जम्बू-खाण्ड विनिर्मण पर्व - १भूमिपर्व - २भगवद्गीतापर्व - ३भीष्मवधपर्व - ४

जम्बू-खाण्ड विनिर्मण पर्व

अध्यायः - ००१

जनमेजय उवाच । कथं युयुधिरे वीराः कुरुपाण्डवसोमकाः पार्थिवाः सुमहात्मानो नानादेशसमागताः ॥१॥

पूर्वस्मिन् पर्वणि भगवद्भक्तः सत्यपि सामर्थ्ये यः सत्यं पालयत्यैश्वर्यं च न प्रकाशयति काले प्राप्तेऽन्यस्मै उपकरोति चेति पाण्डवाचारप्रदर्शनव्याजेन दर्शितम् । तमेवंभूतं स्वयं भगवान् हितोपदेशेनानुगृह्णाति तदीयां प्रतिज्ञां च स्वप्रतिज्ञाबाधेनैव सत्यां करोतीत्यर्जुनोपदेशेन भीष्मवधार्थं भगवतः शस्त्रधारणेन च दर्शयिष्यन् भीष्मपर्वारभते । पूर्वत्र युद्धोद्योगं श्रुत्वा युद्धं श्रोतुकामो जनमेजय उवाच कथं युयुधिरे वीरा इति ॥१॥

वैशम्पायन उवाच । यथा युयुधिरे वीराः कुरुपाण्डवसोमकाः ।
कुरुक्षेत्रे तपःक्षेत्रे शृणु त्वं पृथिवीपते ॥२॥

तपःक्षेत्र इति । खड्गधारातीर्थेऽस्मिन् स्नानमत्युचितमिति भावः ॥२॥

तेऽवतीर्य कुरुक्षेत्रं पाण्डवाः सहसोमकाः ।
कौरवाः समवर्तन्त जिगीषन्तो महाबलाः ॥३॥

जिगीषन्तोऽन्योन्यं जेतुमिच्छन्तः ॥३॥

वेदाध्ययनसम्पन्नाः सर्वे युद्दाभिनन्दिनः ।
आशंसन्तो जयं युद्धे बलेनाभिमुखा रणे ॥४॥

अभियाय च दुर्धर्षां धार्तराष्ट्रस्य वाहिनीम् ।
प्राङ्मुखाः पश्चिमे भागे न्यवशन्त ससैनिकाः ॥५॥

अभियाय अभ्येत्य न्यविशन्त पाण्डवीया इति शेषः ॥५॥

समन्तपञ्चकाद्बाह्यं शिबिराणि सहस्रशः ।
कारयामास विधिवत्कुन्तीपुत्रो युधिष्ठिरः ॥६॥

बाह्यं बहिः ॥६॥

शून्या च पृथिवी सर्वा बालवृद्धावशेषिता ।
निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता ॥७॥

यावत्तपति सुर्यो हि जम्बुद्वीपस्य मण्डलम् ।
तावदेव समावृत्तं बलं पार्थिवसत्तम ॥८॥

यावत्तपति सूर्य इत्यनेन कृत्स्नं सप्तद्वीपात्मकं भूवलयं जम्बूद्वीपशब्देनोच्यते लिङ्गसमवायाच्छत्रिणो गच्छन्तीतिवत् ॥८॥

एकस्थाः सर्ववर्णास्ते मण्डलं बहुयोजनम् ।
पर्याक्रामन्त देशांश्च नदीः शैलान्वनानि च ॥९॥

तेषां युधिष्ठिरो राजा सर्वेषां पुरुषर्षभ ।
व्यादिदेश सबाह्यानां भक्ष्यभोज्यमनुत्तमम् ॥१०॥

सबाह्यानां कैवर्तम्लेच्छान्ध्रादिप्रान्त्यदेशवासिनो बाह्यास्तत्सहितानाम् ॥१०॥

शय्याश्च विविधास्तात तेषां रात्रौ युधिष्ठिरः ।
एवंवेदी वेदितव्यः पाण्डवेयोऽयमित्युत ॥११॥

भक्ष्यादिदानफलमाह - एवमिति । एवंवेदी विद्वान् इति अन्यैः पाण्डवेयो ज्ञातव्य इत्येतदर्थमित्यर्थः ॥११॥

अभिज्ञानानि सर्वेषां संज्ञाश्चाभरणानि च ।
योजयामास कौरव्यो युद्धकाल उपस्थिते ॥१२॥

अभिज्ञानानि स्वकीयचिह्नानि स्वीया एव स्वीयान्मा निहन्युरित्येतदर्थम् ॥१२॥

दृष्ट्वा ध्वजाग्रं पार्थस्य धार्तराष्ट्रो महामनाः ।
सह सर्वैर्महीपालैः प्रत्यव्यूहत पाण्डवम् ॥१३॥

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।
मध्ये नागसहस्रस्य भ्रातृभिः परिवारितः ॥१४॥

दृष्ट्वा दुर्योधनं हृष्टाः पञ्चाला युद्धनन्दिनः ।
दध्मुः प्रीता महाशङ्खान्भेर्यश्च मधुरस्वनाः ॥१५॥

ततः प्रहृष्टां तां सेनामभिवीक्ष्याथ पाण्डवाः ।
बभूवुर्हृष्टमनसो वासुदेवश्च वीर्यवान् ॥१६॥

ततो हर्षं समागम्य वासुदेवधनञ्जयौ ।
दध्मतुः पुरुषव्याघ्रौ दिव्यौ शङ्खौ रथे स्थितौ ॥१७॥

पाञ्चजन्यस्य निर्घोषं देवदत्तस्य चोभयोः ।
श्रुत्वा तु निनदं योधाः शकृन्मूत्रं प्रसुस्रुवुः ॥१८॥

शकृत् पुरीषम् ॥१८॥

यथा सिंहस्य नदतः स्वनं श्रुत्वेतरे मृगाः ।
त्रयेयुर्निनदं श्रुत्वा तथाऽसीदत तद्बलम् ॥१९॥

असीदत भवसन्नमभूत् ॥१९॥

उदतिष्ठद्रजो भौमं न प्राज्ञायत किञ्चन ।
अस्तङ्गत इवादित्ये सैन्येन सहसावृते ॥२०॥

ववर्ष तत्र पर्जन्यो मांसशोणितवृष्टिमान् ।
दिक्षु सर्वाणि सैन्यानि तदद्भुतमिवाभवत् ॥२१॥

वायुस्ततः प्रादूरभून्नीचैः शर्करकर्षणः ।
विनिघ्नंस्तान्यनीकानि शतशोऽथ सहस्रशः ॥२२॥

शर्कराः स्थूलवालुकाः कर्षयतीति तथा विनिघ्नन् शर्कराभिरित्यर्थः ॥२२॥

उभे सैन्ये च राजेन्द्र युद्धाय मुदिते भृशम् ।
कुरुक्षेत्रे स्थिते यत्ते सागरक्षुभितोपमे ॥२३॥

सागरक्षुभितोपमे क्षुभितसागरोपमे ॥२३॥

तयोस्तु सेनयोरासीदद्भुतः स तु सङ्गमः ।
युगान्ते समनुप्राप्ते द्वयोः सागरयोरिव ॥२४॥

शून्याऽऽसीत्पृथिवी सर्वा वृद्धबालावशेषिता ।
निरश्वपुरुषेवासीद्रथकुञ्जरवर्जिता ॥२५॥

तेन सेनासमूहेन समानीतेन कौरवैः ।
ततस्ते समयं चक्रुः कुरुपाण्डवसोमकाः ॥२६॥

धर्मान् संस्थापयामासुर्युद्धानां भरतर्षभ ।
निवृत्ते विहिते युद्धे स्यात्प्रीतिर्नः परस्परम् ॥२७॥

धर्मान् पराङ्मुखस्त्यक्तशस्त्रः शरणागतोऽन्येन संयुक्तश्च न हन्तव्य इत्यादीन् ॥२७॥

यथापरं यथायोगं न च स्यात् कस्यचित् पुनः ।
वाचा युद्धप्रवृत्तानां वाचैव प्रतियोधनम् ।
निष्क्रान्ताः पृतनामध्यान्न हन्तव्याः कदाचन ॥२८॥

तथा न कस्यचित्तुल्ययोगातिक्रमः स्यादिति भावः ॥२८॥

रथी च रथिना योध्यो गजेन गजधूर्गतः ।
अश्वेनाश्वी पदातिश्च पादातेनैव भारत ॥२९॥

गजधूर्गतः गजस्कन्धगतः ॥२९॥

यथायोगं यथाकामं यथोत्साहं यथाबलम् ।
समाभाष्य प्रहर्तव्यं न विश्वस्ते न विह्वले ॥३०॥

एकेन सह संयुक्तः प्रपन्नो विमुखस्तथा ।
क्षीणशस्त्रो विवर्मा च न हन्तव्यः कदाचन ॥३१॥

न सूतेषु न धुर्येषु न च शस्त्रोपनायिषु ।
न भेरीशङ्खवादेषु प्रहर्तव्यं कथञ्चन ॥३२॥

एवं ते समयं कृत्वा कुरुपाण्डवसोमकाः ।
विस्मयं परमं जग्मुः प्रेक्षमाणाः परस्परम् ॥३३॥

निर्विश्य च महात्मानस्ततस्ते पुरुषर्षभाः ।
हृष्टरूपाः सुमनसो बभूवुः सहसैनिकाः ॥३४॥

इति श्रीमन्महाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि सैन्यशिक्षणे प्रथमोऽध्यायः ॥१॥
अध्यायः - ००२

वैशम्पायन उवाच । ततः पूर्वापरे सैन्ये समीक्ष्य भगवानृषिः ।
सर्ववेदविदां श्रेष्ठो व्यासः सत्यवतीसुतः ॥१॥

तत इति ॥१॥

भविष्यति रणे घोरे भरतानां पितामहः ।
प्रत्यक्षदर्शी भगवान्भूतभव्यभविष्यवित् ॥२॥

भविष्यति भाविनि ॥२॥

वैचित्रवीर्यं राजानं सरहस्यं ब्रवीदिदम् ।
शोचन्तमार्तं ध्यायन्तं पुत्राणामनयं तदा ॥३॥

व्यास उवाच । राजन्परिकालास्ते पुत्राश्चान्ये च पार्थिवाः ।
ते हिंसन्तीव सङ्ग्रामे समासाद्येतरेतरम् ॥४॥

हिंसन्तीव नाशयिष्यन्त्येव ॥४॥

तेषु कालपरीतेषु विनश्यत्स्वेव भारत ।
कालपर्यायमाज्ञाय मा स्म शोके मनः कृथाः ॥५॥

पर्यायं वैपरीत्यम् ॥५॥

यदि चेच्छसि सङ्ग्रामे द्रुष्टुमेतान् विशाम्पते ।
चक्षुर्ददानि ते पुत्र युद्धं तत्र निशामय ॥६॥

निशामय पश्य ॥६॥

धृतराष्ट्र उवाच । न रोचये ज्ञातिवधं द्रष्टुं ब्रह्मर्षिसत्तम ।
युद्धमेतत्त्वशेषेण श्रृणुयां तव तेजसा ॥७॥

न परोक्षमिति पाठे प्रत्यक्षम् ॥७॥

वैशम्पायन उवाच । एतस्मिन्नेच्छति द्रष्टुं सङ्ग्रामं श्रोतुमिच्छति ।
चराणामीश्वरो व्यासः सञ्जयाय वरं ददौ ॥८॥

एष ते सञ्जयो राजन्युद्धमेतद्वदिष्यति ।
एतस्य सर्वसङ्ग्रामे न परोक्षं भविष्यति ॥९॥

चक्षुषा सञ्जयो राजन्दिव्येनैव समन्वितः ।
कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति ॥१०॥

प्रकाशं वाऽप्रकाशं वा दिवा वा यदि वा निशि ।
मनसा चिन्तितमपि सर्वं वेत्स्यति सञ्जयः ॥११॥

नैनं शस्त्राणि छेत्स्यन्ति नैनं बाधिष्यते श्रमः ।
गावल्गणिरयं जीवन्युद्धादस्माद्विमोक्ष्यते ॥१२॥

अहं तु कीर्तिमेतेषां करूणां भरतर्षभ ।
पाण्डवानां च सर्वेषां प्रथयिष्यामि मा शुचः ॥१३॥

दिष्टमेतन्नरव्याघ्र नाभिशोचितुमर्हसि ।
न चैव शक्यं संयन्तुं यतो धर्मस्ततो जयः ॥१४॥

वैशम्पायन उवाच । एवमुक्त्वा स भगवान्कुरूणां प्रतितामहः ।
पुनरेव महाभागो धृतराष्ट्रमुवाच ह ॥१५॥

इह युद्धे महाराज भविष्यति महान्क्षयः ।
तथेह च निमित्तानि भयदान्युपलक्षये ॥१६॥

श्येना गृध्राश्च काकाश्च काङ्काश्च सहिता बकैः ।
सम्पतन्ति नगाग्रेषु समवायांश्च कुर्वते ॥१७॥

नगाग्रेषु वृक्षाप्रेषु संपतन्ति एकीभूय पतन्ति समबायान् सङ्घान् ॥१७॥

अभ्यग्रं च प्रपश्यन्ति युद्धमानन्दिनो द्विजाः ।
क्रव्यादा भक्षयिष्यन्ति मांसानि गजवाजिनाम् ॥१८॥

अभ्यग्रं समीपं क्रव्यादा मांसभक्षकाः सृगालकाकादयः ॥१८॥

निर्दयं चाभिवाशन्तो भैरवा भयवेदिनः ।
कङ्काः प्रयान्ति मध्येन दक्षिणामभितो दिशम् ॥१९॥

वाशन्तः शब्दं कुर्वन्तः ॥१९॥

उभे पूर्वापरे सन्ध्ये नित्यं पश्यामि भारत ।
उदयास्तमने सूर्यं कबन्धैः परिवारितम् ॥२०॥

श्वेतलोहितपर्यन्ताः कृष्णाग्रीवाः सविद्युतः ।
त्रिवर्णाः परिघाः सन्धौ भानुमन्तमवारयन् ॥२१॥

परिघाः परिवेषाः कृष्णग्रीवाः श्वेतलोहितपर्यन्ताश्च मध्ये कृष्णास्ततो बहिः श्वेतास्ततो बहिर्लोहिता इति त्रिवर्णाः सन्धौ सन्ध्यायाम् अवारयन् अवेष्टयन् ॥२१॥

ज्वलितार्केन्दुनक्षत्रं निर्विशेषदिनक्षयम् ।
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णनभस्तले ॥२२॥

निर्विशेषदिनक्षयमहोरात्रं निश्चयेन विगतः शेषो यस्य तस्य दिनस्य तिथेः क्षयो यस्मिन् सूर्योदयद्वयास्पर्शिनी क्षयतिथिर्यस्मिन् अहोरात्रे तन्मया दृष्टम् । तदेव विशिनष्टि - ज्वलितेति । अर्केन्द्वोर्नक्षत्रममावास्यायामुभाभ्यामाक्रान्तं नक्षत्रं तदेव ज्वलितं पापग्रहाक्रान्तं यस्मिन् दर्शे क्षयतिथिः तन्नक्षत्रे च पापग्रह इत्ययं महान् दुर्योग इत्यर्थः ॥२२॥

आलक्ष्यः प्रभया हीनां पौर्णमासीं च कीर्तिकीम् ।
चन्द्रोऽभूदग्निवर्णश्च पद्मवर्णे नभस्तले ॥२३॥

पद्मवर्णे रक्तपद्मवर्णे । ‘लोहिनी द्यौर्भवति यथा मञ्जिष्ठा’ इति श्रुतेर्दिवो रक्तत्वमशुभसूचकम् ॥२३॥

स्वप्स्यन्ति निहता वीरा भूमिमावृत्य पार्थिवाः ।
राजानो राजपुत्राश्च शूराः परिघबाहवः ॥२४॥

अन्तरिक्षे वराहस्य पृषदंशकस्य चोभयोः ।
प्रणादं युद्ध्यतो रात्रौ रौद्रं नित्यं प्रलक्षये ॥२५॥

वराहो गृहकोलो वृषदंशो मार्जारस्तयोर्भूचरयोरप्यन्तरिक्षे उत्प्लुत्य युद्ध्यतोः प्रणादम् ॥२५॥

देवताप्रतिमाश्चैव कम्पन्ति च हसन्ति च ।
वमन्ति रुधिरं चास्यैः खिद्यन्ति प्रपतन्ति च ॥२६॥

अनाहता दुन्दुभयः प्रणदन्ति विशाम्पते ।
अयुक्ताश्च प्रवर्तन्ते क्षत्रियाणां महारथाः ॥२७॥

अयुक्ता अश्वैरयोजिता अपि प्रवर्तन्ते चलन्ति महान्तो रथा महारथाः ॥२७॥

कोकिलाः शतपत्राश्च चाषा भासाः शुकास्तथा ।
सारसाश्च मयूराश्च वाचो मुञ्चन्ति दारुणाः ॥२८॥

गृहीतशस्त्राः क्रोशन्ति चर्मिणो वाजिपृष्ठगाः ।
अरुणोदये प्रदृश्यन्ते शतशः शलभव्रजाः ॥२९॥

गृहीतशस्त्राः आत्तलोहा लोहतुण्डा इति यावत् । ‘शस्त्रमायुधलोहयोः’ इत्यमरः । चर्मिणो भृङ्गारिटिसंज्ञाः कृष्णशलभविशेषाः। ‘चर्मी फलकपाणौ स्याद्भूर्जे भृङ्गारिटावपि’ इति मेदिनी । ते वाजिपृष्ठगा अश्वांस्तुदन्तो दृश्यन्त इस्यर्थः ॥२९॥

उभे सन्ध्ये प्रकाशन्ते दिशो दाहसमन्विते ।
पर्जन्यः पांसुवर्षी च मांसवर्षी च भारत ॥३०॥

