते ॥१९॥
उमोवाच
।
भगवन् सर्वभूतेश सर्वधर्मविदां वर
।
पिनाकपाणे वरद संशयो मे महानयम् ॥२०॥
अयं मुनिगणः सर्वस्तपस्तेप इति प्रभो
।
तपोवेषकरो लोके भ्रमते विविधाकृतिः ॥२१॥
अस्य चैवर्षिसंघस्य मम च प्रियकाम्यया
।
एतं ममेह सन्देहं वक्तुमर्हस्यरिन्दम ॥२२॥
धर्मः किंलक्षणः प्रोक्तः कथं वा चरितुं नरैः
।
शक्यो धर्ममविन्दद्भिर्धर्मज्ञ वद मे प्रभो ॥२३॥
नारद उवाच। ततो मुनिगणः सर्वस्तां देवीं प्रत्यपूजयत्
।
वाग्भिरृग्भूषितार्थाभिः स्तवैश्चार्थविशारदैः ॥२४॥
महेश्वर उवाच। अहिंसा सत्यवचनं सर्वभूतानुकंपनम्
।
शमो दानं यथाशक्ति गार्हस्थ्यो धर्म उत्तमः ॥२५॥
परदारेष्वसंसर्गो न्यासस्त्रीपरिरक्षणम्
।
अदत्तादानविरमो मधुमांसस्य वर्जनम् ॥२६॥
एष पञ्चविधो धर्मो बहुशाखः सुखोदयः
।
देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसंभवः ॥२७॥
उमोवाच
।
भगवन् संशयः पृष्टस्तन्मे शंसितुमर्हसि
।
चातुर्वर्ण्यस्य यो धर्मः स्वे स्वे वर्णे गुणावहः ॥२८॥
ब्राह्मणे कीदृशो धर्मः क्षत्रिये कीदृशोऽभवत्
।
वैश्ये किंलक्षणो धर्मः शूद्रे किंलक्षणो भवेत् ॥२९॥
महेश्वर उवाच। न्यायतस्ते महाभागे सर्वशः समुदीरितः
।
भूमिदेवा महाभागाः सदा लोके द्विजातयः ॥३०॥
उपवासः सदा धर्मो ब्राह्मणस्य न संशयः
।
स हि धर्मार्थसंपन्नो ब्रह्मभूयाय कल्पते ॥३१॥
तस्य धर्मक्रिया देवि ब्रह्मचर्या च न्यायतः
।
व्रतोपनयनं चैव द्विजो येनोपपद्यते ॥३२॥
गुरुदैवतपूजार्थं स्वाध्यायाभ्यसनात्मकः
।
देहिभिर्धर्मपरमैश्चर्तव्यो धर्मसंभवः ॥३३॥
उमोवाच
।
भगवन् संशयो मेऽस्ति तन्मे व्याख्यातुमर्हसि
।
चातुर्वर्ण्यस्य धर्मं वै नैपुण्येन प्रकीर्तय ॥३४॥
महेश्वर उवाच। रहस्यश्रवणं धर्मो वेदव्रतनिषेवणम्
।
अग्निकार्यं तथा धर्मो गुरुकार्यप्रसाधनम् ॥३५॥
भैक्षचर्या परो धर्मो नित्ययज्ञोपवीतिता
।
नित्यं स्वाध्यायिता धर्मो ब्रह्मचर्याश्रमस्तथा ॥३६॥
गुरुणा चाभ्यनुज्ञातः समावर्तेत वै द्विजः
।
विन्देतानन्तरं भार्यामनुरूपां यथाविधि ॥३७॥
शूद्रान्नवर्जनं धर्मस्तथा सत्पथसेवनम्
।
धर्मो नित्योपवासित्वं ब्रह्मचय तथैव च ॥३८॥
आहिताग्निरधीयानो जुह्वानः संयतेन्द्रियः
।
विघसाशी यताहारो गृहस्थः सत्यवाक्शुचिः ॥३९॥
अतिथिव्रतता धर्मो धर्मस्त्रेताग्निधारणम्
।
इष्टीश्च पशुबन्धांश्च विधिपूर्वं समाचरेत् ॥४०॥
यज्ञश्च परमो धर्मस्तथाऽहिंसा च देहिषु
।
अपूर्वभोजनं धर्मो विघसाशित्वमेव च ॥४१॥
भुङ्क्ते परिजने पश्चाद्भोजनं धर्म उच्यते
।
ब्राह्मणस्य गृहस्थस्य श्रोत्रियस्य विशेषतः ॥४२॥
दम्पत्योः समशीलत्वं धर्मः स्याद्गृहमेधिनः
।
गृह्याणां चैव देवानां नित्यपुष्पबलिक्रिया ॥४३॥
नित्योपलेपनं धर्मस्तथा नित्योपवासिता
।
सुसंमृष्टोपलिप्ते च साज्यधूमो भवेद्गृहे ॥४४॥
एष द्विजजने धर्मो गार्हस्थो लोकधारणः
।
द्विजानां च सतां नित्यं सदैवैष प्रवर्तते ॥४५॥
यस्तु क्षत्रगतो देवि मया धर्म उदीरितः
।
तमहं ते प्रवक्ष्यामि तन्मे शृणु समाहिता ॥४६॥
क्षत्रियस्य स्मृतो धर्मः प्रजापालनमादितः
।
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥४७॥
प्रजाः पालयते यो हि धर्मेण मनुजाधिपः
।
तस्य धर्मार्जिता लोकाः प्रजापालनसंचिताः ॥४८॥
तस्य राज्ञः परो धर्मो दमः स्वाध्याय एव च
।
अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥४९॥
यज्ञोपवीतधरणं यज्ञो धर्मक्रियास्तथा
।
भृत्यानां भरणं धर्मः कृते कर्मण्यमोघता ॥५०॥
सम्यग्दण्डे स्थितिर्धर्मो धर्मो वेदक्रतुक्रियाः
।
व्यवहारस्थितिर्धर्मः सत्यवाक्यरतिस्तथा ॥५१॥
आर्तहस्तप्रदो राजा प्रेत्य चेह महीयते
।
गोब्राह्मणार्थे विक्रान्तः संग्रामे निधनं गतः ॥५२॥
अश्वमेधजिताँल्लोकानाप्नोति त्रिदिवालये ॥५३॥
वैश्यस्य सततं धर्मः पाशुपाल्यं कृषिस्तथा
।
अग्निहोत्रपरिस्पन्दो दानाध्ययनमेव च ॥५४॥
वाणिज्यं सत्पथस्थानमातिथ्यं प्रशमो दमः
।
विप्राणां स्वागतं त्यागो वैश्यधर्मः सनातनः ॥५५॥
तिलान् गन्धान् रसांश्चैव विक्रीणीयान्न चैव हि
।
वणिक्पथमुपासीनो वैश्यः सत्पथमाश्रितः ॥५६॥
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति यथार्हतः
।
शूद्रधर्मः परो नित्यं शुश्रूषा च द्विजातिषु ॥५७॥
स शूद्रः संशिततपाः सत्यवादी जितेन्द्रियः
।
शुश्रूषुरतिथिं प्राप्तं तपः संचिनुते महत् ॥५८॥
नित्यं स हि शुभाचारो देवताद्विजपूजकः
।
शूद्रो धर्मफलैरिष्टैः संप्रयुज्येत बुद्धिमान् ॥५९॥
एतत्ते सर्वमाख्यातं चातुर्वर्ण्यस्य शोभने
।
एकैकस्येह सुभगे किमन्यच्छ्रोतुमिच्छसि ॥६०॥
उमोवाच
।
उक्तस्त्वया पृथग्धर्मश्चातुर्वर्ण्यहितः शुभः
।
सर्वव्यापी तु यो धर्मो भगवंस्तद्ब्रवीहि मे ॥६१॥
महेश्वर उवाच। ब्राह्मणा लोकसारेण सृष्टा धात्रा गुणार्थिना
।
लोकांस्तारयितुं कृत्स्नान्मर्त्येषु क्षितिदेवताः ॥६२॥
तेषामपि प्रवक्ष्यामि धर्मकर्मफलोदयम्
।
ब्राह्मणेषु हि यो धर्मः स धर्मः परमो मतः ॥६३॥
इमे ते लोकधर्मार्थं त्रयः सृष्टाः स्वयम्भुवा
।
पृथिव्यां सर्जने नित्यं सृष्टांस्तानपि मे शृणु ॥६४॥
वेदोक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः
।
शिष्टाचीर्णो परः प्रोक्तस्त्रयो धर्माः सनातनाः ॥६५॥
त्रैविद्यो ब्राह्मणो विद्वान्न चाध्ययनजीवकः
।
त्रिकर्मा त्रिपरिक्रान्तो मैत्र एष स्मृतो द्विजः ॥६६॥
षडिमानि तु कर्माणि प्रोवाच भुवनेश्वरः
।
वृत्त्यर्थं ब्राह्मणानां वै शृणु धर्मान्सनातनान् ॥६७॥
यजनं याजनं चैव तथा दानप्रतिग्रहौ
।
अध्यापनं चाध्ययनं षट्कर्मा धर्मभाग्द्विजः ॥६८॥
नित्यः स्वाध्यायिता धर्मो धर्मो यज्ञः सनातनः
।
दानं प्रशस्यते चास्य यथाशक्ति यथाविधि ॥६९॥
शमस्तूपरमो धर्मः प्रवृत्तः सत्सु नित्यशः
।
गृहस्थानां विशुद्धानां धर्मस्य निचयो महान् ॥७०॥
पञ्चयज्ञविशुद्धात्मा सत्यवागनसूयकः
।
दाता ब्राह्मणसत्कर्ता सुसंसृष्टनिवेशनः ॥७१॥
अमानी च सदाऽजिह्मः स्निग्धवाणीप्रदस्तथा
।
अतिथ्यभ्यागतरतिः शेषान्नकृतभोजनः ॥७२॥
पाद्यमर्घ्यं यथान्यायमासनं शयनं तथा
।
दीपं प्रतिश्रयं चैव यो ददाति स धार्मिकः ॥७३॥
प्रातरुत्थाय चाचम्य भोजनेनोपमन्त्र्य च
।
सत्कृत्यानुवजेद्यस्तु तस्य धर्मः सनातनः ॥७४॥
सर्वातिथ्यं त्रिवर्गस्य यथाशक्ति निशानिशम्
।
शूद्रधर्मः समाख्यातस्त्रिवर्गपरिचारणम् ॥७५॥
प्रवृत्तिलक्षणो धर्मो गृहस्थेषु विधीयते
।
तमहं वर्तयिष्यामि सर्वभूतहितं शुभम् ॥७६॥
दातव्यमसकृच्छक्त्या यष्टव्यमसकृत्तथा
।
पुष्टिकर्मविधानं च कर्तव्यं भूतिमिच्छता ॥७७॥
धर्मेणार्थः समाहार्यो धर्मलब्धं त्रिधा धनम्
।
कर्तव्यं धर्मपरमं मानवेन प्रयत्नतः ॥७८॥
एकेनांशेन धर्मार्थौ कर्तव्यौ भूतिमिच्छता
।
एकेनांशेन कामार्थ एकमंशं विवर्धयेत् ॥७९॥
निवृत्तिलक्षणस्त्वन्यो धर्मो मोक्षाय तिष्ठति
।
तस्य वृत्तिं प्रवक्ष्यामि शृणु मे देवि तत्त्वतः ॥८०॥
सर्वभूतद्या धर्मो न चैकग्रामवासिता
।
आशापाशविमोक्षश्च शस्यते मोक्षकांक्षिणाम् ॥८१॥
न कुट्यां नोदके सङ्गो न वाससि न चासने
।
न त्रिदण्डे न शयने नाग्नौ न शरणालये ॥८२॥
अध्यात्मगत्तिचित्तो यस्तन्मनास्तत्परायणः
।
युक्तो योगं प्रति सदा प्रतिसंख्यानमेव च ॥८३॥
वृक्षमूलपरो नित्यं शून्यागारनिवेशनः
।
नदीपुलिनशायी च नदीतीररतिश्च यः ॥८४॥
विमुक्तः सर्वसङ्गेषु स्नेहबन्धेषु च द्विजः
।
आत्मन्येवात्मनो भावं समासज्जेत वै द्विजः ॥८५॥
स्थाणुभूतो निराहारो मोक्षदृष्टेन कर्मणा
।
परिव्रजति यो युक्तस्तस्य धर्मः सनातनः ॥८६॥
न चैकत्र समासक्तो न चैकग्रामगोचरः
।
मुक्तो ह्यटति निर्मुक्तो न चैकपुलिनेशयः ॥८७॥
एष मोक्षविदां धर्मो वेदोक्तः सत्पथः सताम्
।
यो मार्गमनुयातीमं पदं तस्य च विद्यते ॥८८॥
चतुर्विधा भिक्षवस्ते कुटीचकबहूदकौ
।
हंसः परमहंसश्च यो यः पश्चात्स उत्तमः ॥८९॥
अतः परतरं नास्ति नावरं न तिरोग्रतः
।
अदुःखमसुखं सौम्यमजरामरमध्ययम् ॥९०॥
उमोवाच
।
गार्हस्थ्यो मोक्षधर्मश्च सज्जनाचरितस्त्वया
।
भाषितो जीवलोकस्य मार्गः श्रेयस्करो महान् ॥९१॥
ऋषिधर्मं तु धर्मज्ञ श्रोतुमिच्छाम्यतः परम्
।
स्पृहा भवति मे नित्यं तपोवननिवासिषु ॥९२॥
आज्यधूमोद्भवो गन्धो रुणद्धीव तपोवनम्
।
तं दृष्ट्वा मे मनः प्रीतं महेश्वर सदा भवेत् ॥९३॥
एतन्मे संशयं देव सुनिधर्मकृतं विभो
।
सर्वधर्मार्थतत्त्वज्ञ देवदेव वदस्व मे
।
निखिलेन मया पृष्टं महादेव यथातथम् ॥९४॥
श्रीभगवानुवाच। हन्त तेऽहं प्रवक्ष्यामि मुनिधर्ममनुत्तमम्
।
यं कृत्वा मुनयो यान्ति सिद्धिं स्वतपसा शुभे ॥९५॥
फेनपानामृषीणां यो धर्मो धर्मविदां सताम्
।
तन्मे शृणु महाभागे धर्मज्ञे धर्ममादितः ॥९६॥
उंच्छन्ति सततं ये ते ब्राह्म्यं फेनोत्करं शुभम्
।
अमृतं ब्रह्मणा पीतमध्वरे प्रसृतं दिवि ॥९७॥
एष तेषां विशुद्धानां फेनपानां तपोधने
।
धर्मचर्याकृतो मार्गो वालखिल्यगणैः शृणु ॥९८॥
वालखिल्यास्तपः सिद्धा मुनयः सूर्यमण्डले
।
उंच्छे तिष्ठन्ति धर्मज्ञाः शाकुनीं वृत्तिमास्थिताः ॥९९॥
मृगनिमर्मोकवसनाश्चीरवल्कलवाससः
।
निर्द्वन्द्वाः सत्पथं प्राप्ता वालखिल्यास्तपोधनाः ॥१००॥
अङ्गुष्ठपर्वमात्रा ये भूत्वा स्वे स्वे व्यवस्थिताः
।
तपश्चरणमीहन्ते तेषां धर्मफलं महत् ॥१०१॥
ते सुरैः समतां यान्ति सुरकार्यार्थसिद्धये
।
द्योतयन्ति दिशः सर्वास्तपसा दग्धकिल्विषाः ॥१०२॥
ये त्वन्ये शुद्धमनसो दयाधर्मपरायणाः
।
सन्तश्चक्रचराः पुण्याः सोमलोकचराश्च ये ॥१०३॥
पितृलोकसमीपस्थास्त उंच्छन्ति यथाविधि
।
संप्रक्षालाश्मकुट्टाश्च दन्तोलूखलिकाश्च ते ॥१०४॥
सोमपानां च देवानामूष्मपाणां तथैव च
।
उंच्छन्ति ये समीपस्थाः सदारा नियतेन्द्रियाः
।
तेषामग्निपरिस्यन्दः पितॄणां चार्चनं तथा
।
यज्ञानां चैव पञ्चानां यजनं धर्म उच्यते ॥१०६॥
एष चक्रचरैर्देवि देवलोकचरैर्द्विजैः
।
ऋषिधर्मः सदा चीर्णो योऽन्यस्तमपि मे शृणु ॥१०७॥
सर्वेष्वेवर्षिधर्मेषु ज्ञेयोऽऽत्मा संयतेन्द्रियैः
।
कामक्रोधौ ततः पश्चाज्जेतव्याविति मे मतिः ॥१०८॥
अग्निहोत्रपरिस्पन्दो धर्मरात्रिसमासनम्
।
सोमयज्ञाभ्यनुज्ञानं पञ्चमी यज्ञदक्षिणा॥१०९॥
नित्यं यज्ञक्रिया धर्मः पितृदेवार्चने रतिः
।
सर्वातिथ्यं च कर्तव्यमन्नेनोंच्छार्जितेन वै ॥११०॥
निवृत्तिरुपभोगेषु गोरसानां शमे रतिः
।
स्थंडिले शयने योगः शाकपर्णनिषेवणम् ॥१११॥
फलमूलाशनं वायुरापः शैवलभक्षणम्
।
ऋषीणां नियमा ह्येते यैर्जयन्त्यजितां गतिम् ॥११२॥
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने
।
अतीतपात्रसञ्चारे काले विगतभिक्षुके ॥११३॥
अतिथिं कांक्षमाणो वै शेषान्नकृतभोजनः
।
सत्यधर्मरतः शान्तो मुनिधर्मेण युज्यते ॥११४॥
न स्तम्भी न च मानी स्यान्नाप्रसन्नो न विस्मितः
।
मित्रामित्रसमो मैत्रो यः स धर्मविदुत्तमः ॥११५॥
उमोवाच
।
देशेषु रमणीयेषु नदीनां निर्झरेषु च
।
स्रवन्तीनां निकुञ्जेषु पर्वतेषु वनेषु च ॥१॥
देशेषु च पवित्रेषु फलवत्सु समाहिताः
।
मूलवत्सु च मेध्येषु वसन्ति नियतव्रताः ॥२॥
तेषामपि विधिं पुण्यं श्रोतुमिच्छामि शङ्कर
।
वानप्रस्थेषु देवेश स्वशरीरोपजीविषु ॥३॥
महेश्वर उवाच। वानप्रस्थेषु यो धर्मस्तं मे शृणु समाहिता
।
श्रुत्वा चैकमना देवि धर्मबुद्धिपरा भव ॥४॥
संसिद्धैर्नियमैः सद्भिर्वनवासमुपागतैः
।
वानप्रस्थैरिदं कर्म कर्तव्यं शृणु यादृशम् ॥५॥
त्रिकालमभिषेकं च पितृदेवार्चनं तथा
।
अग्निहोत्रपरिस्यन्द इष्टिहोमविधिस्तथा ॥६॥
नीवारग्रहणं चैव फलमूलनिषेवणम्
।
इङ्गुदैरण्डतैलानां स्नेहार्थे च निषेवणम् ॥७॥
योगचर्याकृतैः सिद्धैः कामक्रोधविवर्जितैः
।
वीरशय्यामुपासद्भिर्वीरस्थानोपसेविभिः ॥८॥
युक्तैर्योगवहैः सद्भिर्ग्रीष्मे पञ्चतपैस्तथा
।
मण्डूकयोगनियतैर्यथान्यायं निषेविभिः ॥९॥
वीरासनरतैर्नित्यं स्थण्डिले शयनं तथा
।
शीततोयाग्नियोगश्च चर्तव्यो धर्मबुद्धिभिः ॥१०॥
अब्भक्षैर्वायुभक्षैश्च शैवलोत्तरभोजनैः
।
अश्मकुट्टैस्तथा दांतैः संप्रक्षालैस्तथापरैः ॥११॥
चीरवल्कलसंवीतैर्मृगचर्मानिवासिभिः
।
कार्या यात्रा यथाकालं यथाधर्मं यथाविधि ॥१२॥
वननित्यैर्वनचरैर्वनस्थैर्वनगोचरैः
।
वनं गुरुमिवासाद्य वस्तव्यं वनजीविभिः ॥१३॥
तेषां होमक्रिया धर्मः पञ्चयज्ञनिषेवणम्
।
भागं च पञ्चयज्ञस्य वेदोक्तस्यानुपालनम् ॥१४॥
अष्टमी यज्ञपरता चातुर्मास्यनिषेवणम्
।
पौर्णमासादयो यज्ञा नित्ययज्ञस्तथैव च ॥१५॥
विमुक्ता दारसंयोगैर्विमुक्ताः सर्वसङ्करैः
।
विमुक्ताः सर्वपापैश्च चरन्ति मुनयो वने ॥१६॥
स्रुग्भाण्डपरमा नित्यं त्रेताग्निशरणाः सदा
।
सन्तः सत्पथनित्या ये ते यान्ति परमां गतिम् ॥१७॥
ब्रह्मलोकं महापुण्यं सोमलोकं च शाश्वतम्
।
गच्छन्ति मुनयः सिद्धाः सत्यधर्मव्यपाश्रयाः ॥१८॥
एष धर्मो मया देवि वानप्रस्थाश्रितः शुभः
।
विस्तरेणाथ संपन्नो यथास्थूलमुदाहृतः ॥१९॥
उमोवाच
।
भगवन्सर्वभूतेश सर्वभूतनमस्कृत
।
यो धर्मो मुनिसङ्गस्य सिद्धिवादेषु तं वद ॥२०॥
सिद्धिवादेषु संसिद्धास्तथा वननिवासिनः
।
स्वैरिणो दारसंयुक्तास्तेषां धर्मः कथं स्मृतः ॥२१॥
महेश्वर उवाच। स्वैरिणस्तपसा देवि सर्वे दारविहारिणः
।
तेषां मौण्ड्यं कषायश्च वासे रात्रिश्च कारणम् ॥२२॥
त्रिकालमभिषेकश्च होत्रं त्वृषिकृतं महत्
।
समाधिसत्पथस्थानं यथोद्दिष्टनिषेवणम् ॥२३॥
ये च ते पूर्वकथिता धर्मास्ते वनवासिनाम्
।
यदि सेवन्ति धर्मांस्तानाप्नुवन्ति तपःफलम् ॥२४॥
ये च दम्पतिधर्माणः स्वदारनियतेन्द्रियाः
।
चरन्ति विधिदृष्टं तदनुकालाभिगामिनः ॥२५॥
तेषामृषिकृतो धर्मो धर्मिणामुपपद्यते
।
न कामकारात्कामोन्यः संसेव्यो धर्मदर्शिभिः ॥२६॥
सर्वभूतेषु यः सम्यग्ददात्यभयदक्षिणाम्
।
हिंसादोषविमुक्ताऽऽत्मा स वै धर्मेण युज्यते ॥२७॥
सर्वभूतानुकम्पी यः सर्वभूतार्जवव्रतः
।
सर्वभूतात्मभूतश्च स वै धर्मेण युज्यते ॥२८॥
सर्ववेदेषु वा स्नानं सर्वभूतेषु चार्जवम्
।
उभे एते समे स्यातामार्जवं वा विशिष्यते ॥२९॥
आर्जवं धर्ममित्याहुरधर्मो जिह्म उच्यते
।
आर्जवेनेह संयुक्तो नरो धर्मेण युज्यते ॥३०॥
आर्जवे तु रतो नित्यं वसत्यमरसन्निधौ
।
तस्मादार्जवयुक्तः स्याद्य इच्छेद्धर्ममात्मनः ॥३१॥
क्षान्तो दान्तो जितक्रोधो धर्मभूतो विहिंसकः
।
धर्मे रतमना नित्यं नरो धर्मेण युज्यते ॥३२॥
व्यपेततन्द्रिर्धर्मात्मा शक्त्या सत्पथमाश्रितः
।
चारित्रपरमो बुद्धो ब्रह्मभूयाय कल्पते ॥३३॥
उमोवाच
।
आश्रमाभिरता देव तापसा ये तपोधनाः
।
दीप्तिमन्तः कया चैव चर्ययाऽथ भवन्ति ते ॥३४॥
राजानो राजपुत्राश्च निर्धना ये महाधनाः
।
कर्मणा केन भगवन्प्राप्नुवन्ति महाफलम् ॥३५॥
नित्यं स्थानमुपागम्य दिव्यचन्दनभूषिताः
।
केन वा कर्मणा देव भवन्ति वनगोचराः ॥३६॥
एतन्मे संशयं देव तपश्चर्याऽऽश्रितं शुभम्
।
शंस सर्वमशेषेण त्र्यक्ष त्रिपुरनाशन ॥३७॥
महेश्वर उवाच। उपवासव्रतैर्दान्ता ह्यहिंस्राः सत्यवादिनः
।
संसिद्धाः प्रेत्य गन्धर्वैः सह मोदन्त्यनामयाः ॥३८॥
मण्डूकयोगशयनो यथान्यायं यथाविधि
।
दीक्षां चरति धर्मात्मा स नागैः सह मोदते ॥३९॥
शष्पं मृगमुखोच्छिष्टं यो मृगैः सह भक्षति
।
दीक्षितो वै मुदा युक्तः स गच्छत्यमरावतीम् ॥४०॥
शैवालं शीर्णपर्णं वा तद्व्रती यो निषेवते
।
शीतयोगवहो नित्यं स गच्छेत्परमां गतिम् ॥४१॥
वायुभक्षोऽम्बुभक्षो वा फलमूलाशनोपि वा
।
यक्षेष्वैश्वर्यमाधाय मोदतेऽप्सरसां गणैः ॥४२॥
अग्नियोगवहो ग्रीष्मे विधिदृष्टेन कर्मणा
।
चीर्त्वा द्वादशवर्षाणि राजा भवति पार्थिवः ॥४३॥
आहारनियमं कृत्वा मुनिर्द्वादशवार्षिकम्
।
मरुं संसाध्य यत्नेन राजा भवति पार्थिवः ॥४४॥
स्थण्डिले शुद्धमाकाशं परिगृह्य समन्ततः
।
प्रविश्य च मुदा युक्तो दीक्षां द्वादशवार्षिकीम् ॥४५॥
देहं चानशने त्यक्त्वा स स्वर्गे सुखमेधते
।
स्थण्डिलस्य फलान्याहुर्यानानि शयनानि च ॥४६॥
गृहाणि च महार्हाणि चन्द्रशुभ्राणि भामिनि
।
आत्मानमुपजीवन्यो नियतो नियताशनः ॥४७॥
देहं वाऽनशने त्यक्त्या स स्वर्गं समुपाश्नुते
।
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ॥४८॥
त्यक्त्वा महार्णवे देहं वारुणं लोकमश्नुते
।
आत्मानमुपजीवन्यो दीक्षां द्वादशवार्षिकीम् ॥४९॥
अश्मना चरणौ भित्त्वा गुह्यकेषु स मोदते
।
साधयित्वाऽऽत्मनाऽऽत्मानं निर्द्वन्द्वो निष्परिग्रहः ॥५०॥
चीर्त्वा द्वादशवर्षाणि दीक्षामेतां मनोगताम्
।
स्वर्गलोकमवाप्नोति देवैश्च सह मोदते ॥५१॥
आत्मानमुपजीवन्यो दीक्षांद्वादशवार्षिकीम्
।
हुत्वाऽग्नौ देहमुत्सृज्य वह्निलोके महीयते ॥५२॥
यस्तु देवि यथान्यायं दीक्षितो नियतो द्विजः
।
आत्मन्यात्मानमाधाय निर्ममो धर्मलालसः ॥५३॥
चीर्त्वा द्वादशवर्षाणि दीक्षामेतां मनोगताम्
।
अरणीसहितं स्कन्धे वध्वा गच्छत्यनावृतः ॥५४॥
वीराध्यानगतो नित्यं वीरासनरतस्तथा
।
वीरस्थायी च सततं स वीरगतिमाप्नुयात् ॥५५॥
स शक्रलोकगो नित्यं सर्वकामपुरस्कृतः
।
दिव्यपुष्पसमाकीर्णो दिव्यचन्दनभूषितः ॥५६॥
सुखं वसति धर्मात्मा दिवि देवगणैः सह
।
वीरलोकगतो नित्यं वीरयोगसहः सदा ॥५७॥
सत्त्वस्थः सर्वमुत्सृज्य दीक्षितो नियतः शुचिः
।
वीराध्वानं प्रपद्येद्यस्तस्य लोकाः सनातनाः ॥५८॥
कामगेन विमानेन स वै चरति च्छन्दतः
।
शक्रलोकगतः श्रीमान्मोदते च निरामयः ॥५९॥
उमोवाच
।
भगवन् भगनेत्रघ्न पूष्णो दन्तनिपातन
।
दक्षक्रतुहर त्र्यक्ष संशयो मे महानयम् ॥१॥
चातुर्वर्ण्यं भगवता पूर्वं सृष्टं स्वयंभुवा
।
केन कर्मविपाकेन वैश्यो गच्छति शूद्रताम् ॥२॥
वैश्यो वा क्षत्रियः केन द्विजो वा क्षत्रियो भवेत्
।
प्रतिलोमः कथं देव शक्यो धर्मो निवर्तितुम् ॥३॥
केन वा कर्मणा विप्रः शूद्रयोनौ प्रजायते
।
क्षत्रियः शूद्रतामेति केन वा कर्मणा विभो ॥४॥
एतन्मे संशयं देव वद भूतपतेऽनघ
।
त्रयो वर्णाः प्रकृत्येह कथं ब्राह्मण्यमाप्नुयुः ॥५॥
महेश्वर उवाच। ब्राह्मण्यं देवि दुष्प्रापं निसर्गाद्ब्राह्मणः शुभे
।
क्षत्रियो वैश्यशूद्रो वा निसर्गादिति मे मतिः ॥६॥
कर्मणा दुष्कृतेनेह स्थानाद्भ्रश्यति वै द्विजः
।
ज्येष्ठं वर्णमनुप्राप्य तस्माद्रक्षेत वै द्विजः ॥७॥
स्थितो ब्राह्मणधर्मेण ब्राह्मण्यमुपजीवति
।
क्षत्रियो वाऽथ वैश्यो वा ब्रह्मभूयं स गच्छति ॥८॥
यस्तु विप्रत्वमुत्सृज्य क्षात्रं धर्मं निषेवते
।
ब्राह्मण्यात्स परिभ्रष्टः क्षत्रयोनौ प्रजायते ॥९॥
वैश्यकर्म च यो विप्रो लोभमोहव्यपाश्रयः
।
ब्राह्मण्यं दुर्लभं प्राप्य करोत्यल्पमतिः सदा ॥१०॥
स द्विजो वैश्यतामेति वैश्यो वा शूद्रतामियात्
।
स्वधर्मात्प्रच्युतो विप्रस्ततः शूद्रत्त्वमाप्नुते ॥११॥
तत्रासौ निरयं प्राप्तो वर्णभ्रष्टो बहिष्कृतः
।
ब्रह्मलोकात्परिभ्रष्टः शूद्रः समुपजायते ॥१२॥
क्षत्रियो वा महाभागे वैश्यो वा धर्मचारिणि
।
स्वानि कर्माण्यपाहाय शूद्रकर्म निषेवते ॥१३॥
स्वस्थानात्स परिभ्रष्टो वर्णसङ्करतां गतः
।
ब्राह्मणः क्षत्रियो वैश्यः शूद्रत्वं याति तादृशः ॥१४॥
