स्वर्गारोहणपर्व - १भारतसावित्री - २

भारतसावित्री

अध्यायः 006

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम्॥१॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमोनमः॥२॥

अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः ।
अफाललोचनः शंभुर्भगवान् बादरायणः॥३॥

मुनिं स्निग्धांबुजाभासं वेदव्यासमकल्मषम् ।
वेदव्यासं सरस्वत्यावासं व्यासं नमाम्यहम्॥४॥

सञ्जय उवाच। द्वारवत्यां स्थितं कृष्णं चिन्तयामास वै पुरा ।
सन्ध्यर्थं प्रेषयामास कुरूणां पण्डवैः सह॥५॥

पाण्डवानां हितार्थाय शीघ्रं कृष्णेन गम्यताम् ।
श्रीकृष्णो रथ वेगेन गत्वा वै हस्तिनापुरीम्॥६॥

विदुरस्य गृहम् गत्वा दृष्टस्तेन जनार्दनः ।
विदुरश्चागतं दृष्ट्वा इदं वचनमब्रवित्॥७॥

भवद्दर्शनमात्रेण कृतकृत्योऽस्म्यहं प्रभो ।
अद्य मे सफलम् जन्म अद्य मे सफलम् तपः ।
अद्य मे पितरस्तुष्टा गोविन्दे गृहमागते॥८॥

अद्याष्टमी च नवमी च चतुर्दशी च ।
अद्यायनम् च विषुवं च दिनत्रयम् च ।
अद्यैव पिण्डपितृयज्ञमखस्य कालो ।
दामोदरेण सहसा गृहमागतेन॥९॥

श्रीभगवानुवाच। साधु साधु महाप्राज्ञ सर्वशास्त्रविशारद ।
तुष्टोऽस्मि च वरम् ब्रूहि दास्यामि कुरुनन्दन॥१०॥

विदुर उवाच। भोजनं विप्रसंकीर्णं बन्धुसंकीर्णमन्दिरम् ।
शयनं सुतसंकीर्णं देहि मे मधुसूदन॥११॥

सञ्जय उवाच। कृष्णस्यागमनं श्रुत्वा राजराजः सुयोधनः ।
विदुरस्य गृहं गत्वा इदं वचनमब्रवीत्॥१२॥

दुर्योधन उवाच। भीष्मद्रोणौ परित्यज्य मां चैव मधुसूदनः ।
किमर्थं पुन्डरीकाक्ष कृतं वृषलिभोजनम्॥१३॥

श्रीभगवानुवाच। न शूद्रा भगवद्भक्ता विप्रा भागवताः स्मृताः ।
सर्ववर्णेषु ते शूद्रा ये ह्यभक्ता जनार्दने॥१४॥

शुद्धं भागवतस्यान्नं शुद्धं भागीरथीजलम् ।
शुद्धं विष्णुपदं दिव्यं शुद्धमेकादशीव्रतम्॥१५॥

चाण्डालं मम भक्तम् वा नावमन्येत बुद्धिमान् ।
योऽवमन्येत मूढात्मा रौरवं नरकं व्रजेत्॥१६॥

कस्य दोष कुले नास्ति व्याधिना को न पीडितः ।
व्यसनं कैर्न संप्राप्तम् कस्य सौख्यं निरन्तरम्॥१७॥

भोजनं पृच्छसे राजन्नादरं किं न पृच्छसि ।
भोजनं गतजीर्णं स्यादादरस्त्यजरामरः॥१८॥

आदरेणोपनीतानि शाकान्नानि सुयोधन ।
प्रीणन्ति मम गात्राणि नामृतम् मानवर्जितम्॥१९॥

संप्रीतिभोज्यान्यन्नानि आपद्भोज्यानि वा पुनः ।
न च संप्रीयसे राजन् न वै चापद्गता वयम्॥२०॥

द्विषदन्नं न भोक्तव्यं द्विषन्तम् नैव भोजयेत् ।
पाण्डवान्द्वेष्टि भो राजन् मम प्राणा हि पाण्डवाः॥२१॥

