व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम्
।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे
।
नमो वै ब्रह्मनिधये वासिष्ठाय नमोनमः॥२॥
अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः
।
अफाललोचनः शंभुर्भगवान् बादरायणः॥३॥
मुनिं स्निग्धांबुजाभासं वेदव्यासमकल्मषम्
।
वेदव्यासं सरस्वत्यावासं व्यासं नमाम्यहम्॥४॥
सञ्जय उवाच। द्वारवत्यां स्थितं कृष्णं चिन्तयामास वै पुरा
।
सन्ध्यर्थं प्रेषयामास कुरूणां पण्डवैः सह॥५॥
पाण्डवानां हितार्थाय शीघ्रं कृष्णेन गम्यताम्
।
श्रीकृष्णो रथ वेगेन गत्वा वै हस्तिनापुरीम्॥६॥
विदुरस्य गृहम् गत्वा दृष्टस्तेन जनार्दनः
।
विदुरश्चागतं दृष्ट्वा इदं वचनमब्रवित्॥७॥
भवद्दर्शनमात्रेण कृतकृत्योऽस्म्यहं प्रभो
।
अद्य मे सफलम् जन्म अद्य मे सफलम् तपः
।
अद्य मे पितरस्तुष्टा गोविन्दे गृहमागते॥८॥
अद्याष्टमी च नवमी च चतुर्दशी च
।
अद्यायनम् च विषुवं च दिनत्रयम् च
।
अद्यैव पिण्डपितृयज्ञमखस्य कालो
।
दामोदरेण सहसा गृहमागतेन॥९॥
श्रीभगवानुवाच। साधु साधु महाप्राज्ञ सर्वशास्त्रविशारद
।
तुष्टोऽस्मि च वरम् ब्रूहि दास्यामि कुरुनन्दन॥१०॥
विदुर उवाच। भोजनं विप्रसंकीर्णं बन्धुसंकीर्णमन्दिरम्
।
शयनं सुतसंकीर्णं देहि मे मधुसूदन॥११॥
सञ्जय उवाच। कृष्णस्यागमनं श्रुत्वा राजराजः सुयोधनः
।
विदुरस्य गृहं गत्वा इदं वचनमब्रवीत्॥१२॥
दुर्योधन उवाच। भीष्मद्रोणौ परित्यज्य मां चैव मधुसूदनः
।
किमर्थं पुन्डरीकाक्ष कृतं वृषलिभोजनम्॥१३॥
श्रीभगवानुवाच। न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः
।
सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने॥१४॥
शुद्धं भागवतस्यान्नं शुद्धं भागीरथीजलम्
।
शुद्धं विष्णुपदं दिव्यं शुद्धमेकादशीव्रतम्॥१५॥
चाण्डालं मम भक्तम् वा नावमन्येत बुद्धिमान्
।
योऽवमन्येत मूढात्मा रौरवं नरकं व्रजेत्॥१६॥
कस्य दोष कुले नास्ति व्याधिना को न पीडितः
।
व्यसनं कैर्न संप्राप्तम् कस्य सौख्यं निरन्तरम्॥१७॥
भोजनं पृच्छसे राजन्नादरं किं न पृच्छसि
।
भोजनं गतजीर्णं स्यादादरस्त्यजरामरः॥१८॥
आदरेणोपनीतानि शाकान्नानि सुयोधन
।
प्रीणन्ति मम गात्राणि नामृतम् मानवर्जितम्॥१९॥
संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः
।
न च संप्रीयसे राजन् न वै चापद्गता वयम्॥२०॥
द्विषदन्नं न भोक्तव्यं द्विषन्तम् नैव भोजयेत्
।
पाण्डवान्द्वेष्टि भो राजन् मम प्राणा हि पाण्डवाः॥२१॥
मम वाक्यं कुरुश्रेष्ठः शान्तिमिच्छ सुयोधन
।
राज्यं तेषां समं दत्त्वा यूयं पञ्चोत्तरं शतम्॥२२॥