यस्तु बुद्धः स्वधर्मेण ज्ञानविज्ञानवान् शुचिः
।
धर्मज्ञो धर्मनिरतः स धर्मफलमश्नुते ॥१५॥
इदं चैवापरं देवि ब्रह्मणा समुदाहृतम्
।
अध्यात्मं नैष्ठिकं सद्भिर्धर्मकामैर्निषेव्यते ॥१६॥
उग्रान्नं गर्हितं देवि गणान्नं श्राद्धसूतकम्
।
दुष्टान्नं नैव भोक्तव्यं शूद्रान्नं नैव कर्हिचित् ॥१७॥
शूद्रान्नं गर्हितं देवि सदा देवैर्महात्मभिः
।
पितामहसुखोत्सृष्टं प्रमाणमिति मे मतिः ॥१८॥
शूद्रान्नेनावशेषेण जठरे यो म्रियेद्द्विजः
।
आहिताग्निस्तथा यज्वा स शूद्रगतिभाग्भवेत् ॥१९॥
तेन शूद्रान्नशेषेण ब्रह्मस्थानादपाकृतः
।
ब्राह्मणः शूद्रतामेति नास्ति तत्र विचारणा ॥२०॥
यस्यान्नेनावशेषेण जठरे यो म्रियेद्द्विजः
।
तां तां योनिं व्रजेद्विप्रो यस्यान्नमुपजीवति ॥२१॥
ब्राह्मणत्वं शुभं प्राप्य दुर्लभं योऽवमन्यते
।
अभोज्यान्नानि चाश्नाति स द्विजत्वात्पतेत वै ॥२२॥
सुरापो ब्रह्महा क्षुद्रश्चोरो भग्नव्रतोऽशुचिः
।
स्वाध्यायवर्जितः पापो लुब्धो नैकृतिकः शठः ॥२३॥
अव्रती वृषलीभर्ता कुंडाशी सोमविक्रयी
।
निहीनसेवी विप्रो हि पतति ब्रह्मयोनितः ॥२४॥
गुरुतल्पी गुरुद्रोही गुरुकुत्सारतिश्च यः
।
ब्रह्मविच्चापि पतति ब्राह्मणो ब्रह्मयोनितः ॥२५॥
एभिस्तु कर्मभिर्देवि शुभैराचरितैस्तथा
।
शूद्रो ब्राह्मणतां याति वैश्यः क्षत्रियतां व्रजेत् ॥२६॥
शूद्रकर्माणि सर्वाणि यथान्यायं यथाविधि
।
शुश्रूषां परिचर्यां च ज्येष्ठे वर्णे प्रयत्नतः ॥२७॥
कुर्यादविमनाः शूद्रः सततं सत्पथे स्थितः
।
देवद्विजातिसत्कर्ता सर्वातिथ्यकृतव्रतः ॥२८॥
ऋतुकालाभिगामी च नियतो नियताशनः
।
चोक्षश्चोक्षजनान्वेषी शेषान्नकृतभोजनः ॥२९॥
वृथामांसं न भुञ्जीत शूद्रो वैश्यत्वमृच्छति
।
ऋतवागनहंवादी निर्द्वन्द्वः शमकोविदः ॥३०॥
यजते नित्ययज्ञैश्च स्वाध्यायपरमः शुचिः
।
दान्तो ब्राह्मणसत्कर्ता सर्ववर्णबुभूषकः ॥३१॥
गृहस्थव्रतमातिष्ठन् द्विकालकृतभोजनः
।
शेषाशी विजिताहारो निष्कामो निरहंवदः ॥३२॥
अग्निहोत्रमुपासंश्च जुह्वानश्च यथाविधि
।
सर्वातिथ्यमुपातिष्ठन् शेषान्नकृतभोजनः ॥३३॥
त्रेताग्निमन्त्रविहितो वैश्यो भवति वै द्विजः
।
स वैश्यः क्षत्रियकुले शुचौ महति जायते ॥३४॥
स वैश्यः क्षत्रियो जातो जन्मप्रभृति संस्कृतः
।
उपनीतो व्रतपरो द्विजो भवति सत्कृतः ॥३५॥
ददाति यजते यज्ञैः समृद्धैराप्तदक्षिणैः
।
अधीत्य स्वर्गमन्विच्छंस्त्रेताग्निशरणः सदा ॥३६॥
आर्तहस्तप्रदो नित्यं प्रजा धर्मेण पालयन्
।
सत्यः सत्यानि कुरुते नित्यं यः सुखदर्शनः ॥३७॥
धर्मदण्डो न निर्दण्डो धर्मकार्यानुशासकः
।
यन्त्रितः कार्यकरणैः षड्भागकृतलक्षणः ॥३८॥
ग्राम्यधर्मं न सेवेत स्वच्छन्देनार्थकोविदः
।
ऋतुकाले तु धर्मात्मा पत्नीमुपशयेत्सदा ॥३९॥
सदोपवासी नियतः स्वाध्यायनिरतः शुचिः
।
बर्हिष्कान्तरिते नित्यं शयानोऽग्निगृहे सदा ॥४०॥
सर्वातिथ्यं त्रिवर्गस्य कुर्वाणः सुमनाः सदा
।
शूद्राणां चान्नकामानां नित्यं सिद्धमिति ब्रुवन् ॥४१॥
अर्थाद्वा यदि वा कामान्न किञ्चिदुपलक्षयेत्
।
पितृदेवातिथिकृते साधनं कुरुते च यः ॥४२॥
स्ववेश्मनि यथान्यायमुपास्ते भैक्ष्यमेव च
।
त्रिकालमग्निहोत्रं च जुह्वानो वै यथाविधि ॥४३॥
गोब्राह्मणहितार्थाय रणे चाभिसुखो हतः
।
त्रेताग्निमन्त्रपूतात्मा समाविश्य द्विजो भवेत् ॥४४॥
ज्ञानविज्ञानसंपन्नः संस्कृतो वेदपारगः
।
विप्रो भवति धर्मात्मा क्षत्रियः स्वेन कर्मणा ॥४५॥
एतैः कर्मफलैर्देवि न्यूनजातिकुलोद्भवः
।
शूद्रोप्यागमसंपन्नो द्विजो भवति संस्कृतः ॥४६॥
ब्राह्मणो वाप्यसद्वृत्तः सर्वसङ्करभोजनः
।
ब्राह्मण्यं स समुत्सृज्य शूद्रो भवति तादृशः ॥४७॥
कर्मभिः शुचिभिर्देवि शुद्धात्मा विजितेन्द्रियः
।
शूद्रोऽपि द्विजवत्सेव्य इति ब्रह्माऽब्रवीत्स्वयम् ॥४८॥
स्वभावः कर्म च शुभं यत्र शूद्रेऽपि तिष्ठति
।
विशिष्टः स द्विजातेर्वै विशेय इति मे मतिः ॥४९॥
न योनिर्नापि संस्कारो न श्रुतं न च सन्ततिः
।
कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ॥५०॥
सर्वोऽयं ब्राह्मणो लोके वृत्तेन तु विधीयते
।
वृत्ते स्थितस्तु शूद्रोपि ब्राह्मणत्वं नियच्छति ॥५१॥
ब्राह्मः स्वभावः सुश्रोणि समः सर्वत्र मे मतिः
।
निर्गुणं निर्मलं ब्रह्म यत्र तिष्ठति स द्विजः ॥५२॥
एते योनिफला देवि स्थानभागनिदर्शकाः
।
स्वयं च वरदेनोक्ता ब्रह्मणा सृजता प्रजाः ॥५३॥
ब्राह्मणोऽपि महत्क्षेत्रं लोके चरति पादवत्
।
यत्तत्र बीजं वपति सा कृषिः प्रेत्य भाविनि ॥५४॥
विघसाशिना सदा भाव्यं सत्पथालंबिना तथा
।
ब्राह्यं हि मार्गमाक्रम्य वर्तितव्यं बुभूषता ॥५५॥
संहिताध्यायिना भाव्यं गृहे वै गृहमेधिना
।
नित्यं स्वाध्यायिना भाव्यं न चाध्ययनजीविना ॥५६॥
एवंभूतो हि यो विप्रः सत्पथं सत्पथे स्थितः
।
आहिताग्निरधीयानो ब्रह्मभूयाय कल्पते ॥५७॥
ब्राह्मण्यं देवि संप्राप्य रक्षितव्यं यतात्मना
।
योनिप्रतिग्रहादानैः कर्मभिश्च शुचिस्मिते ॥५८॥
एतत्ते गुह्यमाख्यातं यथा शूद्रो भवद्द्विजः
।
ब्राह्मणो वा च्युतो धर्माद्यथा शूद्रत्वमाप्नुते ॥५९॥
उमोवाच
।
भगवन् सर्वभूतेश देवासुरनमस्कृत
।
धर्माधर्मै नृणां देव ब्रूहि मेऽसंशयं विभो ॥१॥
कर्मणा मनसा वाचा त्रिविधं हि नरः सदा
।
बध्यते बन्धनैः पाशैर्मुच्यतेऽप्यथवा पुनः ॥२॥
केन शीलेन वृत्तेन कर्मणा कीदृशेन वा
।
समाचारैर्गुणैः कैर्वा स्वर्गं यान्तीह मानवाः ॥३॥
महेश्वर उवाच। देवि धर्मार्थतत्त्वज्ञे धर्मनित्ये दमे रते
।
सर्वप्राणिहितः प्रश्नः श्रूयतां बुद्धिवर्धनः ॥४॥
सत्यधर्मरताः सन्तः सर्वलिङ्गविवर्जिताः
।
धर्मलब्धार्थभोक्तारस्ते नराः स्वर्गगामिनः ॥५॥
नाधर्मेण न धर्मेण बध्यन्ते छिन्नसंशयाः
।
प्रलयोत्पत्तितत्त्वज्ञाः सर्वज्ञाः सर्वदर्शिनः ॥६॥
वीतरागा विमुच्यन्ते पुरुषाः कर्मबन्धनैः
।
कर्मणा मनसा वाचा ये न हिंसन्ति किञ्चन ॥७॥
ये न सज्जन्ति कस्मिंश्चित्ते न बध्यन्ति कर्मभिः
।
प्राणातिपाताद्विरताः शीलवन्तो दयान्विताः ॥८॥
तुल्यद्वेष्यप्रिया दान्ता सुच्यन्ते कर्मबन्धनैः
।
सर्वभूतदयावन्तो विश्वास्याः सर्वजन्तुषु ॥९॥
त्यक्तहिंसासमाचारास्ते नराः स्वर्गगामिनः
।
परस्वे निर्ममा नित्यं परदारविवर्जकाः ॥१०॥
धर्मलब्धान्नभोक्तारस्ते नराः स्वर्गगामिनः
।
मातृवत्स्वसृवच्चैव नित्यं दुहितृवच्च ये ॥११॥
परदारेषु वर्तन्ते ते नराः स्वर्गगामिनः
।
स्तैन्यान्निवृत्ताः सततं सन्तुष्टाः स्वधनेन च ॥१२॥
स्वभाग्यान्युपजीवन्ति ते नराः स्वर्गगामिनः
।
स्वदारनिरता ये च ऋतुकालाभिगामिनः ॥१३॥
अग्राम्यसुखभोगाश्च ते नराः स्वर्गगामिनः
।
परदारेषु ये नित्यं चरित्रावृतलोचनाः ॥१४॥
यतेन्द्रियाः शीलपरास्ते नराः स्वर्गगामिनः
।
एष देवकृतो मार्गः सेवितव्यः सदा नरैः ॥१५॥
अकषायकृतश्चैव मार्गः सेव्यः सदा बुधैः
।
दानधर्मतपोयुक्तः शीलशौचदयात्मकः ॥१६॥
वृत्त्यर्थं धर्महेतोर्वा सेवितव्यः सदा नरैः
।
स्वर्गवासमभीप्सद्भिर्न सेव्यस्त्वत उत्तरः ॥१७॥
उमोवाच
।
वाचा तु बध्यते येन मुच्यतेऽप्यथवा पुनः
।
तानि कर्माणि मे देव वद भूतपतेऽनघ ॥१८॥
महेश्वर उवाच। आत्महेतोः परार्थे वा नर्महास्याश्रयात्तथा
।
ये मृषा न वदन्तीह ते नराः स्वर्गगामिनः ॥१९॥
वृत्त्यर्थं धर्महेतोर्वा कामकारात्तथैव च
।
अनृतं ये न भाषन्ते ते नराः स्वर्गगामिनः ॥२०॥
श्लक्ष्णां वाणीं निराबाधां मधुरां पापवर्जिताम्
।
स्वागतेनाभिभाषन्ते ते नराः स्वर्गगामिनः ॥२१॥
परुषं ये न भाषन्ते कटुकं निष्ठुरं तथा
।
अपैशुन्यरताः सन्तस्ते नराः स्वर्गगामिनः ॥२२॥
पिशुनां न प्रभाषन्ते मित्रभेदकरीं गिरम्
।
ऋतं मैत्रं तु भाषन्ते ते नराः स्वर्गगामिनः ॥२३॥
ये वर्जयन्ति परुषं परद्रोहं च मानवाः
।
सर्वभूतसमा दान्तास्ते नराः स्वर्गगामिनः ॥२४॥
शठप्रलापाद्विरता विरुद्धपरिवर्जकाः
।
सौम्यप्रलापिनो नित्यं ते नराः स्वर्गगामिनः ॥२५॥
न कोपाद्व्याहरन्ते ये वाचं हृदयदारणीम्
।
सान्त्वं वदन्ति क्रुद्धाऽपि ते नराः स्वर्गगामिनः ॥२६॥
एष वाणीकृतो देवि धर्मः सेव्यः सदा नरैः
।
शुभः सत्यगुणो नित्यं वर्जनीयो मृषा बुधैः ॥२७॥
उमोवाच
।
मनसा बध्यते येन कर्मणा पुरुषः सदा
।
तन्मे ब्रूहि महाभाग देवदेव पिनाकधृत् ॥२८॥
महेश्वर उवाच। मानसेनेह धर्मेण संयुक्ताः पुरुषाः सदा
।
स्वर्गं गच्छन्ति कल्याणि तन्मे कीर्तयतः शृणु ॥२९॥
दुष्प्रणीतेन मनसा दुष्प्रणीततराकृतिः
।
मनो बध्यति येनेह शृणु वाक्यं शुभानने ॥३०॥
अरण्ये विजने न्यस्तं परस्वं दृश्यते यदा
।
मनसाऽपि न हिंसन्ति ते नराः स्वर्गगामिनः ॥३१॥
ग्रामे गृहे वा ये द्रव्यं पारक्यं विजने स्थितम्
।
नाभिनन्दन्ति वै नित्यं ते नराः स्वर्गगामिनः ॥३२॥
तथैव परदारान् ये कामवृत्तान् रहोगतान्
।
मनसाऽपि न हिंसन्ति ते नराः स्वर्गगामिनः ॥३३॥
शत्रुं मित्रं च ये नित्यं तुल्येन मनसा नराः
।
भजन्ति मैत्राः सङ्गम्य ते नराः स्वर्गगामिनः ॥३४॥
श्रुतवन्तो दयावन्तः शुचयः सत्यसङ्गराः
।
स्वैरर्थैः परिसन्तुष्टास्ते नराः स्वर्गगामिनः ॥३५॥
अवैरा ये त्वनायासा मैत्रीचित्तरताः सदा
।
सर्वभूतदयावन्तस्ते नराः स्वर्गगामिनः ॥३६॥
श्रद्धावन्तो दयावन्तश्चोक्षाश्चोक्षजनप्रियाः
।
धर्माधर्मविदो नित्यं ते नराः स्वर्गगामिनः ॥३७॥
शुभानामशुभानां च कर्मणां फलसञ्चये
।
विपाकज्ञाश्च ये देवि ते नराः स्वर्गगामिनः ॥३८॥
न्यायोपेता गुणोपेता देवद्विजपराः सदा
।
समुत्थानमनुप्राप्तास्ते नराः स्वर्गगामिनः ॥३९॥
शुभैः कर्मफलैर्देवि मयैते परिकीर्तिताः
।
स्वर्गमार्गपरा भूयः किं त्वं श्रोतुमिहेच्छसि ॥४०॥
उमोवाच
।
महान्मे संशयः कश्चिन्मर्त्यान्प्रति महेश्वर
।
तस्मात्त्वं नैपुणेनाद्य मम व्याख्यातुमर्हसि ॥४१॥
केनायुर्लभते दीर्घं कर्मणा पुरुषः प्रभो
।
तपसा वापि देवेश केनायुर्लभते महत् ॥४२॥
क्षीणायुः केन भवति कर्मणा भुवि मानवः
।
विपाकं कर्मणां देव वक्तुमर्हस्यनिन्दित ॥४३॥
अपरे च महाभाग्या मन्दभाग्यास्तथाऽपरे
।
अकुलीनास्तथा चान्ये कुलीनाश्च तथाऽपरे ॥४४॥
दुर्दर्शाः केचिदाभान्ति नराः काष्ठमया इव
।
प्रियदर्शास्तथा चान्ये दर्शनादेव मानवाः ॥४५॥
दुष्प्रज्ञाः केचिदाभान्ति केचिदाभान्ति पण्डिताः
।
महाप्राज्ञास्तथैवान्ये ज्ञानविज्ञानभाविनः ॥४६॥
अल्पाबाधास्तथा केचिन्महाबाधास्तथाऽपरे
।
दृश्यन्ते पुरुषा देव तन्मे व्याख्यातुमर्हसि ॥४७॥
महेश्वर उवाच। हन्त तेऽहं प्रवक्ष्यामि देवि कर्मफलोदयम्
।
मर्त्यलोके नरः सर्वो येन स्वफलमश्नुते ॥४८॥
प्राणातिपाते यो रौद्रो दण्डहस्तोद्यतः सदा
।
नित्यमुद्यतशस्त्रश्च हन्ति भूतगणान्नरः ॥४९॥
निर्दयः सर्वभूतानां नित्यमुद्वेगकारकः
।
अपि कीटपिपीलानामशरण्यः सुनिर्घृणः ॥५०॥
एवंभूतो नरो देवि निरयं प्रतिपद्यते
।
विपरीतस्तु धर्मात्मा रूपवानभिजायते ॥५१॥
पापेन कर्मणा देवि वध्यो हिंसारतिर्नरः
।
अप्रियः सर्वभूतानां हीनायुरुपजायते ॥५२॥
निरयं याति हिंसात्मा याति स्वर्गमहिंसकः
।
यातनां निरये रौद्रां स कृच्छ्रां लभते नरः ॥५३॥
यः कश्चिन्निरयात्तस्मात्समुत्तरति कर्हिचित्
।
मानुष्यं लभते चापि हीनायुस्तत्र जायते ॥५४॥
पापेन कर्मणा देवि बद्धो हिंसारतिर्नरः
।
अप्रियः सर्वभूतानां हीनायुरुपजायते ॥५५॥
यस्तु शुक्लाभिजातीयः प्राणिघातविवर्जकः
।
निक्षिप्तशस्त्रो निर्दण्डो न हिंसति कदाचन ॥५६॥
न घातयति नो हन्ति घ्नन्तं नैवानुमोदते
।
सर्वभूतेषु सस्नेहो यथाऽऽत्मनि तथाऽपरे ॥५७॥
ईदृशः पुरुषोत्कर्षो देवि देवत्वमश्नुते
।
उपपन्नान्सुखान्भोगानुपाश्नाति मुदा युतः ॥५८॥
अथ चेन्मानुषे लोके कदाचिदुपपद्यते
।
तत्र दीर्घायुरुत्पन्नः स नरः सुखमेधते ॥५९॥
एष दीर्घायुषां मार्गः सुवृत्तानां सुकर्मिणाम्
।
प्राणिहिंसाविमोक्षेण ब्रह्मणा समुदीरितः ॥६०॥
उमोवाच
।
किंशीलः किंसमाचारः पुरुषः कैश्च कर्मभिः
।
स्वर्गं समभिपद्येत संप्रदानेन केन वा ॥१॥
महेश्वर उवाच। दाता ब्राह्मणसत्कर्ता दीनार्तकृपणादिषु
।
भक्ष्यभोज्यान्नपानानां वाससां च प्रदायकः ॥२॥
प्रतिश्रयान्सभाः कूपान्प्रपाः पुष्करिणीस्तथा
।
नैत्यकानि च सर्वाणि किमिच्छकमतीव च ॥३॥
आसनं शयनं यानं गृहं रत्नं धनं तथा
।
सस्यजातानि सर्वाणि गाः क्षेत्राण्यथ योषितः ॥४॥
सुप्रतीतमना नित्यं यः प्रयच्छति मानवः
।
एवंभूतो नरो देवि देवलोकेऽभिजायते ॥५॥
तत्रोष्य सुचिरं कालं भुक्त्वा भोगाननुत्तमान्
।
सहाप्सरोभिर्मुदितो रमते नन्दनादिषु ॥६॥
तस्मात्स्वर्गाच्च्युतो लोकान्मानुषेषु प्रजायते
।
महाभोगकुले देवि धनधान्यसमन्वितः ॥७॥
तत्र कामगुणैः सर्वैः समुपेतो मुदा युतः
।
महाभोगो महाकोशो धनी भवति मानवः ॥८॥
एते देवि महाभागाः प्राणिनो दानशीलिनः
।
ब्रह्मणा वै पुरा प्रोक्ताः सर्वस्य प्रियदर्शनाः ॥९॥
अपरे मानवा देवि प्रदानकृपणा द्विजैः
।
याचिता न प्रयच्छन्ति विद्यमानेऽप्यबुद्धयः ॥१०॥
दीनान्धकृपणान्दृष्ट्वा भिक्षुकानतिथीनपि
।
याच्यमाना निवर्तन्ते जिह्वालोभसमन्विताः ॥११॥
न धनानि न वासांसि न भोगान्न च काञ्चनम्
।
न गावो नान्नविकृतिं प्रयच्छन्ति कदाचन ॥१२॥
अप्रवृत्ताश्च ये लुब्धा नास्तिका दानवर्जिताः
।
एवंभूता नरा देवि निरयं यान्त्यबुद्धयः ॥१३॥
ते वै मनुष्यतां यान्ति यदा कालस्य पर्ययात्
।
धनरिक्ते कुले जन्म लभन्ते स्वल्पबुद्धयः ॥१४॥
क्षुत्पिपासापरीताश्च सर्वलोकबहिष्कृताः
।
निराशाः सर्वभोगेभ्यो जीवन्त्यधर्मजीविकाम् ॥१५॥
अल्पभोगकुले जाता अल्पभोगरता नराः
।
अनेन कर्मणा देवि भवन्त्यधनिनो नराः ॥१६॥
अपरे स्तंभिनो नित्यं मानिनः पापतो रताः
।
आसनार्हस्य ये पीठं न प्रयच्छन्त्यचेतसः ॥१७॥
मार्गार्हस्य च ये मार्गं न यच्छन्त्यल्पबुद्धयः
।
पाद्यार्हस्य च ये पाद्यं न ददत्यल्पबुद्धयः ॥१८॥
अर्घार्हान्न च सत्कारैरर्चयन्ति यथाविधि
।
अर्घ्यमाचमनीयं वा न यच्छन्त्यल्पबुद्धयः ॥१९॥
गुरुं चाभिगतं प्रेम्णा गुरुवन्न बुभूषते
।
अभिमानप्रवृत्तेन लोभेन समवस्थिताः ॥२०॥
संमान्यांश्चावमन्यन्ते वृद्धान्परिभवन्ति च
।
एवंविधा नरा देवि सर्वे निरयगामिनः ॥२१॥
ते वै यदि नरास्तस्मान्निरयादुत्तरन्ति वै
।
वर्षपूगैस्ततो जन्म लभन्ते कुत्सिते कुले ॥२२॥
श्वपाकपुल्कसादीनां कुत्सितानामचेतसाम्
।
कुलेषु तेषु जायन्ते गुरुवृद्धापचायिनः ॥२३॥
न स्तम्भी न च मानी यो देवताद्विजपूजकः
।
लोकपूज्यो नमस्कर्ता प्रश्रितो मधुरं वचः ॥२४॥
सर्ववर्णप्रियकरः सर्वभूतहितः सदा
।
अद्वेषी सुसुखः श्लक्ष्णः स्निग्धवाणीप्रदः सदा ॥२५॥
स्वागतेनैव सर्वेषां भूतानामविहिंसकः
।
यथार्हसत्क्रियापूर्वमर्चयन्नवतिष्ठति ॥२६॥
मार्गार्हाय ददन्मार्गं गुरुं गुरुवदर्चयन्
।
अतिथिप्रग्रहरतस्तथाऽभ्यागतपूजकः ॥२७॥
एवंभूतो नरो देवि स्वर्गतिं प्रतिपद्यते
।
ततो मानुषतां प्राप्य विशिष्टकुलजो भवेत् ॥२८॥
तत्रासौ विपुलैर्भोगैः सर्वरत्नसमायुतः
।
यथार्हदाता चार्हेषु धर्मचर्यापरो भवेत् ॥२९॥
संमतः सर्वभूतानां सर्वलोकनमस्कृतः
।
स्वकर्मफलमाप्नोति स्वयमेव नरः सदा ॥३०॥
उदात्तकुलजातीय उदात्ताभिजनः सदा
।
एष धर्मो मया प्रोक्तो विधात्रा स्वयमीरितः ॥३१॥
यस्तु रौद्रसमाचारः सर्वसत्त्वभयङ्करः
।
हस्ताभ्यां यदि वा पद्भ्यां रज्ज्वा दण्डेन वा पुनः ॥३२॥
लोष्टैः स्तम्भैरायुधैर्वा जन्तून्बाधति शोभने
।
हिंसार्थं निकृतिप्रज्ञः प्रोद्वेजयति चैव ह ॥३३॥
उपक्रामति जन्तूंश्च उद्वेगजननः सदा
।
एवंशीलसमाचारो निरयं प्रतिपद्यते ॥३४॥
स वै मनुष्यतां गच्छेद्यदि कालस्य पर्ययात्
।
बह्वाबाधपरिक्लिष्टे जायते सोऽधमे कुले ॥३५॥
लोकद्वेष्योऽधमः पुंसां स्वयं कर्मफलैः कृतैः
।
एष देवि मनुष्येषु बोद्धव्यो ज्ञातिबन्धुषु ॥३६॥
अपरः सर्वभूतानि दयावाननुपश्यति
।
मैत्रदृष्टिः पितृसमो निर्वैरो नियतेन्द्रियः ॥३७॥
नोद्वेजयति भूतानि न विघातयते तथा
।
हस्तपादैः सुनियतैर्विश्वास्यः सर्वजन्तुषु ॥३८॥
न रज्ज्वा न च दण्डेन न लोष्टैर्नायुधेन च
।
उद्वेजयति भूतानि लक्ष्णकर्मा दयापरः ॥३९॥
एवंशीलसमाचारः स्वर्गे समुपजायते
।
तत्रासौ भवने दिव्ये मुदा वसति देववत् ॥४०॥
स चेत्कर्मक्षयान्मर्त्यो मनुष्येषूपजायते
।
अल्पाबाधो निरान्तकः स जातः सुखमेधते ॥४१॥
सुखभागी निरायासो निरुद्वेगः सदा नरः
।
एष देवि सतां मार्गो बाधा यत्र न विद्यते ॥४२॥
उमोवाच
।
इमे मनुष्या दृश्यन्ते ऊहापोहविशारदाः
।
ज्ञानविज्ञानसम्पन्नाः प्रज्ञावन्तोऽर्थकोविदाः॥४३॥
दुष्प्रज्ञाश्चापरे देव ज्ञानविज्ञानवर्जिताः
।
केन कर्मविशेषेण प्रज्ञावान्पुरुषो भवेत् ॥४४॥
अल्पप्रज्ञो विरूपाक्ष कथं भवति मानवः
।
एतन्मे संशयं छिन्धि सर्वधर्मविदां वर ॥४५॥
जात्यन्धाश्चापरे देव रोगार्ताश्चापरे तथा
।
नराः क्लीबाश्च दृश्यन्ते कारणं ब्रूहि तत्र वै ॥४६॥
महेश्वर उवाच। ब्राह्मणान् वेदविदुषः सिद्धान् धर्मविदस्तथा
।
परिपृच्छन्त्यहरहः कुशलाः कुशलं तथा ॥४७॥
वर्जयन्तोऽशुभं कर्म सेवमानाः शुभं तथा
।
लभन्ते स्वर्गतिं नित्यमिहलोके तथा सुखम् ॥४८॥
स चेन्मानुषतां याति मेधावी तत्र जायते
।
श्रुतं प्रज्ञातुगं यस्य कल्याणमुपजायते ॥४९॥
परदारेषु ये चापि चक्षुर्दुष्टं प्रयुञ्जते
।
तेन दुष्टस्वभावेन जात्यन्धास्ते भवन्ति ह ॥५०॥
मनसा तु प्रदुष्टेन नग्नां पश्यन्ति ये स्त्रियम्
।
रोगार्तास्ते भवन्तीह नरा दुष्कृतकर्मिणः ॥५१॥
ये तु मूढा दुराचारा वियोनौ मैथुने रताः
।
पुरुषेषु सुदुष्प्रशाः क्लीबत्वमुपयान्ति ते ॥५२॥
पशूंश्च ये घातयन्ति ये चैव गुरुतल्पगाः
।
प्रकीर्णमैथुना ये च क्लीबा जायन्ति ते नराः ॥५३॥
उमोवाच
।
सावद्यं किन्तु वै कर्म निरवद्यं तथैव च
।
श्रेयः कुर्वन्नवाप्नोति मानवो देवसत्तम ॥५४॥
महेश्वर उवाच। श्रेयांसं मार्गमन्विच्छन् सदा यः पृच्छति द्विजान्
।
धर्मान्वेषी गुणाकांक्षी स स्वर्गं समुपाश्नुते ॥५५॥
यदि मानुषतां देवि कदाचित्स निगच्छति
।
मेधावी धारणायुक्तः प्रायस्तत्राभिजायते ॥५६॥
एष देवि सतां धर्मो मन्तव्यो भूतिकारकः
।
नृणां हितार्थाय मया तव वै समुदाहृतः ॥५७॥
उमोवाच
।
अपरे स्वल्पविज्ञाना धर्मविद्वेषिणो नराः
।
ब्राह्मणान् वेदविदुषो नेच्छन्ति परिसर्पितुम् ॥५८॥
व्रतवन्तो नराः केचिच्छ्रद्धाधर्मपरायणाः
।
अव्रता भ्रष्टनियमास्तथाऽन्ये राक्षसोपमाः ॥५९॥
यज्वानश्च तथैवान्ये निर्होमाश्च तथाऽपरे
।
केन कर्मविपाकेन भवन्तीह वदस्व मे ॥६०॥
महेश्वर उवाच। आगमा लोकधर्माणां मर्यादाः सर्वनिर्मिताः
।
प्रामाण्येनानुवर्तन्ते दृश्यन्ते च दृढव्रताः ॥६१॥
अधर्मं धर्ममित्याहुर्ये च मोहवशं गताः
।
अव्रता नष्टमर्यादास्ते प्रोक्ता ब्रह्मराक्षसाः ॥६२॥
ते चेत्कालकृतोद्योगात्सम्भवन्तीह मानुषाः
।
निर्होमा निर्वषट्कारास्ते भवन्ति नराधमाः ॥६३॥
एष देवि मया सर्वः संशयच्छेदनाय ते
।
कुशलाकुशलो नॄणां व्याख्यातो धर्मसागरः ॥६४॥
नारद उवाच। एवमुक्त्वा महादेवः श्रोतुकामः स्वयंप्रभुः
।
अनुकूलां प्रियां भार्यां पार्श्वस्थां समभाषत ॥१॥
