दानधर्मपर्व - १ भीष्मस्वर्गारोहणपर्व - २

भीष्मस्वर्गारोहणपर्व

सप्तषष्ट्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। ततः कुन्तीसुतो राजा पौरजानपदं जनम् ।
पूजयित्वा यथान्यायमनुजज्ञे गृहान्प्रति ॥१॥

तत इति ॥१॥

सान्त्वयामास नारीश्च हतवीरा हतेश्वराः ।
विपुलैरर्थदानैः स तदा पाण्डुसुतो नृपः ॥२॥

सोभिषिक्तो महाप्राज्ञः प्राप्य राज्यं युधिष्ठिरः ।
अवस्थाप्य नरश्रेष्ठः सर्वाः स्वप्रकृतीस्तथा ॥३॥

द्विजेभ्यो गुणमुख्येभ्यो नैगमेभ्यश्च सर्वशः ।
प्रतिगृह्याशिषो मुख्यास्तथा धर्मभृतां वरः ॥४॥

उषित्वा शर्वरीः श्रीमान्पञ्चाशन्नगरोत्तमे ।
समयं कौरवाग्र्यस्य सस्मार पुरुषर्षभः ॥५॥

स निर्ययौ गजपुराद्याजकैः परिवारितः ।
दृष्ट्वा निवृत्तमादित्यं प्रवृत्तं चोत्तरायणम् ॥६॥

घृतं माल्यं च गन्धांश्च क्षौमाणि च युधिष्ठिरः ।
चन्दनागुरुमुख्यानि तथा कालीयकान्यपि ॥७॥

प्रस्थाप्य पूर्वं कौन्तेयो भीष्मसंस्करणाय वै ।
माल्यानि च वरार्हाणि रत्नानि विविधानि च ॥८॥

धृतराष्ट्रं पुरस्कृत्य गान्धारीं च यशस्विनीम् ।
मातरं च पृथां धीमान्भ्रातॄंश्च पुरुषर्षभान् ॥९॥

जनार्दनेनानुगतो विदुरेण च धीमता ।
युयुत्सुना च कौरव्यो युयुधानेन वा विभो ॥१०॥

महता राजभोगेन पारिबर्हेण संवृतः ।
स्तूयमानो महातेजा भीष्मस्याग्नीननुव्रजन् ॥११॥

भीष्मस्याग्नीनिति तेन तस्यापि पत्नी आसीत् यद्वा संस्कारकानग्नीन् ॥११॥

निश्चक्राम पुरात्तस्माद्यथा देवपतिस्तथा ।
आससाद कुरुक्षेत्रे ततः शान्तनवं नृपः ॥१२॥

उपास्यमानं व्यासेन पाराशर्येण धीमता ।
नारदेन च राजर्षे देवलेनासितेन च ॥१३॥

हतशिष्टैर्नृपैश्चान्यैर्नानादेशसमागतैः ।
रक्षिभिश्च महात्मानं रक्ष्यमाणं समन्ततः ॥१४॥

शयानं वीरशयने ददर्श नृपतिस्ततः ।
ततो रथा‌दवतीर्य भ्रातृभिः सह धर्मराट् ॥१५॥

अभिवाद्याथ कौन्तेयः पितामहमरिन्दम ।
द्वैपायनादीन्विप्रांश्च तैश्च प्रत्यभिनन्दितः ॥१६॥

ऋत्विग्भिर्ब्रह्मकल्पैश्च भ्रातृभिः सह धर्मजः ।
आसाद्य शरतल्पस्थमृषिभिः परिवारितम् ॥१७॥

अब्रवीद्भरतश्रेष्ठं धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सह कौरव्यः शयानं निम्नगासुतम् ॥१८॥

युधिष्ठिरोऽहं नृपते नमस्ते जाह्नवीसुत ।
शृणोषि चेन्महाबाहो ब्रूहि किं करवाणि ते ॥१९॥