गोत्रक्षयो न कर्तव्यो राज्ञाम् बन्धुजनैः सह
।
कुर्वन्तो ते हितं वाक्यं मम बोधं विबोधय॥२३॥
वने द्वादश वर्षाणि अज्ञातं च त्रयोदशम्
।
पञ्च ग्रामार्थिनो राजन् पाण्डवा धर्मचारिणः॥२४॥
दुर्योधन उवाच। यन्त्रस्य गुणदोषोऽस्ति यन्त्रिणः पुरुषोत्तम
।
अहं यन्त्रो भवान् यन्त्री मम दोषो न विद्यते॥२५॥
श्रीभगवानुवाच। इन्द्रप्रस्थम् यमप्रस्थमवन्तीम् वारुणापुरी
।
देहि मे चतुरो ग्रामान्पञ्चमं हस्तिनापुरीम्॥२६॥
दुर्योधन उवाच। इन्द्रप्रस्थं गुरोर्दत्तं यमप्रस्थं कृपस्य च
।
वारुणावतकं भीष्मे अवन्ती सूर्यनन्दने॥२७॥
हस्तिनापुरमस्माकं पञ्च ग्रामाननुक्रमात्
।
एवं व्यवस्थितान्ग्रामान् शृणु देवकिनन्दन॥२८॥
सूच्यग्रेण सुतीक्ष्णेन यवद्भिद्यति मेदिनी
।
तावन्न हि प्रदास्यामि विना युद्धेन केशव॥२९॥
श्रीभगवानुवाच। द्वाविमौ पुरुषौ मूर्खौ दुर्योधनदशाननौ
।
गोग्रहम् वनभङ्गम् च दृष्ट्वा युद्धं पुनः पुनः॥३०॥
यदा यदा पश्यति वानरध्वजम् धनुर्धरं पाण्डवमध्यमं रणे
।
गदाप्रहारं बलिनं वृकोदरम् तदा तदा दास्यसि सर्वमेदिनीम्॥३१॥
यदा यदा द्रोणविकर्णकर्णैः संक्षिप्तमात्रे खलु भीष्मशल्यौ
।
कृपश्च योधाः पतिता रणाङ्गणे तदा तदा दास्यसि सर्वमेदिनीम्॥३२॥
दुर्योधन उवाच। हिरण्यवर्णं परिपूर्णगात्रं मेघोन्नतं मत्तगजेन्द्रतुल्यम्
।
आदित्यपुत्रं बहुशत्रुनाशं पश्यामि कर्णं रथमारुहन्तम्॥३३॥
श्रीभगवानुवाच। नरे चतुष्कं तुरगे च षोडशं गजे शतं पन्चशतं रथेषु
।
दृष्ट्वाऽर्जुनो मुञ्चति बाणवर्षं स्वातीगतः शुक्र इवातिवृष्टिम्॥३४॥
एकधा दशधा चैव शतधा च सहस्रधा
।
रणे पार्थशरा वृष्टिर्दानं ब्रह्मविदो यथा॥३५॥
किं कर्णेन सहस्रेण दुर्योधनशतैरपि
।
शरगर्जितमेघेन वृधा कर्णेन गर्जितम्॥३६॥
एकाकी पादचारेण यदि नायासि कौरव
।
धर्मशास्त्रप्रवर्तकारो मन्वाद्या मद्यपायिनः॥३७॥
धृतराष्ट्र उवाच। ब्रूहि सञ्जय यद्वृत्तं युद्धे तेषां महात्मनाम्
।
पाण्डवानां कुरूणां च संप्रवृत्ते महाक्षये॥३८॥
के तत्र प्रमुखा योधाः के च तत्र महारथाः
।
महाबलाश्च के तत्र कथं ते विनिपातिताः॥३९॥
भीष्मद्रोणौ कथं भग्नौ कर्णशल्यौ कथं हतौ
।
कथं दुर्योधनो राज भीमसेनेन पातितः॥४०॥
सञ्जय उवाच। मेदिनीभारनिर्हारम् पार्थसारथिमच्युतम्
।
प्रणमामि हृषीकेशं दुर्लभं चक्रपाणिनम्॥४१॥
दुर्लभा विप्रगोष्टी च दुर्लभा भारती कथा
।
दुर्लभा हरिभक्तिः च गङ्गास्नानं च दुर्लभम्॥४२॥
सद्भिश्च सहवासेन जाह्नव्या दर्शनेन च
।
विष्णोः स्मरणमात्रेण सर्वपापैः प्रमुच्यते॥४३॥
अर्जुनः सात्यकिश्चैव धृष्टद्युम्नो घटोत्कचः