महेश्वर उवाच। परावरज्ञे धर्मज्ञे तपोवननिवासिनि
।
साध्वि सुभ्रु सुकेशान्ते हिमवत्पर्वतात्मजे॥२॥
दक्षे शमदमोपेत निर्ममे धर्मचारिणि
।
पृच्छामि त्वां वरारोहे पृष्टा वद ममेप्सितम् ॥३॥
सावित्री ब्रह्मणः साध्वी कौशिकस्य शची सती
।
मार्कण्डेयस्य धूमोर्णा ऋद्धिर्वैश्रवणस्य च ॥४॥
वरुणस्य तथा गौरी सूर्यस्य च सुवर्चला
।
रोहिणी शशिनः साध्वी स्वाहा चैव विभावसोः ॥५॥
अदितिः कश्यपस्याथ सर्वास्ताः पतिदेवताः
।
पृष्टाश्चोपासिताश्चैव तास्त्वया देवि नित्यशः ॥६॥
तेन त्वां परिपृच्छामि धर्मज्ञे धर्मवादिनि
।
स्त्रीधर्मं श्रोतुमिच्छामि त्वयोदाहृतमादितः ॥७॥
सधर्मचारिणी मे त्वं समशीला समव्रता
।
समानसारवीर्या च तपस्तीव्रं कृतं च ते ॥८॥
त्वया ह्युक्तो विशेषेण गुणवान्स भविष्यति
।
लोके चैव त्वया देवि प्रमाणत्वमुपैष्यति ॥९॥
स्त्रियश्चैव विशेषेण स्त्रीजनस्य गतिः परा
।
गौर्यां गच्छति सुश्रोणि लोकेष्वेषा गतिः सदा ॥१०॥
मम चार्धं शरीरस्य तव चार्धेन निर्मितम्
।
सुरकार्यकरी च त्वं लोकसन्तानकारिणी ॥११॥
तव सर्वः सुविदितः स्त्रीधर्मः शाश्वतः शुभे
।
तस्मादशेषतो ब्रूहि स्वधर्मं विस्तरेण मे ॥१२॥
उमोवाच
।
भगवन्सर्वभूतेश भूतभव्यभवोत्तम
।
त्वत्प्रभावादियं देव वाक्चैव प्रतिभाति मे ॥१३॥
इमास्तु नद्यो देवेश सर्वतीर्थोदकैर्युताः
।
उपस्पर्शनहेतोस्त्वामुपयान्ति समीपतः ॥१४॥
एताभिः सह संमन्त्र्य प्रवक्ष्याम्यनुपूर्वशः
।
प्रभवन्योऽनहंवादी स वै पुरुष उच्यते ॥१५॥
स्त्री च भूतेश सततं स्त्रियमेवानुधावति
।
मया संमानिताश्चैव भविष्यन्ति सरिद्वराः ॥१६॥
एषा सरस्वती पुण्या नदीनामुत्तमा नदी
।
प्रथमा सर्वसरितां नदी सागरगामिनी ॥१७॥
विपाशा च वितस्ता च चन्द्रभागा इरावती
।
शतद्रुर्देविका सिन्धुः कौशिकी गौतमी तथा ॥१८॥
तथा देवनदी चेयं सर्वतीर्थाभिसंभृता
।
गगनाद्गां गता देवी गङ्गा सर्वसरिद्वरा ॥१९॥
इत्युक्त्वा देवदेवस्य पत्नी धर्मभृतां वरा
।
स्मितपूर्वमथाभाष्य सर्वास्ताः सरितस्तथा ॥२०॥
अपृच्छद्देवमहिषी स्त्रीधर्मं धर्मवत्सला
।
स्त्रीधर्मकुशलास्ता वै गङ्गाद्याः सरितां वराः ॥२१॥
उमोवाच
।
अयं भगवता प्रोक्तः प्रश्नः स्त्रीधर्मसंश्रितः
।
तं तु संमन्त्र्य युष्माभिर्वक्तुमिच्छामि शङ्करम् ॥२२॥
न चैकसाध्यं पश्यामि विज्ञानं भुवि कस्यचित्
।
दिवि वा सागरगमास्तेन वो मानयाम्यहम् ॥२३॥
एवं सर्वाः सरिच्छ्रेष्ठाः पृष्टाः पुण्यतमाः शिवाः
।
ततो देवनदी गङ्गा नियुक्ता प्रतिपूज्य च ॥२४॥
बह्वीभिर्बुद्धिभिः स्फीता स्त्रीधर्मज्ञा शुचिस्मिता
।
शैलराजसुतां देवीं पुण्या पापभयापहा ॥२५॥
बुद्ध्या विनयसंपन्ना सर्वधर्मविशारदा
।
सस्मितं बहुबुद्ध्याढ्या गङ्गा वचनमब्रवीत् ॥२६॥
गङ्गोवाच
।
धन्याऽस्म्यनुगृहीताऽस्मि देवि धर्मपरायणे
।
या त्वं सर्वजगन्मान्या नदीं मानयसेऽनघे ॥२७॥
प्रभवन् पृच्छते यो हि संमानयति वा पुनः
।
नूनं जनमदुष्टात्मा पण्डिताख्यां स गच्छति ॥२८॥
ज्ञानविज्ञानसंपन्नानूहापोहविशारदान्
।
प्रवक्तॄन् पृच्छते योऽन्यान् स वै नापदमृच्छति ॥२९॥
अन्यथा बहुबुद्ध्याढ्यो वाक्यं वदति संसदि
।
अन्यथैव ह्यहंवादी दुर्बलं वदते वचः ॥३०॥
दिव्यज्ञाने दिवि श्रेष्ठे दिव्यपुण्यैः सहोत्थिते
।
त्वमेवार्हसि नो देवि स्त्रीधर्माननुभाषितुम् ॥३१॥
ततः साराधिता देवी गङ्गया बहुभिर्गुणैः
।
प्राह सर्वमशेषेण स्त्रीधर्मं सुरसुन्दरी ॥३२॥
उमोवाच
।
स्त्रीधर्मो मां प्रति यथा प्रति भाति यथाविधि
।
तमहं कीर्तयिष्यामि तथैव प्रथिता भव ॥३३॥
स्त्रीधर्मः पूर्व एवायं विवाहे बन्धुभिः कृतः
।
सहधर्मचरी भर्तुर्भवत्यग्निसमीपतः ॥३४॥
सुस्वभावा सुवचना सुवृत्ता सुखदर्शना
।
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी ॥३५॥
सा भवेद्धर्मपरमा सा भवेद्धर्मभागिनी
।
देववत्सततं साध्वी या भर्तारं प्रपश्यति ॥३६॥
शुश्रूषां परिचारं च देववद्या करोति च
।
नान्यभावा ह्यविमनाः सुव्रता सुखदर्शना ॥३७॥
पुत्रवक्त्रमिवाभीक्ष्णं भर्तुर्वदनमीक्षते
।
या साध्वी नियताहारा सा भवेद्धर्मचारिणी ॥३८॥
श्रुत्वा दम्पतिधर्मं वै सहधर्मं कृतं शुभम्
।
या भवेद्धर्मपरमा नारी भर्तृसमव्रता ॥३९॥
देववत्सततं साध्वी भर्तारमनुपश्यति
।
दम्पत्योरेष वै धर्मः सहधर्मकृतः शुभः ॥४०॥
शुश्रूषां परिचारं च देवतुल्यं प्रकुर्वती
।
वश्या भावेन सुमनाः सुव्रता सुखदर्शना ॥४१॥
अनन्यचित्ता सुमुखी भर्तुः सा धर्मचारिणी
।
परुषाण्यपि चोक्ता या दृष्टा दुष्टेन चक्षुषा
।
सुप्रसन्नमुखी भर्तुर्या नारी सा पतिव्रता ॥४२॥
न चन्द्रसूर्यौ न तरुं पुंनाम्ना या निरीक्षते
।
भर्तृवर्जं वरारोहा सा भवेद्धर्मचारिणी ॥४३॥
दरिद्रं व्याधितं दीनमध्वना परिकर्शितम्
।
पतिं पुत्रमिवोपास्ते सा नारी धर्मभागिनी ॥४४॥
या नारी प्रयता दक्षा या नारी पुत्रिणी भवेत्
।
पतिप्रिया पतिप्राणा सा नारी धर्मभागिनी ॥४५॥
शुश्रूषां परिचर्यां च करोत्यविमनाः सदा
।
सुप्रतीता विनीता च सा नारी धर्मभागिनी ॥४६॥
न कामेषु न भोगेषु नैश्वर्ये न सुखे तथा
।
स्पृहा यस्या यथा पत्यौ सा नारी धर्मभागिनी ॥४७॥
कल्योत्थानरतिर्नित्यं गृहशुश्रूषणे रता
।
सुसंमृष्टक्षया चैव गोशकृत्कृतलेपना ॥४८॥
अग्निकार्यपरा नित्यं सदा पुष्पबलिप्रदा
।
देवतातिथिभृत्यानां निर्वाप्य पतिना सह ॥४९॥
शेषान्नमुपभुञ्जाना यथान्यायं यथाविधि
।
तुष्टपुष्टजना नित्यं नारी धर्मेण युज्यते ॥५०॥
श्वश्रूश्वशुरयोः पादौ जोषयन्ती गुणान्विता
।
मातापितृपरा नित्यं या नारी सा तपोधना ॥५१॥
ब्राह्मणान् दुर्बलानाथान्दीनान्धकृपणांस्तथा
।
बिभर्त्यन्नेन या नारी सा पतिव्रतभागिनी ॥५२॥
व्रतं चरति या नित्यं दुश्चरं लघुसत्त्वया
।
पतिचित्ता पतिहिता सा पतिव्रतभागिनी ॥५३॥
पुण्यमेतत्तपश्चैतत्स्वर्गश्चैष सनातनः
।
या नारी भर्तृपरमा भवेद्भर्तृव्रता सती ॥५४॥
पतिर्हि देवो नारीणां पतिर्बन्धुः पतिर्गतिः
।
पत्या समा गतिर्नास्ति दैवतं वा यथा पतिः ॥५५॥
पतिप्रसादः स्वर्गो वा तुल्यो नार्या न वा भवेत्
।
अहं स्वर्गं न हीच्छेयं त्वय्यप्रीते महेश्वरे ॥५६॥
यद्यकार्यमधर्मं वा यदि वा प्राणनाशनम्
।
पतिर्ब्रूयाद्दरिद्रो वा व्याधितो वा कथञ्चन ॥५७॥
आपन्नो रिपुसंस्थो वा ब्रह्मशापार्दितोपि वा
।
आपद्धर्माननुप्रेक्ष्य तत्कार्यमविशंकया ॥५८॥
एष देव मया प्रोक्तः स्त्रीधर्मो वचनात्तव
।
या त्वेवभाविनी नारी सा पतिव्रतभागिनी ॥५९॥
भीष्म उवाच। इत्युक्तः स तु देवेशः प्रतिपूज्य गिरेः सुताम्
।
लोकान् विसर्जयामास सर्वैरनुचरैर्वृतान् ॥६०॥
ततो ययुर्भूतगणाः सरितश्च यथागतम्
।
गन्धर्वाप्सरसश्चैव प्रणम्य शिरसा भवम् ॥६१॥
ऋषय ऊचुः
।
पिनाकिन् भगनेत्रघ्न सर्वलोकनमस्कृत
।
माहात्म्यं वासुदेवस्य श्रोतुमिच्छामि शङ्कर ॥१॥
ईश्वर उवाच
।
पितामहादपि वरः शाश्वतः पुरुषो हरिः
।
कृष्णो जाम्बूनदाभासो व्यभ्रे सूर्य इवोदितः ॥२॥
दशबाहुर्महातेजा देवतारिनिषूदनः
।
श्रीवत्साङ्को हृषीकेशः सर्वदैवतपूजितः ॥३॥
ब्रह्मा तस्योदरभवस्तस्याहं च शिरोभवः
।
शिरोरुहेभ्यो ज्योतींषि रोमभ्यश्च सुरासुराः ॥४॥
ऋषयो देहसम्भूतास्तस्य लोकाश्च शाश्वताः
।
पितामहगृहं साक्षात्सर्वदेवगृहं च सः ॥५॥
सोऽस्याः पृथिव्याः कृत्स्नायाः स्रष्टा त्रिभुवनेश्वरः
।
संहर्ता चैव भूतानां स्थावरस्य चरस्य च ॥६॥
स हि देववरः साक्षाद्देवनाथः परंतपः
।
सर्वज्ञः सर्वसंश्लिष्टः सर्वगः सर्वतोमुखः ॥७॥
परमात्मा हृषीकेशः सर्वव्यापी महेश्वरः
।
न तस्मात्परमं भूतं त्रिषु लोकेषु किञ्चन ॥८॥
सनातनो वै मधुहा गोविन्द इति विश्रुतः
।
स सर्वान्पार्थिवान्संख्ये घातयिष्यति मानदः ॥९॥
सुरकार्यार्थमुत्पन्नो मानुषं वपुरास्थितः
।
न हि देवगणाः शक्तास्त्रिविक्रमविनाकृताः ॥१०॥
भुवने देवकार्याणि कर्तुं नायकवर्जिताः
।
नायकः सर्वभूतानां सर्वदेवनमस्कृतः ॥११॥
एतस्य देवनाथस्य देवकार्यपरस्य च
।
ब्रह्मभूतस्य सततं ब्रह्मर्षिशरणस्य च ॥१२॥
ब्रह्मा वसति गर्भस्थः शरीरे सुखसंस्थितः
।
शर्वः सुखं संश्रितश्च शरीरे सुखसंस्थितः ॥१३॥
सर्वाः सुखं संश्रिताश्च शरीरे तस्य देवताः
।
स देवः पुण्डरीकाक्षः श्रीगर्भः श्रीसहोषितः ॥१४॥
शार्ङ्गचक्रायुधः खड्गी सर्वनागरिपुध्वजः
।
उत्तमेन स शीलेन दमेन च शमेन च ॥१५॥
पराक्रमेण वीर्येण वपुषा दर्शनेन च
।
आरोहेण प्रमाणेन धैर्येणार्जवसंपदा ॥१६॥
आनृशंस्येन रूपेण बलेन च समन्वितः
।
अस्त्रैः समुदितः सर्वैर्दिव्यैरद्भुतदर्शनैः ॥१७॥
योगमायः सहस्राक्षो निरपायो महामनाः
।
वीरो मित्रजनश्लाघी ज्ञातिबन्धुजनप्रियः ॥१८॥
क्षमावांश्चानहंवादी ब्रह्मण्यो ब्रह्मनायकः
।
भयहर्ता भयार्तानां मित्राणां नन्दिवर्धनः ॥१९॥
शरण्यः सर्वभूतानां दीनानां पालने रतः
।
श्रुतवानर्थसंपन्नः सर्वभूतनमस्कृतः ॥२०॥
समाश्रितानां वरदः शत्रूणामपि धर्मवित्
।
नीतिज्ञो नीतिसंपन्नो ब्रह्मवादी जितेन्द्रियः ॥२१॥
भवार्थमिह देवानां बुद्ध्या परमया युतः
।
प्राजापत्ये शुभे मार्गे मानवे धर्मसंस्कृते ॥२२॥
समुत्पत्स्यति गोविन्दो मनोर्वंशे महात्मनः
।
अङ्गो नाम मनोः पुत्रो अन्तर्धामा ततः परः ॥२३॥
अन्तर्धाम्नो हविर्धामा प्रजापतिरनिन्दितः
।
प्राचीनबर्हिर्भविता हविर्धाम्नः सुतो महान् ॥२४॥
तस्य प्रचेतःप्रमुखा भविष्यन्ति दशात्मजाः
।
प्राचेतसस्तथा दक्षो भवितेह प्रजापतिः ॥२५॥
दाक्षायण्यास्तथाऽऽदित्यो मनुरादित्यतस्तथा
।
मनोश्च वंशज इला सुद्युम्नश्च भविष्यति ॥२६॥
बुधात्पुरूरवाश्चापि तस्मादायुर्भविष्यति
।
नहुषो भविता तस्माद्ययातिस्तस्य चात्मजः ॥२७॥
यदुस्तस्मान्महासत्त्वः क्रोष्टा तस्माद्भविष्यति
।
क्रोष्टुश्चैव महान्पुत्रो वृजिनीवान्भविष्यति ॥२८॥
वृजिनीवतश्च भविता उषङ्गुरपराजितः
।
उपङ्गोर्भविता पुत्रः शूरश्चित्ररथस्तथा ॥२९॥
तस्य त्ववरजः पुत्रः शूरो नाम भविष्यति
।
तेषां विख्यातवीर्याणां चरित्रगुणशालिनाम् ॥३०॥
यज्वनां सुविशुद्धानां वंशे ब्राह्मणसंमते
।
स शूरः क्षत्रियश्रेष्ठो महावीर्यो महायशाः
।
स्ववंशविस्तरकरं जनयिष्यति मानदः ॥३१॥
वसुदेव इति ख्यातं पुत्रमानकदुन्दुभिम्
।
तस्य पुत्रश्चतुर्बाहुर्वासुदेवो भविष्यति ॥३२॥
दाता ब्राह्मणसत्कर्ता ब्रह्मभूतो द्विजप्रियः
।
राज्ञो मागधसंरुद्धान् मोक्षयिष्यति यादवः ॥३३॥
जरासन्धं तु राजानं निर्जित्य गिरिगह्वरे
।
सर्वपार्थिवरत्नाढ्यो भविष्यति स वीर्यवान् ॥३४॥
पृथिव्यामप्रतिहतो वीर्येण च भविष्यति
।
विक्रमेण च संपन्नः सर्वपार्थिवपार्थिवः ॥३५॥
शूरसेनेषु भूत्वा स द्वारकायां वसन्प्रभुः
।
पालयिष्यति गां देवीं विजित्य नयवित्सदा ॥३६॥
तं भवन्तः समासाद्य वाङ्माल्यैरर्हणैर्वरैः
।
अर्चयन्तु यथान्यायं ब्रह्माणमिव शाश्वतम् ॥३७॥
यो हि मां द्रष्टुमिच्छेत ब्रह्माणं च पितामहम्
।
द्रष्टव्यस्तेन भगवान्वासुदेवः प्रतापवान् ॥३८॥
दृष्टे तस्मिन्नहं दृष्टो न मेऽत्रास्ति विचारणा
।
पितामहो वा देवेश इति वित्त तपोधनाः ॥३९॥
स यस्य पुण्डरीकाक्षः प्रीतियुक्तो भविष्यति
।
तस्य देवगणः प्रीतो ब्रह्मपूर्वो भविष्यति ॥४०॥
यश्च तं मानवे लोके संश्रयिष्यति केशवम्
।
तस्य कीर्तिर्जयश्चैव स्वर्गश्चैव भविष्यति ॥४१॥
धर्माणां देशिकः साक्षात् स भविष्यति धर्मभाक्
।
धर्मवद्भिः स देवेशो नमस्कार्यः सदोद्यतैः ॥४२॥
धर्म एव परो हि स्यात्तस्मिन्नभ्यर्चिते विभौ
।
स हि देवो महातेजाः प्रजाहितचिकीर्षया ॥४३॥
धर्मार्थं पुरुषव्याघ्र ऋषिकोटीः ससर्ज ह
।
ताः सृष्टास्तेन विभुना पर्वते गन्धमादने ॥४४॥
सनत्कुमारप्रमुखास्तिष्ठन्ति तपसान्विताः
।
तस्मात्स वाग्मी धर्मज्ञो नमस्यो द्विजपुङ्गवाः ॥४५॥
दिवि श्रेष्ठो हि भगवान्हरिर्नारायणः प्रभुः
।
वन्दितो हि स वन्देत मानितो मानयीत च
।
अर्हितश्चार्हयेन्नित्यं पूजितः प्रतिपूजयेत् ॥४६॥
दृष्टः पश्येदहरहः संश्रितः प्रतिसंश्रयेत्
।
अर्चितश्चार्चयेन्नित्यं स देवो द्विजसत्तमाः ॥४७॥
एतत्तस्यानवद्यस्य विष्णोर्वै परमं व्रतम्
।
आदिदेवस्य महतः सज्जनाचरितं सदा ॥४८॥
भुवनेऽभ्यर्चितो नित्यं देवैरपि सनातनः
।
अभयेनानुरूपेण युज्यन्ते तमनुव्रताः ॥४९॥
कर्मणा मनसा वाचा स नमस्यो द्विजैः सदा
।
यत्नवद्भिरुपस्थाय द्रष्टव्यो देवकीसुतः ॥५०॥
एष वोऽभिहितो मार्गो मया वै मुनिसत्तमाः
।
तं दृष्ट्वा सर्वशो देवं दृष्टाः स्युः सुरसत्तमाः ॥५१॥
महावराहं तं देवं सर्वलोकपितामहम्
।
अहं चैव नमस्यामि नित्यमेव जगत्पतिम् ॥५२॥
तत्र च त्रितयं दृष्टं भविष्यति न संशयः
।
समस्ता हि वयं देवास्तस्य देहे वसामहे ॥५३॥
तस्य चैवाग्रजो भ्राता सिताद्रिनिचयप्रभः
।
हली बल इति ख्यातो भविष्यति धराधरः ॥५४॥
त्रिशिरास्तस्य दिव्यश्च शातकुंभमयो द्रुमः
।
ध्वजस्तृणेन्द्रो देवस्य भविष्यति रथाश्रितः ॥५५॥
शिरोनागैर्महाभोगैः परिकीर्णं महात्मभिः
।
भविष्यति महाबाहोः सर्वलोकेश्वरस्य च ॥५६॥
चिन्तितानि समेष्यन्ति शस्त्राण्यस्त्राणि चैव ह
।
अनन्तश्च स एवोक्तो भगवान् हरिरव्ययः ॥५७॥
समादिष्टश्च विबुधैर्दर्शय त्वामिति प्रभो
।
सुपर्णो यस्य वीर्येण कश्यपस्यात्मजो बली
।
अन्तं नैवाशकद्द्रष्टुं देवस्य परमात्मनः ॥५८॥
स च शेषो विचरते परया वै मुदा युतः
।
अन्तर्वसति भोगेन परिरभ्य वसुन्धराम् ॥५९॥
य एव विष्णुः सोऽनन्तो भगवान् वसुधाधरः
।
यो रामः स हृषीकेशो योऽच्युतः स धराधरः ॥६०॥
तावुभौ पुरुषव्याघ्रौ दिव्यौ दिव्यपराक्रमौ
।
द्रष्टव्यौ माननीयौ च चक्रलाङ्गलधारिणौ ॥६१॥
एष वोऽनुग्रहः प्रोक्तो मया पुण्यस्तपोधनाः
।
यद्भवन्तो यदुश्रेष्ठं पूजयेयुः प्रयत्नतः ॥६२॥
नारद उवाच। अथ व्योम्नि महाञ्छब्दः सविद्युत्स्तनयित्नुमान्
।
मेधैश्च गगनं नीलं संरुद्धमभवद्धनैः ॥१॥
प्रावृषीव च पर्जन्यो ववृषे निर्मलं पयः
।
तमश्चैवाभवद्धोरं दिशश्च न चकाशिरे ॥२॥
ततो देवगिरौ तस्मिन् रम्ये पुण्ये सनातने
।
न शर्वं भूतसंघं वा ददृशुर्मुनयस्तदा ॥३॥
व्यभ्रं च गगनं सद्यः क्षणेन समपद्यत
।
तीर्थयात्रां ततो विप्रा जग्मुश्चान्ये यथागतम् ॥४॥
तदद्भुतमचिन्त्यं च दृष्ट्वा ते विस्मिताऽभवन्
।
शङ्करस्योमया सार्धं संवादं त्वत्कथाश्रयम् ॥५॥
स भवान् पुरुषव्याघ्र ब्रह्मभूतः सनातनः
।
यदर्थमनुशिष्टाः स्मो गिरिपृष्ठे महात्मना ॥६॥
द्वितीयं त्वद्भुतमिदं त्वत्तेजः कृतमद्य वै
।
दृष्ट्वा च विस्मिताः कृष्ण सा च नः स्मृतिरागता ॥७॥
एतत्ते देवदेवस्य माहात्म्यं कथितं प्रभो
।
कपर्दिनो गिरीशस्य महाबाहो जनार्दन ॥८॥
इत्युक्तः स तदा कृष्णस्तपोवननिवासिभिः
।
मानयामास तान्सर्वानृषीन् देवकिनन्दनः ॥९॥
अथर्षयः संप्रहृष्टाः पुनस्ते कृष्णमब्रुवन्
।
पुनः पुनर्दर्शयास्मान् सदैव मधुसूदन ॥१०॥
न हि नःसा रतिः स्वर्गे या च त्वद्दर्शने विभो
।
तदृतं च महाबाहो यदाह भगवान्भवः ॥११॥
एतत्ते सर्वमाख्यातं रहस्यमरिकर्शन
।
त्वमेव ह्यर्थतत्त्वज्ञः पृष्टोऽस्मान् पृच्छसे यदा ॥१२॥
तदस्माभिरिदं गुह्यं त्वत्प्रियार्थमुदाहृतम्
।
न च तेऽविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥१३॥
जन्म चैव प्रसूतिश्च यच्चान्यत्कारणं विभो
।
वयं तु बहुचापल्यादशक्ता गुह्यधारणे ॥१४॥
ततः स्थिते त्वयि विभो लघुत्वात्प्रलपामहे
।
न हि किञ्चित्तदाश्वर्यं यन्न वेत्ति भवानिह ॥१५॥
दिवि वा भुवि वा देव सर्वं हि विदितं तव
।
साधयाम वयं कृष्ण बुद्धिं पुष्टिमवाप्नुहि ॥१६॥
पुत्रस्ते सदृशस्तात विशिष्टो वा भविष्यति
।
महाप्रभावसंयुक्तो दीप्तिकीर्तिकरः प्रभुः ॥१७॥
भीष्म उवाच। ततः प्रणम्य देवेशं यादवं पुरुषोत्तमम्
।
प्रदक्षिणमुपावृत्य प्रजग्मुस्ते महर्षयः ॥१८॥
सोऽयं नारायणः श्रीमान् दीप्त्या परमया युतः
।
व्रतं यथावत्तच्चीर्वा द्वारकां पुनरागमत् ॥१९॥
पूर्णे च दशमे मासि पुत्रोऽस्य परमाद्भुतः
।
रुक्मिण्यां संमतो जज्ञे शूरो वंशधरः प्रभो ॥२०॥
स कामः सर्वभूतानां सर्वभागवतो नृप
।
असुराणां सुराणां च चरत्यन्तर्गतः सदा ॥२१॥
सोऽयं पुरुषशार्दूलो मेघवर्णश्चतुर्भुजः
।
संश्रितः पाण्डवान् प्रेम्णा भवन्तश्चैनमाश्रिताः ॥२२॥
कीर्तिर्लक्ष्मीर्धृतिश्चैव स्वर्गमार्गस्तथैव च
।
यत्रैष संस्थितस्तत्र देवो विष्णुस्त्रिविक्रमः ॥२३॥
सेन्द्रा देवास्त्रयस्त्रिंशदेष नात्र विचारणा
।
आदिदेवो महादेवः सर्वभूतप्रतिश्रयः ॥२४॥
अनादिनिधनोऽव्यक्तो महात्मा मधुसूदनः
।
अयं जातो महातेजाः सुराणामर्थसिद्धये ॥२५॥
सुदुस्तरार्थतत्त्वस्य वक्ता कर्ता च माधवः
।
तव पार्थं जयः कृत्स्नस्तव कीर्तिस्तथाऽतुला ॥२६॥
तवेयं पृथिवी देवी कृत्स्ना नारायणाऽऽश्रयात्
।
अयं नाथस्तवाचिन्त्यो यस्य नारायणो गतिः ॥२७॥
स भवांस्त्वमुपाध्वर्यू रणाग्नौ हुतवान्नृपान्
।
कृष्णस्रुवेण महता युगान्ताग्निसमेन वै ॥२८॥
दुर्योधनश्च शोच्योऽसौ सपुत्रभ्रातृबान्धवः
।
कृतवान्योऽबुधः क्रोधाद्धरिगाण्डीविविग्रहम् ॥२९॥
दैतेया दानवेन्द्राश्च महाकाया महाबलाः
।
चक्राग्नौ क्षयमापन्ना दावाग्नौ शलभा इव ॥३०॥
प्रतियोद्धुं न शक्यो हि मानुषैरेष संयुगे
।
विहीनैः पुरुषव्याघ्र सत्त्वशक्तिबलादिभिः ॥३१॥
जयो योगी युगान्ताभः सव्यसाची रणाग्रगः
।
तेजसा हतवान् सर्वं सुयोधनबलं नृप ॥३२॥
यत्तु गोवृषभांकेन मुनिभ्यः समुदाहृतम्
।
पुराणं हिमवत्पृष्ठे तन्मे निगदतः शृणु ॥३३॥
यावत्तस्य भवेत्पुष्टिस्तेजो दीप्तिः पराक्रमः
।
प्रभावः सन्नतिर्जन्म कृष्णे तत्त्रिगुणं विभो ॥३४॥
कः शक्नोत्यन्यथाकर्तुं तद्यदि स्यात्तथा शृणु
।
यत्र कृष्णो हि भगवांस्तत्र पुष्टिरनुत्तमा ॥३५॥
वयं त्विहाल्पमतयः परतन्त्राः सुविक्लवाः
।
ज्ञानपूर्वं प्रपन्नाः स्मो मृत्योः पन्थानमव्ययम् ॥३६॥
भवांश्चाप्यार्जवपरः पूर्वं कृत्वा प्रतिश्रयम्
।
राजवृत्तं न लभते प्रतिज्ञापालने रतः ॥३७॥
अप्यैवात्मवधं लोके राजंस्त्वं बहु मन्यसे
।
न हि प्रतिज्ञा या दत्ता तां प्रहातुमरिन्दम ॥३८॥
कालेनायं जनः सर्वो निहतो रणमूर्धनि
।
वयं च कालेन हताः कालो हि परमेश्वरः ॥३९॥
न हि कालेन कालज्ञः स्पृष्टः शोचितुमर्हसि
।
कालो लोहितरक्ताक्षः कृष्णो दण्डी सनातनः ॥४०॥
तस्मात् कुन्तीसुत ज्ञातीन्नेह शोचितुमर्हसि
।
व्यपेतमन्युर्नित्यं त्वं भव कौरवनन्दन ॥४१॥
माधवस्यास्य माहात्म्यं श्रुतं यत्कथितं मया
।
तदेव तावत्पर्याप्तं सज्जनस्य निदर्शनम् ॥४२॥
व्यासस्य वचनं श्रुत्वा नारदस्य च धीमतः
।
स्वयं चैव महाराज कृष्णस्यार्हतमस्य वै ॥४३॥
प्रभावश्चार्षिपूगस्य कथितः सुमहान् मया
।
महेश्वरस्य संवादं शैलपुड्याश्च भारत ॥४४॥
धारयिष्यति यश्चैनं महापुरुषसंभवम्
।
शृणुयात्कथयेद्वा यः स श्रेयो लभते परम् ॥४५॥
भवितारश्च तस्याथ सर्वे कामा यथेप्सिताः
।
प्रेत्य स्वर्गं च लभते नरो नास्त्यत्र संशयः ॥४६॥
न्याय्यं श्रेयोऽभिकामेन प्रतिपत्तुं जनार्दनः
।
एष एवाक्षयो विप्रैः स्तुतो राजन् जनार्दनः ॥४७॥
महेश्वरमुखोत्सृष्टा ये च धर्मगुणाः स्मृताः
।