या चैषा विश्रुता राजंस्त्रैलोक्ये साधुसम्मता ।
अरुन्धती तयाऽप्येष वसिष्ठः पृष्ठतः कृतः ॥३१॥

रोहिणीं पीडयन्नेष स्थितो राजन् शनैश्चरः ।
व्यावृत्तं लक्ष्म सोमस्य भविष्यति महद्भयम् ॥३२॥

व्यावृत्तं नष्टं लक्ष्महीनश्चन्द्रो दृश्यत इत्यर्थः ॥३२॥

अनभ्रे च महाघोरस्तनितं श्रूयते स्वनः ।
वाहनानां च रुदतां निपतन्त्यश्रुबिन्दवः ॥३३॥

स्तनितः स्वनो गर्जितरूपः शब्दः ॥३३॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि श्रीवेदव्यासदर्शने द्वितीयोऽध्यायः ॥२॥
अध्यायः - ००३

व्यास उवाच । खरा गोषु प्रजायन्ते रमन्ते मातृभिः सुताः ।
अनार्तवं पुष्पफलं दर्शयन्ति वनद्रुमाः ॥१॥

खरा इति । खराः प्रजायन्ते मिथुनीभवन्ति उत्पद्यन्त इति वा ॥१॥

गर्भिण्योऽजातपुत्राश्च जनयन्ति विभीषणान् ।
क्रव्यादाः पक्षिभिश्चापि सहाश्नन्ति परस्परम् ॥२॥

क्रव्यादाः सारमेयादयः ॥२॥

त्रिविषाणाश्चतुर्नेत्राः पञ्चपादा द्विमेहनाः ।
द्विशीर्षाश्च द्विपुच्छाश्च दंष्ट्रिणः पशवोऽशिवाः ॥३॥

जायन्ते विवृतास्याश्च व्याहरन्तोऽशिवा गिरः ।
त्रिपदाः शिखिनस्तार्क्ष्याश्चतुर्दंष्ट्रा विषाणिनः ॥४॥

विषाणिनः शृङ्गवन्तस्तार्क्ष्या एव ॥४॥

तथैवान्याश्च दृश्यन्ते स्त्रियो वै ब्रह्मवादिनाम् ।
वैनतेयान्मयूरांश्च जनयन्ति पुरे तव ॥५॥

गोवत्सं वडवा सूते श्वा सृगालं महीपते ।
कुक्कुरान्करभाश्चैव शुकाश्चाशुभवादिनः ॥६॥

वडवा अश्वा, श्वा शुनी, करभो मृगविशेषः । ‘करभः कलभो वाष्टापदे प्रोक्तो मृगान्तरे’ इति विश्वः ॥६॥

स्त्रियः काश्चित्प्रजायन्ते चतस्रः पञ्च कन्यकाः ।
जातमात्राश्च नृत्यन्ति गायन्त च हसन्ति च ॥७॥

प्रजायन्ते जनयन्ति ॥७॥

पृथग्जनस्य सर्वस्य क्षुद्रकाः प्रहसन्ति च ।
नृत्यन्ति परिगायन्ति वेदयन्तो महद्भयम् ॥८॥

पृथग्जनस्य नीचजनस्य सम्बन्धिनः क्षुद्रकाः व्यङ्गाः चण्डालादिषु जाताः काणकुब्जादय इत्यर्थः । ‘क्षुद्रा व्यङ्गा नटी’ इत्यादि मेदिनी ॥८॥

प्रतिमाश्चालिखन्त्येताः सशस्त्राः कालचोदिताः ।
अन्योन्यमभिधावन्ति शिशवो दण्डपाणयः ॥९॥

अन्योन्यमभिमृद्नन्ति नगराणि युयुत्सवः ।
पद्मोत्पलानि वृक्षेषु जायन्ते कुमुदानि च ॥१०॥

नगराणि कृत्रिमाणि शिशव एवावमृद्नन्ति पद्मानि महान्ति उत्पलानि क्षुद्राणीतिः भेदः । कुमुदानि चन्द्रोदयविकासीनि ताम्येव ॥१०॥

विष्वग्वाताश्च वान्त्युग्रो रजो नाप्युपशाम्यति ।
अभीक्ष्णं वर्तते भूमिरर्कं राहुरुपैति च ॥११॥

वर्तते वर्तयति दीप्यत इत्यर्थः । नित्यं दावदाहो भवतीति यावत् । कल्पत इति पाठेऽपि स एवार्थः । कार्तिक्याः परं हि सङ्ग्रामारम्भस्तत्र तुलास्थमर्कं राहुरुपैति ॥११॥

श्वेतो ग्रहस्तथा चित्रां समतिक्रम्य तिष्ठति ।
अभावं हि विशेषेण कुरूणां तत्र पश्यति ॥१२॥

तदैव श्वेतो ग्रहः केतुश्चित्रामतिक्रामति स्वात्यादौ वर्तते । नित्यं समसप्तकस्थौ राहुकेतू इदानीमेकराशिगतौ महानिष्टसूचकाविति भावः ॥१२॥

धूमकेतुर्महाघोरः पुष्यं चाक्रम्य तिष्ठति ।
सेनयोरशिवं घोरं करिष्यति महाग्रहः ॥१३॥

धूमकेतुरुपप्रहविशेषः । स पुष्यं क्षत्रियनक्षत्रमाक्रम्य तिष्ठति । तथा वक्ष्यमाणरीत्या ज्येष्ठास्थेनापि केतुना पुष्यो विद्धस्तथा च स्वनक्षत्रे क्रूराक्रान्ते क्रूरविद्धे च सत्यवश्यं क्षत्रियाणां नाशो भवतीत्यर्थः । यथोक्तम् - ‘कृत्तिकायां तथा पुष्ये रेवत्यां च पुनर्वसौ । वेधे सति क्रमाद्वेधो वर्णेषु ब्राह्मणादिषु’ इति नरपतिविजये ॥१३॥

मघास्वङ्गारको वक्रः श्रवणे च बृहस्पतिः ।
भगं नक्षत्रमाक्रम्य सूर्यपुत्रेण पीड्यते ॥१४॥

भगं नक्षत्रं पूर्वाफल्गुनी श्रुतिमते तूत्तराफल्गुनी ॥१४॥

शुक्रः प्रोष्ठपदे पूर्वे समारुह्य विरोचते ।
उत्तरे तु परिक्रम्य सहितः समुदीक्षते ॥१५॥

पूर्वे प्रोष्ठपदे पूर्वाभाद्रपदानक्षत्रं समारुह्य परिक्रम्य परिघाख्य उपग्रहस्तेन सहितः उत्तरे उत्तराभाद्रपदानक्षत्रम् उदीक्षते आक्रान्तुमिच्छति ॥१५॥

श्वेतो ग्रहः प्रज्वलितः सधूम इव पावकः ।
ऐन्द्रं तेजस्वि नक्षत्रं ज्येष्ठामाक्रम्य तिष्ठति ॥१६॥

श्वेतो द्वितीय उपग्रहः केतुसंज्ञः ऐन्द्रं ज्येष्ठानक्षत्रमिति योज्यम् ॥१६॥

ध्रुवं प्रज्वलितो घोरमपसव्यं प्रवर्तते ।
रोहिणीं पीडयत्येवमुभौ च शशिभास्करौ ।
चित्रास्वात्यन्तरे चैव विष्ठितः परुषग्रहः ॥१७॥

ध्रुवमिति । परुषग्रहो राहुरेकनक्षत्रस्थौ शशिभास्करौ पीडयति अपसव्यं प्रवर्तते सर्वदा वक्री सन् सर्वतोभद्रचक्रे वेधेन स्वातीस्थः सन् रोहिणीनक्षत्रं च पीडयतीत्यर्थः ॥१७॥

वक्रानुवक्रं कृत्वा च श्रवणं पावकप्रभः ।
ब्रह्मराशिं समावृत्य लोहिताङ्गो व्यवस्थितः ॥१८॥

वक्रेति । तत्रैव सर्वतोभद्रचक्रे मघास्थो लोहिताङ्गोऽङ्गारको वक्रानुवक्रं कृत्वा पुनःपुनर्वक्रीभूय ब्रह्मणा बृहस्पतिनाऽऽक्रान्तं राशिं नक्षत्रं श्रवणं समावृत्य सम्यक् पूर्णदृष्ट्या विद्ध्वा तिष्ठति ॥१८॥

सर्वसस्यपरिच्छन्ना पृथिवी सस्यमालिनी ।
पञ्चशीर्षा यवाश्चापि शतशीर्षाश्च शालयः ॥१९॥

परिच्छन्ना आच्छादिता पञ्च शीर्षाणि शिंबीसदृशानि येषां ते पश्वशीर्षाः ॥१९॥

प्रधानाः सर्वलोकस्य यास्वायत्तमिदं जगत् ।
ता गावः प्रस्नुता वत्सैः शोणितं प्रक्षरन्त्युत ॥२०॥

निश्चेरुरर्चिषश्चापात्स्वङ्गाश्च ज्वलिता भृशम् ।
व्यक्तं पश्यन्ति शस्त्राणि संगङ्रामं समुपस्थितम् ॥२१॥

अग्निवर्णा यथा भासः शस्त्राणामुदकस्य च ।
कवचानां ध्वजानां च भविष्यति महाक्षयः ॥२२॥

पृथिवी शोणितावर्ता ध्वजोडुपसमाकुला ।
कुरूणां वैशसे राजन्पाण्डवैः सह भारत ॥२३॥

शोणितमया आवर्ताः यस्यां रक्तप्रवाहवतीत्यर्थः । अत एव ध्वजा एव उडुपानि क्षुद्रनावस्तैः समाकुला वैशसे विरोधे ॥२३॥

दिक्षु प्रज्वलितास्याश्च व्याहरन्ति मृगद्विजाः ।
अत्याहितं दर्शयन्तः क्षत्रियाणां महद्भयम् ॥२४॥

एकपक्षाक्षिचरणः शकुनिः स्वचरो निशि ।
रौद्रं वदन्ति संरब्धः शोणितं छर्दयन्निव ॥२५॥

छर्दयन् श्रोतॄणां क्लेशकरत्वेन रक्तवमनं कारयन्निव ॥२५॥

शस्त्राणि चैव राजेन्द्र प्रज्वलन्तीव सम्प्रति ।
सप्तर्षीणामुदाराणां समवच्छाद्यते प्रभा ॥२६॥

शस्त्राणि प्रभया ज्वलन्तीव ॥२६॥

संवत्सरस्थायिनौ च ग्रहौ प्रज्वलितावुभौ ।
विशाखायाः समीपस्थौ बृहस्पतिशनैश्चरौ ॥२७॥

संवत्सरेति । पूर्वं श्रवणस्थो बृहस्पतिर्भगनक्षत्रस्थः सूर्यपुत्र इत्युक्तं तावुभौ विशाखासमीपे तिर्यग्वेधेन शतपदे चक्रे विशाखानक्षत्रं विध्यत इत्यर्थः । तथाहि । तस्मिंश्चक्रे खुखेखो इति श्रवणान्त्यपादत्रयं व्युत्क्रमेण विशाखाद्यपादत्रयेण तितुते इत्यनेन विद्ध्येते तृतीयेन चतुर्थो, द्वितीयेन तृतीयः, प्रथमेन द्वितीय इति । तथा उत्तराफल्गुन्या अन्त्यपादत्रयेण टोपापीत्यनेन क्रमेण तितुते इति विशाखाद्यपादत्रयं तत्रैव चक्रे विध्यत इति तच्चक्रविदां प्रत्यक्षम् ॥२७॥

चन्द्रादित्यावुभौ ग्रस्तावेकाह्ना हि त्रयोदशीम् ।
अपर्वमि ग्रहं यातौ प्रजासंक्षयमिच्छतः ॥२८॥

चन्द्रादित्याविति । अपर्वणि पर्व दर्शाख्यं पञ्चद‌शेऽह्नि भवति एकतिथिवृद्धौ षोडशे वा एकतिथिक्षये चतुर्दशे वाऽह्नि भवति । तिथिद्वयक्षयस्तु लोकेऽत्यन्तमप्रसिद्ध इत्यपर्वणीत्युक्तम् । ग्रहं यातौ राहुणा ग्रहणं प्राप्तौ एतदेव प्रजासंक्षयहेतुत्वेन शास्त्रे दृष्टमित्याह- प्रजेति ॥२८॥

अशोभिता दिशः सर्वाः पांसुवर्षैः समन्ततः ।
उत्पातमेघा रौद्राश्च रात्रौ वर्षन्ति शोणितम् ॥२९॥

अशोभिता अमङ्गलाः ॥२९॥

कृत्तिकां पीडयंस्तीक्ष्णैर्नक्षत्रं पृथिवीपते ।
अभीक्ष्णवाता वायन्ते धूमकेतुमवस्थिताः ॥३०॥

चित्रास्वात्यन्तरस्थः परुषो ग्रहो रोहिणीं पीडयतीत्युक्तं तत्र चित्रांशे स्थित्वा रोहिणीमष्टादशत्वेन सामुदायिकनक्षत्रं पीडयति । स्वात्यंशे स्थित्वा कृत्तिकां षोडशकत्वेन साङ्घातिकनक्षत्रं पीडयति । सर्वतोभद्रचक्रे तथा दर्शनात् । तदेतदाह कृत्तिकामित्यर्धेन । तीक्ष्णैः क्रूरैः कर्मभिरुपलक्षितो राहुरित्यर्थः धूमकेतुमुत्पातविशेषमनुलक्ष्यावस्थिताः ॥३०॥

विषमं जनयन्त्येत आक्रन्दजननं महत् ।
त्रिषु सर्वेषु नक्षत्रनक्षत्रेषु विशाम्पते ।
गृध्रः सम्पतते शीर्षं जनयन्भयमुत्तमम् ॥३१॥

एते वायवः विषमं वैरम् । युद्धमिति यावत् । त्रिष्विति। त्रिष्वपि च्छत्रेषु नरपतिविजयप्रोक्तेषु यथाऽश्विन्यादिभिर्नवभिर्नक्षत्रैरौदीच्यस्याश्वपतेश्छत्रे चामरं कलशो वीणा छत्रं दण्डः पतद्ग्रह आसनं शीलकं रज्जुरित्यवयवाः कल्प्यन्ते । एवं मघादिनवकेन प्राच्यस्य गजपतेः । तथा मूलादिनवकेन दक्षिणस्य नरपतेः । एवंविधेषु त्रिष्वपि छत्रेषु तत्रापि सर्वेषु नक्षत्रेषु नास्ति क्षत्रमेभिरिति योगेन क्षत्रविरोधिषु नक्षत्रेषु नक्षत्राणि च तानि नक्षत्राणि भानि तेषु क्रूराक्रान्तत्वादिना क्षत्रियाभावकरेषु नक्षत्रेषु गृध्रः पापग्रहः शीर्षं कलशस्थानं संपतते । तेन च्छत्रत्रयस्य तदन्तर्गतानामन्येषां च माण्डलिकानां राज्ञां नाशः सूच्यते । तत्रैवं सति मघासु कुजोऽस्ति तथा यदा भगनक्षत्रं पूर्वाफल्गुनी तदा तत्रत्यः शनैश्वरोऽवश्यं युद्धादिना गजपतेर्महद्भयं करिष्यति । यथोक्तं तत्रैव- ‘कलशस्थे भवेद्युद्धं रणे रोगे महद्भयम् ॥ घातपातादिकं सर्वं जायते नात्र संशयः‘ इति । कलशस्थे शनैश्चरे इति शेषः । तथा विशाखाज्येष्ठे अप्यत्रैव च्छत्रे क्रूरविद्धे क्रूराक्रान्ते वर्तेते इत्यवश्यं गजपतेश्छत्रभङ्गः । एवं प्रथमच्छत्रेऽपि कृत्तिकारोहिण्योः पुष्यस्य च पीडाऽस्ति । यथान्तिमच्छत्रे श्रवणप्रोष्ठपदयोर्बृहस्पतिशुक्रौ वर्तेते इति तथाऽपि तावनिष्टफलावेव । एवं पूर्वस्य निरन्वयो नाशः । इतरयोश्छत्रयो राजनाशेऽपि तत्पुत्राणां च्छत्रप्राप्तिरस्तीति विशेषः । तथा च मध्यमच्छत्रे मघासु भौमः स्वात्यां सूर्यचन्द्रराहवः पूर्वस्यामुत्तरस्यां वा फल्गुन्यां शनैश्चरः विशाखायां वेधेन बृहस्पतिश्चास्ति । तेषां फलं तत्रैवोक्तम् - ’क्रूरग्रहचतुष्कं च बुधचन्द्रेण संयुतम् ॥ पूर्वच्छत्रविनाशाय कथितं पूर्वसूरिभिः इति । तत्र सिन्धुसागरसङ्गमाद्गोदावरीसागरसङ्गमपर्यतमेका रेखा तद्दक्षिणे नरपतिः । तत एव कर्णप्रावरणपर्यन्तं द्वितीया तदुत्तरे गजपतिः । तयो रेखयोर्मध्येऽश्वपतिः । हस्तिनापुरं तु ईशानदेशस्थत्वाद्गङ्गाद्वारात् पूर्वभागेऽस्तीति गजपतिच्छत्रान्तर्गतमेव । हरिद्वारं तु देहलीदीपन्यायेनाश्वपतिगजपत्योरन्तर्गतमिति तेन हस्तिनापुरस्थानां प्राच्यत्वादत्यन्तं क्षयस्तथैव पाञ्चालादीनामपीति । एतच्च नरपतिविजयदर्शिनां स्पष्टम् । ईशानदेशाः कूर्मचक्रे प्रोक्ताः - “रेवती अश्विनी याम्ये पादे ईशानगोचरे ॥ गङ्गाद्वारं कुरुक्षेत्रं श्रीकण्ठं हस्तिनापुरम् ॥ अश्ववक्त्रैकपादाश्च कर्णप्रावरणास्तथा ॥ विनश्यन्ति च ते सर्वे देशास्त्वीशानगोचरे” इति दिक् ॥३१॥