।
शिखण्डिश्चाभिमन्युश्च वायुपुत्रो महाबलः॥४४॥
नकुलः सहदेवश्च धर्मराजो युधिष्ठिरः
।
विराटश्चोत्तरश्चैव द्रुपदश्च महारथाः॥४५॥
पाण्डवानां बले योधाः सर्वे विष्णुपराक्रमाः
।
कौरवानां बले योधाः सर्वे संकर्षणप्रभाः॥४६॥
शकुनिः सौबलो भीष्मः कृतवर्मा जयद्रधः
।
भूरिश्रवाश्च बाह्लिको भगदत्तस्तथैव च॥४७॥
उलूकः सोमदत्तश्च शशिबिन्दुश्च पार्थिवः
।
द्रोणो द्रोणिः कृपः शल्यो वृषसेनो हलायुधः॥४८॥
वैकर्तनो विकर्णश्च कलिङ्गस्तु तथैव च
।
दुःशासनश्च कर्णश्च राजा दुर्योधनस्तथा॥४९॥
एते द्वाविंशतिः प्रोक्ता भरतेषु महारथाः
।
कौरवाः पाण्डवाश्चैव एते युद्धविशारदाः॥५०॥
भीष्म उवाच। अर्जुनः सह पुत्रेण द्रोणः सह सुतेन च
।
अहं भूरिश्रवाश्चैव षडेतेऽतिरथाः स्मृताः॥५१॥
कृपश्च कृतवर्मा च मद्रराजो युधिष्ठिरः
।
विराटो भीमसेनश्च षडेते च महारथाः॥५२॥
सात्यकिश्च शिखण्डिश्च धृष्टद्युम्नो विराटजः
।
शकुनी राजपुत्रश्च एते समरथाः स्मृताः॥५३॥
दुःशासनश्च कर्णश्च वृषसेनोऽपि सैन्धवः
।
नकुलः सहदेवश्च षडेतेऽर्थरथाः स्मृताः॥५४॥
अहमेकं त्रिभिर्द्रोणः पञ्चभिः सूर्यनन्दनः
।
निमेषं द्रोणपुत्रस्तु निमुषार्धं धनञ्जयः॥५५॥
चतुर्विंशतिरेते वै (वीरा) भारतसत्तमाः
।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥५६॥
आदिपर्व सभापर्व पर्व आरण्यकं तथा
।
विराटपर्व विज्ञेयं चतुर्थं तदनन्तरम्॥५७॥
उद्योगं पञ्चमं पर्व भीष्मपर्व अतः परम्
।
सप्तमं द्रोणपर्व तु कर्णपर्व अथाष्टमम्॥५८॥
नवमं शल्यपर्व च गदापर्व अतः परम्
।
सौषुप्तिकम् तदा पर्व गर्भपातनमेव च॥५९॥
त्रयोदशं तु स्त्रीपर्व प्रदानमुदकस्य च
।
शान्ति पर्व अतः प्रोक्तमाश्वमेदिकमेव च॥६०॥
स्वर्गारोहण पर्व तु हरिवंशस्तथैव च
।
इत्यष्टादशपर्वाणि संख्या द्वैपायनेन तु॥६१॥
भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु
।
तरणं सर्वपापानां यस्माद्भारतमुच्यते॥६२॥
भारतस्य समुद्रस्य मेरोर्नारायणस्य च
।
अप्रमेयाणि चत्वारि पुण्यं तोयं गुहागुणाः॥६३॥
हेमन्ते प्रथमे मासे शुक्लपक्षे त्रयोदशी
।
प्रवृत्तं भारतं युद्धं नक्षत्रम् यमदैवतम्॥६४॥
फाल्गुन्यां निहतो भीष्मः कृष्ण पक्षे च सप्तमी
।
अष्टम्यां चैव सौभद्रो नवम्यां च जयद्रथः॥६५॥
दशम्यां भगदत्तस्तु महायुद्धे निपातिताः
।
एकादश्यामर्धरात्रौ हतो वीरो घटोत्कचः॥६६॥
ततः प्रभातसमये विराटद्रुपदौ हतौ
।
द्वादश्यां चैव मध्याह्ने द्रोणाचार्यो रणे हतः॥६७॥
त्रयोदश्यां तु मध्याह्ने वृषसेनो निपातितः
।
चतुर्दश्याम् तु पूर्वाह्णे रणे दुःशासनो हतः॥६८॥