ते त्वया मनसा धार्याः कुरुराज दिवानिशम् ॥४८॥
एवं ते वर्तमानस्य सम्यग्दण्डधरस्य च
।
प्रजापालनदक्षस्य स्वर्गलोको भविष्यति ॥४९॥
धर्मेणापि सदा राजन् प्रजा रक्षितुमर्हसि
।
यस्तस्य विपुलो दण्डः सम्यग्धर्मः स कीर्त्यते ॥५०॥
य एष कथितो राजन् मया सज्जनसान्निधौ
।
शङ्करस्योमया सार्धं संवादो धर्मसंहितः ॥५१॥
श्रुत्वा वा श्रोतुकामो वाप्यर्चयेद्वृषभध्वजम्
।
विशुद्धेनेह भावेन य इच्छेद्भूतिमात्मनः ॥५२॥
एष तस्यानवद्यस्य नारदस्य महात्मनः
।
संदेशो देवपूजार्थं तं तथा कुरु पाण्डव ॥५३॥
एतदत्यद्भुतं वृत्तं पुण्ये हि भवति प्रभो
।
वासुदेवस्य कौन्तेय स्थाणोश्चैव स्वभावजम् ॥५४॥
दशवर्षसहस्राणि बदर्यामेष शाश्वतः
।
तपश्चचार विपुलं सह गाण्डीवधन्वना ॥५५॥
त्रियुगौ पुण्डरीकाक्षौ वासुदेवधनञ्जयौ
।
विदितौ नारदादेतौ मम व्यासाच्च पार्थिव ॥५६॥
बाल एव महाबाहुश्चकार कदनं महत्
।
कंसस्य पुण्डरीकाक्षो ज्ञातित्राणार्थकारणात् ॥५७॥
कर्मणामस्य कौन्तेय नान्तं संख्यातुमुत्सहे
।
शाश्वतस्य पुराणस्य पुरुषस्य युधिष्ठिर ॥५८॥
ध्रुवं श्रेयः परं तात भविष्यति तवोत्तमम्
।
यस्य ते पुरुषव्याघ्रः सखा चायं जनार्दनः ॥५९॥
दुर्योधनं तु शोचामि प्रेत्य लोकेऽपि दुर्मतिम्
।
यत्कृते पृथिवी सर्वा विनष्टा सहयद्विपा ॥६०॥
दुर्योधनापराधेन कर्णस्य शकुनेस्तथा
।
दुःशासनचतुर्थानां कुरवो निधनं गताः ॥६१॥
वैशम्पायन उवाच। एवं संभाषमाणे तु गाङ्गेये पुरुषर्षभे
।
तूष्णीं बभूव कौरव्यो मध्ये तेषां महात्मनाम् ॥६२॥
तच्छ्रुत्वा विस्मयं जग्मुर्धृतराष्ट्रादयो नृपाः
।
संपूज्य मनसा कृष्णं सर्वे प्राञ्जलयोऽभवन् ॥६३॥
ऋषयश्चापि ते सर्वे नारदप्रमुखास्तदा
।
प्रतिगृह्याभ्यनन्दन्त तद्वाक्यं प्रतिपूज्य च ॥६४॥
इत्येतदखिलं सर्वैः पाण्डवो भ्रातृभिः सह
।
श्रुतवान्सुमहाश्चर्यं पुण्यं भीष्मानुशासनम् ॥६५॥
युधिष्ठिरस्तु गाङ्गेयं विश्रान्तं भूरिदाक्षणम्
।
पुनरेव महाबुद्धिः पर्यपृच्छन्महीपतिः ॥६६॥
वैशम्पायन उवाच। श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः
।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥१॥
युधिष्ठिर उवाच। किमेकं दैवतं लोके किं वाप्येकं परायणम्
।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥२॥
भीष्म उवाच। को धर्मः सर्वधर्माणां भवतः परमो मतः
।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥३॥
भीष्म उवाच। जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्
।
स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥४॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम्
।
ध्यायंस्तुवन्नमस्यंश्च यजमानस्तमेव च ॥५॥
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम्
।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥६॥
ब्रह्मण्यं सर्वधर्मशं लोकानां कीर्तिवर्धनम्
।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥७॥
एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः
।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥८॥
परमं यो महत्तेजः परमं यो महत्तपः
।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥९॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्
।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥१०॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे
।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥११॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते
।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥१२॥
यानि नामानि गौणानि विख्यातानि महात्मनः
।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥१३॥
ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः
।
भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥१४॥
पूतात्मा परमात्मा च मुक्तानां परमा गतिः
।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥१५॥
योगो योगविदां नेता प्रधानपुरुषेश्वरः
।
नरसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ॥१६॥
सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः
।
संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥१७॥
स्वयंभूः शम्भुरादित्यः पुष्कराक्षो महास्वनः
।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥१८॥
अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः
।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठःस्थविरो ध्रुवः ॥१९॥
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः
।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥२०॥
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः
।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥२१॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः
।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥२२॥
सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः
।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥२३॥
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः
।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥२४॥
वसुर्वसुमनाः सत्यः समात्मा संमितः समः
।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥२५॥
रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः
।
अमृतः शाश्वतः स्थाणुर्वरारोहो महातपाः ॥२६॥
सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः
।
वेदो वेदविद्व्यङ्गो वेदाङ्गो वेदवित्कविः ॥२७॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः
।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥२८॥
भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः
।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥२९॥
उपेन्द्रो वामनः प्रांशुरमोधः शुचिरूर्जितः
।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥३०॥
वेद्यो वैद्यः सदा योगी वीरहा माधवो मधुः
।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥३१॥
महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः
।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृत् ॥३२॥
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः
।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदांपतिः ॥३३॥
मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः
।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥३४॥
अमृत्युः सर्वदृक् सिंहः संधाता संधिमान् स्थिरः
।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥३५॥
गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः
।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥३६॥
अग्रणीर्यामणीः श्रीमान्न्यायो नेता समीरणः
।
सहस्त्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥३७॥
आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः
।
अहः संवर्तको वह्निरनिलो धरणीधरः ॥३८॥
सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग्विभुः
।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥३९॥
असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः
।
सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥४०॥
वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः
।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥४१॥
सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः
।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥४२॥
ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः
।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥४३॥
अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः
।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥४४॥
भूतभव्यभवन्नाथः पवनः पावनोऽनलः
।
कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥४५॥
युगादिकृद्युगावर्तो नैकमायो महाशनः
।
अदृश्यो व्यक्तरूपश्च सहस्रजितनन्तजित्॥४६॥
इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः
।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुमेहीधरः ॥४७॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः
।
अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥४८॥
स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः
।
वासुदेवो बृहद्भानुरादिदेवः पुरंदरः ॥४९॥
अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः
।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥५०॥
पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत्
।
महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥५१॥
अतुलः शरभो भीमः समयज्ञो हविर्हरिः
।
सर्वलक्षणलक्षण्यो लक्ष्मीवान्समितिञ्जयः ॥५२॥
विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः
।
महीधरो महाभागो वेगवानमिताशनः ॥५३॥
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः
।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥५४॥
व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः
।
परर्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥५५॥
रामो विरामो विरजो मार्गो नेयो नयोऽनयः
।
चीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥५६॥
वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः
।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥५७॥
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः
।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥५८॥
विस्तारः स्थावरः स्थाणुः प्रमाणं वीजमव्ययम्
।
अर्थोऽनर्थो महाकोशो महाभागो महाधनः ॥५९॥
अनिर्विण्णः स्थविष्ठो भूर्धर्मयूपो महामखः
।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥६०॥
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः
।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥६१॥
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्
।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥६२॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्
।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥६३॥
धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम्
।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥६४॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः
।
आदिदेवो महादेवो देवेशो देवभृङ्गुरुः ॥६५॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः
।
शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥६६॥
सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः
।
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥६७॥
जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः
।
अंभोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥६८॥
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः
।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥६९॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः
।
त्रिपदस्त्रिदशाध्यक्षो महाश्रुङ्गः कृतान्तकृत् ॥७०॥
महावराहो गोविन्दः सुषेणः कनकाङ्गदी
।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥७१॥
वेधाः स्वाङ्गो जितः कृष्णो दृढः सङ्कर्षणोच्युतः
।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥७२॥
भगवान् भगहा नन्दी वनमाली हलायुधः
।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥७३॥
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः
।
दिवस्पृक्सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥७४॥
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्
।
संन्यासकृच्छमः शांतो निष्ठा शांतिः परायणम् ॥७५॥
शुभाङ्गः शान्तिदः स्त्रष्टा कुमुदः कुवलेशयः
।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥७६॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः
।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥७७॥
श्रीदः श्रीशः श्रनिवासः श्रीनिधिः श्रीविभावनः
।
श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥७८॥
स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः
।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥७९॥
उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतः स्थिरः
।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥८०॥
अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः
।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥८१॥
कालनेमिनिहा वीरः शूरः शौरिर्जनेश्वरः
।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥८२॥
कामदेवः कामपालः कामी कान्तः कृतागमः
।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥८३॥
ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः
।
ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥८४॥
महाक्रमो महाकर्मा महातेजा महोरगः
।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥८५॥
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिस्तोता रणप्रियः
।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥८६॥
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः
।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥८७॥
सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः
।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥८८॥
भूतावासो वासुदेवः सर्वासुनिलयोऽनलः
।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥८९॥
विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्
।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥९०॥
एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्
।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥९१॥
सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी
।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥९२॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृत्
।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥९३॥
तेजो वृषो द्युतिधरः सर्वशस्त्रभृतां वरः
।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥९४॥
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः
।
चतुरात्मा चतुर्भावश्चतुर्वेदश्विदेकपात् ॥९५॥
समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः
।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥९६॥
शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः
।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥९७॥
उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः
।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥९८॥
सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः
।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥९९॥
कुमुदः कुन्द्रः कुन्दः पर्जन्यः पवनोऽनिलः
।
अमृतांशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥१००॥
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः
।
न्यग्रोधोदुम्बरोश्वत्थश्चाणूरान्ध्रनिषूदनः ॥१०१॥
सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः
।
अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥१०२॥
अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्
।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥१०३॥
भारभृत्कथितो योगी योगीशः सर्वकामदः
।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥१०४॥
धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः
।
अपराजितः सर्वसहो नियन्ता नियमो यमः ॥१०५॥
सत्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः
।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ॥१०६॥
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः
।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥१०७॥
अनन्तो हुतभुग्भोक्ता सुखदो नैकदोऽग्रजः
।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥१०८॥
सनात्सनातनतमः कपिलः कपिरव्ययः
।
स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ॥१०९॥
अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः
।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥११०॥
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः
।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥१११॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः
।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥११२॥
अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः
।
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥११३॥
अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः
।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥११४॥
आधारनिलयो धाता पुष्पहासः प्रजागरः
।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥११५॥
प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः
।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥११६॥
भूर्भुवःस्वस्तरुस्तारः सपिता प्रपितामहः
।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥११७॥
यज्ञभृद्यज्ञकृयज्ञी यज्ञभुग्यज्ञसाधनः
।
यज्ञान्तकृद्यज्ञगुह्यमन्नमन्नाद एव च ॥११८॥
आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः
।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥११९॥
शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः
।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः
।
सर्वप्रहरणायुध ओं नम इति ॥१२०॥
इतीदं कीर्तनीयस्य केशवस्य महात्मनः
।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥१२१॥
य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्
।
नाशुभं प्राप्नुयात्किञ्चित्सोऽमुत्रेह च मानवः ॥१२२॥
वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत्
।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥१२३॥