चतुर्दशीं पञ्चदशीं भूतपूर्वां च षोडशीम् ।
इमां नाभिजानेऽहममावास्यां त्रयोदशीम् ।
चन्द्रसूर्यावुभौ ग्रस्तावेकमासीं त्रयोदशीम् ॥३२॥

चन्द्रादित्यावुभौ ग्रस्तावित्येतेन श्लोकेनोक्तमर्थं विशदयति द्वाभ्यां चतुर्दशीमिति । त्रयोदशीं त्रयोदशानामह्नां पूरणीममावास्यां भूतपूर्वां नाभिजाने न जानामि । अतिभूयसा कालेनायं दुर्योग आगत इति भावः । एकमासीं एकस्मिन्नेव मासे भवां पूर्वं त्रयोदश्यां रात्रौ पक्षसमाप्त्या सूर्यग्रहणमेवोक्तम् । इदानीं तु एकस्मिन्मासे चन्द्रः पूर्णमास्यां राहुणा ग्रहेण ग्रस्तः सूर्योऽमावास्यायां, यदा सूर्यो ग्रस्तस्तदा चंद्रोऽपि ग्रस्त एव । दर्शे तयोः संहतत्वात् ॥३२॥

अपर्वणि ग्रहेणैतौ प्रजाः संक्षपयिष्यतः ।
मांसवर्षं पुनस्तीव्रमासीत्कृष्णचतुर्दशीम् ।
शोणितैर्वक्त्रसम्पूर्णा अतृप्तास्तत्र राक्षसाः ॥३३॥

अपर्वणीति । लोकाप्रसिद्धपर्वणीति पूर्ववत् ज्ञेयम् ॥३३॥

प्रतिस्रोतो महानद्यः सरितः शोणितोदकाः ।
फेनायमानाः कूपाश्च कूर्दन्ति वृषभा इव ॥३४॥

प्रतिस्रोतसो महानद्यः विपरीतप्रवाहाः । विभक्तिलोप आर्षः विशेषणं विशेष्येण बहुलमिति समासो वा क्रियाविशेषणं वा । कूपा जलाशयाः । कूर्दन्ति क्रीडन्ति । वातैः क्षुभ्यन्तः इत्यर्थः ॥३४॥

पतन्त्युल्काः सनिर्घाताः शक्राशनिसमप्रभाः ।
अद्य चैव निशां व्युष्टामनयं समवाप्स्यथ ॥३५॥

अनयम् अनीतिफलम् ॥३५॥

विनिःसृत्य महोल्काभिस्तिमिरं सर्वतोदिशम् ।
अन्योन्यमुपतिष्ठद्भिस्तत्र भूमिः पास्यति शोणितम् ॥३६॥

महोल्काभिः दीपाभावात् शणकाष्ठज्वालया रात्रौ विनिःसृत्य गृहाद्बहिर्निर्गत्य ॥३६॥

भूमिपालसहस्राणां भूमिः पास्यति शोणितम् ।
फैलासमन्दराभ्यां तु तथा हिमवता विभो ॥३७॥

सहस्रशो महाशब्दः शिखराणि पतन्ति च ।
महाभूता भूमिकम्पे चत्वारः सागराः पृथक् ।
वेलामुद्वर्तयन्तीव क्षोभयन्तो वसुन्धराम् ॥३८॥

महाशब्दः क्रियत इति शेषः महाभूता वृद्धीभूताः । अभूततद्भावे महच्छब्दाद्भवतौ परे डाच् । मर्यादामुल्लङ्घितवन्त इवेत्यर्थः ॥३८॥

वृक्षानुन्मथ्य वान्त्युग्रा वाताः शर्करकर्षिणः ।
आभग्नाः सुमहावातैरशनीभिः समाहताः ॥३९॥

अशनीभिः ‘अशनिर्द्वयोः’ इति कोशात् स्त्रीत्वम् ॥३९॥

वृक्षाः पतन्ति चैत्याश्च ग्रामेषु नगरेषु च ।
नीललोहितपीतश्च भवत्यग्निर्हुतो द्विजैः ॥४०॥

वामार्चिर्दुष्टगन्धश्च मुञ्चन्वै दारुणं स्वनम् ।
स्पर्शा गन्धा रसाश्चैव विपरीता महीपते ॥४१॥

धूमं ध्वजाः प्रमुञ्चन्ति कम्पमाना मुहुर्मुहुः ।
मुञ्चन्त्यङ्गारवर्षं च भेर्यश्च पटहास्तथा ॥४२॥

शिखराणां समृद्धानामुपरिष्टात्समन्ततः ।
वायसाश्च रुवन्त्युग्रं वामं मण्डलमाश्रिताः ॥४३॥

शिखराणां द्रुमाग्राणाम् । ‘शिखरोऽस्त्री द्रुमाग्रे च’ इति मेदिनी ॥४३॥

पक्वापक्वेति सुभृशं वावाश्यन्ते वयांसि च ।
निलीयन्ते ध्वजाग्रेषु क्षयाय पृथिवीक्षिताम् ॥४४॥

पक्वापक्वेति । विनाशाभिमुखानां परस्परं युद्धमिति ‘पक्वं परिणतेऽपि स्याद्विनाशाभिमुखे त्रिषु’ इति मेदिनी । पक्वापक्वेति । पक्षिरुतानुकरणं वावाश्यन्ते अतिशयेन शब्दं कुर्वन्ति ॥४४॥

ध्यायन्तः प्रकिरन्तश्च व्याला वेपथुसंयुताः ।
दीनास्तुरङ्गमाः सर्वे वारणाः सलिलाश्रयाः ॥४५॥

प्रकिरन्तः शकृन्मूत्रमिति शेषः । व्यालाः दुष्टहस्तिनः सलिलाश्रयाः अत्यन्तं प्रस्वेदद्युक्ताः ॥४५॥

एतच्छ्रुत्वा भवानत्र प्राप्तकालं व्यवस्यताम् ।
यथा लोकः समुच्छेदं नायं गच्छेत भारत ॥४६॥

वैशम्पायन उवाच । पितुर्वचो निशम्यैतद्धृतराष्ट्रोऽब्रवीदिदम् ।
दिष्टमेतत्पुरा मन्ये भविष्यति नरक्षयः ॥४७॥

राजानः क्षत्रधर्मेण यदि वध्यन्ति संयुगे ।
वीरलोकं समासाद्य सुखं प्राप्स्यन्ति केवलम् ॥४८॥

इह कीर्तिं परे लोके दीर्घकालं महत्सुखम् ।
प्राप्स्यन्ति पुरुषव्याघ्राः प्राणांस्त्यक्त्वा महाहवे ॥४९॥

वैशम्पायन उवाच । एवं मुनिस्तथेत्युक्त्वा कवीन्द्रो राजसत्तम ।
धृतराष्ट्रेण पुत्रेण ध्यानमन्वगमत्परम् ॥५०॥

मुनिः एवं तथेत्युक्त्वेति सम्बन्धः । धृतराष्ट्रेण हेतुना तदर्थमित्यर्थः। ध्यानं चिन्ताम् ॥५०॥

स मुहूर्तं तथा ध्यात्वा पुनरेवाब्रवीद्वचः ।
असंशयं पार्थिवेन्द्र कालः संक्षयते जगत् ॥५१॥

संक्षयते क्षिणोति ॥५१॥

सृजते च पुनर्लोकान्नेह विद्यति शाश्वतम् ।
ज्ञातीनां वै कुरूणां च सम्बन्धिसुहृदां तथा ॥५२॥

धर्म्यं देशय पन्थानं समर्थो ह्यसि वारणे ।
क्षुद्रं जातिवधं प्राहुर्मा कुरुष्व ममाप्रियम् ॥५३॥

धर्म्यं धर्मादनपेतं पन्थानं देशय शिक्षय ॥५३॥

कालोऽयं पुत्ररूपेण तव जातो विशाम्पते ।
न वधः पूज्यते वेदे हितं नैव कथञ्चन ॥५४॥

अयं दुर्योधनः ॥५४॥

हन्यात्स एनं यो हन्यात्कुलधर्मं स्विकां तनुम् ।
कालेनोत्पथगन्ताऽसि शक्ये सति यथाऽऽपदि ॥५५॥

सः धर्मः एनं धर्महन्तारं शक्येऽनापदि सत्यां किमर्थमापदीव उन्मार्गगामी भवसीत्यर्थः ॥५५॥

कुलस्यास्य विनाशाय तथैव च महीक्षिताम् ।
अनर्थो राज्यरूपेण तव जातो विशाम्पते ॥५६॥

लुप्तधर्मा परेणासि धर्मं दर्शय वै सुतान् ।
किं ते राज्येन दुर्ध र्षयेन प्राप्तोऽसि किल्बिषम् ॥५७॥

परेण अतिशयेन ॥५७॥

यशो धर्मं च कीर्तिं च पालयन्स्वर्गमाप्स्यसि ।
लभन्तां पाण्डवा राज्यं शमं गच्छन्तु कौरवाः ॥५८॥

एवं ब्रुवति विप्रेन्द्रे धृतराष्ट्रोऽम्बोकासुतः ।
आक्षिप्य वाक्यं वाक्यज्ञो वाक्यं चैवाब्रवीत् पुनः ॥५९॥

आक्षिप्य वाक्यं ब्रुवतीति सम्बन्धः ॥५९॥

धृतराष्ट्र उवाच । यथा भवान्वेत्ति तथैव वेत्ता भावाभावौ विदितौ मे यथार्थौ ।
स्वार्थे हि संमुह्यति तात लोको मां चापि लोकात्मकमेव विद्धि ॥६०॥

वेत्ता ज्ञाताऽस्मीति शेषः । भावाभावौ स्थितिविनाशौ परेषां स्वेषां च ॥६०॥

प्रसादये त्वामतुलप्रभावं त्वं नो गतिर्दर्शयिता च धीरः ।
न चापि ते मद्वशगा महर्षे न चाधर्मं कर्तुमर्हा हि मे मतिः ॥६१॥

गतिः परायणं दर्शयिता उपदेष्टा ॥६१॥

त्वं हि धर्मप्रवृत्तिश्च यशः कीर्तिश्च भारती ।
कुरूणां पाण्डवानां च मान्यश्चापि पितामहः ॥६२॥

त्वं हि धर्मादौ हेतुरित्यर्थः ॥६२॥

व्यास उवाच । वैचित्रवीर्य नृपते यत्ते मनसि वर्तते ।
अभिधत्स्व यथाकामं छेत्ताऽस्मि तव संशयम् ॥६३॥

धृतराष्ट्र उवाच । यानि लिङ्गानि सङ्ग्रामे भवन्ति विजयिष्यताम् ।
तानि सर्वाणि भगवञ्छ्रोतुमिच्छामि तत्त्वतः ॥६४॥

व्यास उवाच । प्रसन्नभाः पावक ऊर्ध्वरश्मिः प्रदक्षिणावर्तशोखो विधूमः ।
पुण्या गन्धाश्वाहुतीनां प्रवन्ति जयस्यैतद्भाविनो रूपमाहुः ॥६५॥

रूपं गमकं चिह्नम् ॥६५॥

गम्भीरघोषाश्च महास्वनाश्च शङ्खा मृदङ्गाश्च नदन्ति यत्र ।
विशुद्धरश्मिस्तपनः शशी च जयस्येतद्भाविनो रूपमाहुः ॥६६॥

इष्टा वाचः प्रसृता वायसानां सम्प्रस्थितानां च गमिष्यतां च ।
ये पृष्ठतस्ते त्वरयन्ति राजन् ये चाग्रतस्ते प्रतिषेधयन्ति ॥६७॥

इष्टा इति । ये पृष्ठतो भाषमाणा वायसास्ते गन्तारं त्वरयन्ति सिद्धिसूचका इत्यर्थः । ये पुरतो भाषमाणास्ते गमनं निषेधन्तीत्यर्थः ॥६७॥

कल्याणवाचः शकुना राजहंसाः शुकाः क्रौञ्चाः शतपत्राश्च यत्र ।
प्रदक्षिणाश्चैव भवन्ति सङ्ख्ये ध्रुवं जयस्तत्र वदन्ति विप्राः ॥६८॥

अलङ्कारैः कवचैः केतुभिश्च सुखप्रणादैर्हेषितैर्वा हयानाम् ।
भ्राजिष्मती दुष्प्रतिवीक्षणीया येषां चमूस्ते विजयन्ति शत्रून् ॥६९॥

हृष्टा वाचस्तथा सत्वं योधानां यत्र भारत ।
न म्लायन्ति स्रजश्चैव ते तरन्ति रणोदधिम् ॥७०॥

इष्टा वाचः प्रविष्टस्य दक्षिणाः प्रविविक्षतः ।
पश्चात् सन्धारयन्त्यर्थमाग्रे च प्रतिषेधिकाः ॥७१॥

प्रविष्टस्य परसैन्यमिति शेषः । इष्टा मारितो मारित इति दक्षिणाः दाक्ष्ययुक्ता हतोऽसीत्याद्याः । पश्चादर्थं पाश्चात्यं प्रयोजनं जयाख्यं सन्धारयन्ति निश्चिन्वन्ति याश्चाग्रे प्रतिषेधिका मा युद्ध्यस्व मरिष्यसीत्येवंजातीयकास्ता अपि मरणस्यैव सूचिकास्ताश्च दुर्योधनं प्रत्येव प्रवर्तन्त इति भावः ॥७१॥

शब्दरूपरसस्पर्शगन्धाश्चाविकृताः शुभाः ।
सदा हर्षश्च योधानां जयतामिह लक्षणम् ॥७२॥

अनुगा वायवो वान्ति तथाऽभ्राणि वयांसि च ।
अनुप्लवन्ति मेघाश्च तथैवेन्द्रधनूंषि च ॥७३॥

अनुगाः अनुकूलाः ॥७३॥

एतानि जयमानानां लक्षणानि विशाम्पते ।
भवन्ति विपरीतानि मुमूर्षूणां जनाधिप ॥७४॥

अल्पायां वा महत्यां वा सेनायामिति निश्चयः ।
हर्षो योधगणस्यैको जयलक्षणमुच्यते ॥७५॥

एको दीर्णो दारयति सेनां सुमहतीमपि ।
तां दीर्णामनुदीर्यन्ते योधाः शूरतरा अपि ॥७६॥

दुर्निवर्त्या तदा चैव प्रभग्ना महती चमूः ।
अपामिव महावेगास्त्रस्ता मृगगणा इव ॥७७॥

नैव शक्या समाधातुं सन्निपाते महाचमूः ।
दीर्णामित्येव दीर्यन्ते सुविद्वांसोऽपि भारत ॥७८॥

भीतान् भग्नांश्च सम्प्रेक्ष्य भयं भूयोऽभिवर्धते ।
प्रभग्ना सहसा राजन्दिशो विद्रवते चमूः ॥७९॥

नैव स्थापयितुं शक्या शूरैरपि महाचमूः ।
सत्कृत्य महतीं सेनां चतुरङ्गां महीपतिः ।
उपायपूर्वं मेधावी यतेत सततोत्थितः ॥८०॥

उपायविजयं श्रेष्ठमाहुर्भेदेन मध्यमम् ।
जघन्य एष विजयो यो युद्धेन विशाम्पते ॥८१॥

उपायविजयं लाभपूर्वकं जयं साम्ना प्रार्थनया दानेन वा शत्रुणा वाचा प्रार्थितस्य धनेन वा सन्तर्पितस्य मुख्यो जयः । शत्रुं भेदयतो मध्यमः, निघ्नतोऽधम इत्यर्थः ॥८१॥

महान्दोषः सन्निपातस्तस्याद्यः क्षय उच्यते ।
परस्परज्ञाः संहृष्टा व्यवधूताः सुनिश्चिताः ॥८२॥

सन्निपातो योधानां सङ्घर्षः । व्यवधूताः दरादिष्वनासक्ताः ॥८२॥

अपि पञ्चाशतं शूरा मृद्नान्ति महतीं चमूम् ।
अपि वा पञ्च षट् सप्त विजयन्त्यनिवर्तिनः ॥८३॥

न वैनतेयो गरुडः प्रशंसति महाजनम् ।
दृष्ट्वा सुपर्णोऽपचितिं महत्या अपि भारत ॥८४॥

शूराणां सहायसंपत्तिर्नापेक्षितेत्यत्र दृष्टान्तमाह- न वैनतेय इति । महत्या अपि सेनाया अपचितिं प्रतिकारं नाशम् वा एकेनैवात्मना कर्तुं शक्यं दृष्ट्वा आलोच्य । सुपर्णः शोभनपतत्रो गरुडो नामतो वैनतेयो विनतायाः पुत्रो महाजनं बहुजनसमूहं न प्रशंसति न कामयत इत्यर्थः । ‘भवेदपचितिः पूजाव्ययनिष्कृतिहानिषु’ इति मेदिनी । शूराणां न सहायापेक्षाऽस्तीत्यक्षौहिणीबाहुल्यान्मत्पुत्राणां जयोऽवश्यंभावीति त्वया न मन्तव्यामिति भावः ॥८४॥

न बाहुल्येन सेनाया जयो भवति नित्यशः ।
अध्रुवो हि जयो नाम दैवं चात्र परायणम् ।
जयवन्तो हि सङ्ग्रामे कृतकृत्या भवन्ति हि ॥८५॥

इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि निमित्ताख्याने तृतीयोऽध्यायः ॥३॥
अध्यायः - ००४

वैशम्पायन उवाच । एवमुक्त्वा ययौ व्यासो धृतराष्ट्राय धीमते ।
धृतराष्ट्रोऽपि तच्छ्रुत्वा ध्यानमेवान्वपद्यत ॥१॥