प्राप्तोऽस्मि समये राजन्नग्नीनादाय ते विभो ।
आचार्यान्ब्राह्मणांश्चैव ऋत्विजो भ्रातरश्च मे ॥२०॥

पुत्रश्च ते महातेजा धृतराष्ट्रो जनेश्वरः ।
उपस्थितः सहामात्यो वासुदेवश्च वीर्यवान् ॥२१॥

हतशिष्टाश्च राजानः सर्वे च कुरुजांगलाः ।
तान्पश्य नरशार्दूल समुन्मीलय लोचने ॥२२॥

यच्चेह किञ्चित्कर्तव्यं तत्सर्वं प्रापितं मया ।
यथोक्तं भवता काले सर्वमेव च तत्कृतम् ॥२३॥

वैशम्पायन उवाच। एवमुक्तस्तु गाङ्गेयः कुन्तीपुत्रेण धीमता ।
ददर्श भारतान्सर्वान्स्थितान्संपरिवार्य ह ॥२४॥

ततश्च तं बली भीष्मः प्रगृह्य विपुलं भुजम् ।
उद्यन्मेघस्वरो वाग्मी काले वचनमब्रवीत् ॥२५॥

दिष्ट्या प्राप्तोऽसि कौन्तेय सहामात्यो युधिष्ठिर ।
परिवृत्तो हि भगवान् सहस्त्रांशुर्दिवाकरः ॥२६॥

अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः ।
शरेषु निशिताग्रेषु यथा वर्षशतं तथा ॥२७॥

माघोऽयं समनुप्राप्तो मासः सौम्यो युधिष्ठिर ।
त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ॥२८॥

माघोऽयमिति सौम्यश्चान्द्रः मासस्य चतुर्भागकरणे सार्धसप्ततिर्भागत्वात् अष्टम्यर्धस्यानतीतत्वेन प्रथमभागस्य विद्यमानत्वात् त्रिभागशेषो भवितुमर्हतीत्यर्थः । तेनाद्याष्टमीत्यर्थः ॥२८॥

एवमुक्त्वा तु गाङ्गेयो धर्मपुत्रं युधिष्ठिरम् ।
धृतराष्ट्रमथामन्त्र्य काले वचनमब्रवीत् ॥२९॥

भीष्म उवाच। राजन्विदितधर्मोऽसि सुनिर्णीतार्थसंशयः ।
बहुश्रुता हि ते विप्रा बहवः पर्युपासिताः ॥३०॥

वेदशास्त्राणि सर्वाणि धर्माश्च मनुजेश्वर ।
वेदांश्च चतुरः सर्वान्निखिलेनानुबुद्ध्यसे ॥३१॥

न शोचितव्यं कौरव्य भवितव्यं हि तत्तथा ।
श्रुतं देवरहस्यं ते कृष्णद्वैपायनादपि ॥३२॥

यथा पाण्डोः सुता राजंस्तथैव तव धर्मतः ।
तान्पालय स्थितो धर्मे गुरुशुश्रूषणे रतान् ॥३३॥

धर्मराजो हि शुद्धात्मा निदेशे स्थास्यते तव ।
आनृशंस्यपरं ह्येनं जानामि गुरुवत्सलम् ॥३४॥

तव पुत्रा दुरात्मानः क्रोधलोभपरायणाः ।
ईर्ष्याभिभूता दुर्वृत्तास्तान्न शोचितुमर्हसि ॥३५॥

वैशम्पायन उवाच। एतावदुक्त्वा वचनं धृतराष्ट्रं मनीषिणम् ।
वासुदेवं महाबाहुमभ्यभाषत कौरवः ॥३६॥

भीष्म उवाच। भगवन्देवदेवेश सुरासुरनमस्कृत ।
त्रिविक्रम नमस्तुभ्यं शङ्खचक्रगदाधर ॥३७॥

वासुदेवो हिरण्यात्मा पुरुषः सविता विराट् ।
जीवभूतोऽनुरूपस्त्वं परमात्मा सनातनः ॥३८॥