मम वाक्यं कुरुश्रेष्ठः शान्तिमिच्छ सुयोधन ।
राज्यं तेषां समं दत्त्वा यूयं पञ्चोत्तरं शतम्॥२२॥

गोत्रक्षयो न कर्तव्यो राज्ञाम् बन्धुजनैः सह ।
कुर्वन्तो ते हितं वाक्यं मम बोधं विबोधय॥२३॥

वने द्वादश वर्षाणि अज्ञातं च त्रयोदशम् ।
पञ्च ग्रामार्थिनो राजन् पाण्डवा धर्मचारिणः॥२४॥

दुर्योधन उवाच। यन्त्रस्य गुणदोषोऽस्ति यन्त्रिणः पुरुषोत्तम ।
अहं यन्त्रो भवान् यन्त्री मम दोषो न विद्यते॥२५॥

श्रीभगवानुवाच। इन्द्रप्रस्थम् यमप्रस्थमवन्तीम् वारुणापुरी ।
देहि मे चतुरो ग्रामान्पञ्चमं हस्तिनापुरीम्॥२६॥

दुर्योधन उवाच। इन्द्रप्रस्थं गुरोर्दत्तं यमप्रस्थं कृपस्य च ।
वारुणावतकं भीष्मे अवन्ती सूर्यनन्दने॥२७॥

हस्तिनापुरमस्माकं पञ्च ग्रामाननुक्रमात् ।
एवं व्यवस्थितान्ग्रामान् शृणु देवकिनन्दन॥२८॥

सूच्यग्रेण सुतीक्ष्णेन यवद्भिद्यति मेदिनी ।
तावन्न हि प्रदास्यामि विना युद्धेन केशव॥२९॥

श्रीभगवानुवाच। द्वाविमौ पुरुषौ मूर्खौ दुर्योधनदशाननौ ।
गोग्रहम् वनभङ्गम् च दृष्ट्वा युद्धं पुनः पुनः॥३०॥

यदा यदा पश्यति वानरध्वजम् धनुर्धरं पाण्डवमध्यमं रणे ।
गदाप्रहारं बलिनं वृकोदरम् तदा तदा दास्यसि सर्वमेदिनीम्॥३१॥

यदा यदा द्रोणविकर्णकर्णैः संक्षिप्तमात्रे खलु भीष्मशल्यौ ।
कृपश्च योधाः पतिता रणाङ्गणे तदा तदा दास्यसि सर्वमेदिनीम्॥३२॥

दुर्योधन उवाच। हिरण्यवर्णं परिपूर्णगात्रं मेघोन्नतं मत्तगजेन्द्रतुल्यम् ।
आदित्यपुत्रं बहुशत्रुनाशं पश्यामि कर्णं रथमारुहन्तम्॥३३॥

श्रीभगवानुवाच। नरे चतुष्कं तुरगे च षोडशं गजे शतं पन्चशतं रथेषु ।
दृष्ट्वाऽर्जुनो मुञ्चति बाणवर्षं स्वातीगतः शुक्र इवातिवृष्टिम्॥३४॥

एकधा दशधा चैव शतधा च सहस्रधा ।
रणे पार्थशरा वृष्टिर्दानं ब्रह्मविदो यथा॥३५॥

किं कर्णेन सहस्रेण दुर्योधनशतैरपि ।
शरगर्जितमेघेन वृधा कर्णेन गर्जितम्॥३६॥

एकाकी पादचारेण यदि नायासि कौरव ।
धर्मशास्त्रप्रवर्तकारो मन्वाद्या मद्यपायिनः॥३७॥

धृतराष्ट्र उवाच। ब्रूहि सञ्जय यद्वृत्तं युद्धे तेषां महात्मनाम् ।
पाण्डवानां कुरूणां च संप्रवृत्ते महाक्षये॥३८॥

के तत्र प्रमुखा योधाः के च तत्र महारथाः ।
महाबलाश्च के तत्र कथं ते विनिपातिताः॥३९॥