एवमुक्त्त्वेति ॥१॥

स मुहूर्तमिव ध्यात्वा विनिःश्वस्य मुहुर्मुहुः ।
सञ्जयं संशितात्मानमपृच्छद्भरतर्षभ ॥२॥

सञ्जयेमे महीपालाः शूरा युद्धाभिनन्दिनः ।
अन्योन्यमभिनिघ्नन्ति शस्त्रैरुच्चावचैरिह ॥३॥

पार्थिवाः पृथिवीहेतोः समभित्यज्य जीवितम् ।
न वा शाम्यन्ति निघ्नन्तो वर्धयन्ति यमक्षयम् ॥४॥

न वा शाम्यन्ति नैव शाम्यन्ति यमक्षयं यमलोकम् ॥४॥

भौममैश्वर्यमिच्छन्तो न मृष्यन्ते परस्परम् ।
मन्ये बहुगुणा भूमिस्तन्ममाचक्ष्व सञ्जय ॥५॥

बहूनि च सहस्राणि प्रयुतान्यर्बुदानि च ।
कोट्यश्च लोकवीराणां सम्मेताः कुरुजाङ्गले ॥६॥

देशानां च परीमाणं नगराणां च सञ्जय ।
श्रोतुमिच्छामि तत्त्वेन यत एते समागताः ॥७॥

दिव्यबुद्धिप्रदीपेन युक्तस्त्वं ज्ञानचक्षुषा ।
प्रभावात्तस्य विप्रर्षेर्व्यासस्यामिततेजसः ॥८॥

दिव्येति । यथा दीपेनान्धकारे नाशिते चक्षुषा घटो दृश्यते एवं धीवृत्त्या सर्वविषयावरकाज्ञानतमसि नाशिते सति चिदात्मरूपेण चक्षुषा सर्वं प्रकाशत इत्यर्थः ॥८॥

सञ्जय उवाच । यथाप्रज्ञं महाप्राज्ञ भौमान्वक्ष्यामि ते गुणान् ।
शास्त्रचक्षुरवेक्षस्व नमस्ते भरतर्षभ ॥९॥

शास्त्रचक्षुरिति । यदाऽहं ब्रह्मास्मीति वाक्योत्थयाः धियाऽऽत्मानं योगी पश्यति तदाऽन्धोऽप्यनन्धो भवति तथा च श्रुतिः। ‘तं वा एतं सेतुं तीर्त्त्वांऽधः सन्ननंधो भवति’ इति । सेतुं मर्यादाविधारकं परमेश्वरं तीर्त्वा प्राप्येति श्रुतिपदयोरर्थः । अनेनैवाभिप्रायेणावेक्षस्वेत्याह - नमस्त इति । विनयः स्वस्योपदेष्टृत्ववारणाय व्यासेनैव त्वमुपदिष्टोऽसीति भावः ॥९॥

द्विविधानीह भूतानि चराणि स्थावराणि च ।
त्रसानां त्रिविधा योनिरण्डस्वेदजरायुजाः ॥१०॥

त्रसानां जङ्गमानां योनिरुत्पत्तिस्थानम् । अण्डजाः पक्षिसरीसृपाद्याः । स्वेदजाः यूकालिक्षाद्याः । जरायुजाः मनुष्यपश्वाद्याः ॥१०॥

त्रसानां खलु सर्वेषां श्रेष्ठा राजञ्जरायुजाः ।
जरायुजानां प्रवरा मानवाः पशवश्च ये ॥११॥

येषु चतुर्दशसु यज्ञाः प्रतिष्ठिताः ते मानवास्त्रैवर्णिकाः । पशवश्च गोऽजाद्या जरायुजानां मध्ये प्रवरा इति योजना ॥११॥

नानारूपधरा राजंस्तेषां भेदाश्चतुर्दश ।
वेदोक्ताः पृथिवीपाल येषु यज्ञाः प्रतिष्ठिताः ॥१२॥

ग्राम्याणां पुरुषाः श्रेष्ठाः सिंहाश्चारण्यवासिनाम् ।
सर्वेषामेव भूतानामन्योन्येनोपजीवनम् ॥१३॥

ग्राम्याणां वक्ष्यमाणानां पशूनां मध्ये तथाऽरण्यवासिनामित्यपि । ‘पुरुषं वै देवाः पशुमालभन्त तस्मात्त्रयः पशूनां हस्तादानाः पुरुषो, हस्ती, मर्कटः’ इति विध्यर्थवादादिषु पुरुषेऽपि पशुत्वमस्येवेति ग्राम्यपशुषु पुरुषस्य गणनम् ॥१३॥

उद्भिज्जाः स्थावराः प्रोक्तास्तेषां पञ्चैव जातयः ।
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥१४॥

उद्भिज्जाः भूमिमुद्भिद्य जाताः वृक्षा अश्वत्थादयः । गुल्माः कुशकाशादिस्तम्बाः । लता वृक्षाद्यारूढा गुडूच्यादयः । वल्ल्यो भूमिप्रसारा वर्षमात्रस्थायिन्यः कूष्माण्ड्याद्याः । त्वक्सारा वेण्वादयः । त एव तृणजातयो न तु वृक्षाः ॥१४॥

तेषां विंशतिरेकोना महाभूतेषु पञ्चसु ।
चतुर्विशतिरुद्दिष्टा गायत्री लोकसम्मता ॥१५॥

तेषामिति । सप्त ग्राम्याः पशवः सप्तारण्याः पञ्चोद्भिज्जा इत्येकोनविंशतिसंख्यानां विकाराणां प्रकृतिभूतेषु पञ्चसु महाभूतेषु प्रक्षेपे सति चतुर्विंशत्यक्षरसंख्यासाम्यात् प्रकृतिविकृत्यात्मिका गायत्रीयं भवति । अत्र स्वेदजानामुद्भिजेष्वन्तर्भावः । ते हि भूमिमुद्भिद्य जायन्ते स्वेदजास्तु जलमुद्भिद्य जायन्त इति साम्यात्। तृतीयेनावरोधः संशोकजस्येति न्यायाच्च अण्डजानामपि मैथुनजत्वसाम्याज्जरायुजेष्वेवान्तर्भावः । जरायुर्गर्भवेष्टनं तद्रूपस्य अण्डस्यैव तत्र सत्त्वादित्याशयेन चतुर्विंशतिः । तदिदं कार्यकारणसमुदायात्मकं गायत्र्याख्यं ब्रह्म । ‘गायत्री वा इदं सर्वं भूतम्’ इत्युपक्रम्य ‘सैषा चतुष्पदा षड्विधा गायत्री’ तदेतदृचाभ्यनूक्तम् । ‘एतावानस्य महिमा ततो ज्यायांश्च पूरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ इति छान्दोग्ये उपसंहारदर्शनात् ॥१५॥

य एतां वेद गायत्रीं पुण्यां सर्वगुणान्विताम् ।
तत्त्वेन भरतश्रेष्ठ स लोके न प्रणश्यति ॥१६॥

अरण्यवासिनः सप्त सप्तैषां ग्रामवासिनः ।
सिंहा व्याघ्रा वराहाश्च महिषा वारणास्तथा ॥१७॥

ऋक्षाश्च वानराश्चैव सप्तारण्याः स्मृता नृप ।
गौरजाविमनुष्याश्च अश्वाश्वतरगर्दभाः ॥१८॥

एते ग्राम्याः समाख्याताः पशवः सप्त साधुभिः ।
एते वै पशवो राजन्ग्राम्यारण्याश्चतुर्दश ॥१९॥

भूमौ च जायते सर्वं भूमौ सर्वं विनश्यति ।
भूमिः प्रतिष्ठा भूतानां भूमिरेव सनातनम् ॥२०॥

यस्य भूमिस्तस्य सर्वं जगत्स्थावरजङ्गमम् ।
तत्रातिगृद्धा राजानो विनिघ्नन्तीतरेतरम् ॥२१॥

यस्य भूमिरिति । राजा हि सार्वभौमो राजसूयेनेष्ट्वा स्वाराज्यं प्राप्नोति अश्वमेधेनेष्ट्वा क्रममुक्तिस्थानं प्राप्नोतीति यस्य कृत्स्ना भूमिस्तस्य इदं सर्वं यज्ञद्वारा वशे भवति तथा च वाजसनेयके श्रूयते । ‘पुरुषो ह वै नारायणोऽकामयतात्प्रतिष्ठेयं सर्वाणि भूतान्यहमेवेदं सर्वं स्यामिति स एतं पुरुषमेधं पञ्चरात्रयज्ञक्रतुमपश्यत्’ इत्यादिना ॥२१॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि भौमगुणकथने चतुर्थोऽध्यायः ॥४॥
अध्यायः - ००५

धृतराष्ट्र उवाच । नदीनां पर्वतानां च नामधेयानि सञ्जय ।
तथा जनपदानां च ये चान्ये भूमिमाश्रिताः ॥१॥

एवं वक्ष्यमाणभगवद्गीतोपनिषदर्थज्ञानाधिकारार्थं कर्मणामनुष्ठेयत्वं प्रकारान्तरेणोपपाद्याधिकृतानामुत्पन्नात्मविविदिषाणामपि सूक्ष्मतमात्मतत्त्वग्रहणयोग्यतासिद्ध्यर्थं स्थूले भगवतो रूपे कृत्स्नब्रह्माण्डात्मके चित्तसंयमः कर्तव्य इत्याशयेन भुवनकोशं वर्णयति- नर्दानां पर्वतानां चेत्यादिना तत्सर्वं श्रुतवानसीत्यन्तेनाध्यायाष्टकेन ॥१॥

प्रमाणं च प्रमाणज्ञ पृथिव्या मम सर्वतः ।
निखिलेन समाचक्ष्व काननानि च सञ्जय ॥२॥

सञ्जय उवाच । पञ्चेमानि महाराज महाभूतानि सङ्ग्रहात् ।
जगतीस्थानि सर्वाणि समान्याहुर्मनीषिणः ॥३॥

तत्र तावत् पञ्चेमानि महाराजेत्यादिना तदेषां रूपमैश्वरमित्यन्तेन सर्वं वियदादिकं भगवदुपादानकत्वात् कुण्डलकनकन्यायेन भगवत एव रूपमिति प्रतिपादयति । महाभूतानि पृथिव्यादीनि तान्येव जगती कृत्स्नब्रह्माण्डरूपाणि पिण्डरूपाणि च तत्स्थानि च सर्वाणि चैतन्यपदवाच्यानि समानि तुल्यान्येव बहुत्वमुपाधिभेदाभिप्रायेण । न हि कुम्भद्रोण्याद्युपाधिष्वाकाशस्येव मशकमतङ्गजादिशरीरेषु चैतन्यस्य स्वतो विषमत्वं दृश्यते । तस्मात्सर्वाणि जगतीस्थानि समान्येव । वक्ष्यति च भगवान् ‘पण्डिताः समदर्शिनः’ इति ॥३॥

भूमिरापस्तथा वायुरग्निराकाशमेव च ।
गुणोत्तराणि सर्वाणि तेषां भूमिः प्रधानतः ॥४॥

भूमिरिति । वायोरग्निरिति श्रुतेरग्निहेतुर्वायुरग्नेः परो द्रष्टव्यः गुणोत्तराणि पूर्वपूर्वापेक्षया उत्तरमुत्तरमेकैकगुणाधिकं इदं च । ‘आकाशाद्वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी’ इति श्रूयमाणजन्मक्रमाभिप्रायेणोक्तम् ॥४॥

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः ।
भूमेरेते गुणाः प्रोक्ता ऋषिभिस्तत्त्ववेदिभिः ॥५॥

शब्दादयो गुणाः प्रसिद्धाः ॥५॥

चत्वारोऽप्सु गुणा राजन्गन्धस्तत्र न विद्यते ।
शब्दः स्पर्शश्च रूपं च तेजसोऽथ गुणास्त्रयः ।
शब्दः स्पर्शश्च वायोस्तु अकाशे शब्द एव तु ॥६॥

एते पञ्च गुणा राजन्महाभूतेषु पञ्चसु ।
वर्तन्ते सर्वलोकेषु येषु भूताः प्रतिष्ठिताः ॥७॥

एते पञ्चेति । महाभूतेषु पञ्चमहाभूतात्मकेषु सर्वेषु लोकेषु भोग्यवस्तुषु शरीरादिघटान्तेषु एते पञ्च गुणाः सन्ति । एते के। येषु गुणेषु भोक्तारो भूताः नित्यनिर्वृत्ताश्चेतनाः पुरुषाः प्रतिष्ठिताः देहेन्द्रियादीन् भोग्यानाधिष्ठाय चेतनाः शब्दादीनि भोग्यान्तराणि भुञ्जते देहादीनामपि भोगोपकरणत्वाद्भोग्यत्वमेव न भोक्तृत्वमित्यर्थः ॥७॥

अन्योन्यं नाभिवर्तन्ते साम्यं भवति वै यदा ॥८॥

अन्योन्यमिति । समस्य भावः साम्यं ब्रह्मभावः । ‘सम आत्मेति विद्यात्’ ‘निर्दोषं हि समं ब्रह्म’ इति श्रुतिस्मृत्योर्ब्रह्मणि समशब्ददर्शनात् । भोक्तृभोग्ययोर्यदा सुषुप्तिप्रलयसमाधिमोक्षेषु ब्रह्मभावो भवति । तदा ते उभे अन्योन्यं नाभिवर्तते व्यवहारतो विद्यमानमपि भोग्यं भोक्तारं नोपसर्पति । नापि भोक्ताऽलुप्तदृगपि भोगायतनस्य देहेन्द्रियादेरभावाद्भोग्यजातमुपसर्पतीत्यर्थः ॥८॥

यदा तु विषमीभावमाविशन्ति परस्परम् ।
तदा देहैर्देहवन्तो व्यतिरोहन्ति नान्यथा ॥९॥

यदा त्विति । भोगप्रदकर्मोद्भवकाले विषमीभावं साम्यात् प्रच्युतिमाविशन्ति प्राप्रुवन्ति । तदा त एव भोक्तारो भोग्यपदार्थश्च देहैः स्वस्वरूपैः देहवन्तो लब्धस्वरूपा भूत्वा तैरेव स्वै रूपैः परस्परं व्यतिरोह‌न्ति भोक्तारो भोग्येषु निपतन्ति । भोग्यार्थाश्च भोक्तरि सुक्ष्मरूपेण स्ववासनां जनयन्तीत्यर्थः ॥९॥

आनुपूर्व्या विनश्यन्ति जायन्ते चानुपूर्वशः ।
सर्वाण्यपरिमेयाणि तदेषां रूपमैश्वरम् ॥१०॥

आनुपूर्व्या भूम्यादिक्रमेण विनश्यन्ति जायन्ते च आनुपूर्वश आकाशादिक्रमेण । विपर्ययेण क्रमोऽत उपपद्यते चेतिन्यायेन सृष्टिक्रमविपरीतत्वात् संहारक्रमस्य अत एव उत्पत्तिविनाशशीलत्वादेव सर्वाण्येतानि भोक्तृभोग्यन्यपरिमेयाणि अनन्तानि मरीचिकोदकह्रदतुल्यत्वात् । न हि मरीचिकोदकमियत्प्रमाणामिति परिमातुं शक्यम् । यत एतान्यपरिमेयाणि तत्तस्माद्धेतोः एषां रूपम् ऐश्वरमेव न तु भौतिकं न ह्यध्यस्तस्याधिष्ठानादन्यद्रूपमस्ति । अत एव ‘सर्वं खल्विदं ब्रह्म’ ‘आत्मैवेदं सर्वं’ ‘ब्रह्मैवेदं सर्वम्’ इति सर्वस्य ब्रह्मभावश्रवणमुपपद्यत इत्यर्थः ॥१०॥

तत्र तत्र हि दृश्यन्ते धातवः पाञ्चभौतिकाः ।
तेषां मनुष्यास्तर्केण प्रमाणानि प्रचक्षते ॥११॥

अपरिमेयत्वमेवाह - तत्र तत्रेति । सिद्धा अपि यत्र ब्रह्माण्डं भित्वा गच्छन्ति तत्रापि वासनामया धातवो व्यक्तयः पाञ्चभौतिका दृश्यन्तेऽतोऽपरिमेया एव ते । एयं सत्यपि मनुष्या गणकादयस्तर्केण सूर्यगत्या देशभेदेन दिनमानभेदपादच्छायाभेदादिना च तेषां प्रमाणानि । एतच्चोपलक्षणम् आकारभेदस्यापि । तथाहि । केचित्कन्दुकाकारं केचिच्चतुरस्रं केचित्त्रिकोणं केचिच्चक्राकारं च भूमिसंस्थानं कल्पयन्ति । तथा प्रमाणभेदोऽपि जम्बूद्वीपपरिणाहगणकाः ‘तद्व्यासः कुभुजङ्गसायकभुवः सिद्धांशकेनाधिका’ इति वदन्ति । पञ्चदशशतान्येकाशीतियोजनानि । योजनचतुर्विंशांशसहितानि । तथा लक्षयोजनं तत्परिणाह इति पुराणान्तरे । अत्रापि ‘अष्टादशसहस्राणि षट्शतानि च’ इति वक्ष्यति ॥११॥

अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ।
प्रकृतिभ्यः परं यत्तु तदचिन्त्यस्य लक्षणम् ॥१२॥