धर्मार्थी प्राप्नुयाद्धर्ममर्थार्थी चार्थमाप्नुयात्
।
कामानवाप्नुयात्कामी प्रजार्थी प्राप्नुयात्प्रजाम् ॥१२४॥
भक्तिमान्यः सदोत्थाय शुचिस्तद्गतमानसः
।
सहस्रं वासुदेवस्य नाम्नामेतत्प्रकीर्तयेत् ॥१२५॥
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च
।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥१२६॥
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति
।
भवत्यरोगो द्युतिमान्बलरूपगुणान्वितः ॥१२७॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात्
।
भयान्मुच्येत भीतस्तु मुच्येदापन्न आपदः ॥१२८॥
दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम्
।
स्तुवन्नामसहस्रण नित्यं भक्तिसमन्वितः ॥१२९॥
वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः
।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥१३०॥
न वासुदेवभक्तानामशुभं विद्यते क्वचित्
।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥१३१॥
इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः
।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥१३२॥
न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः
।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥१३३॥
द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः
।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥१३४॥
ससुरासुरगन्धर्वं सयक्षोरगराक्षसम्
।
जगद्वशे वर्ततेदं कृष्णस्य सचराचरम् ॥१३५॥
इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः
।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥१३६॥
सर्वागमानामाचारः प्रथमं परिकल्प्यते
।
आचारः प्रथमो धर्मो धर्मस्य प्रभुरच्युतः ॥१३७॥
ऋषयः पितरो देवा महाभूतानि धातवः
।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥१३८॥
योगो ज्ञानं तथा सांख्यं विद्याः शिल्पादि कर्म च
।
वेदाः शास्त्राणि विज्ञानमेतत्सर्वं जनार्दनात् ॥१३९॥
एको विष्णुर्महद्भूतं पृथग्भूतान्यनेकशः
।
त्रीन् लोकान् व्याप्य भूतात्मा भुङ्क्ते विश्वभुगव्ययः ॥१४०॥
इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्
।
पठेद्य इच्छेत्पुरुषः श्रेयः प्राप्तुं सुखानि च ॥१४१॥
विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम्
।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥१४२॥
युधिष्ठिर उवाच। पितामह महाप्राज्ञ सर्वशास्त्रविशारद
।
किं जप्यं जपतो नित्यं भवेद्धर्मफलं महत्॥१॥
प्रस्थाने वा प्रवेशे वा प्रवृत्ते वापि कर्मणि
।
दैवे वा श्राद्धकाले वा किं जप्यं कर्मसाधनम् ॥२॥
शान्तिकं पौष्टिकं रक्षा शत्रुघ्नं भयनाशनम्
।
जप्यं यद्ब्रह्म समितं तद्भवान् वक्तुमर्हति ॥३॥
भीष्म उवाच। व्यासप्रोक्तमिमं मन्त्रं शृणुष्वैकमना नृप
।
सावित्र्या विहितं दिव्यं सद्यः पापविमोचनम् ॥४॥
शृणु मन्त्रविधिं कृत्स्नं प्रोच्यमानं मयाऽनघ
।
यं श्रुत्वा पाण्डवश्रेष्ठ सर्वपापैः प्रमुच्यते ॥५॥
रात्रावहनि धर्मज्ञ जपन् पापैर्न लिप्यते
।
तत्तेऽहं संप्रवक्ष्यामि शृणुष्वैकमना नृप ॥६॥
आयुष्मान् भवते चैव यं श्रुत्वा पार्थिवात्मज
।
पुरुषस्तु सुसिद्धार्थः प्रेत्य चेह च मोदते ॥७॥
सेवितं सततं राजन् पुरा राजर्षिसत्तमैः
।
क्षत्रधर्मपरैर्नित्यं सत्यव्रतपरायणैः ॥८॥
इदमाह्निकमव्यग्र्यं कुर्वद्भिर्नियतैः सदा
।
नृपैर्भरतशार्दूल प्राप्यते श्रीरनुत्तमा ॥९॥
नमो वसिष्ठाय महाव्रताय पराशरं वेदनिधिं नमस्ये
।
नमोऽस्त्वनन्ताय महोरगाय नमोऽस्तु सिद्धेभ्य इहाक्षयेभ्यः ॥१०॥
नमोस्त्वृषिभ्यः परमं परेषां देवेषु देवं वरदं वराणाम्
।
सहस्रशीर्षाय नमः शिवाय सहस्त्रनामाय जनार्दनाय ॥११॥
अजैकपादहिर्बुध्न्यः पिनाकी चापराजितः
।
ऋतश्च पितृरूपश्च त्र्यम्बकश्च महेश्वरः ॥१२॥
वृषाकपिश्च शम्भुश्च हवनोऽथेश्वरस्तथा
।
एकादशैते प्रथिता रुद्रास्त्रिभुवनेश्वराः ॥१३॥
शतमेतत्समाम्नातं शतरुद्रे महात्मनाम्
।
अंशो भगश्च मित्रश्च वरुणश्च जलेश्वरः ॥१४॥
तथा धातार्यमा चैव जयन्तो भास्करस्तथा
।
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते ॥१५॥
इत्येते द्वादशादित्याः काश्यपेया इति श्रुतिः
।
धरो ध्रुवश्च सोमश्च सावित्रोथानिलोऽनलः ॥१६॥
प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः
।
नासत्यश्चापि दत्तश्च स्मृतौ द्वावश्विनावपि ॥१७॥
मार्तण्डस्यात्मजावेतौ संज्ञानासाविनिर्गतौ
।
अतः परं प्रवक्ष्यामि लोकानां कर्मसाक्षिणः ॥१८॥
अपि यज्ञस्य वेत्तारो दत्तस्य सुकृतस्य च
।
अदृश्याः सर्वभूतेषु पश्यन्ति त्रिदशेश्वराः ॥१९॥
शुभाशुभानि कर्माणि मृत्युः कालश्च सर्वशः
।
विश्वेदेवाः पितृगणा मूर्तिमन्तस्तपोधनाः ॥२०॥
मुनयश्चैव सिद्धाश्च तपोमोक्षपरायणाः
।
शुचिस्मिताः कीर्तयतां प्रयच्छन्ति शुभं नृणाम् ॥२१॥
प्रजापतिकृतानेतान् लोकान् दिव्येन तेजसा
।
वसन्ति सर्वलोकेषु प्रयताः सर्वकर्मसु ॥२२॥
प्राणानामीश्वरानेतान् कीर्तयन्प्रयतो नरः
।
धर्मार्थकामैर्विपुलैर्युज्यते सह नित्यशः ॥२३॥
लोकांश्च लभते पुण्यान्विश्वेश्वरक्कृताञ्छुभान्
।
एते देवास्त्रयस्त्रिंशत्सर्वभूतगणेश्वराः ॥२४॥
नन्दीश्वरो महाकायो ग्रामणीर्वृषभध्वजः
।
ईश्वराः सर्वलोकानां गणेश्वरविनायकाः ॥२५॥
सौम्या रौद्रा गणाश्चैव योगभूतगणास्तथा
।
ज्योतींषि सरितो व्योम सुपर्णः पतगेश्वरः ॥२६॥
पृथिव्यां तपसा सिद्धाः स्थावराश्च चराश्च ह
।
हिमवान् गिरयः सर्वे चत्वारश्च महार्णवाः ॥२७॥
भवस्यानुचराश्चैव हरतुल्यपराक्रमाः
।
विष्णुर्देवोथ जिष्णुश्च स्कन्दश्चाम्बिकया सह ॥२८॥
कीर्तयन्प्रयतः सर्वान्सर्वपापैः प्रमुच्यते
।
अत ऊर्ध्वं प्रवक्ष्यामि मानवानृषिसत्तमान् ॥२९॥
यवक्रीतश्च रैभ्यश्च अर्वावसुपरावसू
।
औशिजश्चैव कक्षीवान् बलश्चाङ्गिरसः सुतः ॥३०॥
ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा
।
ब्रह्मतेजोमयाः सर्वे कीर्तिता लोकभावनाः ॥३१॥
लभन्ते हि शुभं सर्वे रुद्रानलवसुप्रभाः
।
भुवि कृत्वा शुभं कर्म मोदन्ते दिवि दैवतैः ॥३२॥
महेन्द्रगुरवः सप्त प्राचीं वै दिशमाश्रिताः
।
प्रयतः कीर्तयेदेतान् शक्रलोके महीयते ॥३३॥
उन्मुचुः प्रमुचुश्चैव स्वस्त्यात्रेयश्च वीर्यवान्
।
दृढव्यश्चोर्ध्वबाहुश्च तृणसोमाङ्गिरास्तथा ॥३४॥
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान्
।
धर्मराजर्त्विजः सप्त दक्षिणां दिशमाश्रिताः ॥३५॥
दृढेयुश्च ऋतेयुश्च परिव्याधश्च कीर्तिमान्
।
एकतश्च द्वितश्चैव त्रितश्चादित्यसन्निभाः ॥३६॥
अत्रेः पुत्रश्च धर्मात्मा ऋषिः सारस्वतस्तथा
।
वरुणस्यर्त्विजः सप्त पश्चिमां दिशमाश्रिताः ॥३७॥
अत्रिर्वसिष्ठो भगवान् कश्यपश्च महानृषिः
।
गौतमश्च भरद्वाजो विश्वामित्रोऽथ कौशिकः ॥३८॥
ऋचीकतनयश्चोग्रो जमदग्निः प्रतापवान्
।
धनेश्वरस्य गुरवः सप्तैते उत्तराश्रिताः ॥३९॥
अपरे मुनयः सप्त दिक्षु सर्वास्वधिष्ठिताः
।
कीर्तिस्वस्तिकरा नॄणां कीर्तिता लोकभावनाः ॥४०॥
धर्मः कामश्च कालश्च वसुर्वासुकिरेव च
।
अनन्तः कपिलश्चैव सप्तैते धरणीधराः ॥४१॥
रामोव्यासस्तथा द्रौणिरश्वत्थामा च लोमशः
।
इत्येते मुनयो दिव्या एकैकः सप्त सप्तधा ॥४२॥
शान्तिस्वस्तिकरा लोके दिशांपालाः प्रकीर्तिताः
।
यस्यां यस्यां दिशि ह्येते तन्मुखः शरणं व्रजेत् ॥४३॥
स्रष्टारः सर्वभूतानां कीर्तिता लोकपावनाः
।
संवर्तो मेरुसावर्णो मार्कण्डेयश्च धार्मिकः ॥४४॥
सांख्ययोगौ नारदश्च दुर्वासाश्च महानृषिः
।
अत्यन्ततपसो दान्तास्त्रिषु लोकेषु विश्रुताः ॥४५॥
अपरे रुद्रसङ्काशाः कीर्तिता ब्रह्मलौकिकाः
।
अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् ॥४६॥
तथा धर्मार्थकामेषु सिद्धिं च लभते नरः
।
पृथं वैन्यं नृपवरं पृथ्वी यस्याभवत्सुता ॥४७॥
प्रजापतिं सार्वभौमं कीर्तयेद्वसुधाधिपम्
।
आदित्यवंशप्रभवं महेन्द्रसमविक्रमम् ॥४८॥
पुरूरवसमैलं च त्रिषु लोकेषु विश्रुतम्
।
बुधस्य दयितं पुत्रं कीर्तयेद्वसुधाधिपम् ॥४९॥
त्रिलोकविश्रुतं वीरं भरतं च प्रकीर्तयेत्
।
गवामयेन यज्ञेन येनेष्टं वै कृते युगे ॥५०॥
रन्तिदेवं महादेवं कीर्तयेत्परमद्युतिम्
।
विश्वजित्तपसोपेतं लक्षण्यं लोकपूजितम् ॥५१॥
तथा श्वेतं च राजर्षिं कीर्तयेत्परमद्युतिम्
।
सगरस्यात्मजा येन प्लावितास्तारितास्तथा ॥५२॥
हुताशनसमानेतान् महारूपान् महौजसः
।
उग्रकायान्महासत्त्वान्कीर्तयेत्कीर्तिवर्धनान् ॥५३॥
देवानृषिगणांश्चैव नृपांश्च जगतीश्वरान्
।
सांख्यं योगं च परमं हव्यं कव्यं तथैव च ॥५४॥
कीर्तितं परमं ब्रह्म सर्वश्रुतिपरायणम्
।
मङ्गल्यं सर्वभूतानां पवित्रं बहुकीर्तितम् ॥५५॥
व्याधिप्रशमनं श्रेष्ठं पौष्टिकं सर्वकर्मणाम्
।
प्रयतः कीर्तयेच्चैतान् कल्यं सायं च भारत ॥५६॥
एते वै यान्ति वर्षन्ति भान्ति वान्ति सृजन्ति च
।
एते विनायकाः श्रेष्ठा दक्षाः क्षान्ता जितेन्द्रियाः ॥५७॥
नराणामशुभं सर्वे व्यपोहन्ति प्रकीर्तिताः
।
साक्षिभूता महात्मानः पापस्य सुकृतस्य च ॥५८॥
एतान्वै कल्यमुत्थाय कीर्तयन् शुभमश्नुते
।
नाग्निचौरभयं तस्य न मार्गप्रतिरोधनम् ॥५९॥
एतान् कीर्तयतां नित्यं दुःस्वप्नो नश्यते नृणाम्
।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान् व्रजेत् ॥६०॥
दीक्षाकालेषु सर्वेषु यः पठेन्नियतो द्विजः
।
न्यायवानात्मनिरतः क्षांतो दांतोऽनसूयकः ॥६१॥
रोगार्तो व्याधियुक्तो वा पठन् पापात्प्रमुच्यते
।
वास्तुमध्ये तु पठतः कुले स्वस्त्ययनं भवेत् ॥६२॥
क्षेत्रमध्ये तु पठतः सर्वं सस्यं प्ररोहति
।
गच्छतः क्षेममध्वानं ग्रामान्तरगतः पठन् ॥६३॥
आत्मनश्च सुतानां च दाराणां च धनस्य च
।
बीजानामोषधीनां च रक्षामेतां प्रयोजयेत् ॥६४॥
एतान् संग्रामकाले तु पठतः क्षत्रियस्य तु
।
व्रजन्ति रिपवो नाशं क्षेमं च परिवर्तते ॥६५॥
एतान्दैवे च पित्र्ये च पठतः पुरुषस्य हि
।
भुञ्जते पितरः कव्यं हव्यं च त्रिदिवौकसः ॥६६॥
न व्याधिश्वापदभयं न द्विपान्न हि तस्करात्
।
कश्मलं लघुतां याति पाप्मना च प्रमुच्यते ॥६७॥
यानपात्रे च याने च प्रवासे राजवेश्मनि
।
परां सिद्धिमवाप्नोति सावित्रीं ह्युत्तमां पठन् ॥६८॥
न च राजभयं तेषां न पिशाचान्न राक्षसात्
।
नाग्न्यम्बुपवनव्यालाद्भयं तस्योपजायते ॥६९॥
चतुर्णामपि वर्णानामाश्रमस्य विशेषतः
।
करोति सततं शान्तिं सावित्रीमुत्तमां पठन् ॥७०॥
नाग्निर्दहति काष्ठानि सावित्री यत्र पठ्यते
।
न तत्र बालो म्रियते न च तिष्ठन्ति पन्नगाः ॥७१॥
न तेषां विद्यते दुःखं गच्छन्ति परमां गतिम्
।
ये शृण्वन्ति महद्ब्रह्म सावित्रीगुणकीर्तनम् ॥७२॥
गवां मध्ये तु पठतो गावोऽस्य बहुवत्सलाः
।
प्रस्थाने वा प्रवासे वा सर्वावस्थां गतः पठेत् ॥७३॥
जपतां जुह्वतां चैव नित्यं च प्रयतात्मनाम्
।
ऋषीणां परमं जप्यं गुह्यमेतन्नराधिप ॥७४॥
याथातथ्येन सिद्धस्य इतिहासं पुरातनम्
।
पराशरमतं दिव्यं शक्राय कथितं पुरा ॥७५॥
तदेतत्ते समाख्यातं तथ्यं ब्रह्म सनातनम्
।
हृदयं सर्वभूतानां श्रुतिरेषा सनातनी ॥७६॥
सोमादित्यान्वयाः सर्वे राघवाः कुरवस्तथा
।
पठन्ति शुचयो नित्यं सावित्रीं प्राणिनां गतिम् ॥७७॥
अभ्यासे नित्यं देवानां सप्तर्षीणां ध्रुवस्य च
।
मोक्षणं सर्वकृच्छ्राणां मोचयत्यशुभात्सदा ॥७८॥
वृद्धैः काश्यपगौतमप्रभृतिभिभृग्वंनिरोत्र्यादिभिः
।
शुक्रागस्त्यबृहस्पतिप्रभृतिभिर्ब्रह्मर्षिभिः सेवितम् ॥७९॥
भारद्वाजमतं ऋचीकतनयैः प्राप्तं वसिष्ठात् पुनः
।
सावित्रीमधिगम्य शक्रवसुभिः कृत्स्ना जिता दानवाः ॥८०॥
यो गोशतं कनकश्टङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय
।
दिव्यां च भारतकथां कथयेच्च नित्यं तुल्यं फलं भवति तस्य च तस्य चैव ॥८१॥
धर्मो विवर्धति भृगोः परिकीर्तनेन वीर्यं विवर्धति वसिष्ठनमोनतेन
।
संग्रामजिद्भवति चैव रघुं नमस्यन् स्यादश्विनौ च परिकीर्तयतो न रोगः ॥८२॥
एषा ते कथिता राजन् सावित्री ब्रह्म शाश्वती
।
विवक्षुरसि यच्चान्यत्तत्ते वक्ष्यामि भारत ॥८२॥
युधिष्ठिर उवाच। के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च
।
किमाचारः कीदृशेषु पितामह न रिष्यते ॥१॥
भीष्म उवाच। ब्राह्मणानां परिभवः सादयेदपि देवताः
।
ब्राह्मणांस्तु नमस्कृत्य युधिष्ठिर न रिष्यते ॥२॥
ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत्
।
ते हि लोकानिमान् सर्वान् धारयन्ति मनीषिणः॥३॥
ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः
।
धनत्यागाभिरामाश्च वाक्संयमराताश्च ये॥४॥
रमणीयाश्च भूतानां निधानं च धृतव्रताः
।
प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः॥५॥
तपो येषां धनं नित्यं वाक्चैव विपुलं बलम्
।
प्रभवश्चैव धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ॥६॥
धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः
।
यान्समाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः॥७॥
पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः
।
पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा॥८॥
धुरि ये नावसीदन्ति विषये सद्गवा इव
।
पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः ॥९॥
भोजनादेव लोकांस्त्रींस्त्रायन्ते महतो भयात्
।
दीपः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि ॥१०॥
सर्वशिक्षा श्रुतिधना निपुणा मोक्षदर्शिनः
।
गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः॥११॥
आदिमध्यावसानानां ज्ञातारश्छिन्नसंशयाः
।
परावरविशेषज्ञा गन्तारः परमां गतिम् ॥१२॥
विमुक्ता धूतपाप्मानो निर्द्वन्द्वा निष्परिग्रहाः
।
मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः॥१३॥
चन्दने मलपङ्के च भोजनेऽभोजने समाः
।
समं येषां दुकूलं च तथा क्षौमाजिनानि च ॥१४॥
तिष्ठेयुरप्यभुञ्जाना बहूनि दिवसान्यपि
।
शोषयेयुश्च गात्राणि स्वाध्यायैः संयतेन्द्रियाः॥१५॥
अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम्
।
लोकानन्यान् सृजेयुस्ते लोकपालांश्च कोपिताः॥१६॥
अपेयः सागरो येषामपि शापान्महात्मनाम्
।
येषां कोपाग्निरद्यापि दण्डकेनोपशाम्यति ॥१७॥
देवानामपि ये देवाः कारणं कारणस्य च
।
प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः॥१८॥
येषां वृद्धश्च बालश्च सर्वः संमानमर्हति
।
तपोविद्याविशेषात्तु मानयन्ति परस्परम्॥१९॥
अविद्वान् ब्राह्मणो देवः पात्रं वै पावनं महत्
।
विद्वान् भूयस्तरो देवः पूर्णसागरसन्निभः॥२०॥
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत्
।
प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥२१॥
श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति
।
हविर्यज्ञे च विधिवद्गृह एवातिशोभते ॥२२॥
एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु
।
सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् ॥२३॥
युधिष्ठिर उवाच। कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप
।
कं वा कर्मोदयं मत्वा तानर्चसि महामते ॥१॥
भीष्म उवाच। अत्राप्युदाहरन्तीममितिहासं पुरातनम्
।
पवनस्य च संवादमर्जुनस्य च भारत॥२॥
सहस्रभुजभृच्छ्रीमान्कारवीर्योऽभवत्प्रभुः
।
अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः॥३॥
स तु रत्नाकरवतीं सद्वीपां सागरम्बराम्
।
शशास पृथिवीं सर्वां हैहयः सत्यविक्रमः॥४॥
स्ववित्तं तेन दत्तं तु दत्तात्रेयाय कारणे
।
क्षत्रधर्मं पुरस्कृत्य विनयं श्रुतमेव च ॥५॥
आराधयामास च तं कृतवीर्यात्मजो मुनिम्
।
न्यमन्त्रयत सन्तुष्टो द्विजश्चैनं वरैस्त्रिभिः ॥६॥
स वरैश्छन्दितस्तेन नृपो वचनमब्रवीत्
।
सहस्रबाहुर्भूयां वै चमूमध्ये गृहेऽन्यथा ॥७॥
मम बाहुसहस्रं तु पश्यतां सैनिका रणे
।
विक्रमेण महीं कृत्स्नां जयेयं संशितव्रत ॥८॥
तां च धर्मेण संप्राप्य पालयेयमतन्द्रितः
।
चतुर्थं तु वरं याचे त्वामहं द्विजसत्तम ॥९॥
तं ममानुग्रहकृते दातुमर्हस्यनिन्दित
।
अनुशासन्तु मां सन्तो मिथ्योद्वृत्तं त्वदाश्रयम् ॥१०॥
इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम्
।
एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ॥११॥
ततः स रथमास्थाय ज्वलनार्कसमद्युतिम्
।
अब्रवीद्वीर्यसंमोहात्को वास्ति सदृशो मम ॥१२॥
धैर्यैर्वीर्यैर्यशःशौर्यैर्विक्रमेणौजसापि वा
।
तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी ॥१३॥
न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम्
।
सहितो ब्राह्मणेनेह क्षत्रियः शास्ति वै प्रजाः॥१४॥
अर्जुन उवाच। कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथाऽनये
।
कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः॥१५॥
पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः
।
त्वयोक्तौ हेतुयुक्तौ तौ विशेषस्तत्र दृश्यते ॥१६॥
ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम्
।
श्रिता ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान् भुवि ॥१७॥
क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम्
।
क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः ॥१८॥
सर्वभूतप्रधानांस्तान्भैक्षवृत्तीनहं सदा
।
आत्मसंभावितान्विप्रान्स्थापयाम्यात्मनो वशे ॥१९॥
कथितं त्वनयाऽसत्यं गायत्र्या कन्यया दिवि
।
विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ॥२०॥
न च मां च्यावयेद्राष्ट्रान्त्रिषु लोकेषु कश्चन
।
देवो वा मानुषो वाऽपि तस्माज्ज्येष्ठो द्विजादहम् ॥२१॥
अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम्
।
न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम् ॥२२॥
अर्जुनस्य वचः श्रुत्वा वित्रस्ताऽभून्निशाचरी
।
अथैनमन्तरिक्षस्थस्ततो वायुरभाषत ॥२३॥
त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु
।
एतेषां कुर्वतः पापं राष्ट्रक्षोभो भविष्यति ॥२४॥
अथवा त्वां महीपाल शमयिष्यन्ति वै द्विजाः
।
निरसिष्यन्ति ते राष्ट्राद्धतोत्साहा महाबलाः॥२५॥
तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः
।
वायुर्वै देवदूतोस्मि हितं त्वां प्रब्रवीम्यहम् ॥२६॥
अर्जुन उवाच। अहो त्वयाऽयं विप्रेषु भक्तिरागः प्रदर्शितः
।
यादृशं पृथिवीभूतं तादृशं ब्रूहि मे द्विजम् ॥२७॥
वायोर्वा सदृशं किञ्चिद्ब्रूहि त्वं ब्राह्मणोत्तमम्
।
अपां वै सदृशं वह्नेः सूर्यस्य नभसोपि वा ॥२८॥
वायुरुवाच
।
शृणु मूढ गुणान्कांश्चिद्ब्राह्मणानां महात्मनाम्
।
ये त्वया कीर्तिता राजंस्तेभ्योऽथ ब्राह्मणो वरः ॥१॥
त्यक्त्वा महीत्वं भूमिस्तु स्पर्धयाङ्गनृपस्य ह
।
नाशं जगाम तां विप्रो व्यस्तंभयत कश्यपः ॥२॥
अजेया ब्राह्मणा राजन्दिवि चेह च नित्यदा