भीष्मद्रोणौ कथं भग्नौ कर्णशल्यौ कथं हतौ ।
कथं दुर्योधनो राज भीमसेनेन पातितः॥४०॥

सञ्जय उवाच। मेदिनीभारनिर्हारम् पार्थसारथिमच्युतम् ।
प्रणमामि हृषीकेशं दुर्लभं चक्रपाणिनम्॥४१॥

दुर्लभा विप्रगोष्टी च दुर्लभा भारती कथा ।
दुर्लभा हरिभक्तिः च गङ्गास्नानं च दुर्लभम्॥४२॥

सद्भिश्च सहवासेन जाह्नव्या दर्शनेन च ।
विष्णोः स्मरणमात्रेण सर्वपापैः प्रमुच्यते॥४३॥

अर्जुनः सात्यकिश्चैव धृष्टद्युम्नो घटोत्कचः ।
शिखण्डिश्चाभिमन्युश्च वायुपुत्रो महाबलः॥४४॥

नकुलः सहदेवश्च धर्मराजो युधिष्ठिरः ।
विराटश्चोत्तरश्चैव द्रुपदश्च महारथाः॥४५॥

पाण्डवानां बले योधाः सर्वे विष्णुपराक्रमाः ।
कौरवानां बले योधाः सर्वे संकर्षणप्रभाः॥४६॥

शकुनिः सौबलो भीष्मः कृतवर्मा जयद्रधः ।
भूरिश्रवाश्च बाह्लिको भगदत्तस्तथैव च॥४७॥

उलूकः सोमदत्तश्च शशिबिन्दुश्च पार्थिवः ।
द्रोणो द्रोणिः कृपः शल्यो वृषसेनो हलायुधः॥४८॥

वैकर्तनो विकर्णश्च कलिङ्गस्तु तथैव च ।
दुःशासनश्च कर्णश्च राजा दुर्योधनस्तथा॥४९॥

एते द्वाविंशतिः प्रोक्ता भरतेषु महारथाः ।
कौरवाः पाण्डवाश्चैव एते युद्धविशारदाः॥५०॥

भीष्म उवाच। अर्जुनः सह पुत्रेण द्रोणः सह सुतेन च ।
अहं भूरिश्रवाश्चैव षडेतेऽतिरथाः स्मृताः॥५१॥

कृपश्च कृतवर्मा च मद्रराजो युधिष्ठिरः ।
विराटो भीमसेनश्च षडेते च महारथाः॥५२॥

सात्यकिश्च शिखण्डिश्च धृष्टद्युम्नो विराटजः ।
शकुनी राजपुत्रश्च एते समरथाः स्मृताः॥५३॥

दुःशासनश्च कर्णश्च वृषसेनोऽपि सैन्धवः ।
नकुलः सहदेवश्च षडेतेऽर्थरथाः स्मृताः॥५४॥

अहमेकं त्रिभिर्द्रोणः पञ्चभिः सूर्यनन्दनः ।
निमेषं द्रोणपुत्रस्तु निमुषार्धं धनञ्जयः॥५५॥

चतुर्विंशतिरेते वै (वीरा) भारतसत्तमाः ।
नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः॥५६॥

आदिपर्व सभापर्व पर्व आरण्यकं तथा ।
विराटपर्व विज्ञेयं चतुर्थं तदनन्तरम्॥५७॥

उद्योगं पञ्चमं पर्व भीष्मपर्व अतः परम् ।
सप्तमं द्रोणपर्व तु कर्णपर्व अथाष्टमम्॥५८॥

नवमं शल्यपर्व च गदापर्व अतः परम् ।
सौषुप्तिकम् तदा पर्व गर्भपातनमेव च॥५९॥

त्रयोदशं तु स्त्रीपर्व प्रदानमुदकस्य च ।
शान्ति पर्व अतः प्रोक्तमाश्वमेदिकमेव च॥६०॥

स्वर्गारोहण पर्व तु हरिवंशस्तथैव च ।
इत्यष्टादशपर्वाणि संख्या द्वैपायनेन तु॥६१॥

भाति सर्वेषु वेदेषु रतिः सर्वेषु जन्तुषु ।
तरणं सर्वपापानां यस्माद्भारतमुच्यते॥६२॥