त्रायस्व पुण्डरीकाक्ष पुरुषोत्तम नित्यशः ।
अनुजानीहि मां कृष्ण वैकुण्ठ पुरुषोत्तम ॥३९॥

रक्ष्याश्च ते पाण्डवेया भवान्येषां परायणम् ।
उक्तवानस्मि दुर्बुद्धिं मन्दं दुर्योधनं तदा ॥४०॥

यतः कृष्णस्ततो धर्मो यतो धर्मस्ततो जयः ।
वासुदेवेन तीर्थेन पुत्र संशाम्य पाण्डवैः ॥४१॥

सन्धानस्य परः कालस्तवेति च पुनः पुनः ।
न च मे तद्वचो मूढः कृतवान्स सुमन्दधीः ।
घातयित्वेह पृथिवीं ततः स निधनं गतः ॥४२॥

त्वां तु जानाम्यहं देवं पुराणमृषिसत्तमम् ।
नरेण सहितं देव बदर्यां सुचिरोषितम् ॥४३॥

तथा मे नारदः प्राह व्यासश्च सुमहातपाः ।
नरनारायणावेतौ संभूतौ मनुजेष्विति ॥४४॥

स मां त्वमनुजानीहि कृष्ण मोक्ष्ये कलेवरम् ।
त्वयाऽहं समनुज्ञातो गच्छेयं परमां गतिम् ॥४५॥

वासुदेव उवाच। अनुजानामि भीष्म त्वां वसून्प्राप्नुहि पार्थिव ।
न तेऽस्ति वृजिनं किञ्चिदिहलोके महाद्युते ॥४६॥

पितृभक्तोऽसि राजर्षे मार्कण्डेय इवापरः ।
तेन मृत्युस्तव वशे स्थितो भृत्य इवानतः ॥४७॥

वैशम्पायन उवाच। एवमुक्तस्तु गाङ्गेयः पाण्डवानिद‌मब्रवीत् ।
धृतराष्ट्रसुखांश्चापि सर्वांश्च सुहृदस्तथा ॥४८॥

प्राणानुत्स्रष्टुमिच्छामि तत्रानुज्ञातुमर्हथ ।
सत्येषु यतितव्यं वः सत्यं हि परमं बलम् ॥४९॥

आनृशंस्यपरैर्भाव्यं सदैव नियतात्मभिः ।
ब्रह्मण्यैर्धर्मशीलैश्च तपोनित्यैश्च भारताः ॥५०॥

इत्युक्त्वा सुहृदः सर्वान्संपरिष्वज्य चैव ह ।
पुनरेवाब्रवीद्धीमान्युधिष्ठिरमिदं वचः ॥५१॥

ब्राह्मणाश्चैव ते नित्यं प्राज्ञाश्चैव विशेषतः ।
आचार्या ऋत्विजश्चैव पूजनीया जनाधिप ॥५२॥

इति श्रीमहाभारते अनुशासनपर्वणि भीष्मस्वर्गारोहणपर्वणि दानधर्मे सप्तषष्ट्यधिकशततमोऽध्यायः ॥१६७॥
अष्टषष्ट्यधिकशततमोऽध्यायः

वैशम्पायन उवाच। एवमुक्त्वा कुरून्सर्वान् भीष्मः शान्तनवस्तदा ।
तूष्णीं बभूव कौरव्यः स मुहूर्तमरिन्दम ॥१॥

एवमुक्त्वेति ॥१॥

धारयामास चात्मानं धारणासु यथाक्रमम् ।
तस्योर्ध्वमगमन्प्राणाः सन्निरुद्धा महात्मनः ॥२॥

धारणासु आधारादिषु स्थानेषु यथाक्रमं मूलाधारात् स्वाधिष्ठानं ततो मणिपूरं ततोऽनाहतं ततो विशुद्धिं तत आज्ञामेवं क्रमेण मनःसहितं वायुं निरुन्धन्नुपुर्युपर्यानीतवानित्यर्थः ॥२॥

