वैशम्पायन उवाच। ततः कुन्तीसुतो राजा पौरजानपदं जनम्
।
पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति ॥१॥
सान्त्वयामास नारीश्च हतवीरा हतेश्वराः
।
विपुलैरर्थदानैः स तदा पाण्डुसुतो नृपः ॥२॥
सोभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः
।
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तथा ॥३॥
द्विजेभ्यो गुणमुख्येभ्यो नैगमेभ्यश्च सर्वशः
।
प्रतिगृह्याशिषो मुख्यास्तथा धर्मभृतां वरः ॥४॥
उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे
।
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ॥५॥
स निर्ययौ गजपुराद्याजकैः परिवारितः
।
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् ॥६॥
घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः
।
चन्दनागुरुमुख्यानि तथा कालीयकान्यपि ॥७॥
प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंस्करणाय वै
।
माल्यानि च वरार्हाणि रत्नानि विविधानि च ॥८॥
धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम्
।
मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभान् ॥९॥
जनार्दनेनानुगतो विदुरेण च धीमता
।
युयुत्सुना च कौरव्यो युयुधानेन वा विभो ॥१०॥
महता राजभोगेन पारिबर्हेण संवृतः
।
स्तूयमानो महातेजा भीष्मस्याग्नीननुव्रजन् ॥११॥
निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा
।
आससाद कुरुक्षेत्रे ततः शान्तनवं नृपः ॥१२॥
उपास्यमानं व्यासेन पाराशर्येण धीमता
।
नारदेन च राजर्षे देवलेनासितेन च ॥१३॥
हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः
।
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ॥१४॥
शयानं वीरशयने ददर्श नृपतिस्ततः
।
ततो रथादवतीर्य भ्रातृभिः सह धर्मराट् ॥१५॥
अभिवाद्याथ कौन्तेयः पितामहमरिन्दम
।
द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः ॥१६॥
ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिः सह धर्मजः
।
आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ॥१७॥
अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः
।
भ्रातृभिः सह कौरव्यः शयानं निम्नगासुतम् ॥१८॥
युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत
।
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ॥१९॥
प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो
।
आचार्यान्ब्राह्मणांश्चैव ऋत्विजो भ्रातरश्च मे ॥२०॥
पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः
।
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ॥२१॥
हतशिष्टाश्च राजानः सर्वे च कुरुजांगलाः
।
तान्पश्य नरशार्दूल समुन्मीलय लोचने ॥२२॥
यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया
।
यथोक्तं भवता काले सर्वमेव च तत्कृतम् ॥२३॥
वैशम्पायन उवाच। एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता
।
ददर्श भारतान्सर्वान्स्थितान्संपरिवार्य ह ॥२४॥
ततश्च तं बली भीष्मः प्रगृह्य विपुलं भुजम्
।
उद्यन्मेघस्वरो वाग्मी काले वचनमब्रवीत् ॥२५॥
दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर
।
परिवृत्तो हि भगवान् सहस्त्रांशुर्दिवाकरः ॥२६॥
अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः
।
शरेषु निशिताग्रेषु यथा वर्षशतं तथा ॥२७॥
माघोऽयं समनुप्राप्तो मासः सौम्यो युधिष्ठिर
।
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ॥२८॥
एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम्
।
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ॥२९॥
भीष्म उवाच। राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः
।
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥३०॥
वेदशास्त्राणि सर्वाणि धर्माश्च मनुजेश्वर
।
वेदांश्च चतुरः सर्वान्निखिलेनानुबुद्ध्यसे ॥३१॥
न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा
।
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ॥३२॥
यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः
।
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ॥३३॥
धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव
।
आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ॥३४॥
तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः
।
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ॥३५॥
वैशम्पायन उवाच। एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम्
।
वासुदेवं महाबाहुमभ्यभाषत कौरवः ॥३६॥
भीष्म उवाच। भगवन्देवदेवेश सुरासुरनमस्कृत
।
त्रिविक्रम नमस्तुभ्यं शङ्खचक्रगदाधर ॥३७॥
वासुदेवो हिरण्यात्मा पुरुषः सविता विराट्
।
जीवभूतोऽनुरूपस्त्वं परमात्मा सनातनः ॥३८॥
त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः
।
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम ॥३९॥
रक्ष्याश्च ते पाण्डवेया भवान्येषां परायणम्
।
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं तदा ॥४०॥
यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः
।
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥४१॥
सन्धानस्य परः कालस्तवेति च पुनः पुनः
।
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः
।
घातयित्वेह पृथिवीं ततः स निधनं गतः ॥४२॥
त्वां तु जानाम्यहं देवं पुराणमृषिसत्तमम्
।
नरेण सहितं देव बदर्यां सुचिरोषितम् ॥४३॥
तथा मे नारदः प्राह व्यासश्च सुमहातपाः
।
नरनारायणावेतौ संभूतौ मनुजेष्विति ॥४४॥
स मां त्वमनुजानीहि कृष्ण मोक्ष्ये कलेवरम्
।
त्वयाऽहं समनुज्ञातो गच्छेयं परमां गतिम् ॥४५॥
वासुदेव उवाच। अनुजानामि भीष्म त्वां वसून्प्राप्नुहि पार्थिव
।
न तेऽस्ति वृजिनं किञ्चिदिहलोके महाद्युते ॥४६॥
पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः
।
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ॥४७॥
वैशम्पायन उवाच। एवमुक्तस्तु गाङ्गेयः पाण्डवानिदमब्रवीत्
।
धृतराष्ट्रसुखांश्चापि सर्वांश्च सुहृदस्तथा ॥४८॥
प्राणानुत्स्रष्टुमिच्छामि तत्रानुज्ञातुमर्हथ
।
सत्येषु यतितव्यं वः सत्यं हि परमं बलम् ॥४९॥
आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः
।
ब्रह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्च भारताः ॥५०॥
इत्युक्त्वा सुहृदः सर्वान्संपरिष्वज्य चैव ह
।
पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः ॥५१॥
ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः
।
आचार्या ऋत्विजश्चैव पूजनीया जनाधिप ॥५२॥