भारतस्य समुद्रस्य मेरोर्नारायणस्य च ।
अप्रमेयाणि चत्वारि पुण्यं तोयं गुहागुणाः॥६३॥

हेमन्ते प्रथमे मासे शुक्लपक्षे त्रयोदशी ।
प्रवृत्तं भारतं युद्धं नक्षत्रम् यमदैवतम्॥६४॥

फाल्गुन्यां निहतो भीष्मः कृष्ण पक्षे च सप्तमी ।
अष्टम्यां चैव सौभद्रो नवम्यां च जयद्रथः॥६५॥

दशम्यां भगदत्तस्तु महायुद्धे निपातिताः ।
एकादश्यामर्धरात्रौ हतो वीरो घटोत्कचः॥६६॥

ततः प्रभातसमये विराटद्रुपदौ हतौ ।
द्वादश्यां चैव मध्याह्ने द्रोणाचार्यो रणे हतः॥६७॥

त्रयोदश्यां तु मध्याह्ने वृषसेनो निपातितः ।
चतुर्दश्याम् तु पूर्वाह्णे रणे दुःशासनो हतः॥६८॥

तस्मिन्नेव महायुद्धे वर्तमाने चतुर्दशी ।
धनञ्जयेन मध्याह्ने कर्णो वैकर्तनो हतः॥६९॥

निःशब्दतूर्यं हत योधवीरम् प्रशान्तदर्पं धृतराष्ट्रसैन्यम् ।
न शोभते सूर्यसुतेन हीनम् वृन्दं ग्रहाणामिव चन्द्रहीनम्॥७०॥

मुखं कमलपत्राक्षं यथा श्रवणवर्जितम् ।
तथा तत् कौरवं सैन्यं कर्णहीनं न शोभते॥७१॥

व्यूढोरस्कं कमलनयनं तप्तहेमावभासम् ।
पुत्रं दृष्ट्वा भुवनतिलकं पार्थबाणावसक्तम् ।
पांसुग्रस्तं मलिनवसनं पुत्रमन्वीक्ष्य तं च ।
मन्दम् मन्दम् मृदितवदनं मेदिनी मन्दराशिः॥७२॥

श्रीकृष्ण उवाच। स्व (या) मया च कुन्त्या च धरण्या वासवेन च ।
जामदग्न्येन रामेण षड्भिः कर्णो निपातितः॥७३॥

सन्जय उवाच। अमायां धर्मपुत्रेण शल्यो मद्राधिपो हतः ।
उलूकः शकुनिश्चैव यमाभ्यां विनिपातितौ॥७४॥

अमायामर्धरात्रे तु राजा दुर्योधनो हतः ।
भीमसेनस्य गदाया ताडितो विनिपातितः॥७५॥

अभवत्तादृशं युद्धं क्षत्रियाणां मनस्विनाम् ।
अन्यथा भाषितं युद्धं कर्मणा कृतमन्यथा॥७६॥

अमायामेव यामिन्यां द्रोणिना निहतस्तदा ।
धृष्टाद्युम्नः शिखण्डी च द्रौपद्याः पञ्च चात्मजाः॥७७॥

अष्टौ रथसहस्राणि नव दन्ति शतानि च ।
राजपुत्रसहस्रम् च अश्वत्थाम निवर्तते॥७८॥

दिनानि दश भीष्मेण भारद्वाजेन पञ्च च ।
दिनद्वये तु कर्णेन शल्येनाअर्धदिनम् तथा॥७९॥

दिनार्धं तु गदायुद्धमेतद्भारतमुच्यते ।
एवमष्टादशं हन्ति अक्षौहिण्यां दिनक्रमात्॥८०॥

धर्मक्षेत्रे क्षयक्षेत्रे कुरुक्षेत्रे महात्मना ।
पार्थेनारोहयन्स्वर्गम् राजपुत्रा यशश्विनः॥८१॥

नवनागसहस्रेषु नागे नागे शतं रथाः ।
रथे रथे शतं चाश्वा अश्वे अश्वे शतं नराः॥८२॥

रणयज्ञे महीयज्ञे दीक्षितोऽयं युधिष्ठिरः ।
वेदिं कृत्वा कुरुक्षेत्रं यूपं कृत्वा जनार्दनम्॥८३॥