कस्तर्ह्यत्र सिद्धान्त इत्याशङ्क्यानिर्वचनीय एवायमर्थो न तर्केण साधयितुं योग्य इत्याह - अचिन्त्या इति । ये भावाः जगज्जन्मोपादाननिमित्तपरिमाणधर्माधर्मादयः पदार्थाश्चिन्तयितुमयोग्यास्तान्न तर्केण साधयेत् नहि ते तर्केण साधयितुं शक्यन्ते । तर्कान्तरेण तस्य बाधसंभवात् तर्काप्रतिष्ठानात् इति न्यायाच्च । अत एवास्य श्लोकस्योत्तरार्द्धमन्यत्र पठन्ति - ‘नाप्रतिष्ठिततर्केण गंभीरार्थस्य निश्चयः’ इति । तथाहि । कन्दुकाकारे भुवनकोशे कल्प्यमाने ये कन्दुकपृष्ठे कमठपृष्ठोपमे तिष्ठन्ति तेषां कियानपि देशो जलपशुमनुष्याश्रययोग्योऽस्तीति वक्तुं युक्तं, ये तु तन्नितम्बे तदधश्च वसन्ति तेषां गुरुत्ववतामर्थानामधस्तादाश्रयाभावेनावश्यं पतनं भवतीति तावान्देशो रिक्त एवास्तीति वक्तव्यम् । तथा च तदाश्रया तत्कृता द्वीपान्तरकल्पना लोकदृष्टिविरुद्धेति पामरा अपि प्रतियन्ति । ननु यथा पृथिव्या अन्तरिक्षेऽवस्थानशक्तिर्दिगम्बरादन्यैः सर्वैर्वादिभिः कल्प्यते तथा वयमपि तस्या आकर्षणशक्तिमन्यां कल्पयामहे । यया सर्वदिक्स्थाः प्राणिनः पृथिवीं पादाधस्थामेव मन्यन्ते खं चोपरिस्थमिति । तर्हि लोकदृष्टिविरुद्धकल्पनापेक्षया सर्वप्राणिप्रत्यक्षस्वप्नमायेन्द्रजालादितुल्यतैवास्याः कुतो न कल्प्यत । ननु स्वप्नादिवदस्या बाधो न दृश्यत इति चेत् प्राक्ब्रह्मात्मज्ञानात् मादर्शि किं नश्छिनं श्रुत्या तु ज्ञाते द्वैतं न विद्यते। ‘नेह नानाऽस्ति किंचन’ इत्यादिकया ब्रह्मदर्शनेन रज्जुदर्शनेन सर्पस्येव प्रपञ्चबाध आम्नायते । तथा च निष्कलङ्कात् श्रुतिप्रमाणात् ब्रह्माद्वैतमेवादर्तव्यं न तु सकलङ्कात्तर्काज्जगतोऽनिर्वचनीयत्वमिति भावः ॥१२॥

सुदर्शनं प्रवक्ष्यामि द्वीपं तु कुरुनन्दन ।
परिमण्डलो महाराज द्वीपोऽसौ चक्रसंस्थितः ॥१३॥

तर्हि किमस्य प्रमाणं का वा आकृतिस्तवाभिमतेत्याशंक्याह - सुदर्शनमिति । सुदर्शनो नाम जम्बूवृक्षविशेषस्तन्नामाङ्कितोऽयं द्वीपः सुदर्शनद्वीपः । कृत्स्नं ब्रह्माण्डमित्यर्थः। तं प्रमाणत आकृतितश्च प्रकर्षेण वक्ष्यामि । तुशब्दः पक्षान्तरव्यावृत्त्यर्थः । परिमण्डलः परमाणुमात्रं परिमाणतो दुर्लक्ष्य इत्यर्थः । ‘एषोऽन्तरात्मा चेतसा वेदितव्यः’ इत्यात्मवदिति भावः । परिमण्डल इत्यस्य सर्वतोवृत्तरूपः कन्दुकाकार इति व्याख्याने प्रागेव दोष उक्तः । अथ चक्राकार इत्युच्यते चेन्न । चिपिटाकारे तस्मिन् परिमण्डलशब्दस्यायोगात् चक्रसंस्थित इत्यनेन चक्रवत् संस्थितं संस्थानमाकारोऽस्येत्यनेनैव सिद्धत्वाच्च । अयं हि शब्दस्तार्किकाणां परमाणुपरिमाणे प्रसिद्धः । न चानेन परिमाणेनोपेतं निरंशं वस्तु सिद्ध्यति यस्य कस्याप्यल्पपारिमाणस्य दशदिगवच्छेद्यप्रदेशभेदवत्त्वेन तस्यापि निरंशत्वायोगात् । न हि परमाणोः पूर्वदिगवच्छिन्नो देशः प्रतीच्याऽप्यवछिद्यत इति वक्तुं शक्यम् दृष्टविरोधात् । तस्मात्परिमण्डलशब्दो दुर्लक्ष्यसद्वस्तुमात्रवचनः । तार्किकाणां परमाणुरपि तादृश एव । तत्र पारिभाषिकपरिमाणकल्पनं प्रस्थानभेदापादनार्थं शून्यकारणतानिरासार्थं चेति दिक् । एवं सुदर्शनद्वीपस्य परिमाणमुक्त्वा आकारमाह - चक्रसंस्थित इति । परिदृश्यमानराष्ट्राकार इत्यर्थः । ’चक्रं राष्ट्रास्रयोरपि’ इति विश्वः ॥१३॥

नदीजालप्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः ।
पुरैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥१४॥

तदेव संस्थानमाह द्वाभ्यां नदीति ॥१४॥

वृक्षैः पुष्पफलोपेतैः सम्पन्नधनधान्यवान् ।
लवणेन समुद्रेण समन्तात्परिवारितः ॥१५॥

यथा हि पुरुषः पश्येदादर्शे मुखमात्मनः ।
एवं सुदर्शनद्वीपो दृश्यते चन्द्रमण्डले ॥१६॥

नन्वेवंविधस्य कथमतिसूक्ष्मत्वमुच्यतेऽत आह- यथा हीति । चन्द्रमण्डले चन्द्राधिष्ठिते मनसीत्यर्थः । यद्येतद्ब्रह्माण्डं महाप्रमाणं स्यात् कथं तर्हि गिरिगुहैकदेशस्थो योगी स्वीये सूक्ष्मे हृदयावकाशे तत्कृत्स्नमादर्शे मुखवत्पश्येत् । न ह्यल्पप्रमाणे सर्षपादौ महाप्रमाणानां मेर्वादीनां संनिवेशो युज्यते प्रपञ्चस्य स्वप्नादिवदनिर्वचनीयत्वाङ्गीकारं विनेति भावः ॥१६॥

द्विरंशे पिप्पलस्ततत्र द्विरंशे च शशो महान् ।
सर्वौषधिसमावायः सर्वतः परिवारितः ॥१७॥

द्विरंश इति । तत्र चन्द्रमण्डलाख्ये मनसि अंशे एकदेशे वृत्त्यानन्त्यादनन्तस्य मनस एकदेश एकाकारा सूक्ष्मा वृत्तिरंशस्तत्र द्विःकार्यकारणरूपेण स्थूलसूक्ष्मरूपेण वा द्विरावृत्तः पिप्पलो गीतासु वक्ष्यमाणः संसाराश्वत्थोऽस्ति । सर्वमेतन्मनोमात्रमित्यर्थः । द्विरंशे च शशो महान् चकारात्तत्रेत्यनुवर्तते तस्मिन्नेव मनसि महान् परमात्मा शश इव शशः प्लुतगतिः शीघ्रगामी मनसो जवीय इति । ‘तद्धावतोऽन्यानत्येति’ इति च श्रुतेः। अंशे एकदेशे द्विर्वर्तते नियम्यनियामकभावेनेत्यर्थः । तथा च कार्यकारणप्रपञ्चो जीव ईश्वरश्च परब्रह्मण्यधिष्ठाने मनसैव कल्पित इत्यर्थः ॥१७॥

आपस्ततोऽन्या विज्ञेयाः शेषः सङ्क्षेप उच्यते ।
ततोऽन्य उच्यते चायमेनं सङ्क्षेपतः श्रृणु ॥१८॥

अस्य शशस्य प्रत्यगभेदं वक्ष्यन् प्रपञ्चादिभ्यः पृथक्त्वमाह- आप इति । आप इत्यवुपलाक्षतं भूतपञ्चकमुच्यते । ‘आपः पुरुषवचसो भवन्ति‘ इत्यादि श्रुतौ तथा दर्शनात्। एतेन कृत्स्नं भूतभौतिकं कार्यं ततः शशादन्यत् । तर्हि कारणं वस्तु तदभिन्नं स्यादित्याशंक्याह - शेषः संक्षेप उच्यत इति । समस्तकार्यप्रलये सति शिष्यत इति शेषः कारणं तदपि संक्षेपः कार्यस्यैव सूक्ष्मं रूपमाकुञ्चितावयवकूर्मसमानमुच्यतेऽतोऽव्याकृतं कारणमप्याप इवानात्मैवेत्यर्थः । ततो व्याकृताव्याकृताद्द्वयादन्यः शशः शुद्धं ब्रह्म तदेव अयं प्रत्यगात्मा जीव इत्युच्यते वेदे ’तत्त्वमसि‘ ’अहं ब्रह्मास्मि‘ ‘अयमात्मा ब्रह्म’ इत्यादौ परमात्मन एव प्रत्यगात्मत्वमुच्यते । न ततोऽन्यो जीवो नाम कश्चिच्चिद्धातुरस्तीत्यर्थः । एनं प्रत्यगभिन्नं परमेश्वरं शशाख्यं संक्षेपतो मया प्रोच्यमानं शृणु ॥१८॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि सुदर्शनद्वीपवर्णने पञ्चमोऽध्यायः ॥५॥
अध्यायः - ००६

धृतराष्ट्र उवाच । उक्तो द्वीपस्य सङ्क्षेपो विधिवद्बुद्धिमंस्त्वया ।
तत्त्वज्ञश्चोसि सर्वस्य विस्तारं ब्रूहि सञ्जय ॥१॥

पिप्पलशशयोः स्वरूपश्रवणे स्वस्यानधिकारं पश्यन् स्थूलमेव तावत् भगवतो रूपं श्रोतुमिच्छन् धृतराष्ट्र उवाच - उक्तो द्वीपस्येति । द्वीपस्य विस्तरमिति सम्बन्धः ॥१॥

यावान्भूम्यवकाशोऽयं दृश्यते शशलक्षणे ।
तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥२॥

यावानिति । शशलक्षणे परमात्मनो ज्ञापके मायाशबले हार्दे ब्रह्मणि मायाकल्पितो भूम्यवकाशो यावान् व्यवहारदृष्ट्या सत्यवत्प्रतीयमानो योगिवरैर्दृश्यते तस्य प्रमाणं प्रबूहि । ननु कारणमेवादौ ज्ञातव्यं यज्ज्ञानात्सार्वज्ञ्यं भवतीति वेदे प्रसिद्धं किं द्वीपज्ञानेनेत्याशङ्क्याह- ततो वक्ष्यसि पिप्पलमिति । शशं च वक्ष्यसीति शेषः । प्रागेव कारणज्ञानात्तत्तद्विभूतिकार्यमेव वदेत्येतेन तत्रात्यन्तमादरो भवतीति भावः ॥२॥

वैशम्पायन उवाच । एवं राज्ञा स पृष्टस्तु सञ्जयो वाक्यमब्रवीत् ।
सञ्जय उवाच । प्रागायता महाराज षडेते वर्षपर्वताः ।
अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥३॥

प्रागायताः पूर्वपश्चिमसमुद्रस्पर्शिनः । अत्रेयं शास्त्रानुभवयोरविरोधेन भूकल्पना प्रतिभाति । यथा हस्तमात्रस्य चतुरस्त्रस्य चतुर्विंशत्यङ्गुलानि परिणाहः षण्नवत्यङ्गुलानि परिधिः किञ्चिन्न्यूनानि चतुस्त्रिंशदङ्गुलानि कर्णो भवति । एवम् अष्टादशसहस्राणि षट्शतानि च जम्बूपर्वसंज्ञिताया भुवः प्रमाणमुक्तम् । तदेवात्र परिधित्वेन कल्पितं तच्चतुर्थांशत्वेन चत्वारि सहस्राणि षट्शतानि पञ्चाशच्च योजनान्येकैको भुज इति तदेव समचतुरस्रस्य विष्कम्भप्रमाणं अस्य कर्णः शुल्बशास्त्रोक्तरीत्या षट्सहस्राणि पंचशतानि षट्सप्ततिश्च योजनानि तस्यास्य भूचतुरस्रस्य चतुर्भिः समुद्रैर्वेष्टितस्य कोणा दिक्षु वर्तन्ते । तेन दक्षिणस्यां दिशि रामसेतौ द्वयोः समुद्रयोः सन्धिः । एवमितरास्वपि दिक्षु समुद्रसन्धयो ज्ञेयाः । यस्त्वत्र ज्योतिर्विदां भूपरिधिः सप्ताङ्गनन्दाब्धियोजन ४९६७ संमितोऽभिमतः स एवास्माकं चतुरस्रविष्कम्भः खबाणरसवेदमितः ४६५० यत्तु एतयोरन्तरं सप्तेन्दुरामाः ३१७ तदपि यजमानेनोर्ध्वबाहुना प्रपदोच्छ्रितेन समपादस्थितेन वा उन्मितस्य सूत्रस्य यः पञ्चमोंऽशः स हस्त इति विकल्पस्य कात्यायनादिभिरुक्तत्वाद्धस्तप्रमाणभेदकल्पनया योजनबहुत्वाल्पत्ववचनेन समाधेयम् । तथाः भूमेश्चतुरस्रत्वेऽपि तन्मध्यस्थमत्युच्छ्रितं मेरुं प्रदक्षिणीकुर्वतः सूर्यस्य मार्गो मण्डलाकारोऽस्तीति न बौद्धाभिमतं सूर्यद्वयं कल्प्यं भवति । अन्यत् सर्वं युक्त्यविरुद्धं ज्योतिर्विन्मतमेवात्रानुसर्तव्यम्। यत्तु पुराणे पञ्चाशत्कोटियोजनं भूगोलप्रमाणमित्युक्तं तदप्यचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेदित्यनेनैव प्रत्युक्तम् । अव्यवस्थितत्वान्मतानामनिर्वचनीयवाद एव शरणीकरणीय इत्येव वरम् । यद्वा । सर्वत्र यत्प्रमाणं दृष्टं तद्विंशांशेन तद्बोध्यं तेन पञ्चाशत्कोटिस्थाने सार्द्धकोटिद्वयविस्तारा भूमिः । लक्षस्थाने पञ्चसहस्रविस्तारो जम्बूद्वीपः । नवसहस्रस्थाने सार्धचतुःशतयोजनायामं भरतखण्डमिति । आस्मन् पक्षे उदाहरिष्यमाणवैष्णवादिवाक्येभ्यो जम्बूद्वीपश्चतुर्दलकमलाकारः तस्याश्चान्तःपरिधिः षट्शताधिकान्यष्टादशयोजनसहस्राणि । त्रयस्त्रिंशच्छतानि मध्यव्यासः । तेन फलतः पञ्चसहस्रव्यासता ज्ञेया । एवं सति यदा प्रागायतो हिमाचलः पूर्वपश्चिमसमुद्रौ स्पृष्ट्वाऽस्ति तदाऽयं भरतवर्षस्त्रिकोणो भवति । तेन पृथिवी त्रिकोणेति लोकप्रवादोऽनुभवश्चानुसृतो भवति । अन्यथा भरतवर्षस्य धनुराकारत्वे भूमध्यरेखाया लङ्कातः सेतुमार्गेण प्रस्थितायाः । ‘पुरी रक्षसां देवकन्याऽथ काञ्चीसितः पर्वतः पर्यली वत्सगुल्मम् ॥ पुरी चोज्जयिन्याह्वया गर्गराटं कुरुक्षेत्रमेषा भुवो मध्यरेखा’ इति स्मर्यमाणया मध्यरेखया कुरुक्षेत्रस्य रामसेतुः सन्निहितो द्वारका च दूरे स्यात् । द्वारका समीपे सेतुश्च दूरे इति प्रत्यक्षमुपलभ्यते । भरतवर्षस्य त्रिकोणत्वमित्येषैव कल्पना साधीयसीति दिक् ॥३॥

हिमवान्हेमकूटश्च निषधश्च नगोत्तमः ।
नीलश्च वैदूर्यमयः श्वेतश्च शशिसन्निभः ॥४॥

सर्वधातुविचित्रश्च श्रृङ्गवान्नाम पर्वतः ।
एते वै पर्वता राजन्सिद्धचारणसेविताः ॥५॥

एषामन्तरविष्कम्भा योजनानि सहस्रशः ।
तत्र पुण्या जनपदास्तानि वर्षाणि भारत ॥६॥

एवं दक्षिणां दिशमारभ्य यावदुत्तरसमाप्ति षट् प्राक्पश्चिमायताः पर्वतास्तैश्च सप्तवर्षाणि भवन्ति मध्ये मध्ये वासयोग्यानि स्थानानि भवन्ति तेषां स्थानानां वर्षाख्यानामन्तरमाह - एषामिति । विष्कम्भः विस्तारः सहस्रशः शब्द एष शतशः शब्दपरः कर्तव्यः । लङ्काहिमाचलयोरनेकसहस्रयोजनान्तराभावात् षष्ट्यधिकशतचतुष्कयोजनसंमितस्यैवान्तरस्य प्रसिद्धेः । तत्रापि शतं सेतोः परतः षष्ट्यधिकत्रिशतं योजनानि सेतुतो हिमालय इति प्रत्यक्षसिद्धम् । वर्षाणि वर्षन्ति कामैः सिञ्चन्ति पूरयन्तीति वर्षाणि रम्यस्थानानि ॥६॥

वसन्ति तेषु सत्वानि नानाजातीनि सर्वशः ।
इदं तु भारतं वर्षं ततो हैमवतं परम् ॥७॥

वसन्त्येषु तानि वर्षाणीति योगान्तरमाह- वसन्तीति । हिमवतो दक्षिणे भारतं वर्षम् उत्तरतो हैमवतं वर्षं द्वितीयम् ॥७॥

हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ।
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥८॥

हेमकूटनिषधयोर्मध्ये हरिवर्षम् । निषधनीलयोर्मध्ये वर्षविभागमाह- दक्षिणेनेति । दक्षिणेन दक्षिणतः समीप इत्यर्थः । एवमुत्तरेणेत्यादौ ज्ञेयम् ॥८॥

प्रागायतो महाभाग माल्यवान्नाम पर्वतः ।
ततः परं माल्यवतः पर्वतो गन्धमादनः ॥९॥

नीलनिषधयोर्मध्ये मेरुस्तस्य प्राक् माल्यवान् पूर्वसमुद्रावधिः पश्चिमसमुद्रावधिर्गन्धमादन इत्यर्थः॥९॥

परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ।
आदित्यतरुणाभासो विधूम इव पावकः ॥१०॥

परिमण्डलशब्दस्य पूर्वोक्त एवार्थः । अत्याश्चर्यमयो मेरुः प्रतिक्षणं नवो नव इत्यर्थः । आदित्यतरुणो बालादित्यः ॥१०॥

योजनानां सहस्राणि चतुरशीतिरुच्छ्रितः ।
अधस्ताच्चतुरशीतिर्योजनानां महीपते ॥११॥

चतुरशीतिसहस्त्रस्थाने द्विचत्वारिंशच्छती उच्छ्रायो बोध्यः अधस्तात् भूमेर्गर्भे ॥११॥

ऊर्ध्वंमधश्च तिर्यक्व लोकानावृत्य तिष्ठति ।
तस्य पार्श्वेष्वमी द्वीपाश्चत्वारः संस्थिता विभो ॥१२॥

तस्य पार्श्वेष्विति । पार्श्वेषु चतुर्दिक्षु द्वीपा इव द्वीपाः नद्यन्तरत्वाद्वर्षाणि ॥१२॥

भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत ।
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥१३॥

भद्राश्वादिसाहचर्याज्जम्बूद्वीपशब्दोऽत्र भरतवर्षपरस्तस्य तत्सारत्वज्ञापनार्थः । तानेव स्तौति - कृतपुण्यप्रतिश्रया इत्यादिना । कृता विहिताः पुण्यैः पुण्यवद्भिः प्रतिश्रया आश्रमा येषु ते ॥१३॥

विहगः सुमुखो यस्तु सुपर्णस्यात्मजः किल ।
स वै विचिन्तयामास सौवर्णान्वीक्ष्य वायसान् ॥१४॥

तत्र सुमुखाख्येन पक्षिणा मेरुं त्यक्त्वा प्रश्रयः कृत इत्याह - विहग इति द्वाभ्याम् ॥१४॥

मेरुरुत्तममध्यानामधमानां च पक्षिणाम् ।
अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥१५॥

एनं त्यजामि त्यक्त्वा उत्तरान् कुरूनेव गच्छामीति शेषः ॥१५॥

तमादित्योऽनुपर्येति सततं ज्योतिषां वरः ।
चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणः ॥१६॥

तं मेरुमादित्योऽनुपर्येति प्रदक्षिणीकरोति ॥१६॥

स पर्वतो महाराज दिव्यपुष्पफलान्वितः ।
भवनैरावृतः सर्वैर्जाम्बूनदपरिष्कृतैः ॥१७॥

तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः ।
अप्सरोगणसंयुक्ताः शैले क्रीडन्ति सर्वदा ॥१८॥

तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः ।
समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥१९॥

तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः ।
अभिगम्यामरश्रेष्ठांस्तुष्टुवुर्विविधैः स्तवैः ॥२०॥

सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ।
तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥२१॥

तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते ।
इमानि तस्य रत्नानि तस्येमे रत्नपर्वताः ॥२२॥

काव्यः कविश्रेष्ठः शुक्रो रमत इति शेषः । तस्य काव्यस्य ॥२२॥

तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्रुते ।
ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥२३॥

तस्मात् काव्यात् ततः कुबेरात् कलांशं षोडशभागस्यापि लेशम् ॥२३॥

पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमैश्चितम् ।
कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥२४॥

कर्णिकारा राजवृक्षास्तेषां वनम् ॥२४॥

तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः ।
उमासहायो भगवान्रमते भूतभावनः ॥२५॥

कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् ।
त्रिभिर्नेत्रैः कृतोद्योतस्त्रिभिः सूर्यैरिवोदितैः ॥२६॥

तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ।
पश्यन्ति नहि दुर्वृत्तैः शक्यो द्रुष्टुं महेश्वरः ॥२७॥

तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर ।
विश्वरूपा परिमिता भीमनिर्घातनिःस्वना ॥२८॥

क्षीरवत् श्वेता धारा यस्याः सा गङ्गा विश्वरूपा । विश्वो विष्णुस्तद्रूपा । तथा च स्मरन्ति - ‘योऽसौ सर्वगतो विष्णुश्चित्स्वरूपी निरञ्जनः । स एव द्रवरूपेण गङ्गाम्भो नात्र संशयः’ इति ॥२८॥

पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा ।
प्लवन्तीव प्रवेगेन ह्रदे चन्द्रमसः शुभे ॥२९॥

तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ।
तां धारयामास तदा दुर्धरां पर्वतैरपि ॥३०॥

तयैव प्रवेगेन मेरुप्राकाररात् पतनजनितबलेन खनन्त्या सह्रद उत्पादित इति सम्बन्धः ॥३०॥

शतं वर्षसहस्राणां शिरसैव महेश्वरः ।
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ॥३१॥

जम्बूखण्डे तु तत्रैव महाजनपदो नृप ।
आयुर्दशसहस्राणि वर्षाणां तत्र भारत ॥३२॥

सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ।
अनामया वीतशोका नित्यं मुदितमानसाः ॥३३॥

सुवर्णवर्णाः गौराः ॥३३॥

जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः ।
गन्धमादनश्रृङ्गेषु कुबेरः सह राक्षसैः ॥३४॥

निष्टप्तेति । पतिभास्वरा इत्यर्थः ॥३४॥

संवृतोऽप्सरसां सङ्घैर्मोदते गुह्यकाधिपः ।
गन्धमादनपार्श्वे तु परे त्वपरगण्डिकाः ॥३५॥

अपरगण्डिकाः अन्ये गन्धमादनस्यैवावयवभूता बुद्बुदोपमाः क्षुद्रशैलाः । ‘गण्डो भूषणबुद्बुदे’ इति मेदिनी । स्वार्थिकः कः ॥३५॥

एकादशसहस्राणि वर्षाणां परमायुषः ।
तत्र हृष्टा नरा राजंस्तेजोयुक्ता महाबलाः ।
स्त्रियश्चोत्पलवर्णाभाः सर्वाः सुप्रियदर्शनाः ॥३६॥

उत्पलवर्णेन आभान्ति ताः उत्पलवर्णाभाः ॥३६॥

नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् ।
वर्षमैरातं राजन्नानाजनपदावृतम् ॥३७॥

नीलात्परतरमिति । नीलोत्पलधरमित्यपपाठः । एवं हिमवतो दक्षिणे भरतवर्षं तदुत्तरे हैमवतं वर्षं हेमकूटादुत्तरे हरिवर्षम् । निषधादुत्तरे नीलाच्च दक्षिणे मेरोः परित इलावृत्तमेकमेव चतुर्थं वर्षम् । अत्रैव केचिद्भद्राश्वकेतुमालयोर्वर्षान्तरत्वं प्रकल्प्य नववर्षाणीत्याचक्षते । ततो नीलात् पर्वतादुत्तरतः श्वेतं पञ्चमं वर्षम् । श्वेतात् पर्वतादुत्तरतो हैरण्यकं वर्षं षष्ठम् । ततः शृङ्गवत्पर्वतादैरावतं सप्तमं वर्षम् ॥३७॥

धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे ।
इलावृत्तं मध्यमं तु पञ्च वर्षाणि चैव हि ॥३८॥

धनुःसंस्थे धनुष्कोटी संस्थाशब्दः समाप्तिवचनः । सन्तिष्ठतेऽग्निहोत्रमित्यादिप्रयोगदर्शनात् । तेन मिश्रितधनुष्कोटिद्वयाकारे इत्यर्थः । शार्ङ्गस्य हि धनुषो द्वे कोटी एकीकृते भवतस्तदा मध्ये किञ्चिन्नतं त्रिकोणं भवति । अत एव रामसेतौ धनुष्कोटिशब्देनैव रत्नाकरमहोदध्याख्यसमुद्रद्वयसङ्गमप्रदेशो व्यवह्रियते एवमाकारं दक्षिणे भरतवर्षमुत्तरे ऐरावतं च मध्ये पञ्चेति सप्तवर्षाणि ॥३८॥

उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ।
आयुःप्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ॥३९॥

समन्वितानि भूतानि तेषु वर्षेषु भारत ।
एवमेषा महाराज पर्वतैः पृथिवी चिता ॥४०॥

समन्वितानि भिन्नभावेन सङ्गतानि ॥४०॥

हेमकूटस्तु सुमहान् कैलासो नाम पर्वतः ।
यत्र वैश्रवणो राजन् गुह्यकैः सह मोदते ॥४१॥

हेमेति । हेमकूट एव कैलासस्तस्योत्तरे मैनाकस्तस्योत्तरतो हिरण्यशृङ्गः एतयोरन्तराले बिन्दुसरोऽस्तीति श्लोकत्रयार्थः ॥४१॥

अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति ।
हिरण्यश्रृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥४२॥

तस्य पार्श्वे महद्दिव्यं शुभ्रं काञ्चनवालुकम् ।
रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥४३॥

दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ।
यूपा मणिमयास्तत्र चैत्याश्चापि हिरण्मयाः ॥४४॥

तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ।
स्रष्टा भूतपतिर्यत्र सर्वलोकैः सनातनः ॥४५॥

उपास्यते तिग्मतेजा यत्र भूतैः समन्ततः ।
नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥४६॥

भूतपती रुद्रः ॥४६॥

तत्र दिव्या त्रिपथगा प्रथमं तु प्रतिष्ठिता ।
ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ॥४७॥

वस्वौकसारा नलिनी पावनी च सरस्वती ।
जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ॥४८॥

पावनी सरस्वतीत्येका ॥४८॥

अचिन्त्या दिव्यसङ्काशा प्रभोरेषैव संविधिः ।
उपासते यत्र सत्रं सहस्रयुगपर्यये ॥४९॥

प्रभोरीश्वरस्यैष सप्तनद्यात्मकः संविधिः समीचीनं लोकोपकारार्थं विधानम् । एषैवेति सन्धिरार्षः । कारुण्यात् परमेश्वरेण पावनाः पदार्थाः निर्मिता इत्यर्थः ॥४९॥

दृश्याऽदृश्या च भवति तत्र तत्र सरस्वती ।
एता दिव्या सप्तगङ्गास्त्रिषु लोकेषु विश्रुताः ॥५०॥

रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः ।
सर्पा नागाश्च निषधे गोकर्णं च तपोवनम् ॥५१॥

देवासुराणां सर्वेषां श्वेतपर्वत उच्यते ।
गन्धर्वा निषधे नित्यं नीले ब्रह्मर्षयस्तथा ।
श्रृङ्गवांस्तु महाराज देवानां प्रतिसञ्चरः ॥५२॥

श्वेतपर्वतः स्थानमिति शेषः । गन्धर्वा वसन्तीति शेषः । प्रतिसञ्चरः व्यवहारस्थानम् ॥५२॥

इत्येतानि महाराज सप्त वर्षाणि भागशः ।
भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥५३॥

इतीति । वर्षाणि तत्र उपनिविष्टानि गतिमन्ति जङ्गमानि ध्रुवाणि स्थावराणि च सर्वाणि भूतान्येव सर्वं दृश्यमाश्रयाश्रितरूपं पाञ्चभौतिकमेवेत्यर्थः ॥५३॥

तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी ।
अशक्या परिसङ्ख्यातुं श्रद्धेया तु बुभूषता ॥५४॥

बुभूषता श्रेयः प्राप्तुमिच्छता श्रद्धेया अदृष्टेष्वर्थेषु श्रद्धावान् हि तत्प्राप्त्यर्थं चोदितानि कर्माणि करोति न त्वश्रद्दधान इत्यर्थः ॥५४॥

यां तु पृच्छसि मां राजन्दिव्यामेतां शशाकृतिम् ।
पार्श्वे शशस्य द्वे वर्षे उक्ते ये दक्षिणोत्तरे ।
कर्णौ तु नगद्वीपश्च काश्यपद्वीप एव च ॥५५॥

एवं भूसंस्थानमुक्त्वा एतदेव परमात्मनः शरीरमिति चिन्तनीयमित्याशयेनाह - यां त्विति । दिवि मायाशबले भवां दिव्यां मायिकीं शशस्य चिदात्मनः आकृतिं पिप्पलाख्याम् । ततो वक्ष्यसि पिप्पलमिति पूर्वं त्वयैवोक्तत्वात् इदानीं पृच्छसि अवसरं प्राप्य वक्ष्यसि वर्तमानसामीप्ये वर्तमानवन्निर्देशः। तामहं त्वयाऽपृष्टामपि वक्ष्यामीति शेषः। तामेवाह - पार्श्वे इति । भुक्तस्यान्नादेः सङ्ग्रहस्थानं पार्श्वद्वयं यथा एवं कर्मसञ्चयस्थानं भरतवर्षमेकं परमेश्वरस्य दक्षिणपार्श्वत्वेन ज्ञेयम् । तथा ऐरावतवर्षमपि योगसञ्चयस्थानमुत्तरपार्श्वत्वेन ज्ञेयम् । तत्र हि ब्रह्मलोकच्युता योगभ्रष्टा विदेहप्रकृतिलयाख्या एव जायन्ते । ते च पूर्वसंस्कारात्पुनर्योगमभ्यस्यन्ति । भरतवर्षं तु कर्मयोगयोरप्यनुष्ठानाय योग्यमिति दक्षिणकुक्षित्वेनाभ्यर्हितत्वमस्य सूचितम् । यथा लौकिके शशशरीरे कर्णावत्युच्छ्रितं स्थानं तत्तुल्यौ परमेश्वरशरीरे नागद्वीपकाश्यपद्वीपौ क्रमेण दक्षिणोत्तरौ । अर्चिरादिमार्गप्राप्यः सत्यलोको योगिप्राप्यः । धूमादिमार्गप्राप्यो देवलोकः । कर्मप्राप्यश्च विश्वकोशे । ‘नागं तु सीसके रङ्गे’ इत्युपक्रम्य ‘श्रेष्ठे स्यादुत्तरस्थिते’ इति सर्वोपरिस्थे श्रेष्ठे हिरण्यगर्भे नागशब्दप्रयोगदर्शनात्तस्य द्वीप इव द्वीपो लोक इतरैरगम्य इति नागद्वीपः सत्यलोकः । तथा कश्यं मद्यं सुरासोमादिरूपं मादकं क्रतौ ये पिबन्ति ते कश्यपाः कर्मिणस्तेषामयं काश्यपद्वीपः स्वर्गः । एवं शशस्य कुक्षिकर्णानुसारेण ये ब्रह्माण्डे उच्चप्रदेशास्ते कुक्ष्युपरिभागत्वेन ये वाऽधःप्रदेशास्ते कुशेरधोभागत्वेन च कल्पनीयाः तथा च श्रुतिः- ‘अग्निर्मूर्द्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’ इति । अत्रापि चन्द्रसूर्यपदेन कृष्णशुक्लमार्गावेव गृह्येते । दिक्शब्देन च तत्प्राप्यौ शशकर्णस्थानीयौ देशभेदाविति ज्ञेयम् ॥५५॥

ताम्रपर्णशिलो राजञ्छ्रीमान्मलयपर्वतः ।
एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥५६॥

एवं शशस्य मायिकं बाह्यं प्रथमं रूपमुक्तं तद्वासनोत्थं द्वितीयमान्तरं रूपमाह- ताम्रेति । रञ्जनात्मकत्वात् रक्तं रजस्ताम्रशब्दितं तत्प्रधानं मनोऽपि ताम्रमेव । तन्मयानि पर्णोपलक्षितानि वस्त्रान्नपानफलपुष्पादीनि शिलोपलक्षितानि हर्म्यादीनि च यत्रासौ ताम्रपर्णशिलः अत एव श्रीमान् मलयपर्वतः मलयेषु आरामेषु पर्वत इव उच्छ्रितः श्रेष्ठतम आराम इत्यर्थः । ‘मलयो देश आरामः ’इति विश्वः । ‘आराममस्य पश्यन्ति न तं पश्यति कश्चन’ इति बृहदारण्यकषष्ठे स्वाप्नप्रपञ्चे आरामपदप्रयोगदर्शनात् । एतत् मलयरूपं द्वीपस्य जम्बूखण्डस्य द्वितीयं वासनामयं शशसंस्थितं शशस्वरूपम् । एतेन ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च’ इति श्रुतिप्रसिद्धे स्थूलसूक्ष्मे परमेश्वरस्य द्वे रूपे चिन्त्यत्वेन दर्शिते । ते उभे धृतराष्ट्रेणापि चिन्तनीये इति वक्तुराशयः ॥५६॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि भूम्यादिपरिमाणविवरणे षष्ठोऽध्यायः ॥६॥
अध्यायः - ००७

धृतराष्ट्र उवाच । मेरोरथोत्तरं पार्श्वं पूर्वं चाचक्ष्व सञ्जय ।
निखिलेन महाबुद्धे माल्यवन्तं च पर्वतम् ॥१॥

एवमुक्तेऽपि ध्यानमार्गे चित्तदोषेणानधिकारात् कर्मप्राप्याण्येव स्वर्गच्युतानां स्थानानि पृच्छति - मेरोरिति ॥१॥

सञ्जय उवाच । दक्षिणेन तु नीलस्य मेरोः पार्श्वे तथोत्तरे ।
उत्तराः कुरवो राजन्पुण्याः सिद्धनिषेविताः ॥२॥

तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ।
पुष्पाणि च सुगन्धीनि रसवन्ति फलानि च ॥३॥

मधुफलाः स्वादुफलाः ॥३॥

सर्वकामफलास्तत्र केचिद्वृक्षा जनाधिप ।
अपरे क्षीरिणो नाम वृक्षास्तत्र नराधिप ॥४॥

ये क्षरन्ति सदा क्षीरं षड्रसं चामृपोतमम् ।
वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥५॥

सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका ।
सर्वर्तुसुखसंस्पर्शा निष्पङ्का च जनाधिप ।
पुष्करिण्यः शुभास्तत्र सुखस्पर्शा मनोरमाः ॥६॥

देवलोकच्युताः सर्वे जायन्ते तत्र मानवाः ।
शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः ॥७॥

शुक्लाभिजनो विष्णुभक्तजनस्तेन संपन्नास्तत्सङ्गिनः ॥७॥

मिथुनानि च जायन्ते स्त्रियश्चाप्सरसोपमाः ।
तेषां ते क्षीरिणां क्षीरं पिबन्त्यमृतसन्निभम् ॥८॥

मिथुनं जायते काले समं तच्च प्रवर्धते ।
तुल्यरूपगुणोपेतं समवेषं तथैव च ॥९॥

एवमेवानुरूपं च चक्रवाकसमं विभो ।
निरामयाश्च ते लोका नित्यं मुदितमानसाः ॥१०॥

चक्रवाकौ सहचरौ पक्षिदम्पती ॥१०॥

दश वर्षसहस्राणि दश वर्षशतानि च ।
जीवन्ति ते महाराज न चान्योऽन्यं जहत्युत ॥११॥

न जहति सममेव द्वावपि शरीरं त्यजत इत्यर्थः ॥११॥

भारुण्डा नाम शकुनास्तीक्ष्णतुण्डा महाबलाः ।
तान्निर्हरन्तीह मृतान्दरीषु प्रक्षिपन्ति च ॥१२॥

उत्तराः कुरवो राजन्व्याख्यातास्ते समासतः ।
मेरोः पार्श्वमहं पूर्वं वक्ष्याम्यथ यथातथम् ॥१३॥

तस्य मूर्धाभिषेकस्तु भद्राश्वस्य विशाम्पते ।
भद्रसालवनं यत्र कालाम्रश्च महाद्रुमः ॥१४॥

मूर्धाभिषेको मूर्धाभिषिक्तं मुख्यमिति यावत् ॥१४॥

कालाम्रस्तु महाराज नित्यपुष्पफलः शुभः ।
द्रुमश्च योजनोत्सेधः सिद्धचारणसेवितः ॥१५॥

तत्र ते पुरुषाः श्वेतास्तेजोयुक्ता महाबलाः ।
स्त्रियः कुमुदवर्णाश्च सुन्दर्यः प्रियदर्शनाः ॥१६॥

चन्द्रप्रभाश्चन्द्रवर्णाः पूर्वचन्द्रनिभाननाः ।
चन्द्रशीतलगात्र्यश्च नृत्यगीतविशारदाः ॥१७॥

दश वर्षसहस्राणि तत्रायुर्भरतर्षभ ।
कालाम्ररसपीतास्ते नित्यं संस्थितयौवनाः ॥१८॥

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥१९॥

सर्वकामफलः पुण्यः सिद्धचारणसेवितः ।
तस्य नाम्ना समाख्यातो जम्बूद्वीपः सनातनः ॥२०॥

योजनानां सहस्त्रं च शतं च भरतर्षभ ।
उत्सेधो वृक्षराजस्य दिवस्पृङ्मनुजेश्वर ॥२१॥

योजनानामिति । अत्राप्येकादशशत्या विंशोंऽशः पञ्चपञ्चाशत् ॥२१॥

अरत्नीनां सहस्रं च शतानि दश पञ्च च ।
परिणाहस्तु वृक्षस्य फलानां रसभेदिनाम् ॥२२॥

एवं सति सार्धसहस्त्रद्वयमरत्नीनां तस्य परिणाहो यत्र तत्र सपादशतम् अरत्नयः फलपरिणाहो युज्यते रसभेदिनां कर्कटीफलवत् पक्वतादशायां भेदशीलानाम् ॥२२॥

पतमानानि तान्युर्वीं कुर्वन्ति विपुलं स्वनम् ।
मुञ्चन्ति च रसं राजंस्तस्मिन्रजतसन्निभम् ॥२३॥

तस्या जम्ब्वाः फलरसो नदी भूत्वा जनाधिप ।
मेरुं प्रदक्षिणं कृत्वा सम्प्रयात्युत्तरान्कुरून् ॥२४॥

तत्र तेषां मनःशान्तिर्न पिपासा जनाधिप ।
तस्मिन्फलरसे पीते न जरा बाधते च तान् ॥२५॥

तत्र जाम्बूनदं नाम कनकं देवभूषणम् ।
इन्द्रगोपकसङ्काशं जायते भास्वरं तु तत् ॥२६॥

तरुणादित्यवर्णाश्च जायन्ते तत्र मानवाः ।
तथा माल्यवतः श्रृङ्गे दृश्यते हव्यवाट् सदा ॥२७॥

नाम्ना संवर्तको नाम कालाग्निर्भरतर्षभ ।
तथा माल्यवतः श्रृङ्गे पूर्वपूर्वानुगण्डिका ॥२८॥

गण्डिका क्षुद्रपर्वतः ॥२८॥

योजनानां सहस्राणि पञ्चषण्माल्यवानथ ।
महारजतसङ्काशा जायन्ते तत्र मानवाः ॥२९॥

पञ्चषट् पञ्चाधिकाः षट् एकादशेत्यर्थः । महारजतं काञ्चनं तत्सङ्काशाः ॥२९॥

ब्रह्मलोकच्युताः सर्वे सर्वे सर्वेषु साधवः ।
तपस्तप्यन्ति ते तीव्रं भवन्ति ह्यूर्ध्वरेतसः ।
रक्षणार्थं तु भूतानां प्रविश्यन्ते दिवाकरम् ॥३०॥

ब्रह्मलोकेति । ये इतः कर्मणा ब्रह्मलोकं गतास्ते ततश्च्युताः सन्तो माल्यवति पर्वते जन्म लब्ध्वा भूतानां रक्षणार्थं तपस्तप्त्वा दिवाकरं प्रविशन्ते तत्समीपं प्राप्नुवन्ति ॥३०॥

षष्टिस्तानि सहस्राणि षष्टिरेव शतानि च ।
अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥३१॥

षष्टिं वर्षसहस्राणि षष्टिमेव शतानि च ।
आदित्यतापतप्तास्ते विशन्ति शशिमण्डलम् ॥३२॥

तत्रापि आदित्यालोकेन कृत्स्नं विराट्पुरुषं बहुकालमुपास्य चन्द्रं मनसोऽधिष्ठातारं प्रविशन्ति सूत्रात्मभावं प्राप्नुवन्तीत्यर्थः ॥३२॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि माल्यवद्ववर्णने सप्तमोऽध्यायाः ॥७॥
अध्यायः - ००८

धृतराष्ट्र उवाच । वर्षाणां चैव नामानि पर्वतानां च सञ्जय ।
आचक्ष्व मे यथातत्त्वं ये च पर्वतवासिनः ॥१॥

वर्षाणामिति ॥१॥

सञ्जय उवाच । दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण तु ।
वर्षं रमणकं नाम जायन्ते तत्र मानवाः ॥२॥

दक्षिणेन त्विति । यद्यपि श्वेतस्य दाक्षिणे नीलस्तस्य दक्षिणे निषधस्तथाऽपि निषधोत्तरत्वमस्त्येवेत्यविरोधः । रमणकं यत्पूर्वं नीलादुत्तरतः श्वेताद्दक्षिणतश्च श्वेतवर्षमित्युक्तं तस्यैव रमणकमिति संज्ञान्तरम् । दक्षिणेन तु नीलस्य नीलमाल्यवतोर्नीलगन्धमादनयोश्च सन्धावित्यर्थः । निषधस्योत्तरेण तथैव तयोरेव सन्धिद्वय इत्यर्थः ॥२॥

शुक्लाभिजनसम्पन्नाः सर्वे सुप्रियदर्शनाः ।
निःसपत्नाश्च ते सर्वे जायन्ते तत्र मानवाः ॥३॥

दश वर्षसहस्राणि शतानि दश पञ्च च ।
जीवन्ति ते महाराज नित्यं मुदितमानसाः ॥४॥

दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ।
वर्षं हिरण्मयं नाम यत्र हैरण्वती नदी ॥५॥

यत्र चायं महाराज पक्षिराट् पतगोत्तमः ।
यक्षानुगा महाराज धनिनः प्रियदर्शनाः ॥६॥

महाबलास्तत्र जना राजन्मुदितमानसाः ।
एकादशसहस्राणि वर्षाणां ते जनाधिप ॥७॥

आयुःप्रमाणं जीवन्ति शतानि दश पञ्च च ।
श्रृङ्गाणि च विचित्राणि त्रीण्येव मनुजाधिप ॥८॥

शृङ्गाणि शृङ्गवतः षष्ठस्य वर्षपर्वतस्य सानूनि ॥८॥

एकं मणिमयं तत्र तथैकं रौक्ममद्भुतम् ।
सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥९॥

तत्र स्वयंप्रभा देवी नित्यं वसति शाण्डिली ।
उत्तरेण तु श्रृङ्गस्य समुद्रान्ते जनाधिप ॥१०॥

शृङ्गस्य शृङ्गवतः ॥१०॥

वर्षमैरावतं नाम तस्माच्छृङ्गमतः परम् ।
न तत्र सूर्यस्तपति न जीर्यन्ते च मानवाः ॥११॥

शृङ्गं शृङ्गवत् यस्मात् सर्वधातुविचित्रश्च शृङ्गवान्नाम पर्वत इत्युक्तमहिम्ना पर्वतेन परिच्छन्नमिदमैरावताख्यं वर्षं तस्मात् । अतः पूर्वोक्ताद्वर्षगणात् परं श्रेष्ठमिदं वर्षमित्यर्थः । एतदेवाह - न तत्रेत्यादिना ॥११॥

चन्द्रमाश्च सनक्षत्रो ज्योतिर्भूत इवावृतः ।
पद्मप्रभाः पद्मवर्णाः पद्मपत्रनिभेक्षणाः ॥१२॥

पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ।
अनिष्पन्दा इष्टगन्धा निराहारा जितेन्द्रियाः ॥१३॥

अनिष्यन्दा अस्वेदाः देवतुल्या इत्यर्थः ॥१३॥

देवलोकच्युताः सर्वे तथा विरजसो नृप ।
त्रयोदशसहस्राणि वर्षाणां ते जनाधिप ॥१४॥

आयुःप्रमाणं जीवन्ति नरा भरतसत्तम ।
क्षीरोदस्य समुद्रस्य तथैवोत्तरतः प्रभुः ।
हरिर्वसति वैकुण्ठः शकटे कनकामये ॥१५॥

आदित्यतापतप्तास्ते विशन्ति शशिमण्डलमिति विराड्भावं त्यक्त्वा सूत्रात्मभावं गच्छन्तीत्युक्तं स्थूलसूक्ष्मरूपं कार्यद्वयम् । इदानीं पिप्पलं तु वदिष्यसीत्युक्तः सञ्जयोऽवसरं प्राप्य पिप्पलाख्यं कारणमप्याह - क्षीरोदस्येति । तत्राधिदैवं लवणेक्षुसुरासर्पिर्दधिक्षीरशुद्धोदकानां सप्तसमुद्राणामुपान्त्यः क्षीरोदः अध्यात्मम् । अन्नमयः कोश आत्मा प्राणमयस्तु इन्द्रियमयप्राणमयभेदेन द्विविध इति द्वौ । चतुर्थो मनोमयः । पञ्चमोविज्ञानमयः । षष्ठ आनन्दमयः । सर्वकारणभूतः सप्तमः । शुद्धं ब्रह्मेति । तत्र क्षीरोदात्परतो महाविष्णोर्जगज्जन्मादिहेतोः स्थानमस्ति यदिदं दहराद्युपासकैः प्राप्यते । यत्रारण्यश्चार्णवौ यत्र प्रभुविमितं हिरण्मयं वेश्म यत्राश्वत्थसोमसवन इत्यादि चिह्नमुक्तं श्रुतिप्रसिद्धं स प्रभुरन्तर्यामी हरिः सर्वसंहर्ता वैकुण्ठोऽकुण्ठितसामर्थ्यः शकटे शकटवदचेतने कनकामये कनकवद्भास्वरज्योतिर्मये । ‘अन्येभ्योऽपि दृश्यते’ इति दीर्घः । चिन्मये शरीरे वसति ॥१५॥

अष्टचक्रं हि तद्यानं भूतयुक्तं मनोजवम् ।
अग्निवर्णं महातेजो जाम्बूनदविभूषितम् ॥१६॥

अस्य वस्तुवृत्त्या यद्यपि चिन्मयत्वं तथापि हि लोकप्रसिद्धम् अष्टचक्रम् अष्टाभिर्भगवत्तनुभिरुह्यत इति अष्ठचक्रं यानम् इहलोकपरलोकगतिसाधनम् । अष्टौ चक्राणि तु कर्मेन्द्रियपञ्चकं ज्ञानेन्द्रियपंचकं मन आदिचतुष्कं प्राणपञ्चकं सूक्ष्मभूतपञ्चकं अविद्या कामः कर्म चेति पुर्यष्टकात्मकं लिङ्गं शकटवदचेतनमचलमपि भूतयुक्तं भूतेन नित्यसिद्धेन ब्रह्मणा अनुप्रविष्टं सत् मनोजवं शीघ्रगं भवति प्राणनादिक्रियाः करोतीत्यर्थः । अत एव श्रूयते ‘को ह्येवान्यात्कः प्राण्यात् यदेष आकाश आनन्दो न स्यात्’ इति । अग्निवर्ण अग्निवत् वर्णो वर्णना यस्य । अत्यन्तं संसारदुःखप्रद‌मित्यर्थः । महातेजः अनेकविधज्ञानेन्द्रियप्रधानम् । जाम्बूनदं दिव्यसुवर्णं चेतोहरणं वासनाजालं तेन विभूषितं तन्मयमित्यर्थः । अधिदैवं तु स्पष्ट एवार्थः ॥१६॥

स प्रभुः सर्वभूतानां विभुश्च भरतर्षभ ।
सङ्क्षेपो विस्तरश्चैव कर्ता कारयिता तथा ॥१७॥

स प्रभुरिति । योऽस्मिन् शकटे वसति स एव सर्वेषां जीवानां प्रभुर्नियन्ता । विभुर्व्यापकः । सङ्क्षेपः संहर्ता । विस्तरः सस्यक्विरचयिता । कर्ता जीवरूपेण । कारयिता ईश्वररूपेण ॥१७॥

पृथिव्यापस्तथाऽऽकाशं वायुस्तेजश्च पार्थिव ।
स यज्ञः सर्वभूतनामास्यं तस्य हुताशनः ॥१८॥

एवमध्यात्मादिदैवरूपत्वमुक्त्त्वा अधिभूताधियज्ञरूपत्वमपि तस्यैवाह - पृथिचीति । सर्वेषां भूतानां सम्बन्धी यथाधिकारं निर्वर्त्यो यज्ञः स एव आस्यं तस्य हुताशनः । विशेषतस्तु स यज्ञेनैव तृप्यतीति भावः ॥१८॥

वैशम्पायन उवाच । एवमुक्तः सञ्जयेन धृतराष्ट्रो महामनाः ।
ध्यानमन्वगमद्राजन् पुत्रान्प्रति जनाधिप ॥१९॥

एवं सञ्जयेन उक्तः उपदिष्टो धृतराष्ट्रो महामनाः महत् पिप्पलापरपर्यायविश्वरूपदर्शनयोग्यं मनो यस्य स एवंभूतो ध्यानं सविकल्पसमाधिं अन्वगमत् सञ्जयवाक्यश्रवणमनुप्राप्तवान् ॥१९॥

स विचिन्त्य महातेजाः पुनरेवाब्रवीद्वचः ।
असंशयं सूतपुत्र कालः सङ्क्षिपते जगत् ॥२०॥

सृजते च पुनः सर्वं नेह विद्यति शाश्वतम् ।
नरो नारायणश्चैव सर्वज्ञः सर्वभूतहृत् ॥२१॥

तत्र च यथाऽर्जुनेन विश्वरूपदर्शनकाले भावी क्षत्रक्षयो दृष्टस्तद्वत्सोऽपि नरनारायणाभ्यां क्रियमाणं सर्वक्षत्रक्षयं दृष्ट्वा स्वपुत्रान् प्रति विचिन्त्य पुनरेवाब्रवीत् । तदेव वचनमाह - असंशयमिति । इह लोके त्वदुक्ते जम्बूखण्डे शाश्वतं शश्वद्भवं मेर्वादिकमपि नास्ति किं तु सर्वं दृष्टनष्टस्वभावं सङ्कल्पमात्रोत्थम् । किं तर्हि शाश्वतमस्ति नरो नारायणश्चेति जीवेश्वरावेव शाश्वतौ नेत्याह उभयं मिलित्वा एक एव सर्वज्ञः सर्वभूतहृच्च तमेवेश्वरं देवा वैकुण्ठमाहुः अधिदैवं स एव वैकुण्ठाधिपतिरित्युच्यत इत्यर्थः । नरां जीवास्तु तमेव विष्णुम् अध्यात्मम् अन्तःप्रविष्टं जनानां शास्तारम् अष्टचक्रस्य शकटस्य चालकमाहुः । तथापि प्रभुं कृत्वाऽपि लेपशून्यम् अत ईश्वरस्य चिकीर्षितः क्षत्रक्षयो नास्मद्दोषज इति भावः ॥२१॥