इद‌माश्चर्यमासीच्च मध्ये तेषां महात्मनाम् ।
सहितैर्ऋषिभिः सर्वैस्तदा व्यासादिभिः प्रभो ॥३॥

यद्यन्मुञ्चति गात्रं हि स शान्तनुसुतस्तदा ।
तत्तद्विशल्यं भवति योगयुक्तस्य तस्य वै ॥४॥

यद्यदिति प्राणेन मुक्तं गात्रं प्रशिथिलावयवसंयोगं सत् मग्नमपि शरं धारयितुमक्षममभूत् अतस्तत्तदङ्गं विशल्यमभूदित्यर्थः ॥४॥

क्षणेन प्रेक्षतां तेषां विशल्यः सोऽभवत्तदा ।
तद्दृष्ट्वा विस्मिताः सर्वे वासुदेवपुरोगमाः ॥५॥

सह तैर्मुनिभिः सर्वैस्तदा व्यासादिभिर्नृप ।
सन्निरुद्धस्तु तेनात्मा सर्वेष्वायतनेषु च ॥६॥

आत्मा प्राणसंयुक्तं मनः ॥६॥

जगाम भित्त्वा मूर्धानं दिवमभ्युत्पपात ह ।
देवदुन्दुभिनादश्च पुष्पवर्षैः सहाभवत् ॥७॥

सिद्धा ब्रह्मर्षयश्चैव साधु साध्विति हर्षिताः ।
महोल्केव च भीष्मस्य मूर्धदेशाज्जनाधिप ॥८॥

निःसृत्याकाशमाविश्य क्षणेनान्तरधीयत ।
एवं स राजशार्दूल नृपः शान्तनवस्तदा ॥९॥

समयुज्यत कालेन भरतानां कुलोद्वहः ।
ततस्त्वादाय दारूणि गन्धांश्च विविधान्बहून् ॥१०॥

चितां चक्रुर्महात्मानः पाण्डवा विदुरस्तथा ।
युयुत्सुश्चापि कौरव्यं प्रेक्षकास्त्वितरेऽभवन् ॥११॥

युधिष्ठिरश्च गाङ्गेयं विदुरश्च महामतिः ।
छादयामासतुरुभौ क्षौमेर्माल्यैश्च कौरवम् ॥१२॥

धारयामास तस्याथ युयुत्सुश्छत्रमुत्तमम् ।
चामरव्यजने शुभ्रे भीमसेनार्जुनावुभौ ॥१३॥

उष्णीषे परिगृह्णीतां माद्रीपुत्रावुभौ तथा ।
स्त्रियः कौरवनाथस्य भीष्मं कुरुकुलोद्वहम् ॥१४॥

उष्णीषे किरीटशिरोवेष्टे । ‘उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तरे’ इति मेदिनी ॥१४॥

तालवृन्तान्युपादाय पर्यवीजन्त सर्वशः ।
ततोऽस्य विधिवच्चक्रुः पितृमेधं महात्मनः ॥१५॥

यजनं बहुशश्चाग्नौ जगुः सामानि सामगाः ।
ततश्चन्दनकाष्ठेश्च तथा कालीयकैरपि ॥१६॥

कालागुरुप्रभृतिभिर्गन्धैश्चोच्चावचैस्तथा ।
समवच्छाद्य गाङ्गेयं संप्रज्वाल्य हुताशनम् ॥१७॥

अपसव्यमकुर्वन्त धृतराष्ट्रमुखाश्चिताम् ।
संस्कृत्य च कुरुश्रेष्ठं गाङ्गेयं कुरुसत्तमाः ॥१८॥

जग्मुर्भागीरथीं पुण्यामृषिजुष्टां कुरूद्वहाः ।
अनुगम्यमाना व्यासेन नारदेनासितेन च ॥१९॥

कृष्णेन भरतस्त्रीभिर्ये च पौराः समागताः ।
उदकं चक्रिरे चैव गाङ्गेयस्य महात्मनः ॥२०॥

विधिवत्क्षत्रियश्रेष्ठाः स च सर्वो जनस्तदा ।
ततो भागीरथी देवी तनयस्योदके कृते ॥२१॥