।
अपिबत्तेजसा ह्यापः स्वयमेवाङ्गिराः पुरा ॥३॥
स ताः पिबन्क्षीरमिव नातृप्यत महामनाः
।
अपूरयन्महौघेन महीं सर्वां च पार्थिव॥४॥
तस्मिन्नहं च क्रुद्धे वै जगत्त्यक्त्वा ततो गतः
।
व्यतिष्ठमग्निहोत्रे च चिरमङ्गिरसो भयात्॥५॥
अथ शप्तश्च भगवान् गौतमेन पुरन्दरः
।
अहल्यां कामयानो वै धर्मार्थं च न हिंसितः॥६॥
तथा समुद्रो नृपते पूर्णो मृष्टस्य वारिणः
।
ब्राह्मणैरभिशप्तश्च बभूव लवणोदकः॥७॥
सुवर्णवर्णो निर्धूमः सङ्गतोर्ध्वशिखः कविः
।
क्रुद्धेनाङ्गिरसा शप्तो गुणैरेतैर्विवर्जितः॥८॥
महतश्चूर्णितान्पश्य ये हासन्त महोदधिम्
।
सुवर्णधारिणा नित्यमवशप्ता द्विजातिना ॥९॥
समो न त्वं द्विजातिभ्यःश्रेयो विद्धि नराधिप
।
गर्भस्थान्ब्राह्मणान् सम्यङ्नमस्यति किल प्रभुः॥१०॥
दण्डकानां महद्राज्यं ब्राह्मणेन विनाशितम्
।
तालजंघं महाक्षत्रमौर्वेणैकेन नाशितम् ॥११॥
त्वया च विपुलं राज्यं बलं धर्मं श्रुतं तथा
।
दत्तात्रेयप्रसादेन प्राप्तं परमदुर्लभम् ॥१२॥
अग्निं त्वं यजसे नित्यं कस्माद्ब्राह्मणमर्जुन
।
स हि सर्वस्य लोकस्य हव्यवाट् किं न वेत्सि तम् ॥१३॥
अथवा ब्राह्मणश्रेष्ठमनुभूतानुपालकम्
।
कर्तारं जीवलोकस्य कस्माज्जानन्विमुह्यसे॥१४॥
तथा प्रजापतिर्ब्रह्मा अव्यक्तः प्रभुरव्ययः
।
येनेदं निखिलं विश्वं जनितं स्थावरं चरम् ॥१५॥
अण्डजातं तु ब्रह्माणं केचिदिच्छन्त्यपण्डिताः
।
अण्डाद्भिन्नाद्बभुः शैला दिशोम्भः पृथिवी दिवम् ॥१६॥
द्रष्टव्यं नैतदेवं हि कथं जायेदजो हि सः
।
स्मृतमाकाशमण्डं तु तस्माज्जातः पितामहः ॥१७॥
तिष्ठेत्कथमिति ब्रूहि न किञ्चिद्धि तदा भवेत्
।
अहङ्कार इति प्रोक्तः सर्वतेजोगतः प्रभुः ॥१८॥
नास्त्यण्डमस्ति तु ब्रह्मा स राजा लोकभावनः
।
इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत् ॥१९॥
वायुरुवाच
।
इमां भूमिं द्विजातिभ्यो दित्सुर्वै दक्षिणां पुरा
।
अङ्गो नाम नृपो राजंस्ततश्चिन्तां मही ययौ ॥१॥
धारिणीं सर्वभूतानामयं प्राप्य वरो नृपः
।
कथमिच्छति मां दातुं द्विजेभ्यो ब्रह्मणः सुताम् ॥२॥
साऽहं त्यक्त्वा गमिष्यामि भूमित्वं ब्रह्मणः पदम्
।
अयं सराष्ट्रो नृपतिर्माभूदिति ततोऽगमत् ॥३॥
ततस्तां कश्यपो दृष्ट्वा व्रजन्तीं पृथिवीं तदा
।
प्रविवेश महीं सद्यो मुक्त्वाऽऽत्मानं समाहितः॥४॥
ऋद्धा सा सर्वतो जज्ञे तृणौषधिसमन्विता
।
धर्मोत्तरा नष्टभया भूमिरासीत्ततो नृप ॥५॥
एवं वर्षसहस्राणि दिव्यानि विपुलव्रतः
।
त्रिंशतः कश्यपो राजन् भूमिरासीदतन्द्रितः ॥६॥
अथागम्य महाराज नमस्कृत्य च कश्यपम्
।
पृथिवी काश्यपी जज्ञे सुता तस्य महात्मनः ॥७॥
एष राजन्नीदृशो वै ब्राह्मणः कश्यपोऽभवत्
।
अन्यं प्रब्रूहि वा त्वं च कश्यपात्क्षत्रियं वरम् ॥८॥
तूष्णीं बभूव नृपतिः पवनस्त्वब्रवीत्पुनः
।
शृणु राजन्नुतथ्यस्य जातस्याङ्गिरसे कुले ॥९॥
भद्रा सोमस्य दुहिता रूपेण परमा मता
।
तस्यास्तुल्यं पतिं सोम उतथ्यं समपश्यत ॥१०॥
सा च तीव्रं तपस्तेपे महाभागा यशस्विनी
।
उतथ्यार्थे तु चार्वङ्गी परं नियममास्थिता ॥११॥
तत आहूय सोतथ्यं ददावत्रिर्यशस्विनीम्
।
भार्यार्थे स च जग्राह विधिवद्भूरिदक्षिणः॥१२॥
तां त्वकामयत श्रीमान्वरुणः पूर्वमेव ह
।
स चागम्य वनप्रस्थं यमुनायां जहार ताम् ॥१३॥
जलेश्वरस्तु हृत्वा तामनयत्स्वं पुरं प्रति
।
परमाद्भुतसंकाशं षट्सहस्रशतह्रदम् ॥१४॥
न हि रम्यतरं किञ्चित्तस्मादन्यत्पुरोत्तमम्
।
प्रासादैरप्सरोभिश्च दिव्यैः कामैश्च शोभितम् ॥१५॥
तत्र देवस्तया सार्धं रेमे राजन् जलेश्वरः
।
अथाख्यातमुतथ्याय ततः पत्न्यवमर्दनम् ॥१६॥
तच्छ्रुत्वा नारदात्सर्वमुतथ्यो नारदं तदा
।
प्रोवाच गच्छ ब्रूहि त्वं वरुणं परुषं वचः ॥१७॥
मद्वाक्यान्मुञ्च मे भार्यां कस्मात्तां हृतवानसि
।
लोकपालोसि लोकानां न लोकस्य विलोपकः॥१८॥
सोमेन दत्ता भार्या मे त्वया चापहृताऽद्य वै
।
इत्युक्तो वचनात्तस्य नारदेन जलेश्वरः ॥१९॥
मुञ्च भार्यामुतथ्यस्य कस्मात्त्वं हृतवानसि
।
इति श्रुत्वा वचस्तस्य सोऽथ तं वरुणोऽब्रवीत् ॥२०॥
ममैषा सुप्रिया भार्या नैनामुत्स्रष्टुमुत्सहे
।
इत्युक्तो वरुणेनाथ नारदः प्राप्य तं मुनिम्
।
उतथ्यमब्रवीद्वाक्यं नातिहृष्टमना इव ॥२१॥
गले गृहीत्वा क्षिप्तोस्मि वरुणेन महामुने
।
न प्रयच्छति ते भार्यां यत्ते कार्यं कुरुष्व तत् ॥२२॥
नारदस्य वचः श्रुत्वा क्रुद्धः प्राज्वलदङ्गिराः
।
अपिबत्तेजसा वारि विष्टभ्य सुमहातपाः॥२३॥
पीयमाने तु सर्वस्मिंस्तोयेऽपि सलिलेश्वरः
।
सुहृद्भिर्भिक्षमाणोऽपि नैवामुञ्चत तां तदा ॥२४॥
ततः क्रुद्धोऽब्रवीद्भूमिमुतथ्यो ब्राह्मणोत्तमः
।
दर्शयस्व स्थलं भद्रे षट्सहस्रशतह्रदम् ॥२५॥
ततस्तदीरिणं जातं समुद्रस्यापसर्पतः
।
तस्माद्देशान्नदीं चैव प्रोवाचासौ द्विजोत्तमः ॥२६॥
अदृश्या गच्छ भीरु त्वं सरस्वति मरून्प्रति
।
अपुण्य एष भवतु देशस्त्यक्तस्त्वया शुभे ॥२७॥
तस्मिन् संशोषिते देशे भद्रामादाय वारिपः
।
अददाच्छरणं गत्वा भार्यामाङ्गिरसाय वै ॥२८॥
प्रतिगृह्य तु तां भार्यामुतथ्यः सुमनाऽभवत्
।
मुमोच च जगद्दुःखाद्वरुणं चैव हैहय ॥२९॥
ततः स लब्ध्वा तां भार्यां वरुणं प्राह धर्मवित्
।
उतथ्यः सुमहातेजा यत्तच्छृणु नराधिप ॥३०॥
मयैषा तपसा प्राप्ता क्रोशतस्ते जलाधिप
।
इत्युक्त्वा तामुपादाय स्वमेव भवनं ययौ ॥३१॥
एष राजन्नीदृशो वै उतथ्यो ब्राह्मणर्षभः
।
ब्रवीम्यहं ब्रूहि वा त्वमुतथ्यात्क्षत्रियं वरम् ॥३२॥
भीष्म उवाच। इत्युक्तः स नृपस्तूष्णीमभूद्वायुस्ततोऽब्रवीत्
।
शृणु राजन्नगस्त्यस्य माहात्म्यं ब्राह्मणस्य ह ॥१॥
असुरैर्निर्जिता देवा निरुत्साहाश्च ते कृताः
।
यज्ञाश्चैषां हृताः सर्वे पितॄणां च स्वधास्तथा॥२॥
कर्मेज्या मानवानां च दानवैर्हैहयर्षभ
।
भ्रष्टैश्वर्यास्ततो देवाश्चेरुः पृथ्वीमिति श्रुतिः ॥३॥
ततः कदाचित्ते राजन्दीप्तमादित्यवर्चसम्
।
ददृशुस्तेजसा युक्तमगस्त्यं विपुलव्रतम् ॥४॥
अभिवाद्य तु तं देवाः पृष्ट्वा कुशलमेव च
।
इदमूचुर्महात्मानं वाक्यं काले जनाधिप ॥५॥
दानवैर्युधि भग्नाः स्म तथैश्वर्याच्च भ्रंशिताः
।
तदस्मान्नो भयात्तीव्रात्त्राहि त्वं मुनिपुङ्गव ॥६॥
इत्युक्तः स तदा देवैरगस्त्यः कुपितोऽभवत्
।
प्रजज्वाल च तेजस्वी कालाग्निरिव संक्षये ॥७॥
तेन दीप्तांशुजालेन निर्दग्धा दानवास्तदा
।
अन्तरिक्षान्महाराज निपेतुस्ते सहस्रशः ॥८॥
दह्यमानास्तु ते दैत्यास्तस्यागस्त्यस्य तेजसा
।
उभौ लोकौ परित्यज्य गताः काष्ठां तु दक्षिणाम् ॥९॥
बलिस्तु यजते यज्ञमश्वमेधं महीं गतः
।
येऽन्येऽधस्था महीस्थाश्च तेन दग्धा महासुराः ॥१०॥
ततो लोकाः पुनः प्राप्ताः सुरैः शान्तभयैर्नृप
।
अथैनमब्रुवन् देवा भूमिष्ठानसुरान् जहि ॥११॥
इत्युक्तः प्राह देवान्स न शक्तोस्मि महीगतान्
।
दग्धुं तपो हि क्षीयेन्मे न शक्यामीति पार्थिव ॥१२॥
एवं दग्धा भगवता दानवाः स्वेन तेजसा
।
अगस्त्येन तदा राजंस्तपसा भावितात्मना ॥१३॥
ईदृशश्चाप्यगस्त्यो हि कथितस्ते मयाऽनघ
।
ब्रवीम्यहं ब्रूहि वा त्वमगस्त्यात्क्षत्रियं वरम् ॥१४॥
भीष्म उवाच। इत्युक्तः स तदा तूष्णीमभूद्वायुस्ततोऽब्रवीत्
।
शृणु राजन् वसिष्ठस्य मुख्यं कर्म यशस्विनः ॥१५॥
आदित्याः सत्रमासन्त सरो वै मानसं प्रति
।
वसिष्ठं मनसा गत्वा ज्ञात्वा तत्तस्य गौरवम् ॥१६॥
यजमानांस्तु तान् दृष्ट्वा सर्वान्दीक्षानुकर्शितान्
।
हन्तुमैच्छन्त शैलाभाः खलिनो नाम दानवाः॥१७॥
अदूरात्तु ततस्तेषां ब्रह्मदत्तवरं सरः
।
हता हता वै तत्रैते जीवन्त्याप्लुत्य दानवाः॥१८॥
ते प्रगृह्य महाघोरान् पर्वतान् परिघान् द्रुमान्
।
विक्षोभयन्तः सलिलमुत्थितं शतयोजनम् ॥१९॥
अभ्यद्रवन्त देवांस्ते सहस्राणि दशैव हि
।
ततस्तैरर्दिता देवाः शरणं वासवं ययुः ॥२०॥
स च तैर्व्यथितः शक्रो वसिष्ठं शरणं ययौ
।
ततोऽभयं ददौ तेभ्यो वसिष्ठो भगवानृषिः॥२१॥
तदा तान्दुःखितान्ज्ञात्वा आनृशंस्यपरो मुनिः
।
अयत्नेनादहत्सर्वान्खलिनः स्वेन तेजसा॥२२॥
कैलासं प्रस्थितां चैव नदीं गङ्गां महातपाः
।
आनयत्तत्सरो दिव्यं तया भिन्नं च तत्सरः॥२३॥
सरो भिन्नं तया नद्या सरयूः सा ततोऽभवत्
।
हताश्च खलिनो यत्र स देशः खलिनोऽभवत् ॥२४॥
एवं सेन्द्रा वसिष्ठेन रक्षितास्त्रिदिवौकसः
।
ब्रह्मदत्तवराश्चैव हता दैत्या महात्मना ॥२५॥
एतत्कर्म वसिष्ठस्य कथितं हि मयाऽनघ
।
ब्रवीम्यहं ब्रूहि वा त्वं वसिष्ठात्क्षत्रियं वरम् ॥२६॥
भीष्म उवाच। इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्तमब्रवीत्
।
शृणु मे हैहयश्रेष्ठ कर्मात्रेः सुमहात्मनः ॥१॥
घोरे तमस्ययुध्यन्त सहिता देवदानवाः
।
अविध्यत शरैस्तत्र स्वर्भानुः सोमभास्करौ ॥२॥
अथ ते तमसा ग्रस्ता निहन्यन्ते स्म दानवैः
।
देवा नृपतिशार्दूल सहैव बलिभिस्तदा ॥३॥
असुरैर्वध्यमानास्ते क्षीणप्राणा दिवौकसः
।
अपश्यन्त तपस्यन्तमात्रिं विप्रं तपोधनम् ॥४॥
अथैनमब्रुवन्देवाः शान्तक्रोधं जितेन्द्रियम्
।
असुरैरिषुभिर्विद्धौ चन्द्रादित्याविमावुभौ ॥५॥
वयं वध्यामहे चापि शत्रुभिस्तमसावृते
।
नाधिगच्छामि शान्तिं च भयात्त्रायस्व नः प्रभो ॥६॥
अत्रिरुवाच
।
कथं रक्षामि भवतस्तेऽब्रुवंश्चन्द्रमा भव
।
तिमिरघ्नश्च सविता दस्युहन्ता च नो भव ॥७॥
एवमुक्तस्तदाऽत्रिर्वै तमोनुदभवच्छशी
।
अपश्यत्सौम्यभावाच्च सोमवत्प्रियदर्शनः ॥८॥
दृष्ट्वा नातिप्रभं सोमं तथा सूर्यं च पार्थिव
।
प्रकाशमकरोदत्रिस्तपसा स्वेन संयुगे ॥९॥
जगद्वितिमिरं चापि प्रदीप्तमकरोत्तदा ॥१०॥
व्यजयच्छत्रुसंघांश्च देवानां स्वेन तेजसा
।
अत्रिणा दह्यमानांस्तान्दृष्ट्वा देवा महासुरान् ॥११॥
पराक्रमैस्तेऽपि तदा व्यघ्नन्नत्रिसुरक्षिताः
।
उद्भासितश्च सविता देवास्त्राता हतासुराः ॥१२॥
अत्रिणा त्वथ सामर्थ्यं कृतमुत्तमतेजसा
।
द्विजेनाग्निद्वितीयेन जपता चर्मवाससा ॥१३॥
फलभक्षेण राजर्षे पश्य कर्मात्रिणा कृतम्
।
तस्यापि विस्तरेणोक्तं कर्मात्रेः सुमहात्मनः
।
ब्रवीम्यहं ब्रूहि वा त्वमत्रितः क्षत्रियं वरम् ॥१४॥
इत्युक्तस्त्वर्जुनस्तूष्णीमभूद्वायुस्ततोऽब्रवीत्
।
शृणु राजन् महत्कर्म च्यवनस्य महात्मनः ॥१५॥
अश्विनोः प्रतिसंश्रुत्य च्यवनः पाकशासनम्
।
प्रोवाच सहितो देवैः सोमपावश्विनौ कुरु ॥१६॥
इन्द्र उवाच। अस्माभिर्निन्दितावेतौ भवेतां सोमपौ कथम्
।
देवैर्न संमितावेतौ तस्मान्मैवं वदस्व नः ॥१७॥
अश्विभ्यां सह नेच्छामः सोमं पातुं महाव्रत
।
यदन्यद्वक्ष्यसे विप्र तत्करिष्याम ते वचः ॥१८॥
च्यवन उवाच। पिबेतामश्विनौ सोमं भवद्भिः सहिताविमौ
।
उभावेतावपि सुरौ सूर्यपुत्रौ सुरेश्वर ॥१९॥
क्रियतां मद्वचो देवा यथा वै समुदाहृतम्
।
एतद्वः कुर्वतां श्रेयो भवेन्नैतदकुर्वताम् ॥२०॥
इन्द्र उवाच। अश्विभ्यां सह सोमं वै न पास्यामि द्विजोत्तम
।
पिबन्त्वन्ये यथाकामं नाहं पातुमिहोत्सहे ॥२१॥
च्यवन उवाच। न चेत्करिष्यसि वचो मयोक्तं बलसूदन
।
मया प्रमथितः सद्यः सोमं पास्यसि वै मखे ॥२२॥
वायुरुवाच
।
ततः कर्म समारब्धं हिताय सहसाश्विनोः
।
च्यवनेन ततो मन्त्रैरभिभूताः सुराऽभवन् ॥२३॥
तत्तु कर्म समारब्धं दृष्ट्वेन्द्रः क्रोधमूर्च्छितः
।
उद्यम्य विपुलं शैलं च्यवनं समुपाद्रवत् ॥२४॥
तथा वज्रेण भगवानमर्षाकुललोचनः
।
तमापतन्तं दृष्ट्वैव च्यवनस्तपसान्वितः ॥२५॥
अद्भिः सिक्त्वाऽस्तंभयत्तं सवज्रं सहपर्वतम्
।
अथेन्द्रस्य महाघोरं सोऽसृजच्छत्रुमेव हि ॥२६॥
मदं नामाहुतिमयं व्यादितास्यं महामुनिः
।
तस्य दन्तसहस्रं तु बभूव शतयोजनम् ॥२७॥
द्वियोजनशतास्तस्य दंष्ट्राः परमदारुणाः
।
हनुस्तस्याभवद्भूमावास्यं चास्यास्पृशद्दिवम् ॥२८॥
जिह्वामूले स्थितास्तस्य सर्वे देवाः सवासवाः
।
तिमेरास्यमनुप्राप्ता यथा मत्स्या महार्णवे ॥२९॥
ते संमन्त्र्य ततो देवा मदस्यास्य समीपगाः
।
अब्रुवन्सहिताः शक्रं प्रणमास्मै द्विजातये ॥३०॥
अश्विभ्यां सह सोमं च पिबाम विगतज्वराः
।
ततः स प्रणतः शक्रश्चकार च्यवनस्य तत् ॥३१॥
च्यवनः कृतवानेतावश्विनौ सोमपायिनौ
।
ततः प्रत्याहरत्कर्म मदं च व्यभजन्मुनिः ॥३२॥
अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान्
।
एतैर्दोषैर्नरा राजन् क्षयं यान्ति न संशयः
।
तस्मादेतान्नरो नित्यं दूरतः परिवर्जयेत् ॥३३॥
एतत्ते च्यवनस्यापि कर्म राजन्प्रकीर्तितम्
।
ब्रवीम्यहं ब्रूहि वा त्वं क्षत्रियं ब्राह्मणाद्वरम् ॥३४॥
भीष्म उवाच। तूष्णीमासीदर्जुनस्तु पवनस्त्वब्रवीत्पुनः
।
शृणु मे ब्राह्मणेष्वेव मुख्यं कर्म जनाधिप ॥१॥
मदस्यास्यमनुप्राप्ता यदा सेन्द्रा दिवौकसः
।
तदैव च्यवनेनेह हृता तेषां वसुन्धरा ॥२॥
उभौ लोकौ हृतौ मत्वा ते देवा दुःखिताऽभवन्
।
शोकार्ताश्च महात्मानं ब्रह्माणं शरणं ययुः ॥३॥
देवा ऊचुः
।
मदास्यव्यतिषिक्तानामस्माकं लोकपूजित
।
च्यवनेन हृता भूमिः कपैश्चैव दिवं प्रभो ॥४॥
ब्रह्मोवाच
।
गच्छध्वं शरणं विप्रानाशु सेन्द्रा दिवौकसः
।
प्रसाद्य तानुभौ लोकाववाप्स्यथ यथा पुरा ॥५॥
ते ययुः शरणं विप्रानूचुस्ते कान् जयामहे
।
इत्युक्तास्ते द्विजान्प्राहुर्जयतेह कपानिति ॥६॥
भूगतान् हि विजेतारो वयमित्यब्रुवन् द्विजाः
।
ततः कर्म समारब्धं ब्राह्मणैः कपनाशनम् ॥७॥
तच्छ्रुत्वा प्रेषितो दूतो ब्राह्मणेभ्यो धनी कपैः
।
स च तान् ब्राह्मणानह धनी कपवचो यथा ॥८॥
भवद्भिः सदृशाः सर्वे कपाः किमिह वर्तते
।
सर्वे वेदविदः प्राज्ञाः सर्वे च क्रतुयाजिनः ॥९॥
सर्वे सत्यव्रताश्चैव सर्वे तुल्या महर्षिभिः
।
श्रीश्चैव रमते तेषु धारयन्ति श्रियं च ते ॥१०॥
वृथादारान्न गच्छन्ति वृथामांसं न भुञ्जते
।
दीप्तमग्निं जुह्वते च गुरूणां वचने स्थिताः ॥११॥
सर्वे च नियतात्मानो बालानां संविभागिनः
।
उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम्
।
स्वर्गतिं चैव गच्छन्ति तथैव शुभकर्मिणः ॥१२॥
अभुक्तवत्सु नाश्नन्ति गर्भिणीवृद्धकादिषु
।
पूर्वाह्णेषु न दीव्यन्ति दिवा चैव न शेरते ॥१३॥
एतैश्चान्यैश्च बहुभिर्गुणैर्युक्तान् कथं कपान्
।
विजेष्यथ निवर्तध्वं निवृत्तानां सुखं हि वः ॥१४॥
ब्राह्मणा ऊचुः
।
कपान्वयं विजेष्यामो ये देवास्ते वयं स्मृताः
।
तस्माद्वध्याः कपाऽस्माकं धनिन् याहि यथाऽऽगतम् ॥१५॥
धनी गत्वा कपानाह न वो विप्राः प्रियङ्कराः
।
गृहीत्वाऽस्त्राण्यतो विप्रान् कपाः सर्वे समाद्रवन् ॥१६॥
समुदग्रध्वजान् दृष्ट्वा कपान् सर्वे द्विजातयः
।
व्यसृजन् ज्वलितानग्नीन् कपानां प्राणनाशनान् ॥१७॥
ब्रह्मसृष्टा हव्यभुजः कपान् हत्वा सनातनाः
।
नभसीव यथाऽभ्राणि व्यराजन्त नराधिप ॥१८॥
हत्वा वै दानवान् देवाः सर्वे संभूय संयुगे
।
तेनाभ्यजानन् हि तदा ब्राह्मणैर्निहतान्कपान् ॥१९॥
अथागम्य महातेजा नारदोऽकथयद्विभो
।
यथा हता महाभागैस्तेजसा ब्राह्मणैः कपाः ॥२०॥
नारदस्य वचः श्रुत्वा प्रीताः सर्वे दिवौकसः
।
प्रशशंसुर्द्विजांश्चापि ब्राह्मणांश्च यशस्विनः ॥२१॥
तेषां तेजस्तथा वीर्यं देवानां ववृधे ततः
।
अवाप्नुवंश्चामरत्वं त्रिषु लोकेषु पूजितम् ॥२२॥
इत्युक्तवचनं वायुमर्जुनः प्रत्युवाच ह
।
प्रतिपूज्य महाबाहो यत्तच्छृणु युधिष्ठिर ॥२३॥
अर्जुन उवाच। जीवाम्यहं ब्राह्मणार्थं सर्वथा सततं प्रभो
।
ब्रह्मण्यो ब्राह्मणेभ्यश्च प्रणमामि च नित्यशः ॥२४॥
दत्तात्रेयप्रसादाच्च मया प्राप्तमिदं बलम्
।
लोके च परमा कीर्तिर्धर्मश्चाचरितो महान् ॥२५॥
अहो ब्राह्मणकर्माणि मया मारुत तत्त्वतः
।
त्वया प्रोक्तानि कार्त्स्न्येन श्रुतानि प्रयतेन च ॥२६॥
वायुरुवाच
।
ब्राह्मणान् क्षात्रधर्मेण पालयस्वेन्द्रियाणि च
।
भृगुभ्यस्ते भयं घोरं तत्तु कालाद्भविष्यति ॥२६॥
युधिष्ठिर उवाच। ब्राह्मणानर्चसे राजन् सततं संशितव्रतान्
।
कं तु कर्मोदयं दृष्ट्वा तानर्चसि जनाधिप ॥१॥
कां वा ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा महाव्रत
।
तानर्चसि महाबाहो सर्वमेतद्वस्व मे ॥२॥
भीष्म उवाच। एष ते केशवः सर्वमाख्यास्यति महामतिः
।
व्युष्टिं ब्राह्मणपूजायां दृष्टव्युष्टिर्महाव्रत ॥३॥
बलं श्रोत्रे वाङ्मनश्चक्षुषी च ज्ञानं तथा सविशुद्धं ममाद्य
।
देहन्यासो नातिचिरान्मतो मे न चाति तूर्णं सविताद्य याति ॥४॥
उक्ता धर्मा ये पुराणे महान्तो राजन् विप्राणां क्षत्रियाणां विशां च
।
तथा शूद्राणां धर्ममुपासते च शेषं कृष्णादुपशिक्षस्व पार्थ ॥५॥
अहं ह्येनं वेद्मि तत्त्वेन कृष्णं योऽयं हि यच्चास्य बलं पुराणम्
।
अमेयात्मा केशवः कौरवेन्द्र सोऽयं धर्मं वक्ष्यति संशयेषु ॥६॥
कृष्णः पृथ्वीमसृजत् खं दिवं च कृष्णस्य देहान्मेदिनी सम्बभूव
।
वराहोऽयं भीमबलः पुराणः स पर्वतान्व्यसृजद्वै दिशश्च ॥७॥
अस्य चाधोऽन्तरिक्षं दिवं च दिशश्चतस्रो विदिशश्चतस्रः
।
सृष्टिस्तथैवेयमनुप्रसूतास निर्ममे विश्वमिदं पुराणम् ॥८॥
अस्य नाभ्यां पुष्करं संप्रसूतं यत्रोत्पन्नः स्वयमेवामितौजाः
।
येनाच्छिन्नं तत्तमः पार्थ घोरं यत्तत्तिष्ठत्यर्णवं तर्जयानम् ॥९॥
कृते युगे धर्म आसीत्समग्रस्त्रेताकाले ज्ञानमनुप्रपन्नः
।
बलं त्वासीद्द्वापरे पार्थं कृष्णः कलौ त्वधर्मः क्षितिमेवाजगाम ॥१०॥
स एव पूर्वं निजघान दैत्यान् स पूर्वदेवश्च बभूव सम्राट्
।
स भूतानां भावनो भूतभव्यः स विश्वस्यास्य जगतश्चाभिगोप्ता ॥११॥
यदा धर्मो ग्लाति वंशे सुराणां तदा कृष्णो जायते मानुषेषु
।
धर्मे स्थित्वा स तु वै भावितात्मा परांश्च लोकानपरांश्च पाति ॥१२॥
त्याज्यं त्यक्त्वा चासुराणां वधाय कार्याकार्ये कारणं चैव पार्थ
।
कृतं करिष्यत् क्रियते च देवो राहुं सोमं विद्धि च शक्रमेनम् ॥१३॥
स विश्वकर्मा स हि विश्वरूपः स विश्वभुग्विश्वसृग्विश्वजिच्च
।
स शूलभृच्छोणितभृत्करालस्तं कर्मभिर्विदितं वै स्तुवन्ति ॥१४॥
तं गन्धर्वाणामप्सरसां च नित्यमुपतिष्ठन्ते विबुधानां शतानि
।
तं राक्षसाश्च परि संवदन्ति रायस्पोषः स विजिगीषुरेकाः ॥१५॥
तमध्वरे शंसितारः स्तुवन्ति रथन्तरे सामगाश्च स्तुवन्ति
।
तं ब्राह्मणा ब्रह्ममन्त्रैः स्तुवन्ति तस्मै हविरध्वर्यवः कल्पयन्ति ॥१६॥
स पौराणीं ब्रह्मगुहां प्रविष्टो महीसत्रं भारताग्रे ददर्श
।
स चैव गामुद्दधाराग्र्यकर्मा विक्षोभ्य दैत्यानुरगान्दानवांश्च ॥१७॥
तं घोषार्थे गीर्भिरिन्द्राः स्तुवन्तिस चापीशो भारतैकः पशूनाम्
।
तस्य भक्षान्विविधान्वेदयन्ति तमेवाजौ वाहनं वेदयन्ति ॥१८॥
तस्यान्तरिक्षं पृथिवी दिवं च सर्वं वशे तिष्ठति शाश्वतस्य
।
स कुम्भे रेतः ससृजे सुराणां यत्रोत्पन्नमृषिमाहुर्वसिष्ठम् ॥१९॥
स मातरिश्वा विभुरश्ववाजी स रश्मिवान् सविता चादिदेवः
।
तेनासुरा विजिताः सर्व एव तद्विक्रान्तैर्विजितानीह त्रीणि ॥२०॥
स देवानां मानुषाणां पितॄणां तमेवाहुर्यज्ञविदां वितानम्
।
स एव कालं विभजन्नुदेति तस्योत्तरं दक्षिणं चायने द्वे ॥२१॥
तस्यैवोर्ध्वं तिर्यगधश्चरन्ति गभस्तयो मेदिनीं भासयन्तः
।
तं ब्राह्मणा वेदविदो जुषन्तितस्यादित्यो भामुपयुज्य भाति ॥२२॥