देवा वैकुण्ठमित्याहुर्नरा विष्णुमिति प्रभुम् ॥२२॥

इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि धृतराष्ट्रवाक्ये अष्टमोऽध्यायः ॥८॥
अध्यायः - ००९

धृतराष्ट्र उवाच । यदिदं भारतं वर्षं यत्रेदं मूर्च्छितं बलम् ।
यत्रातिमात्रलुब्धोऽयं पुत्रो दुर्योधनो मम ॥१॥

॥ यदिमिति ॥१॥

यत्र गृद्धा पाण्डुपुत्रा यत्र मे सज्जते मनः ।
एतन्मे तत्त्वमाचक्ष्व त्वं हि मे बुद्धिमान्मतः ॥२॥

गृद्धाः लोभयुक्ताः एतत् एतस्य मे मह्यं तत्त्वं याथार्थ्यम् ॥२॥

सञ्जय उवाच । न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम ।
गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥३॥

अपरे क्षत्रियाश्चैव नानाजनपदेश्वराः ।
ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥४॥

अत्र ते कीर्तयिष्यामि वर्षं भारत भारतम् ।
प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥५॥

प्रियमिति कर्मभूमित्वादिन्द्रादीनामिदं प्रियम् ॥५॥

पृथोस्तु राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः ।
ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥६॥

अग्रे स्पष्टार्थो ग्रन्थः ॥६॥

तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च ।
ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥७॥

कुशिकस्य च दुर्धर्ष गाधेश्चैव महात्मनः ।
सोमकस्य च दुर्धर्ष दिलीपस्य तथैव च ॥८॥

अन्येषां च महाराज क्षत्रियाणां बलीयसाम् ।
सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ॥९॥

तत्ते वर्षं प्रवक्ष्यामि यथायथमरिन्दम ।
श्रृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ॥१०॥

महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।
विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥११॥

तेषां सहस्रशो राजन्पर्वतास्ते समीपतः ।
अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥१२॥

अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ।
आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥१३॥

नदीं पिबन्ति विपुलां गङ्गां सिन्धुं सरस्वतीम् ।
गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥१४॥

शतद्रूं चन्द्रभागां च यमुनां च महानदीम् ।
दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥१५॥

नदीं वेत्रवतीं चैव कृष्णवेणीं च निम्नगाम् ।
इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥१६॥

वेदस्मृतां वेदवतीं त्रिदिवामिक्षुलां कृमिम् ।
करीषिणीं चित्रवाहां चित्रसेनां च निम्नगाम् ॥१७॥

गोमतीं धूतपापां च वन्दनां च महानदीम् ।
कौशिकीं त्रिविदां कृत्यां निचितां लोहितारणीं ॥१८॥

रहस्यां शतकुम्भां च सरयूं च तथैव च ।
चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥१९॥

शरावतीं पयोष्णीं च वेणां भीमरथीमपि ।
कावेरीं चुलुकां चापि वाणीं शतबलामपि ॥२०॥

नीवारामहितां चापि सुप्रयोगां जनाधिप ।
पवित्रां कुण्डलीं सिन्धुं राजनीं पुरमालिनीम् ॥२१॥

पूर्वाभिरामां वीरां च भीमामोघवतीं तथा ।
पाशाशिनीं पापहरां महेन्द्रां पाटलावतीम् ॥२२॥

करीषिणीमसिक्नीं च कुशचीरां महानदीम् ।
मकरीं प्रवरां मेनां हेमां घृतवतीं तथा ॥२३॥

पुरावतीमनुष्णां च शैब्यां कापीं च भारत ।
सदानीरामधृष्यां च कुशधारां महानदीम् ॥२४॥

सदाकान्तां शिवां चैव तथा वीरमतीमपि ।
वस्त्रां सुवस्त्रां गौरीं च कम्पनां सहिरण्वतीम् ॥२५॥

वरां वीरकरां चापि पञ्चमीं च महानदीम् ।
रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥२६॥

उपेन्द्रां बहुलां चैव कुवीरामम्बुवाहिनीम् ।
विनदीं पिञ्जलां वेणां तुङ्गवेणां महानदीम् ॥२७॥

विदिशां कृष्णवेणां च ताम्रां च कपिलामपि ।
खलुं सुवामां वेदाश्वां हरिश्रावां महापगाम् ॥२८॥

शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् ।
कौशिकीं निम्नगां शोणा बाहुदामथ चन्द्रमाम् ॥२९॥

दुर्गां चित्रशिलां चैव ब्रह्मवेध्यां बृहद्वतीम् ।
यवक्षामथ रोहीं च तथा जाम्बूनदीमपि ॥३०॥

सुनसां तमसां दासीं वसामन्यां वराणसीम् ।
नीलां धृतवतीं चैव पर्णाशां च महानदीम् ॥३१॥

मानवीं वृषभां चैव ब्रह्ममेध्यां बृहद्ध्वनीम् ।
एताश्चान्याश्च बहुधा महानद्यो जनाधिप ॥३२॥

सदा निरामयां कृष्णां मन्दगां मन्दवाहिनीम् ।
ब्राह्मणीं च महागौरीं दुर्गामपि च भारत ॥३३॥

चित्रोपलां चित्ररथां मञ्चुलां वाहिनीं तथा ।
मन्दाकिनीं वैतरणीं कोषां चापि महानदीम् ॥३४॥

शुक्तिमतीमनङ्गां च तथैव वृषसाह्वयाम् ।
लोहित्यां करतोयां च तथैव वृषकाह्वयाम् ॥३५॥

कुमारीमृषिकुल्यां च मारिषां च सरस्वतीम् ।
मन्दाकिनीं सुपुण्यां च सर्वां गङ्गां च भारत ॥३६॥

विश्वस्य मातरः सर्वाः सर्वाश्चैव महाफलाः ।
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः ॥३७॥

इत्येताः सरितो राजन्समाख्याता यथास्मृति ।
अत ऊर्ध्वं जनपदान्निबोध गदतो मम ॥३८॥

तत्रेमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः ।
शूरसेनाः पुलिन्दाश्च बोधा मालास्तथैव च ॥३९॥

मत्स्याः कुशल्याः सौशल्याः कुंतयः कांतिकोसलाः ।
चेदिमत्स्यकरूशाश्च भोजाः सिन्धुपुलिन्दकाः ॥४०॥

उत्तमाश्च दशार्णाश्च मेकलाश्चोत्कलैः सह ।
पञ्चालाः कोसलाश्चैव नैकपृष्ठा धुरन्धराः ॥४१॥

गोधा मद्रकलिङ्गाश्च काशयोऽपरकाशयः ।
जठराः कुक्कुराश्चैव सदशार्णाश्च भारत ॥४२॥

कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ।
गोमन्ता मन्दकाः सण्डा विदर्भा रूपवाहिकाः ॥४३॥

अश्मकाः पाण्डुराष्ट्राश्च गोपराष्ट्राः करीतयः ।
अधिराज्यकुशाद्याश्च मल्लराष्ट्रं च केवलम् ॥४४॥

वारवास्यायवाहाश्च चक्राश्चक्रातयः शकाः ।
विदेहा मगधाः स्वक्षा मलजा विजयास्तथा ॥४५॥

अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च ।
मल्लाः सुदेष्णाः प्रह्लादा माहिकाः शशिकास्तथा ॥४६॥

बाह्लिका वाटधानाश्च आभीराः कालतोयकाः ।
अपरान्ताः परान्ताश्च पञ्चालाश्चर्ममण्डलाः ॥४७॥

अटवीशिखराश्चैव मेरुभूताश्च मारिष ।
उपावृत्तानुपावृत्ताः स्वराष्ट्राः केकयास्तथा ॥४८॥

कुन्दापरान्ता माहेयाः कक्षाः सामुद्रनिष्कुटाः ।
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च ॥४९॥

बहिर्गिर्याङ्गमलजा मगधा मानवर्जकाः ।
समन्तराः प्रावृषेया भार्गवाश्च जनाधिप ॥५०॥

पुण्ड्रा भर्गाः किराताश्च सुदृष्टा यामुनास्तथा ।
शका निषादा निषधास्तथैवानर्तनैर्ऋताः ॥५१॥

दुर्गालाः प्रतिमत्स्याश्च कुन्तलाः कोसलास्तथा ।
तीरग्रहाः शूरसेना ईजिकाः कन्यकागुणाः ॥५२॥

तिलभारा मसीराश्च मधुमन्तः सकुन्दकाः ।
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ॥५३॥

अभीसारा उलूताश्च शैवला बाह्लिकास्तथा ।
दार्वी च वानवा दर्वा वातजामरथोरगाः ॥५४॥

बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ।
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा ॥५५॥

वनायवो दशापार्श्वरोमाणः कुशबिन्दवः ।
कच्छा गोपालकक्षाश्च जाङ्गलाः कुरुवर्णकाः ॥५६॥

किराता बर्बराः सिद्धा वैदेहास्ताम्रलिप्तकाः ।
ओण्ड्रा म्लेच्छाः सैसिरिध्राः पार्वतीयाश्च मारिष ॥५७॥

अथापरे जनपदा दक्षिणा भरतर्षभ ।
द्रविडाः केरलाः प्राच्या भूषिका वनवासिकाः ॥५८॥

कर्णाटका महिषका विकल्पा मूषकास्तथा ।
झिल्लिकाः कुन्तलाश्चैव सौहृदा नभकाननाः ॥५९॥

कौकुट्टकास्तथा चोलाः कोङ्कणा मालवा नराः ।
समङ्गाः करकाश्चैव कुकुराङ्गारमारिषाः ॥६०॥

ध्वजिन्युत्सवसङ्केतास्त्रिगर्ताः साल्वसेनयः ।
व्यूकाः कोकबकाः प्रोष्ठाः सर्मवेगवशास्तथा ॥६१॥

तथैव विन्ध्यचुलिकाः पुलिन्दा वल्कलैः सह ।
मालवा बल्लवाश्चैव तथैवापरबल्लवाः ॥६२॥

कुलिन्दाः कालदाश्चैव कुण्डलाः करटास्तथा ।
मूषकास्तनबालाश्च सनीपा घटसृञ्जयाः ॥६३॥

अठिदाः पाशिवाटाश्च तनयाः सुनयास्तथा ।
ऋषिका विदभाः काकास्तङ्गणाः परतङ्गणाः ॥६४॥

उत्तराश्चापरम्लेच्छाः क्रूरा भरतसत्तम ।
यवनाश्चीनकाभ्योजा दारुणा म्लेच्छजातयः ॥६५॥

सकृद्ग्रहाः कुलत्थाश्च हूणाः पारसिकैः सह ।
तथैव रमणाश्चीनास्तथैव दशमालिकाः ॥६६॥

क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ।
शूद्राभीराश्च दरदाः काश्मीराः पशुभिः सह ॥६७॥

खाशीराश्चान्तचाराश्च पह्लवा गिरिगह्वराः ।
आत्रेयाः सभरद्वाजास्तथैव स्तनपोषिकाः ॥६८॥

प्रोषकाश्च कलिङ्गाश्च किरातानां च जातयः ।
तोमरा हन्यमानाश्च तथैव करभञ्जकाः ॥६९॥

एते चान्ये जनपदाः प्राच्योदीच्यास्तथैव च ।
उद्देशमात्रेण मया देशाः सङ्कीर्तिता विभो ॥७०॥

यथागुणबलं चापि त्रिवर्गस्य महाफलम् ।
दुह्येत धेनुः कामधुक् भूमिः सम्यगनुष्ठिता ॥७१॥

यथागुणबलमिति । यथागुणं सत्त्वादिगुणान् अनतिक्रम्य तद्वत् यथाबलं शौर्यं चानतिक्रम्य त्रिवर्गस्य धर्मार्थकामात्मकस्य महाफलम् उत्कृष्टफलं हैरण्यगर्भपद‌प्राप्त्यन्तं सम्यगनुष्ठिता सम्यक्पालिता भूमिर्दुह्येत प्रपूरयेत् धेनुरिव कामान् अन्यांश्च दुग्धे इति कामधुक् ॥७१॥

तस्यां गृद्ध्यन्ति राजानः शूरा धर्मार्थकोविदाः ।
ते त्यजन्त्याहवे प्राणान्वसुगृद्धास्तरस्विनः ॥७२॥

गृद्भ्यन्ति अभिकांक्षां कुर्वन्ति वसुगृद्धाः धनलुब्धाः ॥७२॥

देवमानुषकायानां कामं भूमिः परायणम् ।
अन्योन्यस्यावलुम्पन्ति सारमेया यथाऽऽमिषम् ॥७३॥

देवकायानां यज्ञेन मानुषकायानामन्नप्रसवेन भूमिः परायणं शरणम् ॥७३॥

राजानो भरतश्रेष्ठ भोक्तुकामा वसुन्धराम् ।
न चापि तृप्तिः कामानां विद्यतेऽद्यापि कस्यचित् ॥७४॥

तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः ।
साम्ना भेदेन दानेन दण्डेनैव च भारत ॥७५॥

तस्मात् अतृप्तत्वात् ॥७५॥

पिता भ्राता च पुत्राश्च खं द्यौश्च नरपुङ्गव ।
भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शना ॥७६॥

एवमाधिदैविकं भूमिजयफलमुक्तम् । अथाध्यात्मं भूमिजयफलमाह - पितेति । अच्छिद्रं सम्पूर्णदर्शनं यस्याः सा भूमिः योगमार्गरीत्या कार्त्स्न्येन दृष्टा सती पित्रादिवदिह भौतिकेभ्य आघातेभ्यः पाति वज्रकायत्वं प्रयच्छतीत्यर्थः । खं स्वस्थं सूर्यादीनां पदं द्यौः स्वर्गपदं च सैव भवति तत्तत्प्रापयतीत्यर्थः॥७६॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि भारतीयनदीदेशादिनामकथने नवमोऽध्यायः ॥९॥
अध्यायः - ०१०

धृतराष्ट्र उवाच । भारतस्यास्य वर्षस्य तथा हैमवतस्य च ।
प्रमाणमायुषः सूत बलं चापि शुभाशुभम् ॥१॥

भारतस्येति ॥१॥

अनागतमतिक्रान्तं वर्तमानं च सञ्जय ।
आचक्ष्व मे विस्तरेण हरिवर्षं तथैव च ॥२॥

सञ्जय उवाच । चत्वारि भारते वर्षे युगानि भरतर्षभ ।
कृतं त्रेता द्वापरं च तिष्यं च कुरुवर्धन ॥३॥

तिष्यं कलियुगम् ॥३॥

पूर्वं कृतयुगं नाम ततस्रेतायुगं प्रभो ।
सङ्क्षेपाद्द्वापरस्याथ ततस्तिष्यं प्रवर्तते ॥४॥

चत्वारि तु सहस्राणि वर्षाणां कुरुसत्तम ।
आयुःसङ्ख्या कृतयुगे सङ्ख्याता राजसत्तम ॥५॥

तथा त्रीणि सहस्राणि त्रेतायां मनुजाधिप ।
द्वे सहस्रे द्वापरे तु भुवि तिष्ठन्ति साम्प्रतम् ॥६॥

न प्रमाणस्थितिर्ह्यस्ति तिष्येऽस्मिन्भरतर्षभ ।
गर्भस्थाश्च म्रियन्तेऽत्र तथा जाता म्रियन्ति च ॥७॥

महाबला महासत्वाः प्रज्ञागुणसमन्विताः ।
प्रजायन्ते च जाताश्च शतशोऽथ सहस्रशः ॥८॥

प्रजायन्ते प्रजां जनयन्ति ॥८॥

जाताः कृतयुगे राजन्धनिनः प्रयदर्शनाः ।
प्रजायन्ते च जाताश्च मुनयो वै तपोधनाः ॥९॥

महोत्साहा महात्मानो धार्मिकाः सत्यवादिनः ।
प्रियदर्शना वपुष्मन्तो महावीर्या धनुर्धराः ॥१०॥

वपुष्मन्तः प्रशस्तदेहाः ॥१०॥

वरार्हा युधि जायन्ते क्षत्रियाः शूरसत्तमाः ।
त्रेतायां क्षत्रिया राजन्सर्वे वै चक्रवर्तिनः ॥११॥

सर्ववर्णाश्च जायन्ते सदा चैव च द्वापरे ।
महोत्साहा वीर्यवन्तः परस्परजयैषिणः ॥१२॥

सर्वे वर्णाः परस्परजयैषिणो जायन्त इति सम्बन्धः ॥१२॥

तेजसाल्पेन संयुक्ताः क्रोधनाः पुरुषा नृप ।
लुब्धा अनृतकाश्चैव तिष्ये जायन्ति भारत ॥१३॥

ईर्ष्या मानस्तथा क्रोधो मायाऽसूया तथैव च ।
तिष्ये भवति भूतानां रागो लोभश्च भारत ॥१४॥

ईर्ष्या परोत्कर्षासहिष्णुत्वम् । मानः स्वस्मिन् पूज्यताबुद्धिः । क्रोधोऽभिज्वलनम्। माया कपटम् । असूया परगुणेषु दोषाविष्करणम् । रागो विषयेषु प्रीतिः । लोभस्तल्लिप्सा ॥१४॥

सङ्क्षेपो वर्तते राजन्द्वापरेऽस्मिन्नराधिप ।
गुणोत्तरं हैमवतं हरिवर्षं ततः परम् ॥१५॥

सङ्क्षेपो गुणानामिति शेषः ॥१५॥
इति श्रीमहाभारते भीष्मपर्वणि जम्बूखण्डविनिर्माणपर्वणि भारतवर्षे कृताद्यनुरोधेनायुर्निरूपणे दशमोऽध्यायः ॥१०॥
॥ समाप्तं जम्बूखण्डविनिर्माणपर्व ॥

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in