होतारमर्जुनं कृत्वा यजमानो युधिष्ठिरः ।
पाञ्चालीमरणिं कृत्वा वह्निं कृत्वा वृकोदरम्॥८४॥

आज्यं कृत्वार्कतनयं जयद्रथमुखान्नृपान् ।
दुर्योधनं पशुं कृत्वा भीष्मद्रोणौ महहविः॥८५॥

अयाज्ञिकमिदं द्रव्यं भयमोहविवर्जितम् ।
गाण्डीवेन स्रुवेणैव हूयमानेषु राजसु॥८६॥

मातापितृसहस्राणि पुत्रदारशतानि च ।
संसारेष्वनुभूतानि यान्ति यास्यन्ति चापरे॥८७॥

हर्षस्थानसहस्राणि भयस्थानशतानि च ।
दिवसे दिवसे मूढं आविशन्ति न पण्डितम्॥८८॥

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते॥८९॥

न जातु कामान् न भयान्न लोभात् धर्मं त्यजेज्जीवितस्यापि हेतोः ।
नित्यो धर्मः सुखदुःखे त्वनित्ये जीवो नित्यः हेतुरस्य त्वनित्यः॥९०॥

भारत सावित्रि - फल श्रुति॥
अध्यायः 007

इमां भारतसावित्रीं प्रातरुत्थाय यः पठेत् ।
सप्तजन्म कृतैः पापैः स मुक्तः सुखम् एधते॥९१॥

दिवा वा यदि वा रात्रौ वनेषु विषयेषु च ।
न भयं विद्यते किंचित् कार्यसिद्धिः भविष्यति॥९२॥

यत् फलं गो सहस्रस्य स्वर्णेनालङ्कृतस्य च ।
दत्तस्य विधिना पात्रे तत् फलम् लभते नरः॥९३॥

अहोरात्र कृतं पापं श्रवणात् एव नश्यति ।
संवत्सरकृतं पापं पठनात् एव नश्यति॥९४॥

पठतां शृण्वतां चैव विष्णोः महात्म्यमुत्तमम् ।
दुःस्वप्ननाशनं चैव सुस्वप्नम् च भविष्यति॥९५॥

भारतं पञ्चमं वेदः यः पठेत् शृणुयादपि ।
स मुक्त सर्वपापेभ्यो विष्णुसायुज्यमाप्नुयात्॥९६॥

भारतं पादमात्रेण शृण्वन् पापैः प्रमुच्यते ।
शृणु राजन् यथा वृत्तं तथा वक्ष्यामि ते कथाम्॥९७॥

सा कथा भारती पुण्या द्रौपदी सा पतिव्रता ।
पाण्डवानां स्नुषा धन्या प्रसीद पुरुषोत्तम॥९८॥

गवां शतं कनकशृङ्गमयं ददाति विप्राय वेदविदुषे च बहुश्रुताय ।
पुण्यां च भारतकथां पठति शृणोति तुल्यं फलं भवति तस्य च तस्य चैव॥९९॥

आदौ पाण्डवधार्तराष्ट्रजननं लाक्षागृहे दाहनम् द्यूतं श्रीहरणं वने विहरणं मत्स्यालये वर्तनम् ।
लीलागोग्रहणं रणे विहरणं संधिक्रियाजृंभणम् पश्चाद्भीष्मसुयोधनादिनिधनं ह्येतन्महाभारतम्॥१००॥

धर्मो विवर्थति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन ।
शत्रुर्विनश्यति धनञ्जयकीर्तनेन माद्रीसुतौ कथयतां न भवन्ति रोगाः॥

इति श्री भारत सावित्री समाप्ता

The Mahābhārata project aims to provide authentic texts from ancient Mahābhārata Sanskrit texts and commentaries to preserve our heritage for our future generation. We welcome views from all to make the content authentic and error free. Contribution both financial and resources are welcome. For feedback or information please write to us at : secretary@sanatanasampatti.in