उत्थाय सलिलात्तस्माद्रुदती शोकविह्वला ।
परिदेवयती तत्र कौरवानभ्यभाषत ॥२२॥

निबोधत यथावृत्तमुच्यमानं मयाऽनघाः ।
राजवृत्तेन संपन्नः प्रज्ञयाऽभिजनेन च ॥२३॥

सत्कर्ता कुरुवृद्धानां पितृभक्तो महाव्रतः ।
जामदग्न्येन रामेण यः पुरा न पराजितः ॥२४॥

दिव्यैरस्त्रैर्महावीर्यः स हतोऽद्य शिखण्डिना ।
अश्मसारमयं नूनं हृदयं मम पार्थिवाः ॥२५॥

अपश्यन्त्याः प्रियं पुत्रं यन्न दीर्यति मेऽद्य वै ।
समेतं पार्थिवं क्षत्रं काशिपुर्यां स्वयंवरे ॥२६॥

विजित्यैकरथेनैव कन्याश्चायं जहार ह ।
यस्य नास्ति बले तुल्यः पृथिव्यामपि कश्चन ॥२७॥

हतं शिखण्डिना श्रुत्वा न विदीर्येत यन्मनः ।
जामदग्न्यः कुरुक्षेत्रे युधि येन महात्मना ॥२८॥

पीडितो नातियत्नेन स हतोऽद्य शिखण्डिना ।
एवंविधं बहु तदा विलपन्तीं महानदीम् ॥२९॥

आश्वासयामास तदा गङ्गां दामोदरो विभुः ।
समाश्वसिहि भद्रे त्वं मा शुचः शुभदर्शने ॥३०॥

गतः स परमं लोकं तव पुत्रो न संशयः ।
वसुरेष महातेजाः शापदोषेण शोभने ॥३१॥

मरणजं शोकमपनयति - वसुरेष इति । देवस्य मानुषत्वं नरकतुल्यम् अतोऽयं हीनस्थानादुत्तमं लोकं गतो न शोच्य इत्यर्थः ॥३१॥

मानुषत्वमनुप्राप्तो नैनं शोचितुमर्हसि ।
स एष क्षत्रधर्मेण अयुध्यत रणाजिरे ॥३२॥

नीचहस्तेन मरणजातं शोकं दूरीकरोति - स एष इति ॥३२॥

धनञ्जयेन निहतो नैष देवि शिखण्डिना ।
भीष्मं हि कुरुशार्दूलमुद्यतेषु महारणे ॥३३॥

अर्जुनमपि शप्स्यतीति शंकया तस्य मृत्युभयमेव नास्तीत्याह - भीष्मं हीति ॥३३॥

न शक्तः संयुगे हन्तुं साक्षापि शतक्रतुः ।
स्वच्छन्दतस्तव सुतो गतः स्वर्गं शुभानने ॥३४॥

न शक्ता विनिहन्तुं हि रणे तं सर्वदेवताः ।
तस्मान्मा त्वं सरिच्छ्रेष्ठे शोचस्व कुरुनन्दनम् ।
वसूनेष गतो देवि पुत्रस्ते विज्वरा भव ॥३५॥

वैशम्पायन उवाच। इत्युक्ता सा तु कृष्णेन व्यासेन तु सरिद्वरा ।
त्यक्त्वा शोकं महाराज स्वं वार्यवततार ह ॥३६॥

सत्कृत्य ते तां सरितं ततः कृष्णमुखा नृप ।
अनुज्ञातास्तया सर्वे न्यवर्तन्त जनाधिपाः ॥३७॥

इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासक्यां अनुशासनपर्वणि भीष्मस्वर्गारोहणपर्वणि दानधर्मे भीष्मयुधिष्ठिरसंवादे भीष्ममुक्तिर्नाम अष्टषष्ट्यधिकशततमोऽध्यायः ॥१६८॥
॥ इति अनुशासनपर्व समाप्तम् ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in