तस्मिन्नेव महायुद्धे वर्तमाने चतुर्दशी
।
धनञ्जयेन मध्याह्ने कर्णो वैकर्तनो हतः॥६९॥
निःशब्दतूर्यं हत योधवीरम् प्रशान्तदर्पं धृतराष्ट्रसैन्यम्
।
न शोभते सूर्यसुतेन हीनम् वृन्दं ग्रहाणामिव चन्द्रहीनम्॥७०॥
मुखं कमलपत्राक्षं यथा श्रवणवर्जितम्
।
तथा तत् कौरवं सैन्यं कर्णहीनं न शोभते॥७१॥
व्यूढोरस्कं कमलनयनं तप्तहेमावभासम्
।
पुत्रं दृष्ट्वा भुवनतिलकं पार्थबाणावसक्तम्
।
पांसुग्रस्तं मलिनवसनं पुत्रमन्वीक्ष्य तं च
।
मन्दम् मन्दम् मृदितवदनं मेदिनी मन्दराशिः॥७२॥
श्रीकृष्ण उवाच। स्व (या) मया च कुन्त्या च धरण्या वासवेन च
।
जामदग्न्येन रामेण षड्भिः कर्णो निपातितः॥७३॥
सन्जय उवाच। अमायां धर्मपुत्रेण शल्यो मद्राधिपो हतः
।
उलूकः शकुनिश्चैव यमाभ्यां विनिपातितौ॥७४॥
अमायामर्धरात्रे तु राजा दुर्योधनो हतः
।
भीमसेनस्य गदाया ताडितो विनिपातितः॥७५॥
अभवत्तादृशं युद्धं क्षत्रियाणां मनस्विनाम्
।
अन्यथा भाषितं युद्धं कर्मणा कृतमन्यथा॥७६॥
अमायामेव यामिन्यां द्रोणिना निहतस्तदा
।
धृष्टाद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः॥७७॥
अष्टौ रथसहस्राणि नव दन्ति शतानि च
।
राजपुत्रसहस्रम् च अश्वत्थाम निवर्तते॥७८॥
दिनानि दश भीष्मेण भारद्वाजेन पञ्च च
।
दिनद्वये तु कर्णेन शल्येनाअर्धदिनम् तथा॥७९॥
दिनार्धं तु गदायुद्धमेतद्भारतमुच्यते
।
एवमष्टादशं हन्ति अक्षौहिण्यां दिनक्रमात्॥८०॥
धर्मक्षेत्रे क्षयक्षेत्रे कुरुक्षेत्रे महात्मना
।
पार्थेनारोहयन्स्वर्गम् राजपुत्रा यशश्विनः॥८१॥
नवनागसहस्रेषु नागे नागे शतं रथाः
।
रथे रथे शतं चाश्वा अश्वे अश्वे शतं नराः॥८२॥
रणयज्ञे महीयज्ञे दीक्षितोऽयं युधिष्ठिरः
।
वेदिं कृत्वा कुरुक्षेत्रं यूपं कृत्वा जनार्दनम्॥८३॥
होतारमर्जुनं कृत्वा यजमानो युधिष्ठिरः
।
पाञ्चालीमरणिं कृत्वा वह्निं कृत्वा वृकोदरम्॥८४॥
आज्यं कृत्वार्कतनयं जयद्रथमुखान्नृपान्
।
दुर्योधनं पशुं कृत्वा भीष्मद्रोणौ महहविः॥८५॥
अयाज्ञिकमिदं द्रव्यं भयमोहविवर्जितम्
।
गाण्डीवेन स्रुवेणैव हूयमानेषु राजसु॥८६॥
मातापितृसहस्राणि पुत्रदारशतानि च
।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे॥८७॥
हर्षस्थानसहस्राणि भयस्थानशतानि च
।
दिवसे दिवसे मूढं आविशन्ति न पण्डितम्॥८८॥
ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे
।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते॥८९॥
न जातु कामान् न भयान्न लोभात् धर्मं त्यजेज्जीवितस्यापि हेतोः
।
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यः हेतुरस्य त्वनित्यः॥९०॥