स मासि मास्यध्वरकृद्विधत्ते तमध्वरे वेदविदः पठन्ति
।
स एवोक्तश्चक्रमिदं त्रिनाभि सप्ताश्वयुक्तं वहते वै त्रिधाम॥२३॥
महातेजाः सर्वगः सर्वसिंहः कृष्णो लोकान् धारयते यथैकः
।
हंसं तमोघ्नं च तमेव वीर कृष्णं सदा पार्थ कर्तारमेहि ॥२४॥
स एकदा कक्षगतो महात्मा तुष्टो विभुः खाण्डवे धूमकेतुः
।
स राक्षसानुरगांश्चावजित्य सर्वत्रगः सर्वमग्नौ जुहोति ॥२५॥
स एव पार्थाय श्वेतमश्वं प्रायच्छत्स एवाश्वानथ सर्वांश्चकार
।
स बन्धुरस्तस्य रथस्त्रिचक्रस्त्रिवृच्छिराश्चतुरश्वस्त्रिनाभिः ॥२६॥
स विहायो व्यदधात्पञ्चनाभिः स निर्ममे गां दिवमन्तरिक्षम्
।
सोऽरण्यानि व्यसृजत्पर्वतांश्च हृषीकेशोऽमितदीप्ताग्नितेजाः ॥२७॥
अलङ्घयद्वै सरितो जिघांसन्शक्रं वज्रं प्रहरन्तं निरास
।
स महेन्द्रः स्तूयते वै महाध्वरे विप्रैरेको ऋक्सहस्त्रैः पुराणैः ॥२८॥
दुर्वासा वै तेन नान्येन शक्यो गृहे राजन् वासयितुं महौजाः
।
तमेवाहुर्ऋषिमेकं पुराणं स विश्वकृद्विदधात्यात्मभावान् ॥२९॥
वेदांश्च यो वेदयतेऽधिदेवो विधींश्च यश्चाश्रयते पुराणान्
।
कामे वेदे लौकिके यत्फलं च विष्वक्सेनः सर्वमेतत्प्रतीहि ॥३०॥
ज्योतींषि शुक्लानि हि सर्वलोके त्रयो लोका लोकपालास्त्रयश्च
।
त्रयोऽग्नयो व्याहृतयश्च तिस्रः सर्वे देवा देवकीपुत्र एव ॥३१॥
स वत्सरः स ऋतुः सोऽर्धमासः सोऽहोरात्रः स कला वै स काष्ठाः
।
मात्रा मुहूर्ताश्च लवाः क्षणाश्च विष्वक्सेनः सर्वमेतत्प्रतीहि ॥३२॥
चन्द्रादित्यौ ग्रहनक्षत्रताराः सर्वाणि दर्शान्यथ पौर्णमासम्
।
नक्षत्रयोगा ऋतवश्च पार्थ विष्वक्सेनात्सर्वमेतत्प्रसूतम् ॥३३॥
रुद्रादित्या वसवोऽथाश्विनौ च साध्याश्च विश्वे मरुतां गणाश्च
।
प्रजापतिर्देवमाता दितिश्च सर्वे कृष्णादृषयश्चैव सप्त ॥३४॥
वायुर्भूत्वा विक्षिपते च विश्वमग्निर्भूत्वा दहते विश्वरूपः
।
आपो भूत्वा मज्जयते च सर्वं ब्रह्मा भूत्वा सृजते विश्वसङ्घान् ॥३५॥
वेद्यं च यद्वेदयते च वेद्यं विधिश्च यश्च श्रयते विधेयम्
।
धर्मे च वेदे च बले च सर्वं चराचरं केशवं त्वं प्रतीहि ॥३६॥
ज्योतिर्भूतः परमोऽसौ पुरस्तात्प्रकाशते यत्प्रभया विश्वरूपः
।
अपः सृष्ट्वा सर्वभूतात्मयोनिः पुराऽकरोत्सर्वमेवाथ विश्वम् ॥३७॥
ऋतूनुत्पातान्विविधान्यद्भुतानि मेघान्विद्युत्सर्वमैरावतं च
।
सर्वं कृष्णात्तस्थावरं जङ्गमं च विश्वात्मानं विष्णुमेनं प्रतीहि ॥३८॥
विश्वावासं निर्गुणं वासुदेवं सङ्कर्षणं जीवभूतं वदन्ति
।
ततः प्रद्युम्नमनिरुद्धं चतुर्थमाज्ञापयत्यात्मयोनिर्महात्मा ॥३९॥
स पञ्चधा पञ्चजनोपपन्नं सञ्चोदयन् विश्वमिदं सिसृक्षुः
।
ततश्चकारावनिमारुतौ च खं ज्योतिरम्भश्च तथैव पार्थ ॥४०॥
स स्थावरं जङ्गमं चैव मेतच्चतुर्विधं लोकमिमं च कृत्वा
।
ततो भूमिं व्यदधात्पञ्चबीजां द्यौः पृथिव्यां धास्यति भूरि वारि ॥४१॥
तेन विश्वं कृतमेतद्धि राजन्स जीवयत्यात्मनैवात्मयोनिः
।
ततो देवानसुरान् मानवांश्च लोकानृषींश्चापि पितॄन् प्रजाश्च
।
समासेन विधिवत्प्राणिलोकान्सर्वान् सदा भूतपतिः सिसृक्षुः॥४२॥
शुभाशुभं स्थावरं जङ्गमं च विष्वक्सेनात्सर्वमेतत्प्रतीहि
।
यद्वर्तते यच्च भविष्यतीह सर्वं ह्येतत्केशवं त्वं प्रतीहि ॥४३॥
मृत्युश्चैव प्राणिनामन्तकाले साक्षात्कृष्णः शाश्वतो धर्मवाहः
।
भूतं च यच्चेह न विद्म किञ्चिद्विष्वक्सेनात्सर्वमेतत्प्रतीहि ॥४४॥
यत्प्रशस्तं च लोकेषु पुण्यं यच्च शुभाशुभम्
।
तत्सर्वं केशवोऽचिन्त्यो विपरीतमतः परम् ॥४५॥
एतादृशः केशवोऽतश्च भूयो नारायणः परमश्चाव्ययश्च
।
मध्याद्यन्तस्य जगतस्तस्थुषश्च बुभूषतां प्रभवश्चाव्ययश्च ॥४६॥
युधिष्ठिर उवाच। ब्रूहि ब्राह्मणपूजायां व्युष्टिं त्वं मधुसूदन
।
वेत्ता त्वमस्य चार्थस्य वेद त्वां हि पितामहः ॥१॥
वासुदेव उवाच। शृणुष्वावाहितो राजन्द्विजानां भरतर्षभ
।
यथा तत्त्वेन वदतो गुणान्वै कुरुसत्तम ॥२॥
द्वारवत्यां समासीनं पुरा मां कुरुनन्दन
।
प्रद्युम्नः परिपप्रच्छ ब्राह्मणैः परिकोपितः ॥३॥
किं फलं ब्राह्मणेष्वस्ति पूजायां मधुसूदन
।
ईश्वरत्वं कुतस्तेषामिहैव च परत्र च ॥४॥
सदा द्विजातीन्संपूज्य किं फलं तत्र मानद
।
एतद्ब्रूहि स्फुटं सर्वं सुमहान्संशयोऽत्र मे ॥५॥
इत्युक्ते वचने तस्मिन्प्रद्युम्नेन तथा त्वहम्
।
प्रत्यब्रुवं महाराज यत्तच्छृणु समाहितः॥६॥
व्युष्टिं ब्राह्मणपूजायां रौक्मिणेय निबोध मे
।
एते हि सोमराजान ईश्वराः सुखदुःखयोः॥७॥
अस्मिन्लोके रौक्मिणेय तथाऽमुष्मिंश्च पुत्रक
।
ब्राह्मणप्रमुखं सौम्यं न मेऽत्रास्ति विचारणा ॥८॥
ब्राह्मणप्रतिपूजायामायुः कीर्तिर्यशो बलम्
।
लोका लोकेश्वराश्चैव सर्वे ब्राह्मणपूजकाः ॥९॥
त्रिवर्गे चापवर्गे च यशः श्रीरोगशान्तिषु
।
देवतापितृपूजासु सन्तोष्याश्चैव नो द्विजाः ॥१०॥
तत्कथं वै नाद्रियेयमीश्वरोऽस्मीति पुत्रक
।
मा ते मन्युर्महाबाहो भवत्वत्र द्विजान् प्रति ॥११॥
ब्राह्मणा हि महद्भूतमस्मिन् लोके परत्र च
।
भस्म कुर्युर्जगदिदं क्रुद्धाः प्रत्यक्षदर्शिनः ॥१२॥
अन्यानापि सृजेयुश्च लोकान्लोकेश्वरांस्तथा
।
कथं तेषु न वर्तेरन् सम्यग्ज्ञानात्सुतेजसः ॥१३॥
अवसन्मद्गृहे तात ब्राह्मणो हरिपिङ्गलः
।
चीरवासा बिल्वदण्डी दीर्घश्मश्रुः कृशो महान् ॥१४॥
दीर्घेभ्यश्च मनुष्येभ्यः प्रमाणादधिको भुवि
।
स स्वैरं चरते लोकान्ये दिव्या ये च मानुषाः ॥१५॥
इमां गाथां गायमानश्चत्वरेषु सभासु च
।
दुर्वाससं वासयेत्को ब्राह्मणं सत्कृतं गृहे॥१६॥
रोषणः सर्वभूतानां सूक्ष्मेष्वपकृते कृते
।
परिभाषां च मे श्रुत्वा को नु दद्यात्प्रतिश्रयम्॥१७॥
यो मां कश्चिद्वासयीत न स मां कोपयेदिति
।
यस्मान्नाद्रियते कश्चित्तोऽहं समवासयम् ॥१८॥
स संभुङ्क्ते सहस्राणां बहूनामन्नमेकदा
।
एकदा सोऽल्पकं भुङ्क्ते न चैवैति पुनर्गृहान् ॥१९॥
अकस्माच्च प्रहसति तथाऽकस्मात्प्ररोदिति
।
न चास्य वयसा तुल्यः पृथिव्यामभवत्तदा ॥२०॥
अथ स्वावसथं गत्वा स शय्यास्तरणानि च
।
कन्याश्चालङ्कृता दग्ध्वा ततो व्यपगतः पुनः ॥२१॥
अथ मामब्रवीद्भूयः स मुनिः संशितव्रतः
।
कृष्ण पायसमिच्छामि भोक्तुमित्येव सत्वरः ॥२२॥
तदैव तु मया तस्य चित्तज्ञेन गृहे जनः
।
सर्वाण्यन्नानि पानानि भक्ष्याश्चोच्चावचास्तथा ॥२३॥
भवन्तु सत्कृतानीह पूर्वमेव प्रचोदितः
।
ततोऽहं ज्वलमानं वै पायसं प्रत्यवेदयम् ॥२४॥
तं भुक्त्वैव स तु क्षिप्रं ततो वचनमब्रवीत्
।
क्षिप्रमङ्गानि लिंपस्व पायसेनेति स स्म ह ॥२५॥
अविमृश्यैव च ततः कृतवानस्मि तत्तथा
।
तेनोच्छिष्टेन गात्राणि शिरश्चैवाभ्यमृक्षयम् ॥२६॥
स ददर्श तदाभ्याशे मातरं ते शुभाननाम्
।
तामपि स्मयमानां स पायसेनाभ्यलेपयम् ॥२७॥
मुनिः पायसदिग्धाङ्गीं रथे तूर्णमयोजयत्
।
तमारुह्य रथं चैव निर्ययौ स गृहान्मम ॥२८॥
अग्निवर्णो ज्वलन्धीमान्स द्विजो रथधुर्यवत्
।
प्रतोदेनातुदद्बालां रुक्मिणीं मम पश्यतः ॥२९॥
न च मे स्तोकमप्यासीद्दुःखमीर्ष्याकृतं तदा
।
तथा स राजमार्गेण महता निर्ययौ बहिः ॥३०॥
तद्दृष्ट्वा महदाश्चर्यं दाशार्हा जातमन्यवः
।
तत्राजल्पन्मिथः केचित्समाभाष्य परस्परम् ॥३१॥
ब्राह्मणा एव जायेरन्नान्यो वर्णः कथञ्चन
।
को ह्येनं रथमास्थाय जीवेदन्यः पुमानिह ॥३२॥
आशीविषविषं तीक्ष्णं ततस्तीक्ष्णतरो द्विजः
।
ब्रह्माशीविषदग्धस्य नास्ति कश्चिच्चिकित्सकः ॥३३॥
तस्मिन्व्रजति दुर्धर्षे प्रास्खलद्रुक्मिणी पथि
।
तन्नामर्षयत श्रीमांस्ततस्तूर्णमचोदयत् ॥३४॥
ततः परमसंक्रुद्धो रथात्प्रस्कन्द्य स द्विजः
।
पदातिरुत्पथेनैव प्राद्रवद्दक्षिणामुखः ॥३५॥
तमुत्पथेन धावन्तमन्वधावं द्विजोत्तमम्
।
तथैव पायसादिग्घः प्रसीद भगवन्निति ॥३६॥
ततो विलोक्य तेजस्वी ब्राह्मणो मामुवाच ह
।
जितः क्रोधस्त्वया कृष्ण प्रकृत्यैव महाभुज ॥३७॥
न तेऽपराधमिह वै दृष्टवानस्मि सुव्रत
।
प्रीतोऽस्मि तव गोविन्द वृणु कामान् यथेप्सितान् ॥३८॥
प्रसन्नस्य च मे तात पश्य व्युष्टिं यथाविधि
।
यावदेव मनुष्याणामन्ने भावो भविष्यति ॥३९॥
यथैवान्ने तथा तेषां त्वयि भावो भविष्यति
।
यावच्च पुण्या लोकेषु त्वयि कीर्तिर्भविष्यति ॥४०॥
त्रिषु लोकेषु तावच्च वैशिष्ट्यं प्रतिपत्स्यसे
।
सुप्रियः सर्वलोकस्य भविष्यसि जनार्दन ॥४१॥
यत्ते भिन्नं च दग्धं च यच्च किञ्चिद्विनाशितम्
।
सर्वं तथैव द्रष्टाऽसि विशिष्टं वा जनार्दन ॥४२॥
यावदेतत्प्रलिप्तं ते गात्रेषु मधुसूदन
।
अतो मृत्युभयं नास्ति यावदिच्छसि चाच्युत ॥४३॥
न तु पादतले लिप्ते कस्मात्ते पुत्रकाद्य वै
।
नैतन्मे प्रियमित्येवं स मां प्रीतोऽब्रवीत्तदा ॥४४॥
इत्युक्तोऽहं शरीरं स्वं ददर्श श्रीसमायुतम्
।
रुक्मिणीं चाब्रवीत्प्रीतः सर्वस्त्रीणां वरं यशः ॥४५॥
कीर्तिं चानुत्तमां लोके समवाप्स्यसि शोभने
।
न त्वां जरा वा रोगो वा वैवर्ण्यं चापि भाविनी ॥४६॥
स्प्रक्ष्यन्ति पुण्यगन्धा च कृष्णमाराधयिष्यसि
।
षोडशानां सहस्राणां वधूनां केशवस्य ह ॥४७॥
वरिष्ठा च सलोक्या च केशवस्य भविष्यसि
।
तव मातरमित्युक्त्वा ततो मां पुनरब्रवीत् ॥४८॥
प्रस्थितः सुमहातेजा दुर्वासाग्निरिव ज्वलन्
।
एषैव ते बुद्धिरस्तु ब्राह्मणान्प्रति केशव ॥४९॥
इत्युक्त्वा स तदा पुत्र तत्रैवान्तरधीयत
।
तस्मिन्नन्तर्हिते चाहमुपांशु व्रतमाचरम् ॥५०॥
यत्किञ्चिद्ब्राह्मणो ब्रूयात्सर्वं कुर्यामिति प्रभो
।
एतद्व्रतमहं कृत्वा मात्रा ते सह पुत्रक ॥५१॥
ततः परमहृष्टात्मा प्राविशं गृहमेव च
।
प्रविष्टमात्रश्च गृहे सर्वं पश्यामि तन्नवम् ॥५२॥
यद्भिन्नं यच्च वै दग्धं तेन विप्रेण पुत्रक
।
ततोऽहं विस्मयं प्राप्तः सर्वं दृष्ट्वा नवं दृढम् ॥५३॥
अपूजयं च मनसा रौक्मिणेय सदा द्विजान्
।
इत्यहं रौक्मिणेयस्य पृच्छतो भरतर्षभ ॥५४॥
माहात्म्यं द्विजमुख्यस्य सर्वमाख्यातवांस्तदा
।
तथा त्वमपि कौन्तेय ब्राह्मणान्सततं प्रभो ॥५५॥
पूजयस्व महाभागान्वाग्भिर्दानैश्च नित्यदा
।
एवं व्युष्टिमहं प्राप्तो ब्राह्मणस्य प्रसादजाम्
।
यच्च मामाह भीष्मोऽयं तत्सत्यं भरतर्षभ ॥५६॥
युधिष्ठिर उवाच। दुर्वाससः प्रसादात्ते यत्तदा मधुसूदन
।
अवाप्तमिह विज्ञानं तन्मे व्याख्यातुमर्हसि ॥१॥
महाभाग्यं च यत्तस्य नामानि च महात्मनः
।
तत्त्वत्तो ज्ञातुमिच्छामि सर्वं मतिमतां वर ॥२॥
वासुदेव उवाच। हन्त ते कीर्तयिष्यामि नमस्कृत्य कपर्दिने
।
यदवाप्तं मया राजञ्छ्रेयो यच्चार्जितं यशः ॥३॥
प्रयतः प्रातरुत्थाय यदधीये विशां पते
।
प्राञ्जलिः शतरुद्रीयं तन्मे निगदतः शृणु ॥४॥
प्रजापतिस्तत्ससृजे तपसोऽन्ते महातपाः
।
शङ्करस्त्वसृजत्तात प्रजाः स्थावरजङ्गमाः ॥५॥
नास्ति किञ्चित्परं भूतं महादेवाद्विशां पते
।
इह त्रिष्वपि लोकेषु भूतानां प्रभवो हि सः ॥६॥
न चैवोत्सहते स्थातुं कश्चिदग्रे महात्मनः
।
न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥७॥
गन्धेनापि हि संग्रामे तस्य क्रुद्धस्य शत्रवः
।
विसंज्ञा हतभूयिष्ठा वेपन्ते च पतन्ति च ॥८॥
घोरं च निनदं तस्य पर्जन्यनिनदोपमम्
।
श्रुत्वा विशीर्येद्धृदयं देवानामपि संयुगे ॥९॥
यांश्च घोरेण रूपेण पश्येत्क्रुद्धः पिनाकधृत्
।
न सुरा नासुरा लोके न गन्धर्वा न पन्नगाः ॥१०॥
कुपिते सुखमेधन्ते तस्मिन्नपि गुहागताः
।
प्रजापतेश्च दक्षस्य यजतो वितते क्रतौ ॥११॥
विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा
।
धनुषा बाणमुत्सृज्य सघोषं विननाद च ॥१२॥
ते न शर्म कुतः शान्तिं विषादं लेभिरे सुराः
।
विद्धे च सहसा यज्ञे कुपिते च महेश्वरे ॥१३॥
तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः
।
बभूवुरवशाः पार्थ विषेदुश्च सुरासुराः॥१४॥
आपश्चुक्षुभिरे चैव चकम्पे च वसुन्धरा
।
व्यद्रवन् गिरयश्चापि द्यौः पफाल च सर्वशः ॥१५॥
अन्धेन तमसा लोकाः प्रावृता न चकाशिरे
।
प्रनष्टा ज्योतिषां भाश्च सह सूर्येण भारत ॥१६॥
भृशं भीतास्ततः शान्तिं चक्रुः स्वस्त्ययनानि च
।
ऋषयः सर्वभूतानामात्मनश्च हितैषिणः ॥१७॥
ततः सोऽभ्यद्रवद्देवान्रुद्रो रौद्रपराक्रमः
।
भगस्य नयने क्रुद्धः प्रहारेण व्यशातयत्॥१८॥
पूषणं चाभिदुद्राव पादेन च रुषान्वितः
।
पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ॥१९॥
ततः प्रणेमुर्देवास्ते वेपमानाः स्म शङ्करम्
।
पुनश्च सन्दधे रुद्रो दीप्तं सुनिशितं शरम् ॥२०॥
रुद्रस्य विक्रमं दृष्ट्वा भीता देवाः सहर्षिभिः
।
ततः प्रसादयामासुः शर्वं ते विबुधोत्तमाः ॥२१॥
जेपुश्च शतरुद्रीयं देवाः कृत्वाऽञ्जलिं तदा
।
संस्तूयमानस्त्रिदशैः प्रसाद महेश्वरः ॥२२॥
रुद्रस्य भागं यज्ञे च विशिष्टं ते त्वकल्पयन्
।
भयेन त्रिदशा राजञ्छरणं च प्रपेदिरे ॥२३॥
तेन चैव हि तुष्टेन स यज्ञः सन्धितोऽभवत्
।
यद्यच्चापहृतं तत्र तत्तथैवान्वजीवयत् ॥२४॥
असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि
।
आयसं राजतं चैव सौवर्णमपि चापरम् ॥२५॥
नाशकत्तानि मघवा जेतुं सर्वायुधैरपि
।
अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः॥२६॥
तत ऊचुर्महात्मानो देवाः सर्वे समागताः
।
रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ॥२७॥
जहि दैत्यान्सह पुरैर्लोकांस्त्रायस्व मानद
।
स तथोक्तस्तथेत्युक्त्वा कृत्वा विष्णुं शरोत्तमम् ॥२८॥
शल्यमग्निं तथा कृत्वा पुङ्खं वैवस्वतं यमम्
।
वेदान् कृत्वा धनुः सर्वान्ज्यां च सावित्रिमुत्तमाम् ॥२९॥
ब्रह्माणं सारथिं कृत्वा विनियुज्य च सर्वशः
।
त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ॥३०॥
शरेणादित्यवर्णेन कालाग्निसमतेजसा
।
ते सुराः सपुरास्तत्र दग्धा रुद्रेण भारत ॥३१॥
तं चैवाङ्कगतं दृष्ट्वा बालं पञ्चशिखं पुनः
।
उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्तदा ॥३२॥
असूयतश्च शक्रस्य वज्रेण प्रहरिष्यतः
।
स वज्रं स्तम्भयामास तं बाहुं परिघोपमम् ॥३३॥
न संबुबुधिरे चैव देवास्तं भुवनेश्वरम्
।
सप्रजापतयः सर्वे तस्मिन्मुमुहुरीश्वरे ॥३४॥
ततो ध्यात्वा च भगवान्ब्रह्मा तममितौजसम्
।
अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तमुमापतिम् ॥३५॥
ततः प्रसादयामासुरुमां रुद्रं च ते सुराः
।
बभूव स तदा बाहुर्बलहन्तैर्यथा पुरा ॥३६॥
स चापि ब्राह्मणो भूत्वा दुर्वासा नाम वीर्यवान्
।
द्वारवत्यां मम गृहे चिरं कालमुपावसन् ॥३७॥
विप्रकारान् प्रयुङ्क्ते स्म सुबहून्मम वेश्मनि
।
तानुदारतया चाहं चक्षमे चातिदुःसहान् ॥३८॥
स वै रुद्रः स च शिवः सोऽग्निः सर्वः स सर्वजित्
।
स चैवेन्द्रश्च वायुश्चसोऽश्विनौ स च विद्युतः ॥३९॥
स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः
।
स कालः सोन्तको मृत्युः स यमो रात्र्यहानि च ॥४०॥
मासार्धमासा ऋतवः संध्ये संवत्सरश्च सः
।
स धाता स विधाता च विश्वकर्मा स सर्ववित् ॥४१॥
नक्षत्राणि गृहाश्चैव दिशोऽथ प्रदिशस्तथा
।
विश्वमूर्तिरमेयात्मा भगवान्परमद्युतिः ॥४२॥
एकधा च द्विधा चैव बहुधा च स एव हि
।
शतधा सहस्रधा चैव तथा शतसहस्रधा ॥४३॥
ईदृशः स महादेवो भूयश्च भगवानतः
।
न हि शक्या गुणा वक्तुमपि वर्षशतैरपि ॥४४॥
वासुदेव उवाच। युधिष्ठिर महाबाहो महाभाग्यं महात्मनः
।
रुद्राय बहुरूपाय बहुनाम्ने निबोध मे ॥१॥
वदन्त्यग्निं महादेवं तथा स्थाणुं महेश्वरम्
।
एकाक्षं त्र्यम्बकं चैव विश्वरूपं शिवं तथा ॥२॥
द्वे तनू तस्य देवस्य वेदज्ञा ब्राह्मणा विदुः
।
घोरामन्यां शिवामन्यां ते तनू बहुधा पुनः ॥३॥
उग्रा घोरा तनुर्याऽस्य सोग्निर्विद्युत्स भास्करः
।
शिवा सौम्या च या त्वस्य धर्मस्त्वापोऽथ चंद्रमाः ॥४॥
आत्मनोर्धं तु तस्याग्निः सोमोऽर्धं पुनरुच्यते
।
ब्रह्मचर्यं चरत्येका शिवा चास्य तनुस्तथा ॥५॥
याऽस्य घोरतमा मूर्तिर्जगत्संहरते तथा
।
ईश्वरत्वान्महत्त्वाच्च महेश्वर इति स्मृतः ॥६॥
यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान्
।
मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ॥७॥
देवानां सुमहान्यच्च यच्चास्य विषयो महान्
।
यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ॥८॥
धूम्ररूपं च यत्तस्य धूर्जटीत्यत उच्यते
।
समेधयति यन्नित्यं सर्वान्वै सर्वकर्मभिः ॥९॥
मनुष्यान् शिवमन्विच्छंस्तस्मादेष शिवः स्मृतः
।
दहत्यूर्ध्वं स्थितो यच्च प्राणान्नॄणां स्थिरश्च यत् ॥१०॥
स्थिरलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः
।
यदस्य बहुधा रूपं भूतं भव्यं भवत्तथा ॥११॥
स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः
।
विश्वे देवाश्च यत्तस्मिन् विश्वरूपस्ततः स्मृतः ॥१२॥
सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा
।
चक्षुषः प्रभवेत्तेजो नास्त्यंतोऽथास्य चक्षुषाम् ॥१३॥
सर्वथा यत्पशून्पाति तैश्च यद्रमते सह
।
तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ॥१४॥
नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम्
।
महयत्यस्य लोकश्च प्रियं ह्येतन्महात्मनः ॥१५॥
विग्रहं पूजयेद्यो वै लिङ्गं वाऽपि महात्मनः
।
लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ॥१६॥
ऋषयश्चापि देवाश्च गंधर्वाप्सरसस्तथा
।
लिङ्गमेवार्चयन्ति स्म यत्तदूर्ध्वं समास्थितम् ॥१७॥
पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः
।
सुखं ददाति प्रीतात्मा भक्तानां भक्तवत्सलः ॥१८॥
एष एव श्मशानेषु देवो वसति निर्दहन्
।
यजन्ते ये जनास्तत्र वीरस्थाननिषेविणः ॥१९॥
विषयस्थः शरीरेषु स मृत्युः प्राणिनामिह
।
स च वायुः शरीरेषु प्राणापानशरीरिणाम् ॥२०॥
तस्य घोराणि रूपाणि दीप्तानि च बहूनि च
।
लोके यान्यस्य पूज्यन्ते विप्रास्तानि विदुर्बुधाः ॥२१॥
नामधेयानि देवेषु बहून्यस्य यथार्थवत्
।
निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ॥२२॥
वेदे चास्य विदुर्विप्राः शतरुद्रीयमुत्तमम्
।
व्यासेनोक्तं च यच्चापि उपस्थानं महात्मनः ॥२३॥
प्रदाता सर्वलोकानां विश्वं चाप्युच्यते महत्
।
ज्येष्ठभूतं वदन्त्येनं ब्राह्मणा ऋषयोऽपरे ॥२४॥
प्रथमो ह्येष देवानां मुखादग्निमजीजनत्
।
ग्रहैर्बहुविधैः प्राणान्संरुद्धानुत्सृजत्यपि ॥२५॥
विमुञ्चति न पुण्यात्मा शरण्यः शरणागतान्
।
आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् ॥२६॥
स ददाति मनुष्येभ्यः स एवाक्षिपते पुनः
।
शक्रादिषु च देवेषु तस्यैश्वर्यमिहोच्यते ॥२७॥
स एव व्यापृतो नित्यं त्रैलोक्यस्य शुभाशुभे
।
ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते ॥२८॥
महेश्वरश्च लोकानां महतामीश्वरश्च सः
।
बहुभिर्विविधै रूपैर्विश्वं व्याप्तमिदं जगत्
।
तस्य देवस्य यद्वक्त्रं समुद्रे वडवामुखम् ॥२९॥
वैशम्पायन उवाच। इत्युक्तवति वाक्यं तु कृष्णे देवकिनन्दने
।
भीष्मं शान्तनवं भूयः पर्यपृच्छद्युधिष्ठिरः ॥१॥
निर्णये वा महाबुद्धे सर्वधर्मविदां वर
।
प्रत्यक्षमागमो वेति किं तयोः कारणं भवेत् ॥२॥
भीष्म उवाच। नास्त्यत्र संशयः कश्चिदिति मे वर्तते मतिः
।
शृणु वक्ष्यामि ते प्राज्ञ सम्यक् त्वं मेऽनुपृच्छसि ॥३॥
संशयः सुगमस्तत्र दुर्गमस्तस्य निर्णयः
।
दृष्टं श्रुतमनन्तं हि यत्र संशयदर्शनम् ॥४॥
प्रत्यक्षं कारणं दृष्ट्वा हैतुकाः प्राज्ञमानिनः
।
नास्तीत्येवं व्यवस्यन्ति सत्यं संशयमेव च ॥५॥
तदयुक्तं व्यवस्यन्ति बालाः पण्डितमानिनः
।
अथ चेन्मन्यसे चैकं कारणं किं भवेदिति ॥६॥
शक्यं दीर्धेण कालेन युक्तेनातन्द्रितेन च
।
प्राणयात्रामनेकां च कल्पमानेन भारत ॥७॥
तत्परेणैव नान्येन शक्यं ह्येतस्य दर्शनम्
।
हेतूनामन्तमासाद्य विपुलं ज्ञानमुत्तमम् ॥८॥
ज्योतिः सर्वस्य लोकस्य विपुलं प्रतिपद्यते
।
न त्वेव गमनं राजन्हेतुतो गमनं तथा
।
अग्राह्यमनिबद्धं च वाचा संपरिवर्जयेत् ॥९॥
युधिष्ठिर उवाच। प्रत्यक्षं लोकतः सिद्धिर्लोकश्चागमपूर्वकः
।
शिष्टाचारो बहुविधस्तन्मे ब्रूहि पितामह ॥१०॥
भीष्म उवाच। धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः
।
संस्था यत्नैरपि कृता कालेन प्रतिभिद्यते ॥११॥
अधर्मो धर्मरूपेण तृणैः कूप इवावृतः
।
ततस्तैर्भिद्यते वृत्तं शृणु चैव युधिष्ठिर ॥१२॥
अवृत्ता ये तु भिन्दन्ति श्रुतित्यागपरायणाः
।
धर्मविद्वेषिणो मन्दा इत्युक्तस्तेषु संशयः ॥१३॥
अतृप्यन्तस्तु साधूनां य एवागमबुद्धयः
।
परमित्येव सन्तुष्टास्तानुपास्व च पृच्छ च ॥१४॥
कामार्थै पृष्ठतः कृत्वा लोभमोहानुसारिणौ
।
धर्म इत्येव सम्बुद्धस्तानुपास्व च पृच्छ च ॥१५॥
न तेषां भिद्यते वृत्तं यज्ञाः स्वाध्यायकर्म च
।
आचारः कारणं चैव धर्मश्चैकस्त्रयं पुनः ॥१६॥
युधिष्ठिर उवाच। पुनरेव हि मे बुद्धिः संशये परिमुह्यति
।
अपारे मार्गमाणस्य परं तीरमपश्यतः ॥१७॥
वेदः प्रत्यक्षमाचारः प्रमाणं तत्त्रयं यदि
।
पृथक्त्वं लभ्यते चैषां धर्मश्चैकस्त्रयं कथम् ॥१८॥
भीष्म उवाच। धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः
।
यद्येवं मन्यसे राजंस्त्रिधा धर्मविचारणा ॥१९॥
एक एवेति जानीहि त्रिधा धर्मस्य दर्शनम्
।
पृथक्त्वे च न मे बुद्धिस्त्रयाणामपि वै तथा ॥२०॥
उक्तो मार्गस्त्रयाणां च तत्तथैव समाचर
।
जिज्ञासा न तु कर्तव्या धर्मस्य परितर्कणात् ॥२१॥
सदैव भरतश्रेष्ठ मा तेऽभूदत्र संशयः
।
अन्धो जड इवाशङ्की यद्ब्रवीमि तदाचर ॥२२॥
अहिंसा सत्यमक्रोधो दानमेतच्चतुष्टयम्
।
अजातशत्रो सेवस्व धर्म एष सनातनः ॥२३॥
ब्राह्मणेषु च वृत्तिर्या पितृपैतामहोचिता
।
तामन्वेहि महाबाहो धर्मस्यैते हि देशिकाः ॥२४॥
प्रमाणमप्रमाणं वै यः कुर्यादबुधो जनः
।
न स प्रमाणतामर्हो विवादजननो हि सः ॥२५॥
ब्राह्मणानेव सेवस्व सत्कृत्य बहुमन्य च
।
एतेष्वेव त्विमे लोकाः कृत्स्ना इति निबोध तान् ॥२६॥
युधिष्ठिर उवाच। ये च धर्ममसूयन्ते ये चैनं पर्युपासते
।
ब्रवीतु मे भवानेतत् क्व ते गच्छन्ति तादृशाः ॥२७॥
भीष्म उवाच। रजसा तमसा चैव समवस्तीर्णचेतसः
।
नरकं प्रतिपद्यन्ते धर्मविद्वेषिणो जनाः ॥२८॥
ये तु धर्मं महाराज सततं पर्युपासते
।
सत्यार्जवपराः सन्तस्ते वै स्वर्गभुजो नराः ॥२९॥
धर्म एव गतिस्तेषामाचार्योपासनाद्भवेत्
।
देवलोकं प्रपद्यन्ते ये धर्मं पर्युपासते ॥३०॥
मनुष्या यदि वा देवाः शरीरमुपताप्य वै
।
धर्मिणः सुखमेधन्ते लोभद्वेषविवर्जिताः ॥३१॥
प्रथमं ब्रह्मणः पुत्रं धर्ममाहुर्मनीषिणः
।
धर्मिणः पर्युपासन्ते फलं पक्कमिवाशयः ॥३२॥
युधिष्ठिर उवाच। असतां कीदृशं रूपं साधवः किं च कुर्वते
।
ब्रवीतु मे भवानेतत्सन्तोऽसन्तश्च कीदृशाः ॥३३॥
भीष्म उवाच। दुराचाराश्च दुर्धर्षा दुर्मुखाश्चाप्यसाधवः
।
साधवः शीलसंपन्नाः शिष्टाचारस्य लक्षणम् ॥३४॥
राजमार्गे गवां मध्ये धान्यमध्ये च धर्मिणः
।
नोपसेवन्ति राजेन्द्र सर्गं सूत्रपुरीषयोः ॥३५॥
पञ्चानामशनं दत्वा शेषमश्नन्ति साधवः
।
न जल्पन्ति च भुञ्जाना न निद्रान्त्यार्द्रपाणयः ॥३६॥
चित्रभानुमनड्वाहं देवं गोष्ठं चतुष्पथम्
।
ब्राह्मणं धार्मिकं वृद्धं ये कुर्वन्ति प्रदक्षिणम् ॥३७॥
वृद्धानां भारतप्तानां स्त्रीणां चक्रधरस्य च
।
ब्राह्मणानां गवां राज्ञां पन्थानं ददते च ये ॥३८॥
अतिथीनां च सर्वेषां प्रेष्याणां स्वजनस्य च
।
तथा शरणकामानां गोप्ता स्यात्स्वागतप्रदः ॥३९॥
सायंप्रातर्मनुष्याणामशनं देवनिर्मितम्
।
नान्तरा भोजनं दृष्टमुपवासविधिर्हि सः ॥४०॥
होमकाले यथा वह्निः कालमेव प्रतीक्षते
।
ऋतुकाले तथा नारी ऋतुमेव प्रतीक्षते ॥४१॥
नान्यदा गच्छते यस्तु ब्रह्मचर्यं च तत्स्मृतम्
।
अमृतं ब्राह्मणा गाव इत्येतत्त्रयमेकतः ॥४२॥
तस्माद्गोब्राह्मणं नित्यमर्चयेत यथाविधि
।
यजुषा संस्कृतं मांसमुपभुञ्जन्न दुष्यति
।
पृष्ठमांसं वृथामांसं पुत्रमांसं च तत्समम् ॥४३॥
स्वदेशे परदेशे वाप्यतिथिं नोपवासयेत्
।
कर्म वै सफलं कृत्वा गुरूणां प्रतिपादयेत् ॥४४॥
गुरुभ्यस्त्वासनं देयमभिवाद्याभिपूज्य च
।
गुरुमभ्यर्च्य वर्धन्ते आयुषा यशसा श्रिया ॥४५॥
वृद्धान्नाभिभवेज्जातु न चैतान्प्रेषयेदिति
।
नासीनः स्यात्स्थितेष्वेवमायुरस्य न रिष्यते ॥४६॥
न नग्नामीक्षते नारीं न नग्नान्पुरुषानपि
।
मैथुनं सततं गुप्तमाहारं च समाचरेत् ॥४७॥
तीर्थानां गुरवस्तीर्थं चोक्षाणां हृदयं शुचि
।
दर्शनानां परं ज्ञानं सन्तोषः परमं सुखम् ॥४८॥
सायं प्रातश्च वृद्धानां शृणुयात्पुष्कला गिरः
।
श्रुतमाप्नोति हि नरः सततं वृद्धसेवया ॥४९॥
स्वाध्याये भोजने चैव दक्षिणं पाणिमुद्धरेत्
।
यच्छेद्वाङ्मनसी नित्यमिन्द्रियाणि तथैव च ॥५०॥
संस्कृतं पायसं नित्यं यवागूं कृसरं हविः
।
अष्टकाः पितृदैवत्या ग्रहाणामभिपूजनम् ॥५१॥
श्मश्रुकर्मणि मङ्गल्यं श्रुतानामभिनन्दनम्
।
व्याधितानां च सर्वेषामायुषामभिनन्दनम् ॥५२॥
न जातु त्वमिति ब्रूयादापन्नोपि महत्तरम्
।
त्वंकारो वा वधो वेति विद्वत्सु न विशिष्यते ॥५३॥
अवराणां समानानां शिष्याणां च समाचरेत्
।
पापमाचक्षते नित्यं हृदयं पापकर्मिणः ॥५४॥
ज्ञानपूर्वकृतं कर्म च्छादयन्ते ह्यसाधवः
।
ज्ञानपूर्वं विनश्यन्ति गूहमाना महाजने ॥५५॥
न मां मनुष्याः पश्यन्ति न मां पश्यन्ति देवताः
।
पापेनाभिहितः पापः पापमेवाभिजायते ॥५६॥
यथा वार्धुषिको वृद्धिं दिनभेदे प्रतीक्षते
।
धर्मेण पिहितं पापं धर्ममेवाभिवर्धयेत् ॥५७॥
यथा लवणमंभोभिराप्लुतं प्रविलीयते
।
प्रायश्चित्तहतं पापं तथा सद्यः प्रणश्यति ॥५८॥
तस्मात्पापं न गूहेत गूहमानं विवर्धयेत्
।
कृत्वा तत्साधुष्वाख्येयं ते तत्प्रशमयन्त्युत ॥५९॥
आशया सञ्चितं द्रव्यं कालेनैवोपभुज्यते
।
अन्ये चैतत्प्रपद्यन्ते वियोगे तस्य देहिनः ॥६०॥
मानसं सर्वभूतानां धर्ममाहुर्मनीषिणः
।
तस्मात्सर्वाणि भूतानि धर्ममेव समासते ॥६१॥
एक एव चरेद्धर्मं न धर्मध्वजिको भवेत्
।
धर्मवाणिजका ह्येते ये धर्ममुपभुञ्जते ॥६२॥
अर्चेद्देवानदम्भेन सेवेतामायया गुरून्
।
निधिं निदध्यात्पारत्र्यं यात्रार्थं दानशब्दितम ॥६३॥
युधिष्ठिर उवाच। नाभागधेयः प्राप्नोति धनं सुबलवानपि
।
भागधेयान्वितस्त्वर्थान्कृशो बालश्च विन्दति ॥१॥
नालाभकाले लभते प्रयत्नेऽपि कृते सति
।
लाभकालेऽप्रयत्नेन लभते विपुलं धनम् ॥२॥
कृतयत्नाफलाश्चैव दृश्यन्ते शतशो नराः
।
अयत्नेनैधमानाश्च दृश्यन्ते बहवो जनाः ॥३॥
यदि यत्नो भवेन्मर्त्यः स सर्वं फलमाप्नुयात्
।
नालभ्यं चोपलभ्येत नृणां भरतसत्तम ॥४॥
प्रयत्नं कृतवन्तोऽपि दृश्यन्ते ह्यफला नराः
।
मार्गत्यायशतैरर्थानमार्गश्चापरः सुखी ॥५॥
अकार्यमसकृत्कृत्वा दृश्यन्ते ह्यधना नराः
।
धनयुक्ताः स्वकर्मस्था दृश्यन्ते चापरेऽधनाः ॥६॥
अधीत्य नीतिशास्त्राणि नीतियुक्तो न दृश्यते
।
अनभिज्ञश्च साचिव्यं गमितः केन हेतुना ॥७॥
विद्यायुक्तो ह्यविद्यश्च धनवान् दुर्मतिस्तथा
।
यदि विद्यामुपाश्रित्य नरः सुखमवाप्नुयात् ॥८॥
न विद्वान्विद्यया हीनं वृत्त्यर्थमुपसंश्रयेत्
।
यथा पिपासां जयति पुरुषः प्राप्य वै जलम् ॥९॥
इष्टार्थो विद्यया ह्येव न विद्यां प्रजहेन्नरः
।
नाप्राप्तकालो म्रियते विद्धः शरशतैरपि
।
तृणाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ॥१०॥
भीष्म उवाच। ईहमानः समारम्भान् यदि नासादयेद्धनम्
।
उग्रं तपः समारोहेन्न ह्यनुप्तं प्ररोहति ॥११॥
दानेन भोगी भवति मेधावी वृद्धसेवया
।
अहिंसया च दीर्घायुरिति प्राहुर्मनीषिणः ॥१२॥
तस्माद्दद्यान्न याचेत पूजयेद्धार्मिकानपि
।
सुभाषी प्रियकृच्छान्तः सर्वसत्त्वाविहिंसकः ॥१३॥
यदा प्रमाणं प्रसवः स्वभावश्च सुखासुखे
।
दंशकीटपिपीलानां स्थिरो भव युधिष्ठिर ॥१४॥
भीष्म उवाच। कार्यते यच्च क्रियते सच्चासच्च कृताकृतम्
।
तत्राश्वसीत सत्कृत्वा असत्कृत्वा न विश्वसेत् ॥१॥
काल एव सर्वकाले निग्रहानुग्रहौ ददत्
।
बुद्धिमाविश्य भूतानां धर्माधर्मौ प्रवर्तते ॥२॥
यदा त्वस्य भवेद्बुद्धिर्धर्मार्थस्य प्रदर्शनात्
।
तदाश्वसीत धर्मात्मा दृढबुद्धिर्न विश्वसेत् ॥३॥
एतावन्मात्रमेतद्धि भूतानां प्राज्ञलक्षणम्
।
कालयुक्तोप्युभयविच्छेषं युक्तं समाचरेत् ॥४॥
यथा ह्युपस्थितैश्वर्याः प्रजायन्ते न राजसाः
।
एवमेवात्मनात्मानं पूजयन्तीह धार्मिकाः ॥५॥
न ह्यधर्मतयाऽधर्मं दद्यात्कालः कथञ्चन
।
तस्माद्विशुद्धमात्मानं जानीयाद्धर्मचारिणम् ॥६॥
स्प्रष्टुमप्यसमर्थो हि ज्वलन्तमिव पावकम्
।
अधर्मः संततो धर्मं कालेन परिरक्षितम् ॥७॥
कार्यावेतौ हि धर्मेण धर्मो हि विजयावहः
।
त्रयाणामपि लोकानामालोकः कारणं भवेत् ॥८॥
न तु कश्चिन्नयेत्प्राज्ञो गृहीत्वैव करे नरम्
।
उच्यमानस्तु धर्मेण धर्मलोकभयच्छले ॥९॥
शूद्रोऽहं नाधिकारो मे चातुराश्रम्यसेवने
।
इति विज्ञानमपरे नात्मन्युपदधत्युत ॥१०॥
विशेषेण च वक्ष्यामि चातुर्वर्ण्यस्य लिङ्गतः
।
पञ्चभूतशरीराणां सर्वेषां सदृशात्मनाम् ॥११॥
लोकधर्मे च धर्मे च विशेषकरणं कृतम्
।
यथैकत्वं पुनर्यान्ति प्राणिनस्तत्र विस्तरः ॥१२॥
अध्रुवो हि कथं लोकः स्मृतो धर्मः कथं ध्रुवः
।
यत्र कालो ध्रुवस्तात तत्र धर्मः सनातनः ॥१३॥
सर्वेषां तुल्यदेहानां सर्वेषां सदृशात्मनाम्
।
कालो धर्मेण संयुक्तः शेष एव स्वयं गुरुः ॥१४॥
एवं सति न दोषोऽस्ति भूतानां धर्मसेवने
।
तिर्यग्योनावपि सतां लोक एव मतो गुरुः ॥१५॥
वैशम्पायन उवाच। शरतल्पगतं भीष्मं पाण्डवोऽथ कुरूद्वहः
।
युधिष्ठिरो हितं प्रेप्सुरपृच्छत्कल्मषापहम् ॥१॥
युधिष्ठिर उवाच। किं श्रेयः पुरुषस्येह किं कुर्वन्सुखमेधते
।
विपाप्मा स भवेत्केन किं वा कल्मषनाशनम् ॥२॥
वैशम्पायन उवाच। तस्मै शुश्रूषमाणाय भूयः शान्तनवस्तदा
।
दैवं वंशं यथान्यायमाचष्ट पुरुषर्षभ ॥३॥
भीष्म उवाच। अयं दैवतवंशो वै ऋषिवंशसमन्वितः
।
त्रिसन्ध्यं पठितः पुत्र कल्मषापहरः परः ॥४॥
यदह्ना कुरुते पापमिन्द्रियैः पुरुषश्चरन्
।
बुद्धिपूर्वमबुद्धिर्वा रात्रौ यच्चापि सन्ध्ययोः ॥५॥
मुच्यते सर्वपापेभ्यः कीर्तयन्वै शुचिः सदा
।
नान्धो न बधिरः काले कुरुते स्वस्तिमान्सदा ॥६॥
तिर्यग्योनिं न गच्छेच्च नरकं सङ्कराणि च
।
न च दुःखभयं तस्य मरणे स न मुह्यति ॥७॥
देवासुरगुरुर्देवः सर्वभूतनमस्कृतः
।
अचिन्त्योऽथाप्यनिर्देश्यः सर्वप्राणो ह्ययोनिजः ॥८॥
पितामहो जगन्नाथः सावित्री ब्रह्मणः सती
।
वेदभूरथ कर्ता च विष्णुर्नारायणः प्रभुः ॥९॥
उमापतिर्विरूपाक्षः स्कन्दः सेनापतिस्तथा
।
विशाखो हुतभुग्वायुश्चन्द्रसूर्यौ प्रभा करौ ॥१०॥
शक्रः शचीपतिर्देवो यमो धूमोर्णया सह
।
वरुणः सह गौर्या च सह ऋद्ध्या धनेश्वरः ॥११॥
सौम्या गौः सुरभिर्देवी विश्रवाश्च महानृषिः
।
सङ्कल्पः सागरो गङ्गा स्रवन्त्योऽथ मरुद्गणः ॥१२॥
वालखिल्यास्तपःसिद्धाः कृष्णद्वैपायनस्तथा
।
नारदः पर्वतश्चैव विश्वावसुर्हहाहुहूः ॥१३॥
तुम्बुरुश्चित्रसेनश्च देवदूतश्च विश्रुतः
।
देवकन्या महाभागा दिव्याश्चाप्सरसां गणाः ॥१४॥
उर्वशी मेनका रंभा मिश्रकेशी ह्यलंबुषा
।
विश्वाची च घृताची च पञ्चचूडा तिलोत्तमा ॥१५॥
आदित्या वसवो रुद्राः साश्विनः पितरोपि च
।
धर्मः श्रुतं तपो दीक्षा व्यवसायः पितामहः ॥१६॥
शर्वर्यो दिवसाश्चैव मारीचः कश्यपस्तथा
।
शुक्रो बृहस्पतिर्भोमो बुधो राहुः शनैश्वरः ॥१७॥
नक्षत्राण्यूतवश्चैव मासाः पक्षाः सवत्सराः
।
वैनतेयाः समुद्राश्च कद्रुजाः पन्नगास्तथा ॥१८॥
शतद्रुश्च विपाशा च चन्द्रभागा सरस्वती
।
सिन्धुश्च देविका चैव प्रभासं पुष्कराणि च ॥१९॥
गङ्गा महानदी वेणा कावेरी नर्मदा तथा
।
कुलंपुना विशल्या च करतोयांबुवाहिनी ॥२०॥
सरयूर्गण्डकी चैव लोहितश्च महानदः
।
ताम्राऽरुणा वेत्रवती पर्णाशा गौतमी तथा ॥२१॥
गोदावरी च वेण्या च कृष्णवेणा तथाऽद्रिजा
।
दृषद्वती च कावेरी चक्षुर्मन्दाकिनी तथा ॥२२॥
प्रयागं च प्रभासं च पुण्यं नैमिषमेव च
।
तच्च विश्वेश्वरस्थानं यत्र तद्विमलं सरः ॥२३॥
पुण्यतीर्थं सुसलिलं कुरुक्षेत्रं प्रकीर्तितम्
।
सिन्धूत्तमं तपोदानं जंबूमार्गमथापि च ॥२४॥
हिरण्वती वितस्ता च तथा प्लक्षवती नदी
।
वेदस्मृतिर्वेदवती मालवाथाश्ववत्यपि ॥२५॥
भूमिभागास्तथा पुण्या गङ्गाद्वारमथापि च
।
ऋषिकुल्यास्तथा मेध्या नद्यः सिंधुवहास्तथा ॥२६॥
चर्मण्वती नदी पुण्या कौशिकी यमुना तथा
।
नदी भीमरथी चैव बाहुदा च महानदी ॥२७॥
माहेन्द्रवाणी त्रिदिवा नीलिका च सरस्वती
।
नन्दा चापरनन्दा च तथा तीर्थमहाहृदः ॥२८॥
गयाऽथ फल्गुतीर्थं च धर्मारण्यं सुरैर्वृतम्
।
तथा देवनदी पुण्या सरश्च ब्रह्मनिर्मितम् ॥२९॥
पुण्यं त्रिलोकविख्यातं सर्वपापहरं शिवम्
।
हिमवान्पर्वतश्चैव दिव्यौषधिसमन्वितः ॥३०॥
विन्ध्यो धातुविचित्राङ्गस्तीर्थवानौषधान्वितः
।
मेरुर्महेन्द्रो मलयः श्वेतश्च रजतावृतः ॥३१॥
शृङ्गवान्मन्दो नीलो निषधो दर्दुरस्तथा
।
चित्रकूटोऽजनाभश्च पर्वतो गन्धमादनः ॥३२॥
पुण्यः सोमगिरिश्चैव तथैवान्ये महीधराः
।
दिशश्च विदिशश्चैव क्षितिः सर्वे महीरुहाः ॥३३॥
विश्वेदेवा नभश्चैव नक्षत्राणि ग्रहास्तथा
।
पान्तु नः सततं देवाः कीर्तिताऽकीर्तिता मया ॥३४॥
कीर्तयानो नरो होतान्मुच्यते सर्वकिल्विषैः
।
स्तुवंश्च प्रतिनन्दंश्च मुच्यते सर्वतो भयात् ॥३५॥
सर्वसङ्करपापेभ्यो देवतास्तवनंदकः
।
देवतानन्तरं विप्रांस्तपःसिद्धांस्तपोधिकान् ॥३६॥
कीर्तिताम्कीर्तयिष्यामि सर्वपापप्रमोचनान्
।
यवक्रीतोऽथ रैभ्यश्च कक्षीवानौशिजस्तथा ॥३७॥
भृग्वङ्गिरास्तथा कण्वो मेधातिथिरथ प्रभुः
।
बर्ही च गुणसम्पन्नः प्राचीं दिशसुपाश्रिताः ॥३८॥
भद्रां दिशं महाभागा उल्मुचुः प्रमुचुस्तथा
।
मुमुचुश्च महाभागः स्वस्त्यात्रेयश्च वीर्यवान् ॥३९॥
मित्रावरुणयोः पुत्रस्तथाऽगस्त्यः प्रतापवान्
।
दृढायुश्चोर्ध्वबाहुश्च विश्रुतावृषिसत्तमौ ॥४०॥
पश्चिमां दिशमाश्रित्य य एधन्ते निबोध तान्
।
उषंगुः सह सोदर्यैः परिव्याधश्च वीर्यवान् ॥४१॥
ऋषिर्दीर्घतमाश्चैव गौतमः काश्यपस्तथा
।
एकतश्च द्वितश्चैव त्रितश्चैव महानृषिः ॥४२॥
अत्रेः पुत्रश्च धर्मात्मा तथा सारस्वतः प्रभुः
।
उत्तरां दिशमाश्रित्यय एधन्ते निबोध तान् ॥४३॥
अत्रिर्वसिष्ठः शक्तिश्च पाराशर्यश्च वीर्यवान्
।
विश्वामित्रो भरद्वाजो जमदग्निस्तथैव च ॥४४॥
ऋचीकपुत्रो रामश्च ऋषिरौद्दालकिस्तथा
।
श्वेतकेतुः कोहलश्च विपुलो देवलस्तथा ॥४५॥
देवशर्मा च धौम्यश्च हस्तिकाश्यप एव च
।
लोमशो नाचिकेतश्च लोमहर्षण एव च ॥४६॥
ऋषिरुग्रश्रवाश्चैव भार्गवश्च्यवनस्तथा
।
एष वै समवायश्च ऋषिदेवसमन्वितः ॥४७॥
आद्यः प्रकीर्तितो राजन्सर्वपापप्रमोचनः
।
नृगो ययातिर्नहुषो यदुः पूरुश्च वीर्यवान् ॥४८॥
धुंधुमारो दिलीपश्च सगरश्च प्रतापवान्
।
कृशाश्वो यौवनाश्वश्च चित्राश्वः सत्यवांस्तथा ॥४९॥
दुष्यन्तो भरतश्चैव चक्रवर्ती महायशाः
।
पवनो जनकश्चैव तथा दृष्टरथो नृपः ॥५०॥
रघुर्नरवरश्चैव तथा दशरथो नृपः
।
रामो राक्षसहा वीरः शशबिन्दुर्भगीरथः ॥५१॥
हरिश्चन्द्रो मरुत्तश्च तथा दृढरथो नृपः
।
महोदर्यो ह्यलर्कश्च ऐलश्चैव नराधिपः ॥५२॥
करंधमो नरश्रेष्ठः कध्मोरश्च नराधिपः
।
दक्षोम्बरीषः कुकुरो रैवतश्च महायशाः ॥५३॥
कुरुः संवरणश्चैव मांधाता सत्यविक्रमः
।
मुचुकुन्दश्च राजर्षिर्जह्नुर्जाह्नविसेवितः ॥५४॥
आदिराजः पृथुर्वैन्यो मित्रभानुः प्रियङ्करः
।
त्रसद्दस्युस्तथा राजा श्वेतो राजर्षिसत्तमः ॥५५॥
महाभिषश्च विख्यातो निमिराजा तथाऽष्टकः
।
आयुः क्षुपश्च राजर्षिः कक्षेयुश्च नराधिपः ॥५६॥
प्रतर्दनो दिवोदासः सुदासः कोसलेश्वरः
।
ऐलो नलश्च राजर्षिर्मनुश्चैव प्रजापतिः ॥५७॥
हविध्रश्च पृषध्रश्च प्रतीपः शांतनुस्तथा
।
अजः प्राचीनबर्हिश्च तथेक्ष्वाकुर्महायशाः ॥५८॥
अनरण्यो नरपतिर्जानुजंघस्तथैव च
।
कक्षसेनश्च राजर्षिर्ये चान्ये चानुकीर्तिताः ॥५९॥
कल्यमुत्थाय यो नित्यं संध्ये द्वेऽस्तमयोदये
।
पठेच्छुचिरनावृत्तः स धर्मफलभाग्भवेत् ॥६०॥
देवा देवर्षयश्चैव स्तुता राजर्षयस्तथा
।
पुष्टिमायुर्यशः स्वर्गं विधास्यन्ति ममेश्वराः ॥६१॥
मा विघ्नं मा च मे पापं मा च मे परिपंथिनः
।
ध्रुवो जयो मे नित्यः स्यात्परत्र च शुमा गतिः ॥६२॥
जनमेजय उवाच। शरतल्पगते भीष्मे कौरवाणां धुरंधरे
।
शयाने वीरशयने पाण्डवैः समुपस्थिते ॥१॥
युधिष्ठिरो महाप्राज्ञो मम पूर्वपितामहः
।
धर्माणामागमं श्रुत्वा विदित्वा सर्वसंशयान् ॥२॥
दानानां च विधिं श्रुत्वा च्छिन्नधर्मार्थसंशयः
।
यदन्यदकरोद्विप्र तन्मे शंसितुमर्हसि ॥३॥
वैशम्पायन उवाच। अभून्मुहूर्तं स्तिमितं सर्वं तद्राजमण्डलम्
।
तुष्णींभूते ततस्तस्मिन्पटे चित्रमिवार्पितम् ॥४॥
मुहूर्तमिव च ध्यात्वा व्यासः सत्यवतीसुतः
।
नृपं शयानं गाङ्गेयमिदमाह वचस्तदा ॥५॥
राजन्प्रकृतिमापन्नः कुरुराजो युधिष्ठिरः
।
सहितो भ्रातृभिः सर्वैः पार्थिवैश्चानुयायिभिः ॥६॥
उपास्ते त्वां नरव्याघ्र सह कृष्णेन धीमता
।
तमिमं पुरयानाय समनुज्ञातुमर्हसि ॥७॥
एवमुक्तो भगवता व्यासेन पृथिवीपतिः
।
युधिष्ठिरं सहामात्यमनुजज्ञे नदीसुतः ॥८॥
उवाच चैनं मधुरं नृपं शान्तनवो नृपः
।
प्रविशस्व स्व पुरीं राजन्व्येतु ते मानसो ज्वरः ॥९॥
यजस्व विविधैर्यज्ञेर्बह्वन्नैः स्वाप्तदक्षिणैः
।
ययातिरिव राजेन्द्र श्रद्धादमपुरःसरः ॥१०॥
क्षत्रधर्मरतः पार्थ पितॄन्देवांश्च तर्पय
।
श्रेयसा योक्ष्यसे चैव व्येतु ते मानसो ज्वरः ॥११॥
रञ्जयस्व प्रजाः सर्वाः प्रकृतीः परिसांत्वय
।
सुहृदः फलसत्कारैरर्चयस्व यथार्हतः ॥१२॥
अनु त्वां तात जीवन्तु मित्राणि सुहृदस्तथा
।
चैत्यस्थाने स्थितं वृक्षं फलवन्तमिव द्विजाः ॥१३॥
आगन्तव्यं च भवता समये मम पार्थिव
।
विनिवृत्ते दिनकरे प्रवृत्ते चोत्तरायणे ॥१४॥
तथेत्युक्त्वा च कौन्तेयः सोभिवाद्य पितामहम्
।
प्रययौ सपरीवारो नगरं नागसाह्वयम् ॥१५॥
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च पतिव्रताम्
।
सह तैरृषिभिः सर्वैर्भ्रातृभिः केशवेन च ॥१६॥
पौरजानपदैश्चैव मन्त्रिवृद्धैश्च पार्थिव
।
प्रविवेश कुरुश्रेष्ठः पुरं वारणसाह्वयम् ॥१७॥
The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in